| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

विदुर उवाच - (अनुष्टुप्)
ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्रगीतेन हरिं सिद्धिमापुः प्रतोष्य काम् ॥ १ ॥
ये त्वया अभिहिताः ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्र-गीतेन हरिम् सिद्धिम् आपुः प्रतोष्य काम् ॥ १ ॥
ye tvayā abhihitāḥ brahman sutāḥ prācīnabarhiṣaḥ . te rudra-gītena harim siddhim āpuḥ pratoṣya kām .. 1 ..
किं बार्हस्पत्येह परत्र वाथ कैवल्यनाथप्रियपार्श्ववर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनमथ प्रचेतसः ॥ २ ॥
किम् बार्हस्पत्य-इह परत्र वा अथ कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः । आसाद्य देवम् गिरिशम् यदृच्छया प्रापुः परम् नूनम् अथ प्रचेतसः ॥ २ ॥
kim bārhaspatya-iha paratra vā atha kaivalya-nātha-priya-pārśva-vartinaḥ . āsādya devam giriśam yadṛcchayā prāpuḥ param nūnam atha pracetasaḥ .. 2 ..
मैत्रेय उवाच - (अनुष्टुप्)
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिणः । अपयज्ञेन तपसा पुरञ्जनणम् अतोषयन् ॥ ३ ॥
प्रचेतसः अन्तर् उदधौ पितुः आदेश-कारिणः । अपयज्ञेन तपसा पुरञ्जनणम् अतोषयन् ॥ ३ ॥
pracetasaḥ antar udadhau pituḥ ādeśa-kāriṇaḥ . apayajñena tapasā purañjanaṇam atoṣayan .. 3 ..
दशवर्षसहस्रान्ते पुरुषस्तु सनातनः । तेषां आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥
दश-वर्ष-सहस्र-अन्ते पुरुषः तु सनातनः । तेषाम् आविरभूत् कृच्छ्रम् शान्तेन शमयन् रुचा ॥ ४ ॥
daśa-varṣa-sahasra-ante puruṣaḥ tu sanātanaḥ . teṣām āvirabhūt kṛcchram śāntena śamayan rucā .. 4 ..
सुपर्णस्कन्धमारूढो मेरुश्रूङ्गमिवाम्बुदः । पीतवासा मणिग्रीवः कुर्वन् वितिमिरा दिशः ॥ ५ ॥
सुपर्ण-स्कन्धम् आरूढः मेरु-श्रूङ्गम् इव अम्बुदः । पीत-वासाः मणि-ग्रीवः कुर्वन् वितिमिराः दिशः ॥ ५ ॥
suparṇa-skandham ārūḍhaḥ meru-śrūṅgam iva ambudaḥ . pīta-vāsāḥ maṇi-grīvaḥ kurvan vitimirāḥ diśaḥ .. 5 ..
काशिष्णुना कनकवर्णविभूषणेन भ्राजत्कपोलवदनो विलसत्किरीटः । अष्टायुधैरनुचरैर्मुनिभिः सुरेन्द्रैः आसेवितो गरुडकिन्नरगीतकीर्तिः ॥ ६ ॥
काशिष्णुना कनक-वर्ण-विभूषणेन भ्राजत्-कपोल-वदनः विलसत्-किरीटः । अष्ट-आयुधैः अनुचरैः मुनिभिः सुर-इन्द्रैः आसेवितः गरुड-किन्नर-गीत-कीर्तिः ॥ ६ ॥
kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena bhrājat-kapola-vadanaḥ vilasat-kirīṭaḥ . aṣṭa-āyudhaiḥ anucaraiḥ munibhiḥ sura-indraiḥ āsevitaḥ garuḍa-kinnara-gīta-kīrtiḥ .. 6 ..
