| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
ततस् उत्पन्न-विज्ञानाः आशु अधोक्षज-भाषितम् । स्मरन्तः आत्मजे भार्याम् विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
tatas utpanna-vijñānāḥ āśu adhokṣaja-bhāṣitam . smarantaḥ ātmaje bhāryām visṛjya prāvrajan gṛhāt .. 1 ..
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा । प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः ॥ २ ॥
दीक्षिताः ब्रह्मसत्रेण सर्व-भूत-आत्म-मेधसा । प्रतीच्याम् दिशि वेलायाम् सिद्धः अभूत् यत्र जाजलिः ॥ २ ॥
dīkṣitāḥ brahmasatreṇa sarva-bhūta-ātma-medhasā . pratīcyām diśi velāyām siddhaḥ abhūt yatra jājaliḥ .. 2 ..
तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् । परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥ ३ ॥
तान् निर्जित-प्राण-मनः-वचः-दृशः जित-आसनान् शान्त-समान-विग्रहान् । परे अमले ब्रह्मणि योजित-आत्मनः सुर-असुर-ईड्यः ददृशे स्म नारदः ॥ ३ ॥
tān nirjita-prāṇa-manaḥ-vacaḥ-dṛśaḥ jita-āsanān śānta-samāna-vigrahān . pare amale brahmaṇi yojita-ātmanaḥ sura-asura-īḍyaḥ dadṛśe sma nāradaḥ .. 3 ..
(अनुष्टुप्)
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च । पूजयित्वा यथादेशं सुखासीनं अथाब्रुवन् ॥ ४ ॥
तम् आगतम् ते उत्थाय प्रणिपत्य अभिनन्द्य च । पूजयित्वा यथादेशम् सुख-आसीनम् अथ अब्रुवन् ॥ ४ ॥
tam āgatam te utthāya praṇipatya abhinandya ca . pūjayitvā yathādeśam sukha-āsīnam atha abruvan .. 4 ..
प्रचेतस ऊचुः -
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः । तव चङ्क्रमणं ब्रह्मन् अभयाय यथा रवेः ॥ ५ ॥
स्वागतम् ते सुर-ऋषे अद्य दिष्ट्या नः दर्शनम् गतः । तव चङ्क्रमणम् ब्रह्मन् अभयाय यथा रवेः ॥ ५ ॥
svāgatam te sura-ṛṣe adya diṣṭyā naḥ darśanam gataḥ . tava caṅkramaṇam brahman abhayāya yathā raveḥ .. 5 ..
यदादिष्टं भगवता शिवेनाधोक्षजेन च । तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ ॥ ६ ॥
यत् आदिष्टम् भगवता शिवेन अधोक्षजेन च । तद्-गृहेषु प्रसक्तानाम् प्रायशस् क्षपितम् प्रभो ॥ ॥ ६ ॥
yat ādiṣṭam bhagavatā śivena adhokṣajena ca . tad-gṛheṣu prasaktānām prāyaśas kṣapitam prabho .. .. 6 ..
तन्नः प्रद्योतयाध्यात्म ज्ञानं तत्त्वार्थदर्शनम् । येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
तत् नः प्रद्योतय अध्यात्म ज्ञानम् तत्त्व-अर्थ-दर्शनम् । येन अञ्जसा तरिष्यामः दुस्तरम् भव-सागरम् ॥ ७ ॥
tat naḥ pradyotaya adhyātma jñānam tattva-artha-darśanam . yena añjasā tariṣyāmaḥ dustaram bhava-sāgaram .. 7 ..
मैत्रेय उवाच -
इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः । भगवति उत्तमश्लोक आविष्टात्माब्रवीन् नृपान् ॥ ८ ॥
इति प्रचेतसाम् पृष्टः भगवान् नारदः मुनिः । भगवति उत्तमश्लोके आविष्ट-आत्मा अब्रवीत् नृपान् ॥ ८ ॥
iti pracetasām pṛṣṭaḥ bhagavān nāradaḥ muniḥ . bhagavati uttamaśloke āviṣṭa-ātmā abravīt nṛpān .. 8 ..
नारद उवाच -
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः । नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः ॥ ९ ॥
तत् जन्म तानि कर्माणि तत् आयुः तत् मनः वचः । नृणाम् येन हि विश्वात्मा सेव्यते हरिः ईश्वरः ॥ ९ ॥
tat janma tāni karmāṇi tat āyuḥ tat manaḥ vacaḥ . nṛṇām yena hi viśvātmā sevyate hariḥ īśvaraḥ .. 9 ..
