| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
विजिताश्वोऽधिराजासीत् पृथुपुत्रः पृथुश्रवाः । यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सलः ॥ १ ॥
विजिताश्वः अधिराजा आसीत् पृथु-पुत्रः पृथुश्रवाः । यवीयोभ्यः अददात् काष्ठाः भ्रातृभ्यः भ्रातृ-वत्सलः ॥ १ ॥
vijitāśvaḥ adhirājā āsīt pṛthu-putraḥ pṛthuśravāḥ . yavīyobhyaḥ adadāt kāṣṭhāḥ bhrātṛbhyaḥ bhrātṛ-vatsalaḥ .. 1 ..
हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभुः ॥ २ ॥
हर्यक्षाय आदिशत् प्राचीम् धूम्रकेशाय दक्षिणाम् । प्रतीचीम् वृक-संज्ञाय तुर्याम् द्रविणसे विभुः ॥ २ ॥
haryakṣāya ādiśat prācīm dhūmrakeśāya dakṣiṇām . pratīcīm vṛka-saṃjñāya turyām draviṇase vibhuḥ .. 2 ..
अन्तर्धानगतिं शक्रात् लब्ध्वान्तर्धानसंज्ञितः । अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥
अन्तर्धान-गतिम् शक्रात् लब्ध्वा अन्तर्धान-संज्ञितः । अपत्य-त्रयम् आधत्त शिखण्डिन्याम् सु सम्मतम् ॥ ३ ॥
antardhāna-gatim śakrāt labdhvā antardhāna-saṃjñitaḥ . apatya-trayam ādhatta śikhaṇḍinyām su sammatam .. 3 ..
पावकः पवमानश्च शुचिरित्यग्नयः पुरा । वसिष्ठशापात् उत्पन्नाः पुनर्योगगतिं गताः ॥ ४ ॥
पावकः पवमानः च शुचिः इति अग्नयः पुरा । वसिष्ठ-शापात् उत्पन्नाः पुनर् योग-गतिम् गताः ॥ ४ ॥
pāvakaḥ pavamānaḥ ca śuciḥ iti agnayaḥ purā . vasiṣṭha-śāpāt utpannāḥ punar yoga-gatim gatāḥ .. 4 ..
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत । य इन्द्रं अश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥
अन्तर्धानः नभस्वत्याम् हविर्धानम् अविन्दत । यः इन्द्रम् अश्व-हर्तारम् विद्वान् अपि न जघ्निवान् ॥ ५ ॥
antardhānaḥ nabhasvatyām havirdhānam avindata . yaḥ indram aśva-hartāram vidvān api na jaghnivān .. 5 ..
राज्ञां वृत्तिं करादान दण्डशुल्कादिदारुणाम् । मन्यमानो दीर्घसत्र व्याजेन विससर्ज ह ॥ ६ ॥
राज्ञाम् वृत्तिम् कर-आदान दण्ड-शुल्क-आदि-दारुणाम् । मन्यमानः दीर्घसत्र व्याजेन विससर्ज ह ॥ ६ ॥
rājñām vṛttim kara-ādāna daṇḍa-śulka-ādi-dāruṇām . manyamānaḥ dīrghasatra vyājena visasarja ha .. 6 ..
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् । यजन् तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥
तत्र अपि हंसम् पुरुषम् परमात्मानम् आत्म-दृश् । यजन् तद्-लोक-ताम् आप कुशलेन समाधिना ॥ ७ ॥
tatra api haṃsam puruṣam paramātmānam ātma-dṛś . yajan tad-loka-tām āpa kuśalena samādhinā .. 7 ..
हविर्धानाद् हविर्धानी विदुरासूत षट् सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥
हविर्धानात् हविर्धानी विदुर असूत षट् सुतान् । बर्हिषदम् गयम् शुक्लम् कृष्णम् सत्यम् जित-व्रतम् ॥ ८ ॥
havirdhānāt havirdhānī vidura asūta ṣaṭ sutān . barhiṣadam gayam śuklam kṛṣṇam satyam jita-vratam .. 8 ..
बर्हिषत् सुमहाभागो हाविर्धानिः प्रजापतिः । क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥
बर्हिषद् सु महाभागः हाविर्धानिः प्रजापतिः । क्रिया-काण्डेषु निष्णातः योगेषु च कुरु-उद्वह ॥ ९ ॥
barhiṣad su mahābhāgaḥ hāvirdhāniḥ prajāpatiḥ . kriyā-kāṇḍeṣu niṣṇātaḥ yogeṣu ca kuru-udvaha .. 9 ..
यस्येदं देवयजनं अनु यज्ञं वितन्वतः । प्राचीनाग्रैः कुशैरासीद् आस्तृतं वसुधातलम् ॥ १० ॥
यस्य इदम् देवयजनम् अनु यज्ञम् वितन्वतः । प्राचीन-अग्रैः कुशैः आसीत् आस्तृतम् वसुधा-तलम् ॥ १० ॥
yasya idam devayajanam anu yajñam vitanvataḥ . prācīna-agraiḥ kuśaiḥ āsīt āstṛtam vasudhā-talam .. 10 ..