पीनायताष्टभुजमण्डल मध्यलक्ष्म्या स्पर्धच्छ्रिया परिवृतो वनमालयाऽऽद्यः । बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् पर्जन्यनादरुतया सघृणावलोकः ॥ ७ ॥
पीन-आयत-अष्ट-भुज-मण्डल मध्य-लक्ष्म्या स्पर्धत्-श्रिया परिवृतः वनमालया आद्यः । बर्हिष्मतः पुरुषः आह सुतान् प्रपन्नान् पर्जन्य-नाद-रुतया स घृणा-अवलोकः ॥ ७ ॥
pīna-āyata-aṣṭa-bhuja-maṇḍala madhya-lakṣmyā spardhat-śriyā parivṛtaḥ vanamālayā ādyaḥ . barhiṣmataḥ puruṣaḥ āha sutān prapannān parjanya-nāda-rutayā sa ghṛṇā-avalokaḥ .. 7 ..
श्रीभगवानुवाच - (अनुष्टुप्)
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दनाः । सौहार्देनापृथग्धर्माः तुष्टोऽहं सौहृदेन वः ॥ ८ ॥
वरम् वृणीध्वम् भद्रम् वः यूयम् मे नृप-नन्दनाः । सौहार्देन अपृथक् धर्माः तुष्टः अहम् सौहृदेन वः ॥ ८ ॥
varam vṛṇīdhvam bhadram vaḥ yūyam me nṛpa-nandanāḥ . sauhārdena apṛthak dharmāḥ tuṣṭaḥ aham sauhṛdena vaḥ .. 8 ..
योऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः । तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥
यः अनुस्मरति सन्ध्यायाम् युष्मान् अनुदिनम् नरः । तस्य भ्रातृषु आत्म-साम्यम् तथा भूतेषु सौहृदम् ॥ ९ ॥
yaḥ anusmarati sandhyāyām yuṣmān anudinam naraḥ . tasya bhrātṛṣu ātma-sāmyam tathā bhūteṣu sauhṛdam .. 9 ..
ये तु मां रुद्रगीतेन सायं प्रातः समाहिताः । स्तुवन्त्यहं कामवरान् दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥
ये तु माम् रुद्रगीतेन सायम् प्रातर् समाहिताः । स्तुवन्ती अहम् काम-वरान् दास्ये प्रज्ञाम् च शोभनाम् ॥ १० ॥
ye tu mām rudragītena sāyam prātar samāhitāḥ . stuvantī aham kāma-varān dāsye prajñām ca śobhanām .. 10 ..
यद्यूयं पितुरादेशं अग्रहीष्ट मुदान्विताः । अथो व उशती कीर्तिः लोकाननु भविष्यति ॥ ११ ॥
यत् यूयम् पितुः आदेशम् अग्रहीष्ट मुदा अन्विताः । अथ उ वः उशती कीर्तिः लोकान् अनु भविष्यति ॥ ११ ॥
yat yūyam pituḥ ādeśam agrahīṣṭa mudā anvitāḥ . atha u vaḥ uśatī kīrtiḥ lokān anu bhaviṣyati .. 11 ..
भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः । य एतां आत्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥
भविता विश्रुतः पुत्रः अनवमः ब्रह्मणः गुणैः । यः एताम् आत्म-वीर्येण त्रिलोकीम् पूरयिष्यति ॥ १२ ॥
bhavitā viśrutaḥ putraḥ anavamaḥ brahmaṇaḥ guṇaiḥ . yaḥ etām ātma-vīryeṇa trilokīm pūrayiṣyati .. 12 ..
कण्डोः प्रम्लोचया लब्धा कन्या कमललोचना । तां चापविद्धां जगृहुः भूरुहा नृपनन्दनाः ॥ १३ ॥
कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना । ताम् च अपविद्धाम् जगृहुः भूरुहाः नृप-नन्दनाः ॥ १३ ॥
kaṇḍoḥ pramlocayā labdhā kanyā kamala-locanā . tām ca apaviddhām jagṛhuḥ bhūruhāḥ nṛpa-nandanāḥ .. 13 ..
क्षुत्क्षामाया मुखे राजा सोमः पीयूषवर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वितः ॥ १४ ॥
क्षुध्-क्षामायाः मुखे राजा सोमः पीयूष-वर्षिणीम् । देशिनीम् रोदमानायाः निदधे स दया-अन्वितः ॥ १४ ॥
kṣudh-kṣāmāyāḥ mukhe rājā somaḥ pīyūṣa-varṣiṇīm . deśinīm rodamānāyāḥ nidadhe sa dayā-anvitaḥ .. 14 ..
