| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
सदा विद्विषतोरेवं कालो वै ध्रियमाणयोः । जामातुः श्वशुरस्यापि सुमहानतिचक्रमे ॥ १ ॥
सदा विद्विषतोः एवम् कालः वै ध्रियमाणयोः । जामातुः श्वशुरस्य अपि सु महान् अतिचक्रमे ॥ १ ॥
sadā vidviṣatoḥ evam kālaḥ vai dhriyamāṇayoḥ . jāmātuḥ śvaśurasya api su mahān aticakrame .. 1 ..
यदाभिषिक्तो दक्षस्तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषां आधिपत्ये स्मयोऽभवत् ॥ २ ॥
यदा अभिषिक्तः दक्षः तु ब्रह्मणा परमेष्ठिना । प्रजापतीनाम् सर्वेषाम् आधिपत्ये स्मयः अभवत् ॥ २ ॥
yadā abhiṣiktaḥ dakṣaḥ tu brahmaṇā parameṣṭhinā . prajāpatīnām sarveṣām ādhipatye smayaḥ abhavat .. 2 ..
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठानभिभूय च । बृहस्पतिसवं नाम समारेभे क्रतूत्तमम् ॥ ३ ॥
इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च । बृहस्पतिसवम् नाम समारेभे क्रतु-उत्तमम् ॥ ३ ॥
iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca . bṛhaspatisavam nāma samārebhe kratu-uttamam .. 3 ..
तस्मिन् ब्रह्मर्षयः सर्वे देवर्षिपितृदेवताः । आसन् कृतस्वस्त्ययनाः तत्पत्न्यश्च सभर्तृकाः ॥ ४ ॥
तस्मिन् ब्रह्मर्षयः सर्वे देव-ऋषि-पितृ-देवताः । आसन् कृत-स्वस्त्ययनाः तद्-पत्न्यः च स भर्तृकाः ॥ ४ ॥
tasmin brahmarṣayaḥ sarve deva-ṛṣi-pitṛ-devatāḥ . āsan kṛta-svastyayanāḥ tad-patnyaḥ ca sa bhartṛkāḥ .. 4 ..
तदुपश्रुत्य नभसि खेचराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृयज्ञमहोत्सवम् ॥ ५ ॥
तत् उपश्रुत्य नभसि खेचराणाम् प्रजल्पताम् । सती दाक्षायणी देवी पितृ-यज्ञ-महा-उत्सवम् ॥ ५ ॥
tat upaśrutya nabhasi khecarāṇām prajalpatām . satī dākṣāyaṇī devī pitṛ-yajña-mahā-utsavam .. 5 ..
व्रजन्तीः सर्वतो दिग्भ्य उपदेववरस्त्रियः । विमानयानाः सप्रेष्ठा निष्ककण्ठीः सुवाससः ॥ ॥ ६ ॥
व्रजन्तीः सर्वतस् दिग्भ्यः उपदेव-वर-स्त्रियः । विमान-यानाः स प्रेष्ठाः निष्क-कण्ठीः सु वाससः ॥ ॥ ६ ॥
vrajantīḥ sarvatas digbhyaḥ upadeva-vara-striyaḥ . vimāna-yānāḥ sa preṣṭhāḥ niṣka-kaṇṭhīḥ su vāsasaḥ .. .. 6 ..
दृष्ट्वा स्वनिलयाभ्याशे लोलाक्षीर्मृष्टकुण्डलाः । पतिं भूतपतिं देवं औत्सुक्यादभ्यभाषत ॥ ७ ॥
दृष्ट्वा स्व-निलय-अभ्याशे लोल-अक्षीः मृष्ट-कुण्डलाः । पतिम् भूतपतिम् देवम् औत्सुक्यात् अभ्यभाषत ॥ ७ ॥
dṛṣṭvā sva-nilaya-abhyāśe lola-akṣīḥ mṛṣṭa-kuṇḍalāḥ . patim bhūtapatim devam autsukyāt abhyabhāṣata .. 7 ..