सामुद्रीं देवदेवोक्तां उपयेमे शतद्रुतिम् । यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ॥ परिक्रमन्तीं उद्वाहे चकमेऽग्निः शुकीमिव ॥ ११ ॥
सामुद्रीम् देवदेव-उक्ताम् उपयेमे शतद्रुतिम् । याम् वीक्ष्य चारु-सर्व-अङ्गीम् किशोरीम् सुष्ठु अलङ्कृताम् ॥ परिक्रमन्तीम् उद्वाहे चकमे अग्निः शुकीम् इव ॥ ११ ॥
sāmudrīm devadeva-uktām upayeme śatadrutim . yām vīkṣya cāru-sarva-aṅgīm kiśorīm suṣṭhu alaṅkṛtām .. parikramantīm udvāhe cakame agniḥ śukīm iva .. 11 ..
विबुधासुरगन्धर्व मुनिसिद्धनरोरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ १२ ॥
विबुध-असुर-गन्धर्व मुनि-सिद्ध-नर-उरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्या एव नूपुरैः ॥ १२ ॥
vibudha-asura-gandharva muni-siddha-nara-uragāḥ . vijitāḥ sūryayā dikṣu kvaṇayantyā eva nūpuraiḥ .. 12 ..
प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् । तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः ॥ १३ ॥
प्राचीनबर्हिषः पुत्राः शतद्रुत्याम् दश अभवन् । तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः ॥ १३ ॥
prācīnabarhiṣaḥ putrāḥ śatadrutyām daśa abhavan . tulya-nāma-vratāḥ sarve dharma-snātāḥ pracetasaḥ .. 13 ..
पित्राऽऽदिष्टाः प्रजासर्गे तपसेऽर्णवमाविशन् । दशवर्षसहस्राणि तपसाऽऽर्चन् तपस्पतिम् ॥ १४ ॥
पित्रा आदिष्टाः प्रजा-सर्गे तपसे अर्णवम् आविशन् । दश-वर्ष-सहस्राणि तपसा आर्चन् तपस्पतिम् ॥ १४ ॥
pitrā ādiṣṭāḥ prajā-sarge tapase arṇavam āviśan . daśa-varṣa-sahasrāṇi tapasā ārcan tapaspatim .. 14 ..
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता । तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः ॥ १५ ॥
यत् उक्तम् पथि दृष्टेन गिरिशेन प्रसीदता । तत् ध्यायन्तः जपन्तः च पूजयन्तः च संयताः ॥ १५ ॥
yat uktam pathi dṛṣṭena giriśena prasīdatā . tat dhyāyantaḥ japantaḥ ca pūjayantaḥ ca saṃyatāḥ .. 15 ..
विदुर उवाच -
प्रचेतसां गिरित्रेण यथाऽऽसीत्पथि सङ्गमः । यदुताह हरः प्रीतः तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥
प्रचेतसाम् गिरित्रेण यथा आसीत् पथि सङ्गमः । यत् उत आह हरः प्रीतः तत् नः ब्रह्मन् वद अर्थवत् ॥ १६ ॥
pracetasām giritreṇa yathā āsīt pathi saṅgamaḥ . yat uta āha haraḥ prītaḥ tat naḥ brahman vada arthavat .. 16 ..
सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युः असङ्गाद्यमभीप्सितम् ॥ १७ ॥
सङ्गमः खलु विप्रर्षे शिवेन इह शरीरिणाम् । दुर्लभः मुनयः दध्युः असङ्ग-आद्यम् अभीप्सितम् ॥ १७ ॥
saṅgamaḥ khalu viprarṣe śivena iha śarīriṇām . durlabhaḥ munayaḥ dadhyuḥ asaṅga-ādyam abhīpsitam .. 17 ..
आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ १८ ॥
आत्म-आरामः अपि यः तु अस्य लोक-कल्पस्य राधसे । शक्त्या युक्तः विचरति घोरया भगवान् भवः ॥ १८ ॥
ātma-ārāmaḥ api yaḥ tu asya loka-kalpasya rādhase . śaktyā yuktaḥ vicarati ghorayā bhagavān bhavaḥ .. 18 ..
मैत्रेय उवाच -
प्रचेतसः पितुर्वाक्यं शिरसाऽऽदाय साधवः । दिशं प्रतीचीं प्रययुः तपस्यादृतचेतसः ॥ १९ ॥
प्रचेतसः पितुः वाक्यम् शिरसा आदाय साधवः । दिशम् प्रतीचीम् प्रययुः तपसि आदृत-चेतसः ॥ १९ ॥
pracetasaḥ pituḥ vākyam śirasā ādāya sādhavaḥ . diśam pratīcīm prayayuḥ tapasi ādṛta-cetasaḥ .. 19 ..
ससमुद्रं उप विस्तीर्णं अपश्यन् सुमहत्सरः । महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥
स समुद्रम् उप विस्तीर्णम् अपश्यन् सु महत् सरः । महत् मनः इव सु अच्छम् प्रसन्न-सलिलाशयम् ॥ २० ॥
sa samudram upa vistīrṇam apaśyan su mahat saraḥ . mahat manaḥ iva su accham prasanna-salilāśayam .. 20 ..
