| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥
इत्थम् पुरञ्जनम् वशम् आनीय विभ्रमैः । पुरञ्जनी महा-राज रेमे रमयती पतिम् ॥ १ ॥
ittham purañjanam vaśam ānīya vibhramaiḥ . purañjanī mahā-rāja reme ramayatī patim .. 1 ..
स राजा महिषीं राजन् सुस्नातां रुचिराननाम् । कृतस्वस्त्ययनां तृप्तां अभ्यनन्ददुपागताम् ॥ २ ॥
स राजाः महिषीम् राजन् सु स्नाताम् रुचिर-आननाम् । कृत-स्वस्त्ययनाम् तृप्ताम् अभ्यनन्दत् उपागताम् ॥ २ ॥
sa rājāḥ mahiṣīm rājan su snātām rucira-ānanām . kṛta-svastyayanām tṛptām abhyanandat upāgatām .. 2 ..
तयोपगूढः परिरब्धकन्धरो रहोऽनुमन्त्रैरपकृष्टचेतनः । न कालरंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदापरिग्रहः ॥ ३ ॥
तया उपगूढः परिरब्ध-कन्धरः रहः-अनु मन्त्रैः अपकृष्ट-चेतनः । न काल-रंहः बुबुधे दुरत्ययम् दिवा निशा इति प्रमदा-परिग्रहः ॥ ३ ॥
tayā upagūḍhaḥ parirabdha-kandharaḥ rahaḥ-anu mantraiḥ apakṛṣṭa-cetanaḥ . na kāla-raṃhaḥ bubudhe duratyayam divā niśā iti pramadā-parigrahaḥ .. 3 ..
शयान उन्नद्धमदो महामना महार्हतल्पे महिषीभुजोपधिः । तामेव वीरो मनुते परं यतः तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥
शयानः उन्नद्ध-मदः महामनाः महार्ह-तल्पे महिषी-भुज-उपधिः । ताम् एव वीरः मनुते परम् यतस् तमः-अभिभूतः न निजम् परम् च यत् ॥ ४ ॥
śayānaḥ unnaddha-madaḥ mahāmanāḥ mahārha-talpe mahiṣī-bhuja-upadhiḥ . tām eva vīraḥ manute param yatas tamaḥ-abhibhūtaḥ na nijam param ca yat .. 4 ..
(अनुष्टुप्)
तयैवं रममाणस्य कामकश्मलचेतसः । क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ ५ ॥
तया एवम् रममाणस्य काम-कश्मल-चेतसः । क्षण-अर्धम् इव राज-इन्द्र व्यतिक्रान्तम् नवम् वयः ॥ ५ ॥
tayā evam ramamāṇasya kāma-kaśmala-cetasaḥ . kṣaṇa-ardham iva rāja-indra vyatikrāntam navam vayaḥ .. 5 ..
तस्यां अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः । शतान्येकादश विराड् आयुषोऽर्धमथात्यगात् ॥ ॥ ६ ॥
तस्याम् अजनयत् पुत्रान् पुरञ्जन्याम् पुरञ्जनः । शतानि एकादश विराज् आयुषः अर्धम् अथ अत्यगात् ॥ ॥ ६ ॥
tasyām ajanayat putrān purañjanyām purañjanaḥ . śatāni ekādaśa virāj āyuṣaḥ ardham atha atyagāt .. .. 6 ..
दुहित्ईर्दशोत्तरशतं पितृमातृयशस्करीः । शीलौदार्यगुणोपेताः पौरञ्जन्यः प्रजापते ॥ ७ ॥
दुहितीः दशोत्तरशतम् पितृ-मातृ-यशस्करीः । शील-औदार्य-गुण-उपेताः पौरञ्जन्यः प्रजापते ॥ ७ ॥
duhitīḥ daśottaraśatam pitṛ-mātṛ-yaśaskarīḥ . śīla-audārya-guṇa-upetāḥ paurañjanyaḥ prajāpate .. 7 ..
स पञ्चालपतिः पुत्रान् पितृवंशविवर्धनान् । दारैः संयोजयामास दुहितॄ सदृशैर्वरैः ॥ ८ ॥
स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् । दारैः संयोजयामास दुहितॄ सदृशैः वरैः ॥ ८ ॥
sa pañcāla-patiḥ putrān pitṛ-vaṃśa-vivardhanān . dāraiḥ saṃyojayāmāsa duhitṝ sadṛśaiḥ varaiḥ .. 8 ..
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् । यैर्वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ ९ ॥
पुत्राणाम् च अभवन् पुत्राः एकैकस्य शतम् शतम् । यैः वै पौरञ्जनः वंशः पञ्चालेषु समेधितः ॥ ९ ॥
putrāṇām ca abhavan putrāḥ ekaikasya śatam śatam . yaiḥ vai paurañjanaḥ vaṃśaḥ pañcāleṣu samedhitaḥ .. 9 ..
तेषु तद् रिक्थहारेषु गृहकोशानुजीविषु । निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥
तेषु तत् रिक्थहारेषु गृह-कोश-अनुजीविषु । निरूढेन ममत्वेन विषयेषु अन्वबध्यत ॥ १० ॥
teṣu tat rikthahāreṣu gṛha-kośa-anujīviṣu . nirūḍhena mamatvena viṣayeṣu anvabadhyata .. 10 ..
