| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

नारद उवाच - (अनुष्टुप्)
सैनिका भयनाम्नो ये बर्हिष्मन् दिन्दिष्टकारिणः । प्रज्वारकालकन्याभ्यां विचेरुः अवनीमिमाम् ॥ १ ॥
सैनिकाः भय-नाम्नः ये बर्हिष्मन् दिन्दिष्ट-कारिणः । प्रज्वार-कालकन्याभ्याम् विचेरुः अवनीम् इमाम् ॥ १ ॥
sainikāḥ bhaya-nāmnaḥ ye barhiṣman dindiṣṭa-kāriṇaḥ . prajvāra-kālakanyābhyām viceruḥ avanīm imām .. 1 ..
ते एकदा तु रभसा पुरञ्जनपुरीं नृप । रुरुधुर्भौमभोगाढ्यां जरत्पन्नगपालिताम् ॥ २ ॥
ते एकदा तु रभसा पुरञ्जन-पुरीम् नृप । रुरुधुः भौम-भोग-आढ्याम् जरत्-पन्नग-पालिताम् ॥ २ ॥
te ekadā tu rabhasā purañjana-purīm nṛpa . rurudhuḥ bhauma-bhoga-āḍhyām jarat-pannaga-pālitām .. 2 ..
कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् । ययाभिभूतः पुरुषः सद्यो निःसारतामियात् ॥ ३ ॥
कालकन्या अपि बुभुजे पुरञ्जन-पुरम् बलात् । यया अभिभूतः पुरुषः सद्यस् निःसार-ताम् इयात् ॥ ३ ॥
kālakanyā api bubhuje purañjana-puram balāt . yayā abhibhūtaḥ puruṣaḥ sadyas niḥsāra-tām iyāt .. 3 ..
तयोपभुज्यमानां वै यवनाः सर्वतोदिशम् । द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥
तया उपभुज्यमानाम् वै यवनाः सर्वतोदिशम् । द्वार्भिः प्रविश्य सु भृशम् प्रार्दयन् सकलाम् पुरीम् ॥ ४ ॥
tayā upabhujyamānām vai yavanāḥ sarvatodiśam . dvārbhiḥ praviśya su bhṛśam prārdayan sakalām purīm .. 4 ..
तस्यां प्रपीड्यमानायां अभिमानी पुरञ्जनः । अवापोरुविधान् तापान् कुटुम्बी ममताकुलः ॥ ५ ॥
तस्याम् प्रपीड्यमानायाम् अभिमानी पुरञ्जनः । अवाप उरुविधान् तापान् कुटुम्बी ममता-आकुलः ॥ ५ ॥
tasyām prapīḍyamānāyām abhimānī purañjanaḥ . avāpa uruvidhān tāpān kuṭumbī mamatā-ākulaḥ .. 5 ..
कन्योपगूढो नष्टश्रीः कृपणो विषयात्मकः । नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ॥ ६ ॥
कन्या-उपगूढः नष्ट-श्रीः कृपणः विषय-आत्मकः । नष्ट-प्रज्ञः हृत-ऐश्वर्यः गन्धर्व-यवनैः बलात् ॥ ॥ ६ ॥
kanyā-upagūḍhaḥ naṣṭa-śrīḥ kṛpaṇaḥ viṣaya-ātmakaḥ . naṣṭa-prajñaḥ hṛta-aiśvaryaḥ gandharva-yavanaiḥ balāt .. .. 6 ..
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् । पुत्रान् पौत्रानुगामात्यान् जायां च गतसौहृदाम् ॥ ७ ॥
विशीर्णाम् स्व-पुरीम् वीक्ष्य प्रतिकूल-आनन-आदृतान् । पुत्रान् पौत्र-अनुग-अमात्यान् जायाम् च गत-सौहृदाम् ॥ ७ ॥
viśīrṇām sva-purīm vīkṣya pratikūla-ānana-ādṛtān . putrān pautra-anuga-amātyān jāyām ca gata-sauhṛdām .. 7 ..
