| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः । पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ १ ॥
इति सन्दिश्य भगवान् बार्हिषदैः अभिपूजितः । पश्यताम् राज-पुत्राणाम् तत्र एव अन्तर्दधे हरः ॥ १ ॥
iti sandiśya bhagavān bārhiṣadaiḥ abhipūjitaḥ . paśyatām rāja-putrāṇām tatra eva antardadhe haraḥ .. 1 ..
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः । जपन्तस्ते तपस्तेपुः वर्षाणां अयुतं जले ॥ २ ॥
रुद्र-गीतम् भगवतः स्तोत्रम् सर्वे प्रचेतसः । जपन्तः ते तपः तेपुः वर्षाणाम् अयुतम् जले ॥ २ ॥
rudra-gītam bhagavataḥ stotram sarve pracetasaḥ . japantaḥ te tapaḥ tepuḥ varṣāṇām ayutam jale .. 2 ..
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् । नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥
प्राचीनबर्हिषम् क्षत्तर् कर्मसु आसक्त-मानसम् । नारदः अध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥
prācīnabarhiṣam kṣattar karmasu āsakta-mānasam . nāradaḥ adhyātma-tattva-jñaḥ kṛpāluḥ pratyabodhayat .. 3 ..
श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे । दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४ ॥
श्रेयः-त्वम् कतमत् राजन् कर्मणा आत्मनः ईहसे । दुःख-हानिः सुख-अवाप्तिः श्रेयः तत् न इह च इष्यते ॥ ४ ॥
śreyaḥ-tvam katamat rājan karmaṇā ātmanaḥ īhase . duḥkha-hāniḥ sukha-avāptiḥ śreyaḥ tat na iha ca iṣyate .. 4 ..
राजोवाच -
न जानामि महाभाग परं कर्मापविद्धधीः । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥
न जानामि महाभाग परम् कर्म-अपविद्ध-धीः । ब्रूहि मे विमलम् ज्ञानम् येन मुच्येय कर्मभिः ॥ ५ ॥
na jānāmi mahābhāga param karma-apaviddha-dhīḥ . brūhi me vimalam jñānam yena mucyeya karmabhiḥ .. 5 ..
गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः । न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ॥ ६ ॥
गृहेषु कूट-धर्मेषु पुत्र-दार-धन-अर्थ-धीः । न परम् विन्दते मूढः भ्राम्यन् संसार-वर्त्मसु ॥ ॥ ६ ॥
gṛheṣu kūṭa-dharmeṣu putra-dāra-dhana-artha-dhīḥ . na param vindate mūḍhaḥ bhrāmyan saṃsāra-vartmasu .. .. 6 ..
नारद उवाच -
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे । संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥
भो भोः प्रजापते राजन् पशून् पश्य त्वया अध्वरे । संज्ञापितान् जीव-सङ्घान् निर्घृणेन सहस्रशस् ॥ ७ ॥
bho bhoḥ prajāpate rājan paśūn paśya tvayā adhvare . saṃjñāpitān jīva-saṅghān nirghṛṇena sahasraśas .. 7 ..
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतमयःकूटैः छिन्दति उत्थितमन्यवः ॥ ८ ॥
एते त्वाम् सम्प्रतीक्षन्ते स्मरन्तः वैशसम् तव । सम्परेत-मयः-कूटैः छिन्दति उत्थित-मन्यवः ॥ ८ ॥
ete tvām sampratīkṣante smarantaḥ vaiśasam tava . sampareta-mayaḥ-kūṭaiḥ chindati utthita-manyavaḥ .. 8 ..
अत्र ते कथयिष्येऽमुं इतिहासं पुरातनम् । पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥
अत्र ते कथयिष्ये अमुम् इतिहासम् पुरातनम् । पुरञ्जनस्य चरितम् निबोध गदतः मम ॥ ९ ॥
atra te kathayiṣye amum itihāsam purātanam . purañjanasya caritam nibodha gadataḥ mama .. 9 ..
आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः । तस्याविज्ञातनामाऽऽसीत् सखाविज्ञातचेष्टितः ॥ १० ॥
आसीत् पुरञ्जनः नाम राजा राजन् बृहच्छ्रवाः । तस्य अ विज्ञात-नामा आसीत् सखा अ विज्ञात-चेष्टितः ॥ १० ॥
āsīt purañjanaḥ nāma rājā rājan bṛhacchravāḥ . tasya a vijñāta-nāmā āsīt sakhā a vijñāta-ceṣṭitaḥ .. 10 ..
सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः । नानुरूपं यदाविन्दद् अभूत्स विमना इव ॥ ११ ॥
सः अन्वेषमाणः शरणम् बभ्राम पृथिवीम् प्रभुः । न अनुरूपम् यदा अविन्दत् अभूत् स विमनाः इव ॥ ११ ॥
saḥ anveṣamāṇaḥ śaraṇam babhrāma pṛthivīm prabhuḥ . na anurūpam yadā avindat abhūt sa vimanāḥ iva .. 11 ..
न साधु मेने ताः सर्वा भूतले यावतीः पुरः । कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२ ॥
न साधु मेने ताः सर्वाः भू-तले यावतीः पुरः । कामान् कामयमानः असौ तस्य तस्य उपपत्तये ॥ १२ ॥
na sādhu mene tāḥ sarvāḥ bhū-tale yāvatīḥ puraḥ . kāmān kāmayamānaḥ asau tasya tasya upapattaye .. 12 ..
स एकदा हिमवतो दक्षिणेष्वथ सानुषु । ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् ॥ १३ ॥
सः एकदा हिमवतः दक्षिणेषु अथ सानुषु । ददर्श नवभिः द्वार्भिः पुरम् लक्षित-लक्षणाम् ॥ १३ ॥
saḥ ekadā himavataḥ dakṣiṇeṣu atha sānuṣu . dadarśa navabhiḥ dvārbhiḥ puram lakṣita-lakṣaṇām .. 13 ..
प्राकारोपवनाट्टाल परिखैरक्षतोरणैः । स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ १४ ॥
प्राकार-उपवन-अट्टाल-परिखैः अक्ष-तोरणैः । स्वर्ण-रौप्य-आयसैः शृङ्गैः सङ्कुलाम् सर्वतस् गृहैः ॥ १४ ॥
prākāra-upavana-aṭṭāla-parikhaiḥ akṣa-toraṇaiḥ . svarṇa-raupya-āyasaiḥ śṛṅgaiḥ saṅkulām sarvatas gṛhaiḥ .. 14 ..
नीलस्फटिकवैदूर्य मुक्तामरकतारुणैः । कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥
नील-स्फटिक-वैदूर्य-मुक्ता-मरकत-अरुणैः । कृप्त-हर्म्य-स्थलीम् दीप्ताम् श्रिया भोगवतीम् इव ॥ १५ ॥
nīla-sphaṭika-vaidūrya-muktā-marakata-aruṇaiḥ . kṛpta-harmya-sthalīm dīptām śriyā bhogavatīm iva .. 15 ..
सभाचत्वर रथ्याभिः आक्रीडायतनापणैः । चैत्यध्वजपताकाभिः युक्तां विद्रुमवेदिभिः ॥ १६ ॥
सभा-चत्वर-रथ्याभिः आक्रीड-आयतन-आपणैः । चैत्य-ध्वज-पताकाभिः युक्ताम् विद्रुम-वेदिभिः ॥ १६ ॥
sabhā-catvara-rathyābhiḥ ākrīḍa-āyatana-āpaṇaiḥ . caitya-dhvaja-patākābhiḥ yuktām vidruma-vedibhiḥ .. 16 ..
पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले । नदद् विहङ्गालिकुल कोलाहलजलाशये ॥ १७ ॥
पुर्याः तु बाह्य-उपवने दिव्य-द्रुम-लता-आकुले । नदत् कोलाहल-जलाशये ॥ १७ ॥
puryāḥ tu bāhya-upavane divya-druma-latā-ākule . nadat kolāhala-jalāśaye .. 17 ..
हिमनिर्झरविप्रुष्मत् कुसुमाकरवायुना । चलत्प्रवालविटप नलिनीतटसम्पदि ॥ १८ ॥
हिम-निर्झर-विप्रुष्मत् कुसुमाकर-वायुना । चलत्-प्रवाल-विटप नलिनी-तट-सम्पदि ॥ १८ ॥
hima-nirjhara-vipruṣmat kusumākara-vāyunā . calat-pravāla-viṭapa nalinī-taṭa-sampadi .. 18 ..