नीलरक्तोत्पलाम्भोज कह्लारेन्दीवराकरम् । हंससारसचक्राह्व कारण्डवनिकूजितम् ॥ २१ ॥
nīlaraktotpalāmbhoja kahlārendīvarākaram | haṃsasārasacakrāhva kāraṇḍavanikūjitam || 21 ||
nīlaraktotpalāmbhoja kahlārendīvarākaram | haṃsasārasacakrāhva kāraṇḍavanikūjitam || 21 ||
मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम् । पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥
मत्त-भ्रमर-सौस्वर्य हृष्ट-रोम-लता-अङ्घ्रिपम् । पद्म-कोश-रजः दिक्षु विक्षिपत् पवन-उत्सवम् ॥ २२ ॥
matta-bhramara-sausvarya hṛṣṭa-roma-latā-aṅghripam . padma-kośa-rajaḥ dikṣu vikṣipat pavana-utsavam .. 22 ..
तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् । विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥
तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् । विसिस्म्युः राज-पुत्राः ते मृदङ्ग-पणव-आदि अनु ॥ २३ ॥
tatra gāndharvam ākarṇya divya-mārga-manoharam . visismyuḥ rāja-putrāḥ te mṛdaṅga-paṇava-ādi anu .. 23 ..
तर्ह्येव सरसस्तस्मान् निष्क्रामन्तं सहानुगम् । उपगीयमानममर प्रवरं विबुधानुगैः ॥ २४ ॥
तर्हि एव सरसः तस्मात् निष्क्रामन्तम् सह अनुगम् । उपगीयमानम् अमर प्रवरम् विबुध-अनुगैः ॥ २४ ॥
tarhi eva sarasaḥ tasmāt niṣkrāmantam saha anugam . upagīyamānam amara pravaram vibudha-anugaiḥ .. 24 ..
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् । प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाः ॥ २५ ॥
तप्त-हेम-निकाय-आभम् शितिकण्ठम् त्रि-लोचनम् । प्रसाद-सु मुखम् वीक्ष्य प्रणेमुः जात-कौतुकाः ॥ २५ ॥
tapta-hema-nikāya-ābham śitikaṇṭham tri-locanam . prasāda-su mukham vīkṣya praṇemuḥ jāta-kautukāḥ .. 25 ..
स तान्प्रपन्नार्तिहरो भगवान् धर्मवत्सलः । धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाच ह ॥ २६ ॥
स तान् प्रपन्न-आर्ति-हरः भगवान् धर्म-वत्सलः । धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥ २६ ॥
sa tān prapanna-ārti-haraḥ bhagavān dharma-vatsalaḥ . dharma-jñān śīla-sampannān prītaḥ prītān uvāca ha .. 26 ..
श्रीरुद्र उवाच -
यूयं वेदिषदः पुत्रा विदितं वश्चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ २७ ॥
यूयम् वेदिषदः पुत्राः विदितम् वः चिकीर्षितम् । अनुग्रहाय भद्रम् वः एवम् मे दर्शनम् कृतम् ॥ २७ ॥
yūyam vediṣadaḥ putrāḥ viditam vaḥ cikīrṣitam . anugrahāya bhadram vaḥ evam me darśanam kṛtam .. 27 ..
यः परं रंहसः साक्षात् त्रिगुणात् जीवसंज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ २८ ॥
यः परम् रंहसः साक्षात् त्रिगुणात् जीव-संज्ञितात् । भगवन्तम् वासुदेवम् प्रपन्नः स प्रियः हि मे ॥ २८ ॥
yaḥ param raṃhasaḥ sākṣāt triguṇāt jīva-saṃjñitāt . bhagavantam vāsudevam prapannaḥ sa priyaḥ hi me .. 28 ..
स्वधर्मनिष्ठः शतजन्मभिः पुमान् विरिञ्चतामेति ततः परं हि माम् । अव्याकृतं भागवतोऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ २९ ॥
स्वधर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्च-ताम् एति ततस् परम् हि माम् । अव्याकृतम् भागवतः अथ वैष्णवम् पदम् यथा अहम् विबुधाः कला-अत्यये ॥ २९ ॥
svadharma-niṣṭhaḥ śata-janmabhiḥ pumān viriñca-tām eti tatas param hi mām . avyākṛtam bhāgavataḥ atha vaiṣṇavam padam yathā aham vibudhāḥ kalā-atyaye .. 29 ..
(अनुष्टुप्)
अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
अथ भागवताः यूयम् प्रियाः स्थ भगवान् यथा । न मद्-भागवतानाम् च प्रेयान् अन्यः अस्ति कर्हिचित् ॥ ३० ॥
atha bhāgavatāḥ yūyam priyāḥ stha bhagavān yathā . na mad-bhāgavatānām ca preyān anyaḥ asti karhicit .. 30 ..
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयसकरं चापि श्रूयतां तद्वदामि वः ॥ ३१ ॥
इदम् विविक्तम् जप्तव्यम् पवित्रम् मङ्गलम् परम् । निःश्रेयस-करम् च अपि श्रूयताम् तत् वदामि वः ॥ ३१ ॥
idam viviktam japtavyam pavitram maṅgalam param . niḥśreyasa-karam ca api śrūyatām tat vadāmi vaḥ .. 31 ..