सत्युवाच -
प्रजापतेस्ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञमहोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्यर्थितामी विबुधा व्रजन्ति हि ॥ ८ ॥ तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः
प्रजापतेः ते श्वशुरस्य साम्प्रतम् निर्यापितः यज्ञ-महा-उत्सवः किल । वयम् च तत्र अभिसराम वाम ते यदि अर्थिता अमी विबुधाः व्रजन्ति हि ॥ ८ ॥ तस्मिन् भगिन्यः मम भर्तृभिः स्वकैः
prajāpateḥ te śvaśurasya sāmpratam niryāpitaḥ yajña-mahā-utsavaḥ kila . vayam ca tatra abhisarāma vāma te yadi arthitā amī vibudhāḥ vrajanti hi .. 8 .. tasmin bhaginyaḥ mama bhartṛbhiḥ svakaiḥ
तस्मिन् भगिन्यो मम भर्तृभिः स्वकैः ध्रुवं गमिष्यन्ति सुहृद्दिदृक्षवः । अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हमर्हितुम् ॥ ९ ॥
तस्मिन् भगिन्यः मम भर्तृभिः स्वकैः ध्रुवम् गमिष्यन्ति सुहृद्-दिदृक्षवः । अहम् च तस्मिन् भवता अभिकामये सह उपनीतम् परिबर्हम् अर्हितुम् ॥ ९ ॥
tasmin bhaginyaḥ mama bhartṛbhiḥ svakaiḥ dhruvam gamiṣyanti suhṛd-didṛkṣavaḥ . aham ca tasmin bhavatā abhikāmaye saha upanītam paribarham arhitum .. 9 ..
तत्र स्वसॄर्मे ननु भर्तृसम्मिता मातृष्वसॄः क्लिन्नधियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठमना महर्षिभिः उन्नीयमानं च मृडाध्वरध्वजम् ॥ १० ॥
तत्र स्वसॄः मे ननु भर्तृ-सम्मिताः मातृष्वसॄः क्लिन्न-धियम् च मातरम् । द्रक्ष्ये चिर-उत्कण्ठ-मनाः महा-ऋषिभिः उन्नीयमानम् च मृड-अध्वर-ध्वजम् ॥ १० ॥
tatra svasṝḥ me nanu bhartṛ-sammitāḥ mātṛṣvasṝḥ klinna-dhiyam ca mātaram . drakṣye cira-utkaṇṭha-manāḥ mahā-ṛṣibhiḥ unnīyamānam ca mṛḍa-adhvara-dhvajam .. 10 ..
त्वय्येतदाश्चर्यमजात्ममायया विनिर्मितं भाति गुणत्रयात्मकम् । तथाप्यहं योषिदतत्त्वविच्च ते दीना दिदृक्षे भव मे भवक्षितिम् ॥ ११ ॥
त्वयि एतत् आश्चर्यम् अज-आत्म-मायया विनिर्मितम् भाति गुणत्रय-आत्मकम् । तथा अपि अहम् योषित्-अ तत्त्व-विद् च ते दीना दिदृक्षे भव मे भव-क्षितिम् ॥ ११ ॥
tvayi etat āścaryam aja-ātma-māyayā vinirmitam bhāti guṇatraya-ātmakam . tathā api aham yoṣit-a tattva-vid ca te dīnā didṛkṣe bhava me bhava-kṣitim .. 11 ..
पश्य प्रयान्तीरभवान्ययोषितो ऽप्यलङ्कृताः कान्तसखा वरूथशः । यासां व्रजद्भिः शितिकण्ठ मण्डितं नभो विमानैः कलहंसपाण्डुभिः ॥ १२ ॥
पश्य प्रयान्तीः अभव-अन्य-योषितः अपि अलङ्कृताः कान्त-सखाः वरूथशस् । यासाम् व्रजद्भिः शितिकण्ठ मण्डितम् नभः विमानैः कलहंस-पाण्डुभिः ॥ १२ ॥
paśya prayāntīḥ abhava-anya-yoṣitaḥ api alaṅkṛtāḥ kānta-sakhāḥ varūthaśas . yāsām vrajadbhiḥ śitikaṇṭha maṇḍitam nabhaḥ vimānaiḥ kalahaṃsa-pāṇḍubhiḥ .. 12 ..
कथं सुतायाः पितृगेहकौतुकं निशम्य देहः सुरवर्य नेङ्गते । अनाहुता अप्यभियन्ति सौहृदं भर्तुर्गुरोर्देहकृतश्च केतनम् ॥ १३ ॥
कथम् सुतायाः पितृ-गेह-कौतुकम् निशम्य देहः सुर-वर्य ना इङ्गते । अन् आहुताः अपि अभियन्ति सौहृदम् भर्तुः गुरोः देहकृतः च केतनम् ॥ १३ ॥
katham sutāyāḥ pitṛ-geha-kautukam niśamya dehaḥ sura-varya nā iṅgate . an āhutāḥ api abhiyanti sauhṛdam bhartuḥ guroḥ dehakṛtaḥ ca ketanam .. 13 ..