आत्मानं कन्यया ग्रस्तं पञ्चालान् अरिदूषितान् । दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥
आत्मानम् कन्यया ग्रस्तम् पञ्चालान् अरि-दूषितान् । दुरन्त-चिन्ताम् आपन्नः न लेभे तद्-प्रतिक्रियाम् ॥ ८ ॥
ātmānam kanyayā grastam pañcālān ari-dūṣitān . duranta-cintām āpannaḥ na lebhe tad-pratikriyām .. 8 ..
कामानभिलषन्दीनो यातयामांश्च कन्यया । विगतात्मगतिस्नेहः पुत्रदारांश्च लालयन् ॥ ९ ॥
कामान् अभिलषन् दीनः यातयामान् च कन्यया । विगत-आत्म-गति-स्नेहः पुत्र-दारान् च लालयन् ॥ ९ ॥
kāmān abhilaṣan dīnaḥ yātayāmān ca kanyayā . vigata-ātma-gati-snehaḥ putra-dārān ca lālayan .. 9 ..
गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीमनिकामतः ॥ १० ॥
गन्धर्व-यवन-आक्रान्ताम् कालकन्या-उपमर्दिताम् । हातुम् प्रचक्रमे राजा ताम् पुरीम् अनिकामतः ॥ १० ॥
gandharva-yavana-ākrāntām kālakanyā-upamarditām . hātum pracakrame rājā tām purīm anikāmataḥ .. 10 ..
भयनाम्नोऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह तां पुरीं कृत्स्नां भ्रातुः प्रियचिकीर्षया ॥ ११ ॥
भय-नाम्नः अग्रजः भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह ताम् पुरीम् कृत्स्नाम् भ्रातुः प्रिय-चिकीर्षया ॥ ११ ॥
bhaya-nāmnaḥ agrajaḥ bhrātā prajvāraḥ pratyupasthitaḥ . dadāha tām purīm kṛtsnām bhrātuḥ priya-cikīrṣayā .. 11 ..
तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः । कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ १२ ॥
तस्याम् सन्दह्यमानायाम् स पौरः स परिच्छदः । कौटुम्बिकः कुटुम्बिन्याः उपातप्यत स अन्वयः ॥ १२ ॥
tasyām sandahyamānāyām sa pauraḥ sa paricchadaḥ . kauṭumbikaḥ kuṭumbinyāḥ upātapyata sa anvayaḥ .. 12 ..
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया । पुर्यां प्रज्वारसंसृष्टः पुरपालोऽन्वतप्यत ॥ १३ ॥
यवन-उपरुद्ध-आयतनः ग्रस्तायाम् कालकन्यया । पुर्याम् प्रज्वार-संसृष्टः पुरपालः अन्वतप्यत ॥ १३ ॥
yavana-uparuddha-āyatanaḥ grastāyām kālakanyayā . puryām prajvāra-saṃsṛṣṭaḥ purapālaḥ anvatapyata .. 13 ..
न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथुः । गन्तुमैच्छत्ततो वृक्ष कोटरादिव सानलात् ॥ १४ ॥
न शेके सः अवितुम् तत्र पुरु-कृच्छ्र-उरु-वेपथुः । गन्तुम् ऐच्छत् ततस् वृक्ष कोटरात् इव स अनलात् ॥ १४ ॥
na śeke saḥ avitum tatra puru-kṛcchra-uru-vepathuḥ . gantum aicchat tatas vṛkṣa koṭarāt iva sa analāt .. 14 ..
शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुषः । यवनैररिभी राजन् उपरुद्धो रुरोद ह ॥ १५ ॥
शिथिल-अवयवः यर्हि गन्धर्वैः हृत-पौरुषः । यवनैः अरिभिः राजन् उपरुद्धः रुरोद ह ॥ १५ ॥
śithila-avayavaḥ yarhi gandharvaiḥ hṛta-pauruṣaḥ . yavanaiḥ aribhiḥ rājan uparuddhaḥ ruroda ha .. 15 ..