मैत्रेय उवाच -
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिवः । बद्धाञ्जलीन्राजपुत्रान् नारायणपरो वचः ॥ ३२ ॥
इति अनुक्रोश-हृदयः भगवान् आह तान् शिवः । बद्धाञ्जलीन् राज-पुत्रान् नारायण-परः वचः ॥ ३२ ॥
iti anukrośa-hṛdayaḥ bhagavān āha tān śivaḥ . baddhāñjalīn rāja-putrān nārāyaṇa-paraḥ vacaḥ .. 32 ..
श्रीरुद्र उवाच -
जितं ते आत्मविद्धुर्य स्वस्तये स्वस्तिरस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ ३३ ॥
जितम् ते आत्म-विद् हुर्य स्वस्तये स्वस्तिः अस्तु मे । भवता अराधसा राद्धम् सर्वस्मै आत्मने नमः ॥ ३३ ॥
jitam te ātma-vid hurya svastaye svastiḥ astu me . bhavatā arādhasā rāddham sarvasmai ātmane namaḥ .. 33 ..
नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥
नमः पङ्कजनाभाय भूत-सूक्ष्म-इन्द्रिय-आत्मने । वासुदेवाय शान्ताय कूटस्थाय स्व-रोचिषे ॥ ३४ ॥
namaḥ paṅkajanābhāya bhūta-sūkṣma-indriya-ātmane . vāsudevāya śāntāya kūṭasthāya sva-rociṣe .. 34 ..
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥
सङ्कर्षणाय सूक्ष्माय दुरन्ताय अन्तकाय च । नमः विश्व-प्रबोधाय प्रद्युम्नाय अन्तरात्मने ॥ ३५ ॥
saṅkarṣaṇāya sūkṣmāya durantāya antakāya ca . namaḥ viśva-prabodhāya pradyumnāya antarātmane .. 35 ..
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥
नमः नमः अनिरुद्धाय हृषीकेश-इन्द्रिय-आत्मने । नमः परमहंसाय पूर्णाय निभृत-आत्मने ॥ ३६ ॥
namaḥ namaḥ aniruddhāya hṛṣīkeśa-indriya-ātmane . namaḥ paramahaṃsāya pūrṇāya nibhṛta-ātmane .. 36 ..
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नमः । नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
स्वर्ग-अपवर्ग-द्वाराय नित्यम् शुचिषदे नमः । नमः हिरण्य-वीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
svarga-apavarga-dvārāya nityam śuciṣade namaḥ . namaḥ hiraṇya-vīryāya cāturhotrāya tantave .. 37 ..
नम ऊर्ज इषे त्रय्याः पतये यज्ञरेतसे । तृप्तिदाय च जीवानां नमः सर्वरसात्मने ॥ ३८ ॥
नमः ऊर्जः इषे त्रय्याः पतये यज्ञ-रेतसे । तृप्ति-दाय च जीवानाम् नमः सर्व-रस-आत्मने ॥ ३८ ॥
namaḥ ūrjaḥ iṣe trayyāḥ pataye yajña-retase . tṛpti-dāya ca jīvānām namaḥ sarva-rasa-ātmane .. 38 ..
सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे । नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥
सर्व-सत्त्व-आत्म-देहाय विशेषाय स्थवीयसे । नमः त्रैलोक्य-पालाय सहः ओजः-बलाय च ॥ ३९ ॥
sarva-sattva-ātma-dehāya viśeṣāya sthavīyase . namaḥ trailokya-pālāya sahaḥ ojaḥ-balāya ca .. 39 ..
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने । नमः पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥
अर्थ-लिङ्गाय नभसे नमः अन्तर् बहिस् आत्मने । नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे ॥ ४० ॥
artha-liṅgāya nabhase namaḥ antar bahis ātmane . namaḥ puṇyāya lokāya amuṣmai bhūri-varcase .. 40 ..
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे । नमोऽधर्मविपाकाय मृत्यवे दुःखदाय च ॥ ४१ ॥
प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे । नमः अधर्म-विपाकाय मृत्यवे दुःख-दाय च ॥ ४१ ॥
pravṛttāya nivṛttāya pitṛ-devāya karmaṇe . namaḥ adharma-vipākāya mṛtyave duḥkha-dāya ca .. 41 ..
नमस्ते आशिषामीश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे । पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥
नमः ते आशिषाम् ईश मनवे कारण-आत्मने । नमः धर्माय बृहते कृष्णाय अकुण्ठ-मेधसे । पुरुषाय पुराणाय साङ्ख्य-योग-ईश्वराय च ॥ ४२ ॥
namaḥ te āśiṣām īśa manave kāraṇa-ātmane . namaḥ dharmāya bṛhate kṛṣṇāya akuṇṭha-medhase . puruṣāya purāṇāya sāṅkhya-yoga-īśvarāya ca .. 42 ..
शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने । चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥
शक्ति-त्रय-समेताय मीढुषे अहङ्कृत-आत्मने । चेतः-आकूति-रूपाय नमः वाचः विभूतये ॥ ४३ ॥
śakti-traya-sametāya mīḍhuṣe ahaṅkṛta-ātmane . cetaḥ-ākūti-rūpāya namaḥ vācaḥ vibhūtaye .. 43 ..