प्रजाविसर्ग आदिष्टाः पित्रा मां अनुवर्तता । तत्र कन्यां वरारोहां तां उद्वहत मा चिरम् ॥ १५ ॥
प्रजा-विसर्गे आदिष्टाः पित्रा माम् अनुवर्तता । तत्र कन्याम् वर-आरोहाम् ताम् उद्वहत मा चिरम् ॥ १५ ॥
prajā-visarge ādiṣṭāḥ pitrā mām anuvartatā . tatra kanyām vara-ārohām tām udvahata mā ciram .. 15 ..
अपृथग्धर्मशीलानां सर्वेषां वः सुमध्यमा । अपृथग्धर्मशीलेयं भूयात् पत्न्यर्पिताशया ॥ १६ ॥
अपृथक् धर्म-शीलानाम् सर्वेषाम् वः सुमध्यमा । अपृथक् धर्म-शीला इयम् भूयात् पत्नी अर्पित-आशया ॥ १६ ॥
apṛthak dharma-śīlānām sarveṣām vaḥ sumadhyamā . apṛthak dharma-śīlā iyam bhūyāt patnī arpita-āśayā .. 16 ..
दिव्यवर्षसहस्राणां सहस्रमहतौजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यान् चानुग्रहान्मम ॥ १७ ॥
दिव्य-वर्ष-सहस्राणाम् सहस्र-महता ओजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यान् च अनुग्रहान् मम ॥ १७ ॥
divya-varṣa-sahasrāṇām sahasra-mahatā ojasaḥ . bhaumān bhokṣyatha bhogān vai divyān ca anugrahān mama .. 17 ..
अथ मय्यनपायिन्या भक्त्या पक्वगुणाशयाः । उपयास्यथ मद्धाम निर्विद्य निरयादतः ॥ १८ ॥
अथ मयि अनपायिन्या भक्त्या पक्व-गुण-आशयाः । उपयास्यथ मद्-धाम निर्विद्य निरयात् अतस् ॥ १८ ॥
atha mayi anapāyinyā bhaktyā pakva-guṇa-āśayāḥ . upayāsyatha mad-dhāma nirvidya nirayāt atas .. 18 ..
गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् । मद् वार्तायातयामानां न बन्धाय गृहा मताः ॥ १९ ॥
गृहेषु आविशताम् च अपि पुंसाम् कुशल-कर्मणाम् । मत् वार्त्ता-अयातयामानाम् न बन्धाय गृहाः मताः ॥ १९ ॥
gṛheṣu āviśatām ca api puṃsām kuśala-karmaṇām . mat vārttā-ayātayāmānām na bandhāya gṛhāḥ matāḥ .. 19 ..
नव्यवद् हृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ २० ॥
नव्य-वत् हृदये यत् ज्ञः ब्रह्म एतत् ब्रह्म-वादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतस् गताः ॥ २० ॥
navya-vat hṛdaye yat jñaḥ brahma etat brahma-vādibhiḥ . na muhyanti na śocanti na hṛṣyanti yatas gatāḥ .. 20 ..
मैत्रेय उवाच -
एवं ब्रुवाणं पुरुषार्थभाजनं जनार्दनं प्राञ्जलयः प्रचेतसः । तद्दर्शनध्वस्ततमोरजोमला गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥
एवम् ब्रुवाणम् पुरुष-अर्थ-भाजनम् जनार्दनम् प्राञ्जलयः प्रचेतसः । तद्-दर्शन-ध्वस्त-तमः-रजः-मला गिरा अगृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥
evam bruvāṇam puruṣa-artha-bhājanam janārdanam prāñjalayaḥ pracetasaḥ . tad-darśana-dhvasta-tamaḥ-rajaḥ-malā girā agṛṇan gadgadayā suhṛttamam .. 21 ..