दुहितॄ पुत्रपौत्रांश्च जामिजामातृपार्षदान् । स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥
दुहितॄ पुत्र-पौत्रान् च जामि-जामातृ-पार्षदान् । स्व-त्व-अवशिष्टम् यत् किञ्चिद् गृह-कोश-परिच्छदम् ॥ १६ ॥
duhitṝ putra-pautrān ca jāmi-jāmātṛ-pārṣadān . sva-tva-avaśiṣṭam yat kiñcid gṛha-kośa-paricchadam .. 16 ..
अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥
अहम् मम इति स्वीकृत्य गृहेषु कुमतिः गृही । दध्यौ प्रमदया दीनः विप्रयोगे उपस्थिते ॥ १७ ॥
aham mama iti svīkṛtya gṛheṣu kumatiḥ gṛhī . dadhyau pramadayā dīnaḥ viprayoge upasthite .. 17 ..
लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी । वर्तिष्यते कथं त्वेषा बालकान् अनुशोचती ॥ १८ ॥
लोक-अन्तरम् गतवति मयि अनाथा कुटुम्बिनी । वर्तिष्यते कथम् तु एषा बालकान् अनुशोचती ॥ १८ ॥
loka-antaram gatavati mayi anāthā kuṭumbinī . vartiṣyate katham tu eṣā bālakān anuśocatī .. 18 ..
न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥
न मयि अनाशिते भुङ्क्ते न अस्नाते स्नाति मद्-परा । मयि रुष्टे सु सन्त्रस्ता भर्त्सिते यत-वाच्-भयात् ॥ १९ ॥
na mayi anāśite bhuṅkte na asnāte snāti mad-parā . mayi ruṣṭe su santrastā bhartsite yata-vāc-bhayāt .. 19 ..
प्रबोधयति माविज्ञं व्युषिते शोककर्शिता । वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥
प्रबोधयति मा अ विज्ञम् व्युषिते शोक-कर्शिता । वर्त्म एतत् गृहमेधीयम् वीरसूः अपि नेष्यति ॥ २० ॥
prabodhayati mā a vijñam vyuṣite śoka-karśitā . vartma etat gṛhamedhīyam vīrasūḥ api neṣyati .. 20 ..
कथं नु दारका दीना दारकीर्वापरायणाः । वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥
कथम् नु दारकाः दीनाः दारकीः वा अपरायणाः । वर्तिष्यन्ते मयि गते भिन्न-नअवः इव उदधौ ॥ २१ ॥
katham nu dārakāḥ dīnāḥ dārakīḥ vā aparāyaṇāḥ . vartiṣyante mayi gate bhinna-naavaḥ iva udadhau .. 21 ..
एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् । ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥
एवम् कृपणया बुद्ध्या शोचन्तम् अ तद्-अर्हणम् । ग्रहीतुम् कृत-धीः एनम् भय-नामा अभ्यपद्यत ॥ २२ ॥
evam kṛpaṇayā buddhyā śocantam a tad-arhaṇam . grahītum kṛta-dhīḥ enam bhaya-nāmā abhyapadyata .. 22 ..
पशुवद्यवनैरेष नीयमानः स्वकं क्षयम् । अन्वद्रवन्ननुपथाः शोचन्तो भृशमातुराः ॥ २३ ॥
पशु-वत् यवनैः एष नीयमानः स्वकम् क्षयम् । अन्वद्रवन् अनुपथाः शोचन्तः भृशम् आतुराः ॥ २३ ॥
paśu-vat yavanaiḥ eṣa nīyamānaḥ svakam kṣayam . anvadravan anupathāḥ śocantaḥ bhṛśam āturāḥ .. 23 ..