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥
दर्शनम् नः दिदृक्षूणाम् देहि भागवत-अर्चितम् । रूपम् प्रियतमम् स्वानाम् सर्व-इन्द्रिय-गुण-अञ्जनम् ॥ ४४ ॥
darśanam naḥ didṛkṣūṇām dehi bhāgavata-arcitam . rūpam priyatamam svānām sarva-indriya-guṇa-añjanam .. 44 ..
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् । चार्वायतचतुर्बाहुं सुजातरुचिराननम् ॥ ४५ ॥
स्निग्ध-प्रावृष्-घन-श्यामम् सर्व-सौन्दर्य-सङ्ग्रहम् । चारु-आयत-चतुर्-बाहुम् सुजात-रुचिर-आननम् ॥ ४५ ॥
snigdha-prāvṛṣ-ghana-śyāmam sarva-saundarya-saṅgraham . cāru-āyata-catur-bāhum sujāta-rucira-ānanam .. 45 ..
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥
पद्म-कोश-पलाश-अक्षम् सुन्दर-भ्रु सु नासिकम् । सु द्विजम् सु कपोल-आस्यम् सम-कर्ण-विभूषणम् ॥ ४६ ॥
padma-kośa-palāśa-akṣam sundara-bhru su nāsikam . su dvijam su kapola-āsyam sama-karṇa-vibhūṣaṇam .. 46 ..
प्रीतिप्रहसितापाङ्गं अलकै रूपशोभितम् । लसत्पङ्कजकिञ्जल्क दुकूलं मृष्टकुण्डलम् ॥ ४७ ॥
प्रीति-प्रहसित-अपाङ्गम् रूप-शोभितम् । लसत्-पङ्कज-किञ्जल्क दुकूलम् मृष्ट-कुण्डलम् ॥ ४७ ॥
prīti-prahasita-apāṅgam rūpa-śobhitam . lasat-paṅkaja-kiñjalka dukūlam mṛṣṭa-kuṇḍalam .. 47 ..
स्फुरत्किरीटवलय हारनूपुरमेखलम् । शङ्खचक्रगदापद्म मालामण्युत्तमर्द्धिमत् ॥ ४८ ॥
स्फुरत्-किरीट-वलय हार-नूपुर-मेखलम् । शङ्ख-चक्र-गदा-पद्म माला-मणि-उत्तम-ऋद्धिमत् ॥ ४८ ॥
sphurat-kirīṭa-valaya hāra-nūpura-mekhalam . śaṅkha-cakra-gadā-padma mālā-maṇi-uttama-ṛddhimat .. 48 ..
सिंहस्कन्धत्विषो बिभ्रत् सौभग ग्रीवकौस्तुभम् । श्रियानपायिन्या क्षिप्त निकषाश्मोरसोल्लसत् ॥ ४९ ॥
सिंह-स्कन्ध-त्विषः बिभ्रत् सौभग ग्रीव-कौस्तुभम् । श्रिया अनपायिन्या क्षिप्त निकष-अश्म-उरसा उल्लसत् ॥ ४९ ॥
siṃha-skandha-tviṣaḥ bibhrat saubhaga grīva-kaustubham . śriyā anapāyinyā kṣipta nikaṣa-aśma-urasā ullasat .. 49 ..
पूररेचकसंविग्न वलिवल्गुदलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥
पूर-रेचक-संविग्न वलि-वल्गु-दल-उदरम् । प्रतिसङ्क्रामयत् विश्वम् नाभि-आवर्त-गभीरया ॥ ५० ॥
pūra-recaka-saṃvigna vali-valgu-dala-udaram . pratisaṅkrāmayat viśvam nābhi-āvarta-gabhīrayā .. 50 ..
श्यामश्रोण्यधिरोचिष्णु दुकूलस्वर्णमेखलम् । समचार्वङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनम् ॥ ५१ ॥
श्याम-श्रोणि-अधिरोचिष्णु दुकूल-स्वर्ण-मेखलम् । सम-चारु-अङ्घ्रि-जङ्घा-ऊरु निम्न-जानु-सु दर्शनम् ॥ ५१ ॥
śyāma-śroṇi-adhirociṣṇu dukūla-svarṇa-mekhalam . sama-cāru-aṅghri-jaṅghā-ūru nimna-jānu-su darśanam .. 51 ..
पदा शरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता । प्रदर्शय स्वीयमपास्तसाध्वसं पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥
पदा शरद्-पद्म-पलाश-रोचिषा नखद्युभिः नः अन्तरघम् विधुन्वता । प्रदर्शय स्वीयम् अपास्त-साध्वसम् पदम् गुरो मार्ग-गुरुः तमः-जुषाम् ॥ ५२ ॥
padā śarad-padma-palāśa-rociṣā nakhadyubhiḥ naḥ antaragham vidhunvatā . pradarśaya svīyam apāsta-sādhvasam padam guro mārga-guruḥ tamaḥ-juṣām .. 52 ..