तन्मे प्रसीदेदममर्त्य वाञ्छितं कर्तुं भवान्कारुणिको बतार्हति । त्वयात्मनोऽर्धेऽहमदभ्रचक्षुषा निरूपिता मानुगृहाण याचितः ॥ १४ ॥
तत् मे प्रसीद इदम् अमर्त्य वाञ्छितम् कर्तुम् भवान् कारुणिकः बत अर्हति । त्वया आत्मनः अर्धे अहम् अदभ्र-चक्षुषा निरूपिता मा अनुगृहाण याचितः ॥ १४ ॥
tat me prasīda idam amartya vāñchitam kartum bhavān kāruṇikaḥ bata arhati . tvayā ātmanaḥ ardhe aham adabhra-cakṣuṣā nirūpitā mā anugṛhāṇa yācitaḥ .. 14 ..
ऋषिरुवाच -
एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्प्रियः । संस्मारितो मर्मभिदः कुवागिषून् यानाह को विश्वसृजां समक्षतः ॥ १५ ॥
एवम् गिरित्रः प्रियया अभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृद्-प्रियः । संस्मारितः मर्म-भिदः कु वाच्-इषून् यान् आह कः विश्वसृजाम् समक्षतः ॥ १५ ॥
evam giritraḥ priyayā abhibhāṣitaḥ pratyabhyadhatta prahasan suhṛd-priyaḥ . saṃsmāritaḥ marma-bhidaḥ ku vāc-iṣūn yān āha kaḥ viśvasṛjām samakṣataḥ .. 15 ..
श्रीभगवानुवाच -
त्वयोदितं शोभनमेव शोभने अनाहुता अप्यभियन्ति बन्धुषु । ते यद्यनुत्पादितदोषदृष्टयो बलीयसानात्म्यमदेन मन्युना ॥ १६ ॥
त्वया उदितम् शोभनम् एव शोभने अन् आहुताः अपि अभियन्ति बन्धुषु । ते यदि अनुत्पादित-दोष-दृष्टयः बलीयसा अनात्म्य-मदेन मन्युना ॥ १६ ॥
tvayā uditam śobhanam eva śobhane an āhutāḥ api abhiyanti bandhuṣu . te yadi anutpādita-doṣa-dṛṣṭayaḥ balīyasā anātmya-madena manyunā .. 16 ..
विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः । स्मृतौ हतायां भृतमानदुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥
विद्या-तपः-वित्त-वपुः-वयः-कुलैः सताम् गुणैः षड्भिः असत्तम-इतरैः । स्मृतौ हतायाम् भृत-मान-दुर्दृशः स्तब्धाः न पश्यन्ति हि धाम भूयसाम् ॥ १७ ॥
vidyā-tapaḥ-vitta-vapuḥ-vayaḥ-kulaiḥ satām guṇaiḥ ṣaḍbhiḥ asattama-itaraiḥ . smṛtau hatāyām bhṛta-māna-durdṛśaḥ stabdhāḥ na paśyanti hi dhāma bhūyasām .. 17 ..
नैतादृशानां स्वजनव्यपेक्षया गृहान् प्रतीयादनवस्थितात्मनाम् । येऽभ्यागतान् वक्रधियाभिचक्षते आरोपितभ्रूभिरमर्षणाक्षिभिः ॥ १८ ॥
न एतादृशानाम् स्व-जन-व्यपेक्षया गृहान् प्रतीयात् अनवस्थित-आत्मनाम् । ये अभ्यागतान् वक्र-धिया अभिचक्षते आरोपित-भ्रूभिः अमर्षण-अक्षिभिः ॥ १८ ॥
na etādṛśānām sva-jana-vyapekṣayā gṛhān pratīyāt anavasthita-ātmanām . ye abhyāgatān vakra-dhiyā abhicakṣate āropita-bhrūbhiḥ amarṣaṇa-akṣibhiḥ .. 18 ..
तथारिभिर्न व्यथते शिलीमुखैः शेतेऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्रधियां दुरुक्तिभिः दिवानिशं तप्यति मर्मताडितः ॥ १९ ॥
तथा अरिभिः न व्यथते शिलीमुखैः शेते अर्दित-अङ्गः हृदयेन दूयता । स्वानाम् यथा वक्र-धियाम् दुरुक्तिभिः दिवानिशम् तप्यति मर्म-ताडितः ॥ १९ ॥
tathā aribhiḥ na vyathate śilīmukhaiḥ śete ardita-aṅgaḥ hṛdayena dūyatā . svānām yathā vakra-dhiyām duruktibhiḥ divāniśam tapyati marma-tāḍitaḥ .. 19 ..