पुरीं विहायोपगत उपरुद्धो भुजङ्गमः । यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥
पुरीम् विहाय उपगतः उपरुद्धः भुजङ्गमः । यदा तम् एव अनु पुरी विशीर्णा प्रकृतिम् गता ॥ २४ ॥
purīm vihāya upagataḥ uparuddhaḥ bhujaṅgamaḥ . yadā tam eva anu purī viśīrṇā prakṛtim gatā .. 24 ..
विकृष्यमाणः प्रसभं यवनेन बलीयसा । नाविन्दत्तमसाऽऽविष्टः सखायं सुहृदं पुरः ॥ २५ ॥
विकृष्यमाणः प्रसभम् यवनेन बलीयसा । न अविन्दत् तमसा आविष्टः सखायम् सुहृदम् पुरस् ॥ २५ ॥
vikṛṣyamāṇaḥ prasabham yavanena balīyasā . na avindat tamasā āviṣṭaḥ sakhāyam suhṛdam puras .. 25 ..
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना । कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥
तम् यज्ञ-पशवः अनेन संज्ञप्ताः ये अ दयालुना । कुठारैः चिच्छिदुः क्रुद्धाः स्मरन्तः अमीवम् अस्य तत् ॥ २६ ॥
tam yajña-paśavaḥ anena saṃjñaptāḥ ye a dayālunā . kuṭhāraiḥ cicchiduḥ kruddhāḥ smarantaḥ amīvam asya tat .. 26 ..
अनन्तपारे तमसि मग्नो नष्टस्मृतिः समाः । शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषितः ॥ २७ ॥
अनन्त-पारे तमसि मग्नः नष्ट-स्मृतिः समाः । शाश्वतीः अनुभूय आर्तिम् प्रमदा-सङ्ग-दूषितः ॥ २७ ॥
ananta-pāre tamasi magnaḥ naṣṭa-smṛtiḥ samāḥ . śāśvatīḥ anubhūya ārtim pramadā-saṅga-dūṣitaḥ .. 27 ..
तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥
ताम् एव मनसा गृह्णन् बभूव प्रमदा-उत्तमा । अनन्तरम् विदर्भस्य राज-सिंहस्य वेश्मनि ॥ २८ ॥
tām eva manasā gṛhṇan babhūva pramadā-uttamā . anantaram vidarbhasya rāja-siṃhasya veśmani .. 28 ..
उपयेमे वीर्यपणां वैदर्भीं मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९ ॥
उपयेमे वीर्य-पणाम् वैदर्भीम् मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः परपुरञ्जयः ॥ २९ ॥
upayeme vīrya-paṇām vaidarbhīm malayadhvajaḥ . yudhi nirjitya rājanyān pāṇḍyaḥ parapurañjayaḥ .. 29 ..
तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविडभूभृतः ॥ ३० ॥
तस्याम् स चक्रे आत्मजाम् असित-ईक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः ॥ ३० ॥
tasyām sa cakre ātmajām asita-īkṣaṇām . yavīyasaḥ sapta sutān sapta draviḍa-bhūbhṛtaḥ .. 30 ..
एकैकस्याभवत्तेषां राजन् अर्बुदमर्बुदम् । भोक्ष्यते यद्वंशधरैः मही मन्वन्तरं परम् ॥ ३१ ॥
एकैकस्य अभवत् तेषाम् राजन् अर्बुदम् अर्बुदम् । भोक्ष्यते यद्-वंश-धरैः मही मन्वन्तरम् परम् ॥ ३१ ॥
ekaikasya abhavat teṣām rājan arbudam arbudam . bhokṣyate yad-vaṃśa-dharaiḥ mahī manvantaram param .. 31 ..
अगस्त्यः प्राग्दुहितरं उपयेमे धृतव्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ ३२ ॥
अगस्त्यः प्राच्-दुहितरम् उपयेमे धृतव्रताम् । यस्याम् दृढ-च्युतः जातः इध्मवाह-आत्मजः मुनिः ॥ ३२ ॥
agastyaḥ prāc-duhitaram upayeme dhṛtavratām . yasyām dṛḍha-cyutaḥ jātaḥ idhmavāha-ātmajaḥ muniḥ .. 32 ..