प्रचेतस ऊचुः -
नमो नमः क्लेशविनाशनाय निरूपितोदारगुणाह्वयाय । मनोवचोवेगपुरोजवाय सर्वाक्षमार्गैरगताध्वने नमः ॥ २२ ॥
नमः नमः क्लेश-विनाशनाय निरूपित-उदार-गुण-आह्वयाय । मनः-वचः-वेग-पुरोजवाय सर्व-अक्ष-मार्गैः अगत-अध्वने नमः ॥ २२ ॥
namaḥ namaḥ kleśa-vināśanāya nirūpita-udāra-guṇa-āhvayāya . manaḥ-vacaḥ-vega-purojavāya sarva-akṣa-mārgaiḥ agata-adhvane namaḥ .. 22 ..
शुद्धाय शान्ताय नमः स्वनिष्ठया मनस्यपार्थं विलसद्द्वयाय । नमो जगत्स्थानलयोदयेषु गृहीतमायागुणविग्रहाय ॥ २३ ॥
शुद्धाय शान्ताय नमः स्व-निष्ठया मनसि अपार्थम् विलसत्-द्वयाय । नमः जगत्-स्थान-लय-उदयेषु गृहीत-माया-गुण-विग्रहाय ॥ २३ ॥
śuddhāya śāntāya namaḥ sva-niṣṭhayā manasi apārtham vilasat-dvayāya . namaḥ jagat-sthāna-laya-udayeṣu gṛhīta-māyā-guṇa-vigrahāya .. 23 ..
(अनुष्टुप्)
नमो विशुद्धसत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
नमः विशुद्ध-सत्त्वाय हरये हरिमेधसे । वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम् ॥ २४ ॥
namaḥ viśuddha-sattvāya haraye harimedhase . vāsudevāya kṛṣṇāya prabhave sarva-sātvatām .. 24 ..
नमः कमलनाभाय नमः कमलमालिने । नमः कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥
नमः कमलनाभाय नमः कमल-मालिने । नमः कमल-पादाय नमः ते कमल-ईक्षण ॥ २५ ॥
namaḥ kamalanābhāya namaḥ kamala-māline . namaḥ kamala-pādāya namaḥ te kamala-īkṣaṇa .. 25 ..
नमः कमलकिञ्जल्क पिशङ्गामलवाससे । सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६ ॥
नमः कमल-किञ्जल्क पिशङ्ग-अमल-वाससे । सर्व-भूत-निवासाय नमः अयुङ्क्ष्महि साक्षिणे ॥ २६ ॥
namaḥ kamala-kiñjalka piśaṅga-amala-vāsase . sarva-bhūta-nivāsāya namaḥ ayuṅkṣmahi sākṣiṇe .. 26 ..
रूपं भगवता त्वेतद् अशेषक्लेशसङ्क्षयम् । आविष्कृतं नः क्लिष्टानां किं अन्यद् अनुकंपितम् ॥ २७ ॥
रूपम् भगवता तु एतत् अशेष-क्लेश-सङ्क्षयम् । आविष्कृतम् नः क्लिष्टानाम् किम् अन्यत् अनुकंपितम् ॥ २७ ॥
rūpam bhagavatā tu etat aśeṣa-kleśa-saṅkṣayam . āviṣkṛtam naḥ kliṣṭānām kim anyat anukaṃpitam .. 27 ..
एतावत्त्वं हि विभुभिः भाव्यं दीनेषु वत्सलैः । यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥
एतावत्-त्वम् हि विभुभिः भाव्यम् दीनेषु वत्सलैः । यत् अनुस्मर्यते काले स्व-बुद्ध्या अभद्ररन्धन ॥ २८ ॥
etāvat-tvam hi vibhubhiḥ bhāvyam dīneṣu vatsalaiḥ . yat anusmaryate kāle sva-buddhyā abhadrarandhana .. 28 ..
येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिषः ॥ २९ ॥
येन उपशान्तिः भूतानाम् क्षुल्लकानाम् अपि ईहताम् । अन्तर्हितः अन्तर् हृदये कस्मात् नः वेद न आशिषः ॥ २९ ॥
yena upaśāntiḥ bhūtānām kṣullakānām api īhatām . antarhitaḥ antar hṛdaye kasmāt naḥ veda na āśiṣaḥ .. 29 ..