(अनुष्टुप्)
एतद् रूपमनुध्येयं आत्मशुद्धिमभीप्सताम् । यद्भक्तियोगोऽभयदः स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥
एतत् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् । यत् भक्ति-योगः अभय-दः स्वधर्मम् अनुतिष्ठताम् ॥ ५३ ॥
etat rūpam anudhyeyam ātma-śuddhim abhīpsatām . yat bhakti-yogaḥ abhaya-daḥ svadharmam anutiṣṭhatām .. 53 ..
भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् । स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गतिः ॥ ५४ ॥
भवान् भक्तिमता लभ्यः दुर्लभः सर्व-देहिनाम् । स्वाराज्यस्य अपि अभिमतः एकान्तेन आत्म-विद्-गतिः ॥ ५४ ॥
bhavān bhaktimatā labhyaḥ durlabhaḥ sarva-dehinām . svārājyasya api abhimataḥ ekāntena ātma-vid-gatiḥ .. 54 ..
तं दुराराध्यमाराध्य सतामपि दुरापया । एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः ॥ ५५ ॥
तम् दुराराध्यम् आराध्य सताम् अपि दुरापया । एकान्त-भक्त्या कः वाञ्छेत् पाद-मूलम् विना बहिस् ॥ ५५ ॥
tam durārādhyam ārādhya satām api durāpayā . ekānta-bhaktyā kaḥ vāñchet pāda-mūlam vinā bahis .. 55 ..
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्य शौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥
यत्र निर्विष्ट-मरणम् कृतान्तः ना अभिमन्यते । विश्वम् विध्वंसयन् शौर्य-विस्फूर्जित-भ्रुवा ॥ ५६ ॥
yatra nirviṣṭa-maraṇam kṛtāntaḥ nā abhimanyate . viśvam vidhvaṃsayan śaurya-visphūrjita-bhruvā .. 56 ..
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ५७ ॥
क्षणार्धेन अपि तुलये न स्वर्गम् ना अपुनर्भवम् । भगवत् सङ्गि-सङ्गस्य मर्त्यानाम् किम् उत आशिषः ॥ ५७ ॥
kṣaṇārdhena api tulaye na svargam nā apunarbhavam . bhagavat saṅgi-saṅgasya martyānām kim uta āśiṣaḥ .. 57 ..
अथानघाङ्घ्रेस्तव कीर्तितीर्थयोः अन्तर्बहिःस्नानविधूतपाप्मनाम् । भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
अथ अनघ-अङ्घ्रेः तव कीर्ति-तीर्थयोः अन्तर् बहिस् स्नान-विधूत-पाप्मनाम् । भूतेषु अनुक्रोश-सु सत्त्व-शीलिनाम् स्यात् सङ्गमः अनुग्रहः एष नः तव ॥ ५८ ॥
atha anagha-aṅghreḥ tava kīrti-tīrthayoḥ antar bahis snāna-vidhūta-pāpmanām . bhūteṣu anukrośa-su sattva-śīlinām syāt saṅgamaḥ anugrahaḥ eṣa naḥ tava .. 58 ..
न यस्य चित्तं बहिरर्थविभ्रमं तमोगुहायां च विशुद्धमाविशत् । यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
न यस्य चित्तम् बहिस् अर्थ-विभ्रमम् तमः-गुहायाम् च विशुद्धम् आविशत् । यत् भक्ति-योग-अनुगृहीतम् अञ्जसा मुनिः विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
na yasya cittam bahis artha-vibhramam tamaḥ-guhāyām ca viśuddham āviśat . yat bhakti-yoga-anugṛhītam añjasā muniḥ vicaṣṭe nanu tatra te gatim .. 59 ..
(अनुष्टुप्)
यत्रेदं व्यज्यते विश्वं विश्वस्मिन् अवभाति यत् । तत्त्वं ब्रह्म परं ज्योतिः आकाशमिव विस्तृतम् । ॥ ६० ॥
यत्र इदम् व्यज्यते विश्वम् विश्वस्मिन् अवभाति यत् । तत्त्वम् ब्रह्म परम् ज्योतिः आकाशम् इव विस्तृतम् । ॥ ६० ॥
yatra idam vyajyate viśvam viśvasmin avabhāti yat . tattvam brahma param jyotiḥ ākāśam iva vistṛtam . .. 60 ..
यो माययेदं पुरुरूपयासृजद् बिभर्ति भूयः क्षपयत्यविक्रियः । यद्भेदबुद्धिः सदिवात्मदुःस्थया त्वमात्मतन्त्रं भगवन्प्रतीमहि । ॥ ६१ ॥
यः मायया इदम् पुरु-रूपया असृजत् बिभर्ति भूयस् क्षपयति अविक्रियः । यत् भेद-बुद्धिः सत् इव आत्म-दुःस्थया त्वम् आत्मतन्त्रम् भगवन् प्रतीमहि । ॥ ६१ ॥
yaḥ māyayā idam puru-rūpayā asṛjat bibharti bhūyas kṣapayati avikriyaḥ . yat bheda-buddhiḥ sat iva ātma-duḥsthayā tvam ātmatantram bhagavan pratīmahi . .. 61 ..
