| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इति सन्दिश्य भगवान् बार्हिषदैरभिपूजितः । पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हरः ॥ १ ॥
iti sandiśya bhagavān bārhiṣadairabhipūjitaḥ . paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ .. 1 ..
रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रचेतसः । जपन्तस्ते तपस्तेपुः वर्षाणां अयुतं जले ॥ २ ॥
rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ . japantaste tapastepuḥ varṣāṇāṃ ayutaṃ jale .. 2 ..
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् । नारदोऽध्यात्मतत्त्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥
prācīnabarhiṣaṃ kṣattaḥ karmasvāsaktamānasam . nārado'dhyātmatattvajñaḥ kṛpāluḥ pratyabodhayat .. 3 ..
श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे । दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यते ॥ ४ ॥
śreyastvaṃ katamadrājan karmaṇātmana īhase . duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate .. 4 ..
राजोवाच -
न जानामि महाभाग परं कर्मापविद्धधीः । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ ५ ॥
na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ . brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ .. 5 ..
गृहेषु कूटधर्मेषु पुत्रदारधनार्थधीः । न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ॥ ६ ॥
gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ . na paraṃ vindate mūḍho bhrāmyan saṃsāravartmasu .. .. 6 ..
नारद उवाच -
भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे । संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥
bho bhoḥ prajāpate rājan paśūn paśya tvayādhvare . saṃjñāpitāñjīvasaṅghān nirghṛṇena sahasraśaḥ .. 7 ..
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतमयःकूटैः छिन्दति उत्थितमन्यवः ॥ ८ ॥
ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava . samparetamayaḥkūṭaiḥ chindati utthitamanyavaḥ .. 8 ..
अत्र ते कथयिष्येऽमुं इतिहासं पुरातनम् । पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥
atra te kathayiṣye'muṃ itihāsaṃ purātanam . purañjanasya caritaṃ nibodha gadato mama .. 9 ..
आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः । तस्याविज्ञातनामाऽऽसीत् सखाविज्ञातचेष्टितः ॥ १० ॥
āsītpurañjano nāma rājā rājan bṛhacchravāḥ . tasyāvijñātanāmā''sīt sakhāvijñātaceṣṭitaḥ .. 10 ..
सोऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः । नानुरूपं यदाविन्दद् अभूत्स विमना इव ॥ ११ ॥
so'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ . nānurūpaṃ yadāvindad abhūtsa vimanā iva .. 11 ..
न साधु मेने ताः सर्वा भूतले यावतीः पुरः । कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२ ॥
na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ . kāmān kāmayamāno'sau tasya tasyopapattaye .. 12 ..
स एकदा हिमवतो दक्षिणेष्वथ सानुषु । ददर्श नवभिर्द्वार्भिः पुरं लक्षितलक्षणाम् ॥ १३ ॥
sa ekadā himavato dakṣiṇeṣvatha sānuṣu . dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām .. 13 ..
प्राकारोपवनाट्टाल परिखैरक्षतोरणैः । स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ १४ ॥
prākāropavanāṭṭāla parikhairakṣatoraṇaiḥ . svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ .. 14 ..
नीलस्फटिकवैदूर्य मुक्तामरकतारुणैः । कॢप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥
nīlasphaṭikavaidūrya muktāmarakatāruṇaiḥ . kḷptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva .. 15 ..
सभाचत्वर रथ्याभिः आक्रीडायतनापणैः । चैत्यध्वजपताकाभिः युक्तां विद्रुमवेदिभिः ॥ १६ ॥
sabhācatvara rathyābhiḥ ākrīḍāyatanāpaṇaiḥ . caityadhvajapatākābhiḥ yuktāṃ vidrumavedibhiḥ .. 16 ..
पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले । नदद् विहङ्गालिकुल कोलाहलजलाशये ॥ १७ ॥
puryāstu bāhyopavane divyadrumalatākule . nadad vihaṅgālikula kolāhalajalāśaye .. 17 ..