नानारण्यमृगव्रातैः अनाबाधे मुनिव्रतैः । आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ १९ ॥
नाना अरण्य-मृग-व्रातैः अन् आबाधे मुनि-व्रतैः । आहूतम् मन्यते पान्थः यत्र कोकिल-कूजितैः ॥ १९ ॥
nānā araṇya-mṛga-vrātaiḥ an ābādhe muni-vrataiḥ . āhūtam manyate pānthaḥ yatra kokila-kūjitaiḥ .. 19 ..
यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर्दशभिरायान्तीं एकैकशतनायकैः ॥ २० ॥
यदृच्छया आगताम् तत्र ददर्श प्रमदा-उत्तमाम् । भृत्यैः दशभिः आयान्तीम् एकैक-शत-नायकैः ॥ २० ॥
yadṛcchayā āgatām tatra dadarśa pramadā-uttamām . bhṛtyaiḥ daśabhiḥ āyāntīm ekaika-śata-nāyakaiḥ .. 20 ..
अञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः । अन्वेषमाणां ऋषभं अप्रौढां कामरूपिणीम् ॥ २१ ॥
अञ्च-शीर्ष-अहिना गुप्ताम् प्रतीहारेण सर्वतस् । अन्वेषमाणाम् ऋषभम् अप्रौढाम् कामरूपिणीम् ॥ २१ ॥
añca-śīrṣa-ahinā guptām pratīhāreṇa sarvatas . anveṣamāṇām ṛṣabham aprauḍhām kāmarūpiṇīm .. 21 ..
सुनासां सुदतीं बालां सुकपोलां वराननाम् । समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२ ॥
सु नासाम् सुदतीम् बालाम् सु कपोलाम् वर-आननाम् । सम-विन्यस्त-कर्णाभ्याम् बिभ्रतीम् कुण्डल-श्रियम् ॥ २२ ॥
su nāsām sudatīm bālām su kapolām vara-ānanām . sama-vinyasta-karṇābhyām bibhratīm kuṇḍala-śriyam .. 22 ..
पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् । पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर्देवतामिव ॥ २३ ॥
पिशङ्ग-नीवीम् सुश्रोणीम् श्यामाम् कनक-मेखलाम् । पद्भ्याम् क्वणद्भ्याम् चलन्तीम् नूपुरैः देवताम् इव ॥ २३ ॥
piśaṅga-nīvīm suśroṇīm śyāmām kanaka-mekhalām . padbhyām kvaṇadbhyām calantīm nūpuraiḥ devatām iva .. 23 ..
स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ । वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४ ॥
स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ । वस्त्र-अन्तेन निगूहन्तीम् व्रीडया गज-गामिनीम् ॥ २४ ॥
stanau vyañjita-kaiśorau sama-vṛttau nirantarau . vastra-antena nigūhantīm vrīḍayā gaja-gāminīm .. 24 ..
तामाह ललितं वीरः सव्रीडस्मितशोभनाम् । स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा ॥ २५ ॥
ताम् आह ललितम् वीरः स व्रीड-स्मित-शोभनाम् । स्निग्धेन अपाङ्ग-पुङ्खेन स्पृष्टः प्रेम-उद्भ्रमत्-भ्रुवा ॥ २५ ॥
tām āha lalitam vīraḥ sa vrīḍa-smita-śobhanām . snigdhena apāṅga-puṅkhena spṛṣṭaḥ prema-udbhramat-bhruvā .. 25 ..
का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति । इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६ ॥
का त्वम् कञ्ज-पलाश-अक्षि कस्य असि इह कुतस् सति । इमाम् उप पुरीम् भीरु किम् चिकीर्षसि शंस मे ॥ २६ ॥
kā tvam kañja-palāśa-akṣi kasya asi iha kutas sati . imām upa purīm bhīru kim cikīrṣasi śaṃsa me .. 26 ..
क एतेऽनुपथा ये ते एकादश महाभटाः । एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः ॥ २७ ॥
के एते अनुपथाः ये ते एकादश महा-भटाः । एताः वा ललनाः सुभ्रु कः अयम् ते अहिः पुरःसरः ॥ २७ ॥
ke ete anupathāḥ ye te ekādaśa mahā-bhaṭāḥ . etāḥ vā lalanāḥ subhru kaḥ ayam te ahiḥ puraḥsaraḥ .. 27 ..