क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च ते एव कोविदाः । ॥ ६२ ॥
क्रिया-कलापैः इदम् एव योगिनः श्रद्धा-अन्विताः साधु यजन्ति सिद्धये । भूत-इन्द्रिय-अन्तःकरण-उपलक्षितम् वेदे च तन्त्रे च ते एव कोविदाः । ॥ ६२ ॥
kriyā-kalāpaiḥ idam eva yoginaḥ śraddhā-anvitāḥ sādhu yajanti siddhaye . bhūta-indriya-antaḥkaraṇa-upalakṣitam vede ca tantre ca te eva kovidāḥ . .. 62 ..
त्वमेक आद्यः पुरुषः सुप्तशक्तिः तया रजःसत्त्वतमो विभिद्यते । महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः । ॥ ६३ ॥
त्वम् एकः आद्यः पुरुषः सुप्त-शक्तिः तया रजः-सत्त्व-तमः विभिद्यते । महान् अहम् खम् मरुत्-अग्नि-वार्धराः सुरर्षयः भूत-गणाः इदम् यतस् । ॥ ६३ ॥
tvam ekaḥ ādyaḥ puruṣaḥ supta-śaktiḥ tayā rajaḥ-sattva-tamaḥ vibhidyate . mahān aham kham marut-agni-vārdharāḥ surarṣayaḥ bhūta-gaṇāḥ idam yatas . .. 63 ..
सृष्टं स्वशक्त्येदमनुप्रविष्टः चतुर्विधं पुरमात्मांशकेन । अथो विदुस्तं पुरुषं सन्तमन्तः भुङ्क्ते हृषीकैर्मधु सारघं यः । ॥ ६४ ॥
सृष्टम् स्व-शक्त्या इदम् अनुप्रविष्टः चतुर्विधम् पुरम् आत्म-अंशकेन । अथ उ विदुः तम् पुरुषम् सन्तम् अन्तः भुङ्क्ते हृषीकैः मधु सारघम् यः । ॥ ६४ ॥
sṛṣṭam sva-śaktyā idam anupraviṣṭaḥ caturvidham puram ātma-aṃśakena . atha u viduḥ tam puruṣam santam antaḥ bhuṅkte hṛṣīkaiḥ madhu sāragham yaḥ . .. 64 ..
स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः । भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवाविषह्यः । ॥ ६५ ॥
सः एष लोकान् अति चण्ड-वेगः विकर्षसि त्वम् खलु कालयानः । भूतानि भूतैः अनुमेय-तत्त्वः घन-आवलीः वायुः इव अविषह्यः । ॥ ६५ ॥
saḥ eṣa lokān ati caṇḍa-vegaḥ vikarṣasi tvam khalu kālayānaḥ . bhūtāni bhūtaiḥ anumeya-tattvaḥ ghana-āvalīḥ vāyuḥ iva aviṣahyaḥ . .. 65 ..
प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः । ॥ ६६ ॥
प्रमत्तम् उच्चैस् इति कृत्य-चिन्तया प्रवृद्ध-लोभम् विषयेषु लालसम् । त्वम् अप्रमत्तः सहसा अभिपद्यसे क्षुध्-लेलिहानः अहिः इव आखुमन्तकः । ॥ ६६ ॥
pramattam uccais iti kṛtya-cintayā pravṛddha-lobham viṣayeṣu lālasam . tvam apramattaḥ sahasā abhipadyase kṣudh-lelihānaḥ ahiḥ iva ākhumantakaḥ . .. 66 ..
कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेऽवमानव्ययमानकेतनः । विशङ्कयास्मद्गुरुरर्चति स्म यद् विनोपपत्तिं मनवश्चतुर्दश । ॥ ६७ ॥
कः त्वद्-पद-अब्जम् विजहाति पण्डितः यः ते अवमान-व्यय-मान-केतनः । विशङ्कया अस्मद्-गुरुः अर्चति स्म यत् विना उपपत्तिम् मनवः चतुर्दश । ॥ ६७ ॥
kaḥ tvad-pada-abjam vijahāti paṇḍitaḥ yaḥ te avamāna-vyaya-māna-ketanaḥ . viśaṅkayā asmad-guruḥ arcati sma yat vinā upapattim manavaḥ caturdaśa . .. 67 ..
(अनुष्टुप्)
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्रभयध्वस्तं अकुतश्चिद्भया गतिः । ॥ ६८ ॥
अथ त्वम् असि नः ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वम् रुद्र-भय-ध्वस्तम् अकुतश्चिद्भया गतिः । ॥ ६८ ॥
atha tvam asi naḥ brahman paramātman vipaścitām . viśvam rudra-bhaya-dhvastam akutaścidbhayā gatiḥ . .. 68 ..
इदं जपत भद्रं वो विशुद्धा नृपनन्दनाः । स्वधर्ममनुतिष्ठन्तो भगवति अर्पिताशयाः । ॥ ६९ ॥
इदम् जपत भद्रम् वः विशुद्धाः नृप-नन्दनाः । स्वधर्मम् अनुतिष्ठन्तः भगवति अर्पित-आशयाः । ॥ ६९ ॥
idam japata bhadram vaḥ viśuddhāḥ nṛpa-nandanāḥ . svadharmam anutiṣṭhantaḥ bhagavati arpita-āśayāḥ . .. 69 ..