विभज्य तनयेभ्यः क्ष्मां राजर्षिर्मलयध्वजः । आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥
विभज्य तनयेभ्यः क्ष्माम् राजर्षिः मलयध्वजः । आरिराधयिषुः कृष्णम् स जगाम कुल-अचलम् ॥ ३३ ॥
vibhajya tanayebhyaḥ kṣmām rājarṣiḥ malayadhvajaḥ . ārirādhayiṣuḥ kṛṣṇam sa jagāma kula-acalam .. 33 ..
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरा-ईक्षणा । अन्वधावत पाण्ड्य-ईशम् ज्योत्स्ना इव रजनीकरम् ॥ ३४ ॥
hitvā gṛhān sutān bhogān vaidarbhī madirā-īkṣaṇā . anvadhāvata pāṇḍya-īśam jyotsnā iva rajanīkaram .. 34 ..
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्पुण्यसलिलैर्नित्यं उभयत्रात्मनो मृजन् ॥ ३५ ॥
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तद्-पुण्य-सलिलैः नित्यम् उभयत्र आत्मनः मृजन् ॥ ३५ ॥
tatra candravasā nāma tāmraparṇī vaṭodakā . tad-puṇya-salilaiḥ nityam ubhayatra ātmanaḥ mṛjan .. 35 ..
कन्दाष्टिभिर्मूलफलैः पुष्पपर्णैस्तृणोदकैः । वर्तमानः शनैर्गात्र कर्शनं तप आस्थितः ॥ ३६ ॥
कन्द-अष्टिभिः मूल-फलैः पुष्प-पर्णैः तृण-उदकैः । वर्तमानः शनैस् गात्र कर्शनम् तपः आस्थितः ॥ ३६ ॥
kanda-aṣṭibhiḥ mūla-phalaiḥ puṣpa-parṇaiḥ tṛṇa-udakaiḥ . vartamānaḥ śanais gātra karśanam tapaḥ āsthitaḥ .. 36 ..
शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये । सुखदुःखे इति द्वन्द्वान्यजयत्समदर्शनः ॥ ३७ ॥
शीत-उष्ण-वात-वर्षाणि क्षुध्-पिपासे प्रिय-अप्रिये । सुख-दुःखे इति द्वन्द्वानि अजयत् समदर्शनः ॥ ३७ ॥
śīta-uṣṇa-vāta-varṣāṇi kṣudh-pipāse priya-apriye . sukha-duḥkhe iti dvandvāni ajayat samadarśanaḥ .. 37 ..
तपसा विद्यया पक्व कषायो नियमैर्यमैः । युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशयः ॥ ३८ ॥
तपसा विद्यया कषायः नियमैः यमैः । युयुजे ब्रह्मणि आत्मानम् विजित-अक्ष-अनिल-आशयः ॥ ३८ ॥
tapasā vidyayā kaṣāyaḥ niyamaiḥ yamaiḥ . yuyuje brahmaṇi ātmānam vijita-akṣa-anila-āśayaḥ .. 38 ..
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिरः । वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ ३९ ॥
आस्ते स्थाणुः इव एकत्र दिव्यम् वर्ष-शतम् स्थिरः । वासुदेवे भगवति न अन्यत् वेद उद्वहन् रतिम् ॥ ३९ ॥
āste sthāṇuḥ iva ekatra divyam varṣa-śatam sthiraḥ . vāsudeve bhagavati na anyat veda udvahan ratim .. 39 ..