व्यक्तं त्वमुत्कृष्टगतेः प्रजापतेः प्रियात्मजानामसि सुभ्रु मे मता । तथापि मानं न पितुः प्रपत्स्यसे मदाश्रयात्कः परितप्यते यतः ॥ २० ॥
व्यक्तम् त्वम् उत्कृष्ट-गतेः प्रजापतेः प्रिय-आत्मजानाम् असि सुभ्रु मे मता । तथा अपि मानम् न पितुः प्रपत्स्यसे मद्-आश्रयात् कः परितप्यते यतस् ॥ २० ॥
vyaktam tvam utkṛṣṭa-gateḥ prajāpateḥ priya-ātmajānām asi subhru me matā . tathā api mānam na pituḥ prapatsyase mad-āśrayāt kaḥ paritapyate yatas .. 20 ..
पापच्यमानेन हृदाऽऽतुरेन्द्रियः समृद्धिभिः पूरुषबुद्धिसाक्षिणाम् । अकल्प एषामधिरोढुमञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ २१ ॥
पापच्यमानेन हृदा आतुर-इन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् । अकल्पः एषाम् अधिरोढुम् अञ्जसा परम् पदम् द्वेष्टि यथा असुराः हरिम् ॥ २१ ॥
pāpacyamānena hṛdā ātura-indriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām . akalpaḥ eṣām adhiroḍhum añjasā param padam dveṣṭi yathā asurāḥ harim .. 21 ..
प्रत्युद्गमप्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयायैव न देहमानिने ॥ २२ ॥
प्रत्युद्गम-प्रश्रयण-अभिवादनम् विधीयते साधु मिथस् सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहाशयाय एव न देह-मानिने ॥ २२ ॥
pratyudgama-praśrayaṇa-abhivādanam vidhīyate sādhu mithas sumadhyame . prājñaiḥ parasmai puruṣāya cetasā guhāśayāya eva na deha-mānine .. 22 ..
सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे नमसा विधीयते ॥ २३ ॥
सत्त्वम् विशुद्धम् वसुदेव-शब्दितम् यदि ईयते तत्र पुमान् अपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवः हि अधोक्षजः मे नमसा विधीयते ॥ २३ ॥
sattvam viśuddham vasudeva-śabditam yadi īyate tatra pumān apāvṛtaḥ . sattve ca tasmin bhagavān vāsudevaḥ hi adhokṣajaḥ me namasā vidhīyate .. 23 ..
तत्ते निरीक्ष्यो न पितापि देहकृद् दक्षो मम द्विट् तदनुव्रताश्च ये । यो विश्वसृग्यज्ञगतं वरोरु मां अनागसं दुर्वचसाकरोत्तिरः ॥ २४ ॥
तत् ते निरीक्ष्यः न पिता अपि देहकृत् दक्षः मम द्विष् तद्-अनुव्रताः च ये । यः विश्वसृज्-यज्ञ-गतम् वर-ऊरु माम् अनागसम् दुर्वचसा अकरोत् तिरस् ॥ २४ ॥
tat te nirīkṣyaḥ na pitā api dehakṛt dakṣaḥ mama dviṣ tad-anuvratāḥ ca ye . yaḥ viśvasṛj-yajña-gatam vara-ūru mām anāgasam durvacasā akarot tiras .. 24 ..
यदि व्रजिष्यस्यतिहाय मद्वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्वजनात्पराभवो यदा स सद्यो मरणाय कल्पते ॥ २५ ॥
यदि व्रजिष्यसि अतिहाय मद्-वचः भद्रम् भवत्याः न ततस् भविष्यति । सम्भावितस्य स्व-जनात् पराभवः यदा स सद्यस् मरणाय कल्पते ॥ २५ ॥
yadi vrajiṣyasi atihāya mad-vacaḥ bhadram bhavatyāḥ na tatas bhaviṣyati . sambhāvitasya sva-janāt parābhavaḥ yadā sa sadyas maraṇāya kalpate .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे उमारुद्रसंवादे तृतीयोऽध्यायः ॥ ३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे उमा-रुद्र-संवादे तृतीयः अध्यायः ॥ ३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe umā-rudra-saṃvāde tṛtīyaḥ adhyāyaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In