| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥ रथोपरि टिप्पणी
सः एकदा महा-इष्वासः रथम् पञ्च-अश्वम् आशु-गम् । द्वि-ईषम् द्वि-चक्रम् एक-अक्षम् त्रिवेणुम् पञ्च-बन्धुरम् ॥ १ ॥ रथ-उपरि टिप्पणी
saḥ ekadā mahā-iṣvāsaḥ ratham pañca-aśvam āśu-gam . dvi-īṣam dvi-cakram eka-akṣam triveṇum pañca-bandhuram .. 1 .. ratha-upari ṭippaṇī
एकरश्म्येकदमनम् एकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम् ॥ २ ॥
एक-रश्मि-एक-दमनम् एक-नीडम् द्वि-कूबरम् । पञ्च-प्रहरणम् सप्त वरूथम् पञ्च-विक्रमम् ॥ २ ॥
eka-raśmi-eka-damanam eka-nīḍam dvi-kūbaram . pañca-praharaṇam sapta varūtham pañca-vikramam .. 2 ..
हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः । एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥
हैम-उपस्करम् आरुह्य स्वर्ण-वर्म-अक्षय-इषुधिः । एकादश-चमू-नाथः पञ्च-प्रस्थम् अगात् वनम् ॥ ३ ॥
haima-upaskaram āruhya svarṇa-varma-akṣaya-iṣudhiḥ . ekādaśa-camū-nāthaḥ pañca-prastham agāt vanam .. 3 ..
चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः । विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ४ ॥
चचार मृगयाम् तत्र दृप्तः आत्त-इषु-कार्मुकः । विहाय जायाम् अतदर्हाम् मृग-व्यसन-लालसः ॥ ४ ॥
cacāra mṛgayām tatra dṛptaḥ ātta-iṣu-kārmukaḥ . vihāya jāyām atadarhām mṛga-vyasana-lālasaḥ .. 4 ..
आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर्बाणैः वनेषु वनगोचरान् ॥ ५ ॥
आसुरीम् वृत्तिम् आश्रित्य घोर-आत्मा निरनुग्रहः । न्यहनत् निशितैः बाणैः वनेषु वन-गोचरान् ॥ ५ ॥
āsurīm vṛttim āśritya ghora-ātmā niranugrahaḥ . nyahanat niśitaiḥ bāṇaiḥ vaneṣu vana-gocarān .. 5 ..
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥
तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थम् अलम् लुब्धः हन्यात् इति नियम्यते ॥ ६ ॥
tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane . yāvadartham alam lubdhaḥ hanyāt iti niyamyate .. 6 ..
य एवं कर्म नियतं विद्वान्कुर्वीत मानवः । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
यः एवम् कर्म नियतम् विद्वान् कुर्वीत मानवः । कर्मणा तेन राज-इन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥
yaḥ evam karma niyatam vidvān kurvīta mānavaḥ . karmaṇā tena rāja-indra jñānena na sa lipyate .. 7 ..
अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते । गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः ॥ ८ ॥
अन्यथा कर्म कुर्वाणः मान-आरूढः निबध्यते । गुण-प्रवाह-पतितः नष्ट-प्रज्ञः व्रजति अधस् ॥ ८ ॥
anyathā karma kurvāṇaḥ māna-ārūḍhaḥ nibadhyate . guṇa-pravāha-patitaḥ naṣṭa-prajñaḥ vrajati adhas .. 8 ..
तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः । विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ ९ ॥
तत्र निर्भिन्न-गात्राणाम् चित्र-वाजैः शिलीमुखैः । विप्लवः अभूत् दुःखितानाम् दुःसहः करुण-आत्मनाम् ॥ ९ ॥
tatra nirbhinna-gātrāṇām citra-vājaiḥ śilīmukhaiḥ . viplavaḥ abhūt duḥkhitānām duḥsahaḥ karuṇa-ātmanām .. 9 ..
शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् । मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥
शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् । मेध्यान् अन्यान् च विविधान् विनिघ्नन् श्रमम् अध्यगात् ॥ १० ॥
śaśān varāhān mahiṣān gavayān ruru-śalyakān . medhyān anyān ca vividhān vinighnan śramam adhyagāt .. 10 ..
ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् । कृतस्नानोचिताहारः संविवेश गतक्लमः ॥ ११ ॥
ततस् क्षुध्-तृष्-परिश्रान्तः निवृत्तः गृहम् एयिवान् । कृत-स्नान-उचित-आहारः संविवेश गत-क्लमः ॥ ११ ॥
tatas kṣudh-tṛṣ-pariśrāntaḥ nivṛttaḥ gṛham eyivān . kṛta-snāna-ucita-āhāraḥ saṃviveśa gata-klamaḥ .. 11 ..
आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः । साध्वलङ्कृतसर्वाङ्गो महिष्यां आदधे मनः ॥ १२ ॥
आत्मानम् अर्हयाम् चक्रे धूप-आलेप-स्रज्-आदिभिः । साधु-अलङ्कृत-सर्व-अङ्गः महिष्याम् आदधे मनः ॥ १२ ॥
ātmānam arhayām cakre dhūpa-ālepa-sraj-ādibhiḥ . sādhu-alaṅkṛta-sarva-aṅgaḥ mahiṣyām ādadhe manaḥ .. 12 ..
तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः । न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥
तृप्तः हृष्टः सु दृप्तः च कन्दर्प-आकृष्ट-मानसः । न व्यचष्ट वर-आरोहाम् गृहिणीम् गृहमेधिनीम् ॥ १३ ॥
tṛptaḥ hṛṣṭaḥ su dṛptaḥ ca kandarpa-ākṛṣṭa-mānasaḥ . na vyacaṣṭa vara-ārohām gṛhiṇīm gṛhamedhinīm .. 13 ..
अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषत् । अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ १४ ॥
अन्तःपुर-स्त्रियः अपृच्छत् विमनाः इव वेदिषद् । अपि वः कुशलम् रामाः स ईश्वरीणाम् यथा पुरा ॥ १४ ॥
antaḥpura-striyaḥ apṛcchat vimanāḥ iva vediṣad . api vaḥ kuśalam rāmāḥ sa īśvarīṇām yathā purā .. 14 ..
यदि न स्याद्गृहे माता पत्नी वा पतिदेवता । व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ १५ ॥ तुलनीय - ऋ. ३.५३.५-६
यदि न स्यात् गृहे माता पत्नी वा पति-देवता । व्यङ्गे रथे इव प्राज्ञः कः नाम आसीत दीन-वत् ॥ १५ ॥ तुलनीय-ऋ। ३।५३।५
yadi na syāt gṛhe mātā patnī vā pati-devatā . vyaṅge rathe iva prājñaḥ kaḥ nāma āsīta dīna-vat .. 15 .. tulanīya-ṛ. 3.53.5
क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥
क्व वर्तते सा ललना मज्जन्तम् व्यसन-अर्णवे । या माम् उद्धरते प्रज्ञाम् दीपयन्ती पदे पदे ॥ १६ ॥
kva vartate sā lalanā majjantam vyasana-arṇave . yā mām uddharate prajñām dīpayantī pade pade .. 16 ..
रामा ऊचुः -
नरनाथ न जानीमः त्वत्प्रिया यद्व्यवस्यति । भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥
नरनाथ न जानीमः त्वद्-प्रिया यत् व्यवस्यति । भू-तले निरवस्तारे शयानाम् पश्य शत्रु-हन् ॥ १७ ॥
naranātha na jānīmaḥ tvad-priyā yat vyavasyati . bhū-tale niravastāre śayānām paśya śatru-han .. 17 ..
नारद उवाच -
पुरञ्जनः स्वमहिषीं निरीक्ष्य अवधुतां भुवि । तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥
पुरञ्जनः स्व-महिषीम् निरीक्ष्य अवधुताम् भुवि । तद्-सङ्ग-उन्मथित-ज्ञानः वैक्लव्यम् परमम् ययौ ॥ १८ ॥
purañjanaḥ sva-mahiṣīm nirīkṣya avadhutām bhuvi . tad-saṅga-unmathita-jñānaḥ vaiklavyam paramam yayau .. 18 ..
सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेहसंरम्भ लिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥
सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेह-संरम्भ लिङ्गम् आत्मनि ना अभ्यगात् ॥ १९ ॥
sāntvayan śkakṣṇayā vācā hṛdayena vidūyatā . preyasyāḥ sneha-saṃrambha liṅgam ātmani nā abhyagāt .. 19 ..