ईजे च क्रतुभिर्घोरैः दीक्षितः पशुमारकैः । देवान् पितॄन् भूतपतीन् नानाकामो यथा भवान् ॥ ११ ॥
ईजे च क्रतुभिः घोरैः दीक्षितः पशु-मारकैः । देवान् पितॄन् भूतपतीन् नाना कामः यथा भवान् ॥ ११ ॥
īje ca kratubhiḥ ghoraiḥ dīkṣitaḥ paśu-mārakaiḥ . devān pitṝn bhūtapatīn nānā kāmaḥ yathā bhavān .. 11 ..
युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतसः । आससाद स वै कालो योऽप्रियः प्रिययोषिताम् ॥ १२ ॥
युक्तेषु एवम् प्रमत्तस्य कुटुम्ब-आसक्त-चेतसः । आससाद स वै कालः यः अप्रियः प्रिय-योषिताम् ॥ १२ ॥
yukteṣu evam pramattasya kuṭumba-āsakta-cetasaḥ . āsasāda sa vai kālaḥ yaḥ apriyaḥ priya-yoṣitām .. 12 ..
चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप । गन्धर्वास्तस्य बलिनः षष्ट्युत्तरशतत्रयम् ॥ १३ ॥
चण्डवेगः इति ख्यातः गन्धर्व-अधिपतिः नृप । गन्धर्वाः तस्य बलिनः षष्टि-उत्तर-शत-त्रयम् ॥ १३ ॥
caṇḍavegaḥ iti khyātaḥ gandharva-adhipatiḥ nṛpa . gandharvāḥ tasya balinaḥ ṣaṣṭi-uttara-śata-trayam .. 13 ..
गन्धर्व्यस्तादृशीरस्य मैथुन्यश्च सितासिताः । परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥
गन्धर्व्यः तादृशीः अस्य मैथुन्यः च सित-असिताः । परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम् ॥ १४ ॥
gandharvyaḥ tādṛśīḥ asya maithunyaḥ ca sita-asitāḥ . parivṛttyā vilumpanti sarva-kāma-vinirmitām .. 14 ..
ते चण्डवेगानुचराः पुरञ्जनपुरं यदा । हर्तुमारेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ १५ ॥
ते चण्डवेग-अनुचराः पुरञ्जन-पुरम् यदा । हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ १५ ॥
te caṇḍavega-anucarāḥ purañjana-puram yadā . hartum ārebhire tatra pratyaṣedhat prajāgaraḥ .. 15 ..
स सप्तभिः शतैरेको विंशत्या च शतं समाः । पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥
स सप्तभिः शतैः एकः विंशत्या च शतम् समाः । पुरञ्जन-पुर-अध्यक्षः गन्धर्वैः युयुधे बली ॥ १६ ॥
sa saptabhiḥ śataiḥ ekaḥ viṃśatyā ca śatam samāḥ . purañjana-pura-adhyakṣaḥ gandharvaiḥ yuyudhe balī .. 16 ..
क्षीयमाणे स्वसंबन्धे एकस्मिन् बहुभिर्युधा । चिन्तां परां जगामार्तः सराष्ट्रपुरबान्धवः ॥ १७ ॥
क्षीयमाणे स्व-संबन्धे एकस्मिन् बहुभिः युधा । चिन्ताम् पराम् जगाम आर्तः स राष्ट्र-पुर-बान्धवः ॥ १७ ॥
kṣīyamāṇe sva-saṃbandhe ekasmin bahubhiḥ yudhā . cintām parām jagāma ārtaḥ sa rāṣṭra-pura-bāndhavaḥ .. 17 ..
स एव पुर्यां मधुभुक् पञ्चालेषु स्वपार्षदैः । उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८ ॥
सः एव पुर्याम् मधु-भुज् पञ्चालेषु स्व-पार्षदैः । उपनीतम् बलिम् गृह्णन् स्त्री-जितः न अविदत् भयम् ॥ १८ ॥
saḥ eva puryām madhu-bhuj pañcāleṣu sva-pārṣadaiḥ . upanītam balim gṛhṇan strī-jitaḥ na avidat bhayam .. 18 ..
कालस्य दुहिता काचित्त्रिलोकीं वरमिच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥
कालस्य दुहिता काचिद् त्रिलोकीम् वरम् इच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥
kālasya duhitā kācid trilokīm varam icchatī . paryaṭantī na barhiṣman pratyanandata kaścana .. 19 ..
दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥
दौर्भाग्येन आत्मनः लोके विश्रुता दुर्भगा इति सा । या तुष्टा राजर्षये तु वृता अदात् पूरवे वरम् ॥ २० ॥
daurbhāgyena ātmanaḥ loke viśrutā durbhagā iti sā . yā tuṣṭā rājarṣaye tu vṛtā adāt pūrave varam .. 20 ..