स व्यापकतयाऽऽत्मानं व्यतिरिक्ततयाऽऽत्मनि । विद्वान्स्वप्न इवामर्श साक्षिणं विरराम ह ॥ ४० ॥
स व्यापक-तया आत्मानम् व्यतिरिक्त-तया आत्मनि । विद्वान् स्वप्ने इव आमर्श साक्षिणम् विरराम ह ॥ ४० ॥
sa vyāpaka-tayā ātmānam vyatirikta-tayā ātmani . vidvān svapne iva āmarśa sākṣiṇam virarāma ha .. 40 ..
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥
साक्षात् भगवता उक्तेन गुरुणा हरिणा नृप । विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥
sākṣāt bhagavatā uktena guruṇā hariṇā nṛpa . viśuddha-jñāna-dīpena sphuratā viśvatomukham .. 41 ..
परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षां अस्माद् उपरराम ह ॥ ४२ ॥
परे ब्रह्मणि च आत्मानम् परम् ब्रह्म तथा आत्मनि । वीक्षमाणः विहाय ईक्षाम् अस्मात् उपरराम ह ॥ ४२ ॥
pare brahmaṇi ca ātmānam param brahma tathā ātmani . vīkṣamāṇaḥ vihāya īkṣām asmāt upararāma ha .. 42 ..
पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद्धित्वा भोगान् सा पतिदेवता ॥ ४३ ॥
पतिम् परम-धर्म-ज्ञम् वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरत् हित्वा भोगान् सा पति-देवता ॥ ४३ ॥
patim parama-dharma-jñam vaidarbhī malayadhvajam . premṇā paryacarat hitvā bhogān sā pati-devatā .. 43 ..
चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा । बभावुपपतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥
चीर-वासाः व्रत-क्षामा वेणी-भूत-शिरोरुहा । बभौ उपपतिम् शान्ता शिखा शान्तम् इव अनलम् ॥ ४४ ॥
cīra-vāsāḥ vrata-kṣāmā veṇī-bhūta-śiroruhā . babhau upapatim śāntā śikhā śāntam iva analam .. 44 ..
अजानती प्रियतमं यदोपरतमङ्गना । सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥
अ जानती प्रियतमम् यदा उपरतम् अङ्गना । सु स्थिर-आसनम् आसाद्य यथापूर्वम् उपाचरत् ॥ ४५ ॥
a jānatī priyatamam yadā uparatam aṅganā . su sthira-āsanam āsādya yathāpūrvam upācarat .. 45 ..
यदा नोपलभेताङ्घ्रौ ऊष्माणं पत्युरर्चती । आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥
यदा न उपलभेत अङ्घ्रौ ऊष्माणम् पत्युः अर्चती । आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा ॥ ४६ ॥
yadā na upalabheta aṅghrau ūṣmāṇam patyuḥ arcatī . āsīt saṃvigna-hṛdayā yūtha-bhraṣṭā mṛgī yathā .. 46 ..
आत्मानं शोचती दीनं अबन्धुं विक्लवाश्रुभिः । स्तनौ आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥
आत्मानम् शोचती दीनम् अबन्धुम् विक्लव-अश्रुभिः । स्तनौ आसिच्य विपिने सु स्वरम् प्ररुरोद सा ॥ ४७ ॥
ātmānam śocatī dīnam abandhum viklava-aśrubhiḥ . stanau āsicya vipine su svaram praruroda sā .. 47 ..
उत्तिष्ठोत्तिष्ठ राजर्षे इमां उदधिमेखलाम् । दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥
उत्तिष्ठ उत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् । दस्युभ्यः क्षत्रबन्धुभ्यः बिभ्यतीम् पातुम् अर्हसि ॥ ४८ ॥
uttiṣṭha uttiṣṭha rājarṣe imām udadhi-mekhalām . dasyubhyaḥ kṣatrabandhubhyaḥ bibhyatīm pātum arhasi .. 48 ..
एवं विलपन्ती बाला विपिनेऽनुगता पतिम् । पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥
एवम् विलपन्ती बाला विपिने अनुगता पतिम् । पतिता पादयोः भर्तुः रुदती अश्रूणि अवर्तयत् ॥ ४९ ॥
evam vilapantī bālā vipine anugatā patim . patitā pādayoḥ bhartuḥ rudatī aśrūṇi avartayat .. 49 ..