त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने । त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् ॥ २८ ॥
त्वम् ह्रीः भवान् यस्यथ वा अग्रमा पतिम् विचिन्वती किम् मुनि-वत् रहो वने । त्वद्-अङ्घ्रिक-आमाप्त-समस्त-कामम् क्व पद्मकोशः पतितः कर-अग्रात् ॥ २८ ॥
tvam hrīḥ bhavān yasyatha vā agramā patim vicinvatī kim muni-vat raho vane . tvad-aṅghrika-āmāpta-samasta-kāmam kva padmakośaḥ patitaḥ kara-agrāt .. 28 ..
नासां वरोर्वन्यतमा भुविस्पृक् पुरीं इमां वीरवरेण साकम् । अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥ २९ ॥
न आसाम् भुविस्पृश् पुरीम् इमाम् वीर-वरेण साकम् । अर्हसि अलङ्कर्तुम् अदभ्र-कर्मणा लोकम् परम् श्रीः इव यज्ञ-पुंसा ॥ २९ ॥
na āsām bhuvispṛś purīm imām vīra-vareṇa sākam . arhasi alaṅkartum adabhra-karmaṇā lokam param śrīḥ iva yajña-puṃsā .. 29 ..
यदेष मापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा । त्वयोपसृष्टो भगवान् मनोभवः प्रबाधतेऽथानुगृहाण शोभने ॥ ३० ॥
यत् एष मा अपाङ्ग-विखण्डित-इन्द्रियम् स व्रीड-भाव-स्मित-विभ्रमत्-भ्रुवा । त्वया उपसृष्टः भगवान् मनोभवः प्रबाधते अथ अनुगृहाण शोभने ॥ ३० ॥
yat eṣa mā apāṅga-vikhaṇḍita-indriyam sa vrīḍa-bhāva-smita-vibhramat-bhruvā . tvayā upasṛṣṭaḥ bhagavān manobhavaḥ prabādhate atha anugṛhāṇa śobhane .. 30 ..
त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम् । उन्नीय मे दर्शय वल्गुवाचकं यद्व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१ ॥
त्वद्-आननम् सुभ्रु सुतार-लोचनम् व्यालम्बि-नील-अलक-वृन्द-संवृतम् । उन्नीय मे दर्शय वल्गु-वाचकम् यत् व्रीडया न अभिमुखम् शुचि-स्मिते ॥ ३१ ॥
tvad-ānanam subhru sutāra-locanam vyālambi-nīla-alaka-vṛnda-saṃvṛtam . unnīya me darśaya valgu-vācakam yat vrīḍayā na abhimukham śuci-smite .. 31 ..
नारद उवाच - (अनुष्टुप्)
इत्थं पुरञ्जनं नारी याचमानमधीरवत् । अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ ३२ ॥
इत्थम् पुरञ्जनम् नारी याचमानम् अधीर-वत् । अभ्यनन्दत तम् वीरम् हसन्ती वीर मोहिता ॥ ३२ ॥
ittham purañjanam nārī yācamānam adhīra-vat . abhyanandata tam vīram hasantī vīra mohitā .. 32 ..
न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ । आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३ ॥
न विदाम वयम् सम्यक् कर्तारम् पुरुष-ऋषभ । आत्मनः च परस्य अपि गोत्रम् नाम च यत् कृतम् ॥ ३३ ॥
na vidāma vayam samyak kartāram puruṣa-ṛṣabha . ātmanaḥ ca parasya api gotram nāma ca yat kṛtam .. 33 ..
इहाद्य सन्तमात्मानं विदाम न ततः परम् । येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥ ३४ ॥
इह अद्य सन्तम् आत्मानम् विदाम न ततस् परम् । येन इयम् निर्मिता वीर पुरी शरणम् आत्मनः ॥ ३४ ॥
iha adya santam ātmānam vidāma na tatas param . yena iyam nirmitā vīra purī śaraṇam ātmanaḥ .. 34 ..
एते सखायः सख्यो मे नरा नार्यश्च मानद । सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५ ॥
एते सखायः सख्यः मे नराः नार्यः च मानद । सुप्तायाम् मयि जागर्ति नागः अयम् पालयन् पुरीम् ॥ ३५ ॥
ete sakhāyaḥ sakhyaḥ me narāḥ nāryaḥ ca mānada . suptāyām mayi jāgarti nāgaḥ ayam pālayan purīm .. 35 ..
दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे । उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिः अरिन्दम ॥ ३६ ॥
दिष्ट्या आगतः असि भद्रम् ते ग्राम्यान् कामान् अभीप्ससे । उद्वहिष्यामि तान् ते अहम् स्व-बन्धुभिः अरिन्दम ॥ ३६ ॥
diṣṭyā āgataḥ asi bhadram te grāmyān kāmān abhīpsase . udvahiṣyāmi tān te aham sva-bandhubhiḥ arindama .. 36 ..
इमां त्वं अधितिष्ठस्व पुरीं नवमुखीं विभो । मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥ ३७ ॥
इमाम् त्वम् अधितिष्ठस्व पुरीम् नव-मुखीम् विभो । मया उपनीतान् गृह्णानः काम-भोगान् शतम् समाः ॥ ३७ ॥
imām tvam adhitiṣṭhasva purīm nava-mukhīm vibho . mayā upanītān gṛhṇānaḥ kāma-bhogān śatam samāḥ .. 37 ..
कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् । असम्परायाभिमुखं अश्वस्तनविदं पशुम् ॥ ३८ ॥
कम् नु त्वद्-अन्यम् रमये हि अ रति-ज्ञम् अ कोविदम् । अ सम्पराय-अभिमुखम् अश्वस्तन-विदम् पशुम् ॥ ३८ ॥
kam nu tvad-anyam ramaye hi a rati-jñam a kovidam . a samparāya-abhimukham aśvastana-vidam paśum .. 38 ..
धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः । लोका विशोका विरजा यान्न केवलिनो विदुः ॥ ३९ ॥
धर्मः हि अत्र अर्थ-कामौ च प्रजा-आनन्दः अमृतम् यशः । लोकाः विशोकाः विरजाः यान् न केवलिनः विदुः ॥ ३९ ॥
dharmaḥ hi atra artha-kāmau ca prajā-ānandaḥ amṛtam yaśaḥ . lokāḥ viśokāḥ virajāḥ yān na kevalinaḥ viduḥ .. 39 ..
पितृदेवर्षिमर्त्यानां भूतानां आत्मनश्च ह । क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रमः ॥ ४० ॥
पितृ-देव-ऋषि-मर्त्यानाम् भूतानाम् आत्मनः च ह । क्षेम्यम् वदन्ति शरणम् भवे अस्मिन् यत् गृहाश्रमः ॥ ४० ॥
pitṛ-deva-ṛṣi-martyānām bhūtānām ātmanaḥ ca ha . kṣemyam vadanti śaraṇam bhave asmin yat gṛhāśramaḥ .. 40 ..
का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् । न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ ४१ ॥
का नाम वीर विख्यातम् वदान्यम् प्रिय-दर्शनम् । न वृणीत प्रियम् प्राप्तम् मादृशी त्वादृशम् पतिम् ॥ ४१ ॥
kā nāma vīra vikhyātam vadānyam priya-darśanam . na vṛṇīta priyam prāptam mādṛśī tvādṛśam patim .. 41 ..
कस्या मनस्ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज । योऽनाथवर्गाधिमलं घृणोद्धत स्मितावलोकेन चरत्यपोहितुम् ॥ ४२ ॥
कस्याः मनः ते भुवि भोगि-भोगयोः स्त्रियाः न सज्जेत् भुजयोः महा-भुज । यः अनाथ-वर्ग-अधि मलम् स्मित-अवलोकेन चरति अपोहितुम् ॥ ४२ ॥
kasyāḥ manaḥ te bhuvi bhogi-bhogayoḥ striyāḥ na sajjet bhujayoḥ mahā-bhuja . yaḥ anātha-varga-adhi malam smita-avalokena carati apohitum .. 42 ..
नारद उवाच - (अनुष्टुप्)
इति तौ दम्पती तत्र समुद्य समयं मिथः । तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४३ ॥
इति तौ दम्पती तत्र समुद्य समयम् मिथस् । ताम् प्रविश्य पुरीम् राजन् मुमुदाते शतम् समाः ॥ ४३ ॥
iti tau dampatī tatra samudya samayam mithas . tām praviśya purīm rājan mumudāte śatam samāḥ .. 43 ..
उपगीयमानो ललितं तत्र तत्र च गायकैः । क्रीडन् परिवृतः स्त्रीभिः ह्रदिनीं आविशत् शुचौ ॥ ४४ ॥
उपगीयमानः ललितम् तत्र तत्र च गायकैः । क्रीडन् परिवृतः स्त्रीभिः ह्रदिनीम् आविशत् शुचौ ॥ ४४ ॥
upagīyamānaḥ lalitam tatra tatra ca gāyakaiḥ . krīḍan parivṛtaḥ strībhiḥ hradinīm āviśat śucau .. 44 ..