हिमनिर्झरविप्रुष्मत् कुसुमाकरवायुना । चलत्प्रवालविटप नलिनीतटसम्पदि ॥ १८ ॥
himanirjharavipruṣmat kusumākaravāyunā . calatpravālaviṭapa nalinītaṭasampadi .. 18 ..
नानारण्यमृगव्रातैः अनाबाधे मुनिव्रतैः । आहूतं मन्यते पान्थो यत्र कोकिलकूजितैः ॥ १९ ॥
nānāraṇyamṛgavrātaiḥ anābādhe munivrataiḥ . āhūtaṃ manyate pāntho yatra kokilakūjitaiḥ .. 19 ..
यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर्दशभिरायान्तीं एकैकशतनायकैः ॥ २० ॥
yadṛcchayāgatāṃ tatra dadarśa pramadottamām . bhṛtyairdaśabhirāyāntīṃ ekaikaśatanāyakaiḥ .. 20 ..
अञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वतः । अन्वेषमाणां ऋषभं अप्रौढां कामरूपिणीम् ॥ २१ ॥
añcaśīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ . anveṣamāṇāṃ ṛṣabhaṃ aprauḍhāṃ kāmarūpiṇīm .. 21 ..
सुनासां सुदतीं बालां सुकपोलां वराननाम् । समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२ ॥
sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām . samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam .. 22 ..
पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् । पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर्देवतामिव ॥ २३ ॥
piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām . padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva .. 23 ..
स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ । वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४ ॥
stanau vyañjitakaiśorau samavṛttau nirantarau . vastrāntena nigūhantīṃ vrīḍayā gajagāminīm .. 24 ..
तामाह ललितं वीरः सव्रीडस्मितशोभनाम् । स्निग्धेनापाङ्गपुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्भ्रुवा ॥ २५ ॥
tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām . snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā .. 25 ..
का त्वं कञ्जपलाशाक्षि कस्यासीह कुतः सति । इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६ ॥
kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati . imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me .. 26 ..
क एतेऽनुपथा ये ते एकादश महाभटाः । एता वा ललनाः सुभ्रु कोऽयं तेऽहिः पुरःसरः ॥ २७ ॥
ka ete'nupathā ye te ekādaśa mahābhaṭāḥ . etā vā lalanāḥ subhru ko'yaṃ te'hiḥ puraḥsaraḥ .. 27 ..
त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं विचिन्वती किं मुनिवद्रहो वने । त्वदङ्घ्रिकामाप्तसमस्तकामं क्व पद्मकोशः पतितः कराग्रात् ॥ २८ ॥
tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane . tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt .. 28 ..
नासां वरोर्वन्यतमा भुविस्पृक् पुरीं इमां वीरवरेण साकम् । अर्हस्यलङ्कर्तुमदभ्रकर्मणा लोकं परं श्रीरिव यज्ञपुंसा ॥ २९ ॥
nāsāṃ varorvanyatamā bhuvispṛk purīṃ imāṃ vīravareṇa sākam . arhasyalaṅkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā .. 29 ..
यदेष मापाङ्गविखण्डितेन्द्रियं सव्रीडभावस्मितविभ्रमद्भ्रुवा । त्वयोपसृष्टो भगवान् मनोभवः प्रबाधतेऽथानुगृहाण शोभने ॥ ३० ॥
yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā . tvayopasṛṣṭo bhagavān manobhavaḥ prabādhate'thānugṛhāṇa śobhane .. 30 ..
त्वदाननं सुभ्रु सुतारलोचनं व्यालम्बिनीलालकवृन्दसंवृतम् । उन्नीय मे दर्शय वल्गुवाचकं यद्व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१ ॥
tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam . unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite .. 31 ..
नारद उवाच - (अनुष्टुप्)
इत्थं पुरञ्जनं नारी याचमानमधीरवत् । अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ ३२ ॥
itthaṃ purañjanaṃ nārī yācamānamadhīravat . abhyanandata taṃ vīraṃ hasantī vīra mohitā .. 32 ..