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् । पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥
तम् एव आत्मानम् आत्म-स्थम् सर्व-भूतेषु अवस्थितम् । पूजयध्वम् गृणन्तः च ध्यायन्तः च असकृत् हरिम् ॥ ७० ॥
tam eva ātmānam ātma-stham sarva-bhūteṣu avasthitam . pūjayadhvam gṛṇantaḥ ca dhyāyantaḥ ca asakṛt harim .. 70 ..
योगादेशमुपासाद्य धारयन्तो मुनिव्रताः । समाहितधियः सर्व एतदभ्यसतादृताः ॥ ७१ ॥
योग-आदेशम् उपासाद्य धारयन्तः मुनि-व्रताः । समाहित-धियः सर्वे एतत् अभ्यसता आदृताः ॥ ७१ ॥
yoga-ādeśam upāsādya dhārayantaḥ muni-vratāḥ . samāhita-dhiyaḥ sarve etat abhyasatā ādṛtāḥ .. 71 ..
इदमाह पुरास्माकं भगवान्विश्वसृक्पतिः । भृग्वादीनां आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ ७२ ॥
इदम् आह पुरा अस्माकम् भगवान् विश्वसृक्पतिः । भृगु-आदीनाम् आत्मजानाम् सिसृक्षुः संसिसृक्षताम् ॥ ७२ ॥
idam āha purā asmākam bhagavān viśvasṛkpatiḥ . bhṛgu-ādīnām ātmajānām sisṛkṣuḥ saṃsisṛkṣatām .. 72 ..
ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः । अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः ॥ ७३ ॥
ते वयम् नोदिताः सर्वे प्रजा-सर्गे प्रजा-ईश्वराः । अनेन ध्वस्त-तमसः सिसृक्ष्मः विविधाः प्रजाः ॥ ७३ ॥
te vayam noditāḥ sarve prajā-sarge prajā-īśvarāḥ . anena dhvasta-tamasaḥ sisṛkṣmaḥ vividhāḥ prajāḥ .. 73 ..
अथेदं नित्यदा युक्तो जपन् अवहितः पुमान् । अचिरात् श्रेय आप्नोति वासुदेवपरायणः ॥ ७४ ॥
अथ इदम् नित्यदा युक्तः जपन् अवहितः पुमान् । अचिरात् श्रेयः आप्नोति वासुदेव-परायणः ॥ ७४ ॥
atha idam nityadā yuktaḥ japan avahitaḥ pumān . acirāt śreyaḥ āpnoti vāsudeva-parāyaṇaḥ .. 74 ..
श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥
श्रेयसाम् इह सर्वेषाम् ज्ञानम् निःश्रेयसम् परम् । सुखम् तरति दुष्पारम् ज्ञान-नौः व्यसन-अर्णवम् ॥ ७५ ॥
śreyasām iha sarveṣām jñānam niḥśreyasam param . sukham tarati duṣpāram jñāna-nauḥ vyasana-arṇavam .. 75 ..
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् । अधीयानो दुराराध्यं हरिं आराधयत्यसौ ॥ ७६ ॥
यः इमम् श्रद्धया युक्तः मद्-गीतम् भगवत्-स्तवम् । अधीयानः दुराराध्यम् हरिम् आराधयति असौ ॥ ७६ ॥
yaḥ imam śraddhayā yuktaḥ mad-gītam bhagavat-stavam . adhīyānaḥ durārādhyam harim ārādhayati asau .. 76 ..
विन्दते पुरुषोऽमुष्माद् यद्यद् इच्छत्यसत्वरम् । मद्गीतगीतात्सुप्रीतात् श्रेयसामेकवल्लभात् ॥ ७७ ॥
विन्दते पुरुषः अमुष्मात् यत् यत् इच्छति अ सत्वरम् । मद्-गीत-गीतात् सु प्रीतात् श्रेयसाम् एक-वल्लभात् ॥ ७७ ॥
vindate puruṣaḥ amuṣmāt yat yat icchati a satvaram . mad-gīta-gītāt su prītāt śreyasām eka-vallabhāt .. 77 ..
इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः । शृणुयात् श्रावयेन्मर्त्यो मुच्यते कर्मबन्धनैः ॥ ७८ ॥
इदम् यः कल्ये उत्थाय प्राञ्जलिः श्रद्धया अन्वितः । शृणुयात् श्रावयेत् मर्त्यः मुच्यते कर्म-बन्धनैः ॥ ७८ ॥
idam yaḥ kalye utthāya prāñjaliḥ śraddhayā anvitaḥ . śṛṇuyāt śrāvayet martyaḥ mucyate karma-bandhanaiḥ .. 78 ..
गीतं मयेदं नरदेवनन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्रधियस्तपो महत् चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥
गीतम् मया इदम् नरदेव-नन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्तः एकाग्र-धियः तपः महत् चरध्वम् अन्ते ततस् आप्स्यथ ईप्सितम् ॥ ७९ ॥
gītam mayā idam naradeva-nandanāḥ parasya puṃsaḥ paramātmanaḥ stavam . japantaḥ ekāgra-dhiyaḥ tapaḥ mahat caradhvam ante tatas āpsyatha īpsitam .. 79 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रगीतं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे रुद्रगीतम् नाम चतुर्विंशः अध्यायः ॥ २४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe rudragītam nāma caturviṃśaḥ adhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In