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः । पृथग् विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥ ४५ ॥
सप्त उपरि कृताः द्वारः पुरस् तस्याः तु द्वे अधस् । पृथक् विषय-गति-अर्थम् तस्याम् यः कश्चन ईश्वरः ॥ ४५ ॥
sapta upari kṛtāḥ dvāraḥ puras tasyāḥ tu dve adhas . pṛthak viṣaya-gati-artham tasyām yaḥ kaścana īśvaraḥ .. 45 ..
पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥
पञ्च द्वारः तु पौरस्त्याः दक्षिणा एका तथा उत्तरा । पश्चिमे द्वे अमूषाम् ते नामानि नृप वर्णये ॥ ४६ ॥
pañca dvāraḥ tu paurastyāḥ dakṣiṇā ekā tathā uttarā . paścime dve amūṣām te nāmāni nṛpa varṇaye .. 46 ..
खद्योताऽऽविर्मुखी च प्राग् द्वारावेकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४७ ॥
च प्राक् द्वारौ एकत्र निर्मिते । विभ्राजितम् जनपदम् याति ताभ्याम् द्युमत्-सखः ॥ ४७ ॥
ca prāk dvārau ekatra nirmite . vibhrājitam janapadam yāti tābhyām dyumat-sakhaḥ .. 47 ..
नलिनी नालिनी च प्राग् द्वारौ एकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥
नलिनी-नालिनी-च प्राक् द्वारौ एकत्र निर्मिते । अवधूत-सखः ताभ्याम् विषयम् याति सौरभम् ॥ ४८ ॥
nalinī-nālinī-ca prāk dvārau ekatra nirmite . avadhūta-sakhaḥ tābhyām viṣayam yāti saurabham .. 48 ..
मुख्या नाम पुरस्ताद् द्वाः तयाऽऽपणबहूदनौ । विषयौ याति पुरराड् रसज्ञविपणान्वितः ॥ ४९ ॥
मुख्या नाम पुरस्तात् द्वार् तया आपण-बहूदनौ । विषयौ याति रसज्ञ-विपण-अन्वितः ॥ ४९ ॥
mukhyā nāma purastāt dvār tayā āpaṇa-bahūdanau . viṣayau yāti rasajña-vipaṇa-anvitaḥ .. 49 ..
पितृहूर्नृप पुर्या द्वाः दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ ५० ॥
पितृ-हूः नृप पुर्याः द्वार् दक्षिणेन पुरञ्जनः । राष्ट्रम् दक्षिण-पञ्चालम् याति श्रुतधर-अन्वितः ॥ ५० ॥
pitṛ-hūḥ nṛpa puryāḥ dvār dakṣiṇena purañjanaḥ . rāṣṭram dakṣiṇa-pañcālam yāti śrutadhara-anvitaḥ .. 50 ..
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रं उत्तरपञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥
देवहूः नाम पुर्याः द्वौ उत्तरेण पुरञ्जनः । राष्ट्रम् उत्तरपञ्चालम् याति श्रुतधर-अन्वितः ॥ ५१ ॥
devahūḥ nāma puryāḥ dvau uttareṇa purañjanaḥ . rāṣṭram uttarapañcālam yāti śrutadhara-anvitaḥ .. 51 ..
आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ ५२ ॥
आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः । ग्रामकम् नाम विषयम् दुर्मदेन समन्वितः ॥ ५२ ॥
āsurī nāma paścād dvāḥ tayā yāti purañjanaḥ . grāmakam nāma viṣayam durmadena samanvitaḥ .. 52 ..
निर्ऋतिर्नाम पश्चाद् द्वाः तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५३ ॥
निरृतिः नाम पश्चात् द्वार् तया याति पुरञ्जनः । वैशसम् नाम विषयम् लुब्धकेन समन्वितः ॥ ५३ ॥
nirṛtiḥ nāma paścāt dvār tayā yāti purañjanaḥ . vaiśasam nāma viṣayam lubdhakena samanvitaḥ .. 53 ..