न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ । आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३ ॥
na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha . ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam .. 33 ..
इहाद्य सन्तमात्मानं विदाम न ततः परम् । येनेयं निर्मिता वीर पुरी शरणमात्मनः ॥ ३४ ॥
ihādya santamātmānaṃ vidāma na tataḥ param . yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ .. 34 ..
एते सखायः सख्यो मे नरा नार्यश्च मानद । सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५ ॥
ete sakhāyaḥ sakhyo me narā nāryaśca mānada . suptāyāṃ mayi jāgarti nāgo'yaṃ pālayan purīm .. 35 ..
दिष्ट्याऽऽगतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे । उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिः अरिन्दम ॥ ३६ ॥
diṣṭyā''gato'si bhadraṃ te grāmyān kāmānabhīpsase . udvahiṣyāmi tāṃste'haṃ svabandhubhiḥ arindama .. 36 ..
इमां त्वं अधितिष्ठस्व पुरीं नवमुखीं विभो । मयोपनीतान् गृह्णानः कामभोगान् शतं समाः ॥ ३७ ॥
imāṃ tvaṃ adhitiṣṭhasva purīṃ navamukhīṃ vibho . mayopanītān gṛhṇānaḥ kāmabhogān śataṃ samāḥ .. 37 ..
कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् । असम्परायाभिमुखं अश्वस्तनविदं पशुम् ॥ ३८ ॥
kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam . asamparāyābhimukhaṃ aśvastanavidaṃ paśum .. 38 ..
धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यशः । लोका विशोका विरजा यान्न केवलिनो विदुः ॥ ३९ ॥
dharmo hyatrārthakāmau ca prajānando'mṛtaṃ yaśaḥ . lokā viśokā virajā yānna kevalino viduḥ .. 39 ..
पितृदेवर्षिमर्त्यानां भूतानां आत्मनश्च ह । क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रमः ॥ ४० ॥
pitṛdevarṣimartyānāṃ bhūtānāṃ ātmanaśca ha . kṣemyaṃ vadanti śaraṇaṃ bhave'smin yadgṛhāśramaḥ .. 40 ..
का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् । न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ ४१ ॥
kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam . na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim .. 41 ..
कस्या मनस्ते भुवि भोगिभोगयोः स्त्रिया न सज्जेद्भुजयोर्महाभुज । योऽनाथवर्गाधिमलं घृणोद्धत स्मितावलोकेन चरत्यपोहितुम् ॥ ४२ ॥
kasyā manaste bhuvi bhogibhogayoḥ striyā na sajjedbhujayormahābhuja . yo'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum .. 42 ..
नारद उवाच - (अनुष्टुप्)
इति तौ दम्पती तत्र समुद्य समयं मिथः । तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४३ ॥
iti tau dampatī tatra samudya samayaṃ mithaḥ . tāṃ praviśya purīṃ rājan mumudāte śataṃ samāḥ .. 43 ..
उपगीयमानो ललितं तत्र तत्र च गायकैः । क्रीडन् परिवृतः स्त्रीभिः ह्रदिनीं आविशत् शुचौ ॥ ४४ ॥
upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ . krīḍan parivṛtaḥ strībhiḥ hradinīṃ āviśat śucau .. 44 ..
सप्तोपरि कृता द्वारः पुरस्तस्यास्तु द्वे अधः । पृथग् विषयगत्यर्थं तस्यां यः कश्चनेश्वरः ॥ ४५ ॥
saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ . pṛthag viṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ .. 45 ..
पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥
pañca dvārastu paurastyā dakṣiṇaikā tathottarā . paścime dve amūṣāṃ te nāmāni nṛpa varṇaye .. 46 ..
खद्योताऽऽविर्मुखी च प्राग् द्वारावेकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४७ ॥
khadyotā''virmukhī ca prāg dvārāvekatra nirmite . vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumatsakhaḥ .. 47 ..