असौ एव वरोऽस्माकं ईप्सितो जगतः पते । प्रसन्नो भगवान्येषां अपवर्गः गुरुर्गतिः ॥ ३० ॥
असौ एव वरः अस्माकम् ईप्सितः जगतः पते । प्रसन्नः भगवान् येषाम् अपवर्गः गुरुः गतिः ॥ ३० ॥
asau eva varaḥ asmākam īpsitaḥ jagataḥ pate . prasannaḥ bhagavān yeṣām apavargaḥ guruḥ gatiḥ .. 30 ..
वरं वृणीमहेऽथापि नाथ त्वत्परतः परात् । न ह्यन्तस्त्वद् विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥
वरम् वृणीमहे अथ अपि नाथ त्वद्-परतस् परात् । न हि अन्तर् त्वत् विभूतीनाम् सः अनन्तः इति गीयसे ॥ ३१ ॥
varam vṛṇīmahe atha api nātha tvad-paratas parāt . na hi antar tvat vibhūtīnām saḥ anantaḥ iti gīyase .. 31 ..
पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते । त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥
पारिजाते अञ्जसा लब्धे सारङ्गः अन्यत् न सेवते । त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किम् किम् वृणीमहि ॥ ३२ ॥
pārijāte añjasā labdhe sāraṅgaḥ anyat na sevate . tvad-aṅghri-mūlam āsādya sākṣāt kim kim vṛṇīmahi .. 32 ..
यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद्भवत् प्रसङ्गानां सङ्गः स्यान्नो भवे भवे ॥ ३३ ॥
यावत् ते मायया स्पृष्टाः भ्रमामः इह कर्मभिः । तावत् भवत् प्रसङ्गानाम् सङ्गः स्यात् नः भवे भवे ॥ ३३ ॥
yāvat te māyayā spṛṣṭāḥ bhramāmaḥ iha karmabhiḥ . tāvat bhavat prasaṅgānām saṅgaḥ syāt naḥ bhave bhave .. 33 ..
तुलयाम लवेनापि न स्वर्गं न अपुनर्भवम् । भगवत् सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ ३४ ॥
तुलयाम लवेन अपि न स्वर्गम् न अपुनर्भवम् । भगवत् सङ्गि-सङ्गस्य मर्त्यानाम् किम् उत आशिषः ॥ ३४ ॥
tulayāma lavena api na svargam na apunarbhavam . bhagavat saṅgi-saṅgasya martyānām kim uta āśiṣaḥ .. 34 ..
यत्रेड्यन्ते कथा मृष्टाः तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥
यत्र ईड्यन्ते कथाः मृष्टाः तृष्णायाः प्रशमः यतस् । निर्वैरम् यत्र भूतेषु न उद्वेगः यत्र कश्चन ॥ ३५ ॥
yatra īḍyante kathāḥ mṛṣṭāḥ tṛṣṇāyāḥ praśamaḥ yatas . nirvairam yatra bhūteṣu na udvegaḥ yatra kaścana .. 35 ..
यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्कथासु मुक्तसङ्गैः पुनः पुनः ॥ ३६ ॥
यत्र नारायणः साक्षात् भगवान् न्यासिनाम् गतिः । संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनर् पुनर् ॥ ३६ ॥
yatra nārāyaṇaḥ sākṣāt bhagavān nyāsinām gatiḥ . saṃstūyate sat-kathāsu mukta-saṅgaiḥ punar punar .. 36 ..
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ ३७ ॥
तेषाम् विचरताम् पद्भ्याम् तीर्थानाम् पावन-इच्छया । भीतस्य किम् न रोचेत तावकानाम् समागमः ॥ ३७ ॥
teṣām vicaratām padbhyām tīrthānām pāvana-icchayā . bhītasya kim na roceta tāvakānām samāgamaḥ .. 37 ..