अन्धावमीषां पौराणां निर्वाक् पेशस्कृतावुभौ । अक्षण्वतामधिपतिः ताभ्यां याति करोति च ॥ ५४ ॥
अन्धौ अमीषाम् पौराणाम् निर्वाक् पेशस्कृतौ उभौ । अक्षण्वताम् अधिपतिः ताभ्याम् याति करोति च ॥ ५४ ॥
andhau amīṣām paurāṇām nirvāk peśaskṛtau ubhau . akṣaṇvatām adhipatiḥ tābhyām yāti karoti ca .. 54 ..
स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ ५५ ॥
स यर्हि अन्तःपुर-गतः विषूचीन-समन्वितः । मोहम् प्रसादम् हर्षम् वा याति जाया-आत्मज-उद्भवम् ॥ ५५ ॥
sa yarhi antaḥpura-gataḥ viṣūcīna-samanvitaḥ . moham prasādam harṣam vā yāti jāyā-ātmaja-udbhavam .. 55 ..
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः । महिषी यद् यद् ईहेत तत्तद् एवान्ववर्तत ॥ ५६ ॥
एवम् कर्मसु संसक्तः काम-आत्मा वञ्चितः अबुधः । महिषी यत् यत् ईहेत तत् तत् एव अन्ववर्तत ॥ ५६ ॥
evam karmasu saṃsaktaḥ kāma-ātmā vañcitaḥ abudhaḥ . mahiṣī yat yat īheta tat tat eva anvavartata .. 56 ..
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः । अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥
क्वचिद् पिबन्त्याम् पिबति मदिराम् मद-विह्वलः । अश्नन्त्याम् क्वचिद् अश्नाति जक्षत्याम् सह जक्षिति ॥ ५७ ॥
kvacid pibantyām pibati madirām mada-vihvalaḥ . aśnantyām kvacid aśnāti jakṣatyām saha jakṣiti .. 57 ..
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् हसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥
क्वचिद् गायति गायन्त्याम् रुदत्याम् रुदति क्वचिद् । क्वचिद् हसन्त्याम् हसति जल्पन्त्याम् अनु जल्पति ॥ ५८ ॥
kvacid gāyati gāyantyām rudatyām rudati kvacid . kvacid hasantyām hasati jalpantyām anu jalpati .. 58 ..
क्वचिद् धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति । अनु शेते शयानायां अन्वास्ते क्वचिदासतीम् ॥ ५९ ॥
क्वचिद् धावति धावन्त्याम् तिष्ठन्त्याम् अनु तिष्ठति । अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् ॥ ५९ ॥
kvacid dhāvati dhāvantyām tiṣṭhantyām anu tiṣṭhati . anu śete śayānāyām anvāste kvacid āsatīm .. 59 ..
क्वचित् श्रृणोति श्रृण्वन्त्यां पश्यन्त्यामनु पश्यति । क्वचित् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् । ॥ ६० ॥
क्वचिद् श्रृणोति श्रृण्वन्त्याम् पश्यन्त्याम् अनु पश्यति । क्वचिद् जिघ्रति जिघ्रन्त्याम् स्पृशन्त्याम् स्पृशति क्वचिद् । ॥ ६० ॥
kvacid śrṛṇoti śrṛṇvantyām paśyantyām anu paśyati . kvacid jighrati jighrantyām spṛśantyām spṛśati kvacid . .. 60 ..
क्वचिच्च शोचतीं जायां अनु शोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते । ॥ ६१ ॥
क्वचिद् च शोचतीम् जायाम् अनु शोचति दीन-वत् । अनु हृष्यति हृष्यन्त्याम् मुदिताम् अनु मोदते । ॥ ६१ ॥
kvacid ca śocatīm jāyām anu śocati dīna-vat . anu hṛṣyati hṛṣyantyām muditām anu modate . .. 61 ..
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः । नेच्छन् अनुकरोत्यज्ञः क्लैब्यात् क्रीडामृगो यथा । ॥ ६२ ॥
विप्रलब्धः महिष्या एवम् सर्व-प्रकृति-वञ्चितः । न इच्छन् अनुकरोति अज्ञः क्लैब्यात् क्रीडामृगः यथा । ॥ ६२ ॥
vipralabdhaḥ mahiṣyā evam sarva-prakṛti-vañcitaḥ . na icchan anukaroti ajñaḥ klaibyāt krīḍāmṛgaḥ yathā . .. 62 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने पञ्चविंशोऽध्यायः ॥ २५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पुरंजन-उपाख्याने पञ्चविंशः अध्यायः ॥ २५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe puraṃjana-upākhyāne pañcaviṃśaḥ adhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In