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥
चितिम् दारु-मयीम् चित्वा तस्याम् पत्युः कलेवरम् । आदीप्य च अनुमरणे विलपन्ती मनः दधे ॥ ५० ॥
citim dāru-mayīm citvā tasyām patyuḥ kalevaram . ādīpya ca anumaraṇe vilapantī manaḥ dadhe .. 50 ..
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥
तत्र पूर्वतरः कश्चिद् सखा ब्राह्मणः आत्मवान् । सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीम् प्रभो ॥ ५१ ॥
tatra pūrvataraḥ kaścid sakhā brāhmaṇaḥ ātmavān . sāntvayan valgunā sāmnā tām āha rudatīm prabho .. 51 ..
ब्राह्मण उवाच -
का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥
का त्वम् कस्य असि कः वा अयम् शयानः यस्य शोचसि । जानासि किम् सखायम् माम् येन अग्रे विचचर्थ ह ॥ ५२ ॥
kā tvam kasya asi kaḥ vā ayam śayānaḥ yasya śocasi . jānāsi kim sakhāyam mām yena agre vicacartha ha .. 52 ..
अपि स्मरसि चात्मानं अविज्ञातसखं सखे । हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः ॥ ५३ ॥
अपि स्मरसि च आत्मानम् अ विज्ञात-सखम् सखे । हित्वा माम् पदम् अन्विच्छन् भौम-भोग-रतः गतः ॥ ५३ ॥
api smarasi ca ātmānam a vijñāta-sakham sakhe . hitvā mām padam anvicchan bhauma-bhoga-rataḥ gataḥ .. 53 ..
हंसावहं च त्वं चार्य सखायौ मानसायनौ । अभूतामन्तरा वौकः सहस्रपरिवत्सरान् ॥ ५४ ॥
हंसावहम् च त्वम् च आर्य सखायौ मानसायनौ । अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान् ॥ ५४ ॥
haṃsāvaham ca tvam ca ārya sakhāyau mānasāyanau . abhūtām antarā vaukaḥ sahasra-parivatsarān .. 54 ..
स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् । विचरन् पदमद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ ५५ ॥
स त्वम् विहाय माम् बन्धो गतः ग्राम्य-मतिः महीम् । विचरन् पदम् अद्राक्षीः कयाचिद् निर्मितम् स्त्रिया ॥ ५५ ॥
sa tvam vihāya mām bandho gataḥ grāmya-matiḥ mahīm . vicaran padam adrākṣīḥ kayācid nirmitam striyā .. 55 ..
पञ्चारामं नवद्वारं एकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥
पञ्च-आरामम् नव-द्वारम् एक-पालम् त्रि-कोष्ठकम् । षष्-कुलम् पञ्च-विपणम् पञ्च-प्रकृति स्त्रीधवम् ॥ ५६ ॥
pañca-ārāmam nava-dvāram eka-pālam tri-koṣṭhakam . ṣaṣ-kulam pañca-vipaṇam pañca-prakṛti strīdhavam .. 56 ..
पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः ॥ ५७ ॥
पञ्च-इन्द्रिय-अर्थाः आरामाः द्वारः प्राणाः नव प्रभो । कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः ॥ ५७ ॥
pañca-indriya-arthāḥ ārāmāḥ dvāraḥ prāṇāḥ nava prabho . koṣṭhāni kulam indriya-saṅgrahaḥ .. 57 ..
विपणस्तु क्रियाशक्तिः भूतप्रकृतिरव्यया । शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥
विपणः तु क्रियाशक्तिः भूतप्रकृतिः अव्यया । शक्ति-अधीशः पुमान् तु अत्र प्रविष्टः न अवबुध्यते ॥ ५८ ॥
vipaṇaḥ tu kriyāśaktiḥ bhūtaprakṛtiḥ avyayā . śakti-adhīśaḥ pumān tu atra praviṣṭaḥ na avabudhyate .. 58 ..
तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः । तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥
तस्मिन् त्वम् रामया स्पृष्टः रममाणः अश्रुत-स्मृतिः । तद्-सङ्गात् ईदृशीम् प्राप्तः दशाम् पापीयसीम् प्रभो ॥ ५९ ॥
tasmin tvam rāmayā spṛṣṭaḥ ramamāṇaḥ aśruta-smṛtiḥ . tad-saṅgāt īdṛśīm prāptaḥ daśām pāpīyasīm prabho .. 59 ..
न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव । न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया । ॥ ६० ॥
न त्वम् विदर्भ-दुहिता न अयम् वीरः सुहृद् तव । न पतिः त्वम् पुरञ्जन्याः रुद्धः नव-मुखे यया । ॥ ६० ॥
na tvam vidarbha-duhitā na ayam vīraḥ suhṛd tava . na patiḥ tvam purañjanyāḥ ruddhaḥ nava-mukhe yayā . .. 60 ..
माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् । ॥ ६१ ॥
माया हि एषा मया सृष्टा यत् पुमांसम् स्त्रियम् सतीम् । मन्यसे ना उभयम् यत् वै हंसौ पश्य आवयोः गतिम् । ॥ ६१ ॥
māyā hi eṣā mayā sṛṣṭā yat pumāṃsam striyam satīm . manyase nā ubhayam yat vai haṃsau paśya āvayoḥ gatim . .. 61 ..
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयः छिद्रं जातु मनागपि । ॥ ६२ ॥
अहम् भवान् न च अन्यः त्वम् त्वम् एव अहम् विचक्ष्व भोः । न नौ पश्यन्ति कवयः छिद्रम् जातु मनाक् अपि । ॥ ६२ ॥
aham bhavān na ca anyaḥ tvam tvam eva aham vicakṣva bhoḥ . na nau paśyanti kavayaḥ chidram jātu manāk api . .. 62 ..
यथा पुरुष आत्मानं एकं आदर्शचक्षुषोः । द्विधाभूतमवेक्षेत तथैवान्तरमावयोः । ॥ ६३ ॥
यथा पुरुषः आत्मानम् एकम् आदर्श-चक्षुषोः । द्विधा भूतम् अवेक्षेत तथा एव अन्तरम् आवयोः । ॥ ६३ ॥
yathā puruṣaḥ ātmānam ekam ādarśa-cakṣuṣoḥ . dvidhā bhūtam avekṣeta tathā eva antaram āvayoḥ . .. 63 ..
एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम् । ॥ ६४ ॥
एवम् स मानसः हंसः हंसेन प्रतिबोधितः । स्वस्थः तद्-व्यभिचारेण नष्टाम् आप पुनर् स्मृतिम् । ॥ ६४ ॥
evam sa mānasaḥ haṃsaḥ haṃsena pratibodhitaḥ . svasthaḥ tad-vyabhicāreṇa naṣṭām āpa punar smṛtim . .. 64 ..
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत्परोक्षप्रियो देवो भगवान्विश्वभावनः । ॥ ६५ ॥
बर्हिष्मन् एतत् अध्यात्मम् पारोक्ष्येण प्रदर्शितम् । यद्-परोक्ष-प्रियः देवः भगवान् विश्वभावनः । ॥ ६५ ॥
barhiṣman etat adhyātmam pārokṣyeṇa pradarśitam . yad-parokṣa-priyaḥ devaḥ bhagavān viśvabhāvanaḥ . .. 65 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने अष्टाविंशोऽध्यायः ॥ २८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे पुरंजन-उपाख्याने अष्टाविंशः अध्यायः ॥ २८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe puraṃjana-upākhyāne aṣṭāviṃśaḥ adhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In