वयं तु साक्षाद्भगवन् भवस्य प्रियस्य सख्युः क्षणसङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योः भिषक्तमं त्वाद्य गतिं गताः स्म ॥ ३८ ॥
वयम् तु साक्षात् भगवन् भवस्य प्रियस्य सख्युः क्षण-सङ्गमेन । सु दुश्चिकित्स्यस्य भवस्य मृत्योः भिषक्तमम् त्वा अद्य गतिम् गताः स्म ॥ ३८ ॥
vayam tu sākṣāt bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena . su duścikitsyasya bhavasya mṛtyoḥ bhiṣaktamam tvā adya gatim gatāḥ sma .. 38 ..
यन्नः स्वधीतं गुरवः प्रसादिता विप्राश्च वृद्धाश्च सदानुवृत्त्या । आर्या नताः सुहृदो भ्रातरश्च सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥
यत् नः सु अधीतम् गुरवः प्रसादिताः विप्राः च वृद्धाः च सदा अनुवृत्त्या । आर्याः नताः सुहृदः भ्रातरः च सर्वाणि भूतानि अनसूयया एव ॥ ३९ ॥
yat naḥ su adhītam guravaḥ prasāditāḥ viprāḥ ca vṛddhāḥ ca sadā anuvṛttyā . āryāḥ natāḥ suhṛdaḥ bhrātaraḥ ca sarvāṇi bhūtāni anasūyayā eva .. 39 ..
यन्नः सुतप्तं तप एतदीश निरन्धसां कालमदभ्रमप्सु । सर्वं तदेतत्पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ ४० ॥
यत् नः सु तप्तम् तपः एतत् ईश निरन्धसाम् काल-मद-भ्रम् अप्सु । सर्वम् तत् एतत् पुरुषस्य भूम्नः वृणीमहे ते परितोषणाय ॥ ४० ॥
yat naḥ su taptam tapaḥ etat īśa nirandhasām kāla-mada-bhram apsu . sarvam tat etat puruṣasya bhūmnaḥ vṛṇīmahe te paritoṣaṇāya .. 40 ..
मनुः स्वयम्भूर्भगवान् भवश्च येऽन्ये तपोज्ञानविशुद्धसत्त्वाः । अदृष्टपारा अपि यन्महिम्नः स्तुवन्त्यथो त्वात्मसमं गृणीमः ॥ ४१ ॥
मनुः स्वयम्भूः भगवान् भवः च ये अन्ये तपः-ज्ञान-विशुद्ध-सत्त्वाः । अ दृष्ट-पाराः अपि यत् महिम्नः स्तुवन्ति अथ उ तु आत्म-समम् गृणीमः ॥ ४१ ॥
manuḥ svayambhūḥ bhagavān bhavaḥ ca ye anye tapaḥ-jñāna-viśuddha-sattvāḥ . a dṛṣṭa-pārāḥ api yat mahimnaḥ stuvanti atha u tu ātma-samam gṛṇīmaḥ .. 41 ..
(अनुष्टुप्)
नमः समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ ४२ ॥
नमः समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यम् भगवते नमः ॥ ४२ ॥
namaḥ samāya śuddhāya puruṣāya parāya ca . vāsudevāya sattvāya tubhyam bhagavate namaḥ .. 42 ..
मैत्रेय उवाच -
इति प्रचेतोभिरभिष्टुतो हरिः प्रीतस्तथेत्याह शरण्यवत्सलः । अनिच्छतां यानम् अतृप्तचक्षुषां ययौ स्वधामानपवर्गवीर्यः ॥ ४३ ॥
इति प्रचेतोभिः अभिष्टुतः हरिः प्रीतः तथा इति आह शरण्य-वत्सलः । अन् इच्छताम् यानम् अतृप्त-चक्षुषाम् ययौ स्वधामा अन् अपवर्ग-वीर्यः ॥ ४३ ॥
iti pracetobhiḥ abhiṣṭutaḥ hariḥ prītaḥ tathā iti āha śaraṇya-vatsalaḥ . an icchatām yānam atṛpta-cakṣuṣām yayau svadhāmā an apavarga-vīryaḥ .. 43 ..