कदाचिद् अटमाना सा ब्रह्मलोकान् महीं गतम् । वव्रे बृहद्व्रतं मां तु जानती काममोहिता ॥ २१ ॥
कदाचिद् अटमाना सा ब्रह्म-लोकात् महीम् गतम् । वव्रे बृहत्-व्रतम् माम् तु जानती काम-मोहिता ॥ २१ ॥
kadācid aṭamānā sā brahma-lokāt mahīm gatam . vavre bṛhat-vratam mām tu jānatī kāma-mohitā .. 21 ..
मयि संरभ्य विपुलं अदात् शापं सुदुःसहम् । स्थातुमर्हसि नैकत्र मद् याच्ञाविमुखो मुने ॥ २२ ॥
मयि संरभ्य विपुलम् अदात् शापम् सु दुःसहम् । स्थातुम् अर्हसि ना एकत्र मत् याच्ञा-विमुखः मुने ॥ २२ ॥
mayi saṃrabhya vipulam adāt śāpam su duḥsaham . sthātum arhasi nā ekatra mat yācñā-vimukhaḥ mune .. 22 ..
ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥
ततस् विहत-सङ्कल्पा कन्यका यवन-ईश्वरम् । मया उपदिष्टम् आसाद्य वव्रे नाम्ना भयम् पतिम् ॥ २३ ॥
tatas vihata-saṅkalpā kanyakā yavana-īśvaram . mayā upadiṣṭam āsādya vavre nāmnā bhayam patim .. 23 ..
ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्कल्पस्त्वयि भूतानां कृतः किल न रिष्यति ॥ २४ ॥
ऋषभम् यवनानाम् त्वाम् वृणे वीर-ईप्सितम् पतिम् । सङ्कल्पः त्वयि भूतानाम् कृतः किल न रिष्यति ॥ २४ ॥
ṛṣabham yavanānām tvām vṛṇe vīra-īpsitam patim . saṅkalpaḥ tvayi bhūtānām kṛtaḥ kila na riṣyati .. 24 ..
द्वौ इमौ अनुशोचन्ति बालौ असदवग्रहौ । यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥
द्वौ इमौ अनुशोचन्ति बालौ असत्-अवग्रहौ । यत् लोक-शास्त्र-उपनतम् न राति न तत् इच्छति ॥ २५ ॥
dvau imau anuśocanti bālau asat-avagrahau . yat loka-śāstra-upanatam na rāti na tat icchati .. 25 ..
अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यदार्तान् अनुकम्पते ॥ २६ ॥
अथो भजस्व माम् भद्र भजन्तीम् मे दयाम् कुरु । एतावान् पौरुषः धर्मः यत् आर्तान् अनुकम्पते ॥ २६ ॥
atho bhajasva mām bhadra bhajantīm me dayām kuru . etāvān pauruṣaḥ dharmaḥ yat ārtān anukampate .. 26 ..
कालकन्योदितवचो निशम्य यवनेश्वरः । चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥
काल-कन्या-उदित-वचः निशम्य यवन-ईश्वरः । चिकीर्षुः देव-गुह्यम् स स स्मितम् ताम् अभाषत ॥ २७ ॥
kāla-kanyā-udita-vacaḥ niśamya yavana-īśvaraḥ . cikīrṣuḥ deva-guhyam sa sa smitam tām abhāṣata .. 27 ..
मया निरूपितस्तुभ्यं पतिरात्मसमाधिना । नाभिनन्दति लोकोऽयं त्वां अभद्रां असम्मताम् ॥ २८ ॥
मया निरूपितः तुभ्यम् पतिः आत्म-समाधिना । न अभिनन्दति लोकः अयम् त्वाम् अभद्राम् अ सम्मताम् ॥ २८ ॥
mayā nirūpitaḥ tubhyam patiḥ ātma-samādhinā . na abhinandati lokaḥ ayam tvām abhadrām a sammatām .. 28 ..
त्वं अव्यक्तगतिर्भुङ्क्ष्व लोकं कर्मविनिर्मितम् । या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥
त्वम् अव्यक्त-गतिः भुङ्क्ष्व लोकम् कर्म-विनिर्मितम् । या हि मे पृतना-युक्ता प्रजा-नाशम् प्रणेष्यसि ॥ २९ ॥
tvam avyakta-gatiḥ bhuṅkṣva lokam karma-vinirmitam . yā hi me pṛtanā-yuktā prajā-nāśam praṇeṣyasi .. 29 ..
प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्युभाभ्यां लोकेऽस्मिन् अव्यक्तो भीमसैनिकः ॥ ३० ॥
प्रज्वारः अयम् मम भ्राता त्वम् च मे भगिनी भव । चरामि उभाभ्याम् लोके अस्मिन् अव्यक्तः भीम-सैनिकः ॥ ३० ॥
prajvāraḥ ayam mama bhrātā tvam ca me bhaginī bhava . carāmi ubhābhyām loke asmin avyaktaḥ bhīma-sainikaḥ .. 30 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने सप्तविंशोऽध्यायः ॥ २७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पुरंजन-उपाख्याने सप्तविंशः अध्यायः ॥ २७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe puraṃjana-upākhyāne saptaviṃśaḥ adhyāyaḥ .. 27 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In