नलिनी नालिनी च प्राग् द्वारौ एकत्र निर्मिते । अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥
nalinī nālinī ca prāg dvārau ekatra nirmite . avadhūtasakhastābhyāṃ viṣayaṃ yāti saurabham .. 48 ..
मुख्या नाम पुरस्ताद् द्वाः तयाऽऽपणबहूदनौ । विषयौ याति पुरराड् रसज्ञविपणान्वितः ॥ ४९ ॥
mukhyā nāma purastād dvāḥ tayā''paṇabahūdanau . viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ .. 49 ..
पितृहूर्नृप पुर्या द्वाः दक्षिणेन पुरञ्जनः । राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ ५० ॥
pitṛhūrnṛpa puryā dvāḥ dakṣiṇena purañjanaḥ . rāṣṭraṃ dakṣiṇapañcālaṃ yāti śrutadharānvitaḥ .. 50 ..
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः । राष्ट्रं उत्तरपञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥
devahūrnāma puryā dvā uttareṇa purañjanaḥ . rāṣṭraṃ uttarapañcālaṃ yāti śrutadharānvitaḥ .. 51 ..
आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ ५२ ॥
āsurī nāma paścād dvāḥ tayā yāti purañjanaḥ . grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ .. 52 ..
निर्ऋतिर्नाम पश्चाद् द्वाः तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५३ ॥
nirṛtirnāma paścād dvāḥ tayā yāti purañjanaḥ . vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ .. 53 ..
अन्धावमीषां पौराणां निर्वाक् पेशस्कृतावुभौ । अक्षण्वतामधिपतिः ताभ्यां याति करोति च ॥ ५४ ॥
andhāvamīṣāṃ paurāṇāṃ nirvāk peśaskṛtāvubhau . akṣaṇvatāmadhipatiḥ tābhyāṃ yāti karoti ca .. 54 ..
स यर्ह्यन्तःपुरगतो विषूचीनसमन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ ५५ ॥
sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ . mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam .. 55 ..
एवं कर्मसु संसक्तः कामात्मा वञ्चितोऽबुधः । महिषी यद् यद् ईहेत तत्तद् एवान्ववर्तत ॥ ५६ ॥
evaṃ karmasu saṃsaktaḥ kāmātmā vañcito'budhaḥ . mahiṣī yad yad īheta tattad evānvavartata .. 56 ..
क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः । अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥
kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ . aśnantyāṃ kvacidaśnāti jakṣatyāṃ saha jakṣiti .. 57 ..
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् हसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥
kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit . kvacid hasantyāṃ hasati jalpantyāmanu jalpati .. 58 ..
क्वचिद् धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति । अनु शेते शयानायां अन्वास्ते क्वचिदासतीम् ॥ ५९ ॥
kvacid dhāvati dhāvantyāṃ tiṣṭhantyāmanu tiṣṭhati . anu śete śayānāyāṃ anvāste kvacidāsatīm .. 59 ..
क्वचित् श्रृणोति श्रृण्वन्त्यां पश्यन्त्यामनु पश्यति । क्वचित् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् । ॥ ६० ॥
kvacit śrṛṇoti śrṛṇvantyāṃ paśyantyāmanu paśyati . kvacit jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit . .. 60 ..
क्वचिच्च शोचतीं जायां अनु शोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते । ॥ ६१ ॥
kvacicca śocatīṃ jāyāṃ anu śocati dīnavat . anu hṛṣyati hṛṣyantyāṃ muditāmanu modate . .. 61 ..
विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चितः । नेच्छन् अनुकरोत्यज्ञः क्लैब्यात् क्रीडामृगो यथा । ॥ ६२ ॥
vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ . necchan anukarotyajñaḥ klaibyāt krīḍāmṛgo yathā . .. 62 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने पञ्चविंशोऽध्यायः ॥ २५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe puraṃjanopākhyāne pañcaviṃśo'dhyāyaḥ .. 25 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In