(अनुष्टुप्)
अथ निर्याय सलिलात् प्रचेतस उदन्वतः । वीक्ष्याकुप्यन् द्रुमैश्छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ ४४ ॥
अथ निर्याय सलिलात् प्रचेतसः उदन्वतः । वीक्ष्य अ कुप्यन् द्रुमैः छन्नाम् गाम् गाम् रोद्धुम् इव उच्छ्रितैः ॥ ४४ ॥
atha niryāya salilāt pracetasaḥ udanvataḥ . vīkṣya a kupyan drumaiḥ channām gām gām roddhum iva ucchritaiḥ .. 44 ..
ततोऽग्निमारुतौ राजन् अमुञ्चन्मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥
ततस् अग्नि-मारुतौ राजन् अमुञ्चत् मुखतः रुषा । महीम् निर्वीरुधम् कर्तुम् संवर्तकः इव अत्यये ॥ ४५ ॥
tatas agni-mārutau rājan amuñcat mukhataḥ ruṣā . mahīm nirvīrudham kartum saṃvartakaḥ iva atyaye .. 45 ..
भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयामास पुत्रान् बर्हिष्मतो नयैः ॥ ४६ ॥
भस्मसात् क्रियमाणान् तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयामास पुत्रान् बर्हिष्मतः नयैः ॥ ४६ ॥
bhasmasāt kriyamāṇān tān drumān vīkṣya pitāmahaḥ . āgataḥ śamayāmāsa putrān barhiṣmataḥ nayaiḥ .. 46 ..
तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ ४७ ॥
तत्र अवशिष्टाः ये वृक्षाः भीताः दुहितरम् तदा । उज्जह्रुः ते प्रचेतोभ्यः उपदिष्टाः स्वयम्भुवा ॥ ४७ ॥
tatra avaśiṣṭāḥ ye vṛkṣāḥ bhītāḥ duhitaram tadā . ujjahruḥ te pracetobhyaḥ upadiṣṭāḥ svayambhuvā .. 47 ..
ते च ब्रह्मण आदेशान् मारिषामुपयेमिरे । यस्यां महदवज्ञानाद् अजन्यजनयोनिजः ॥ ४८ ॥
ते च ब्रह्मणः आदेशात् मारिषाम् उपयेमिरे । यस्याम् महत्-अवज्ञानात् अजन्य-जन-योनि-जः ॥ ४८ ॥
te ca brahmaṇaḥ ādeśāt māriṣām upayemire . yasyām mahat-avajñānāt ajanya-jana-yoni-jaḥ .. 48 ..
चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैवचोदितः ॥ ४९ ॥
चाक्षुषे तु अन्तरे प्राप्ते प्राच्-सर्गे काल-विद्रुते । यः ससर्ज प्रजाः इष्टाः स दक्षः दैव-चोदितः ॥ ४९ ॥
cākṣuṣe tu antare prāpte prāc-sarge kāla-vidrute . yaḥ sasarja prajāḥ iṣṭāḥ sa dakṣaḥ daiva-coditaḥ .. 49 ..
यो जायमानः सर्वेषां तेजस्तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥
यः जायमानः सर्वेषाम् तेजः तेजस्विनाम् रुचा । स्वया उपादत्त दाक्ष्यात् च कर्मणाम् दक्षम् अब्रुवन् ॥ ५० ॥
yaḥ jāyamānaḥ sarveṣām tejaḥ tejasvinām rucā . svayā upādatta dākṣyāt ca karmaṇām dakṣam abruvan .. 50 ..
तं प्रजासर्गरक्षायां अनादिरभिषिच्य च । युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥
तम् प्रजा-सर्ग-रक्षायाम् अनादिः अभिषिच्य च । युयोज युयुजे अन्यान् च स वै सर्व-प्रजापतीन् ॥ ५१ ॥
tam prajā-sarga-rakṣāyām anādiḥ abhiṣicya ca . yuyoja yuyuje anyān ca sa vai sarva-prajāpatīn .. 51 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्राचेतसे चरिते त्रिंशोऽध्यायः ॥ ३० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे प्राचेतसे चरिते त्रिंशः अध्यायः ॥ ३० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe prācetase carite triṃśaḥ adhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In