अनुनिन्येऽथ शनकैः वीरोऽनुनयकोविदः । पस्पर्श पादयुगलं आह चोत्सङ्गलालिताम् ॥ २० ॥
अनुनिन्ये अथ शनकैस् वीरः अनुनय-कोविदः । पस्पर्श पाद-युगलम् आह च उत्सङ्ग-लालिताम् ॥ २० ॥
anuninye atha śanakais vīraḥ anunaya-kovidaḥ . pasparśa pāda-yugalam āha ca utsaṅga-lālitām .. 20 ..
पुरञ्जन उवाच -
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे । कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥
नूनम् त्व-कृत-पुण्याः ते भृत्याः येषु ईश्वराः शुभे । कृत-आगःसु आत्मसात्कृत्वा शिक्षा-दण्डम् न युञ्जते ॥ २१ ॥
nūnam tva-kṛta-puṇyāḥ te bhṛtyāḥ yeṣu īśvarāḥ śubhe . kṛta-āgaḥsu ātmasātkṛtvā śikṣā-daṇḍam na yuñjate .. 21 ..
परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः । बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः ॥ २२ ॥
परमः अनुग्रहः दण्डः भृत्येषु प्रभुणा अर्पितः । बालः न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः ॥ २२ ॥
paramaḥ anugrahaḥ daṇḍaḥ bhṛtyeṣu prabhuṇā arpitaḥ . bālaḥ na veda tat tanvi bandhu-kṛtyam amarṣaṇaḥ .. 22 ..
सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद् हसितावलोकम् । नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥
सा त्वम् मुखम् सुदति सुभ्रु अनुराग-भार व्रीडा-विलम्ब-विलसत् हसित-अवलोकम् । नील-अलक-आलिभिः उपस्कृतम् उन्नसम् नः स्वानाम् प्रदर्शय मनस्विनि वल्गु-वाक्यम् ॥ २३ ॥
sā tvam mukham sudati subhru anurāga-bhāra vrīḍā-vilamba-vilasat hasita-avalokam . nīla-alaka-ālibhiḥ upaskṛtam unnasam naḥ svānām pradarśaya manasvini valgu-vākyam .. 23 ..
तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् । पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां अन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥
तस्मिन् दधे दमम् अहम् तव वीर-पत्नि यः अन्यत्र भूसुर-कुलात् कृत-किल्बिषः तम् । पश्ये न वीत-भयम् उन्मुदितम् त्रिलोक्याम् अन्यत्र वै मुररिपोः इतरत्र दासात् ॥ २४ ॥
tasmin dadhe damam aham tava vīra-patni yaḥ anyatra bhūsura-kulāt kṛta-kilbiṣaḥ tam . paśye na vīta-bhayam unmuditam trilokyām anyatra vai muraripoḥ itaratra dāsāt .. 24 ..
वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् । पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥
वक्त्रम् न ते वितिलकम् मलिनम् विहर्षम् संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् । पश्ये स्तनौ अपि शुचा उपहतौ सुजातौ बिम्ब-अधरम् विगत-कुङ्कुम-पङ्क-रागम् ॥ २५ ॥
vaktram na te vitilakam malinam viharṣam saṃrambha-bhīmam avimṛṣṭam apeta-rāgam . paśye stanau api śucā upahatau sujātau bimba-adharam vigata-kuṅkuma-paṅka-rāgam .. 25 ..
तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये ॥ २६ ॥
तत् मे प्रसीद सुहृदः कृत-किल्बिषस्य स्वैरम् गतस्य मृगयाम् व्यसन-आतुरस्य । का देवरम् वश-गतम् कुसुम-अस्त्र-वेग विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये ॥ २६ ॥
tat me prasīda suhṛdaḥ kṛta-kilbiṣasya svairam gatasya mṛgayām vyasana-āturasya . kā devaram vaśa-gatam kusuma-astra-vega visrasta-pauṃsnam uśatī na bhajeta kṛtye .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने षड्विंशोऽध्यायः ॥ २६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पुरंजन-उपाख्याने षड्विंशः अध्यायः ॥ २६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe puraṃjana-upākhyāne ṣaḍviṃśaḥ adhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In