किं जन्मभिः त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः । कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा ॥ १० ॥
किम् जन्मभिः त्रिभिः वा इह शौक्र-सावित्र-याज्ञिकैः । कर्मभिः वा त्रयी-प्रोक्तैः पुंसः अपि विबुध-आयुषा ॥ १० ॥
kim janmabhiḥ tribhiḥ vā iha śaukra-sāvitra-yājñikaiḥ . karmabhiḥ vā trayī-proktaiḥ puṃsaḥ api vibudha-āyuṣā .. 10 ..
श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः । बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
श्रुतेन तपसा वा किम् वचोभिः चित्त-वृत्तिभिः । बुद्ध्या वा किम् निपुणया बलेन इन्द्रिय-राधसा ॥ ११ ॥
śrutena tapasā vā kim vacobhiḥ citta-vṛttibhiḥ . buddhyā vā kim nipuṇayā balena indriya-rādhasā .. 11 ..
किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि । किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः ॥ १२ ॥
किम् वा योगेन साङ्ख्येन न्यास-स्वाध्याययोः अपि । किम् वा श्रेयोभिः अन्यैः च न यत्र आत्म-प्रदः हरिः ॥ १२ ॥
kim vā yogena sāṅkhyena nyāsa-svādhyāyayoḥ api . kim vā śreyobhiḥ anyaiḥ ca na yatra ātma-pradaḥ hariḥ .. 12 ..
श्रेयसामपि सर्वेषां आत्मा ह्यवधिरर्थतः । सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः ॥ १३ ॥
श्रेयसाम् अपि सर्वेषाम् आत्मा हि अवधिः अर्थतः । सर्वेषाम् अपि भूतानाम् हरिः आत्मा आत्म-दः प्रियः ॥ १३ ॥
śreyasām api sarveṣām ātmā hi avadhiḥ arthataḥ . sarveṣām api bhūtānām hariḥ ātmā ātma-daḥ priyaḥ .. 13 ..
यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
यथा तरोः मूल-निषेचनेन तृप्यन्ति तद्-स्कन्ध-भुज-उपशाखाः । प्राण-उपहारात् च यथा इन्द्रियाणाम् तथा एव सर्व-अर्हणम् अच्युत-इज्या ॥ १४ ॥
yathā taroḥ mūla-niṣecanena tṛpyanti tad-skandha-bhuja-upaśākhāḥ . prāṇa-upahārāt ca yathā indriyāṇām tathā eva sarva-arhaṇam acyuta-ijyā .. 14 ..
यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन् प्रविशन्ति काले । भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः ॥ १५ ॥
यथा एव सूर्यात् प्रभवन्ति वारः पुनर् च तस्मिन् प्रविशन्ति काले । भूतानि भूमौ स्थिर-जङ्गमानि तथा हरौ एव गुण-प्रवाहः ॥ १५ ॥
yathā eva sūryāt prabhavanti vāraḥ punar ca tasmin praviśanti kāle . bhūtāni bhūmau sthira-jaṅgamāni tathā harau eva guṇa-pravāhaḥ .. 15 ..
एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभा । यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः ॥ १६ ॥
एतत् पदम् तत् जगत्-आत्मनः परम् सकृत् विभातम् सवितुः यथा प्रभा । यथा असवः जाग्रति सुप्त-शक्तयः द्रव्य-क्रिया-ज्ञान-भिदा-भ्रम-अत्ययः ॥ १६ ॥
etat padam tat jagat-ātmanaḥ param sakṛt vibhātam savituḥ yathā prabhā . yathā asavaḥ jāgrati supta-śaktayaḥ dravya-kriyā-jñāna-bhidā-bhrama-atyayaḥ .. 16 ..
यथा नभस्यभ्रतमःप्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात् । एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तमः सत्त्वमिति प्रवाहः ॥ १७ ॥
यथा नभसि अभ्र-तमः-प्रकाशाः भवन्ति भूपाः न भवन्ति अनुक्रमात् । एवम् परे ब्रह्मणि शक्तयः तु अमू रजः तमः सत्त्वम् इति प्रवाहः ॥ १७ ॥
yathā nabhasi abhra-tamaḥ-prakāśāḥ bhavanti bhūpāḥ na bhavanti anukramāt . evam pare brahmaṇi śaktayaḥ tu amū rajaḥ tamaḥ sattvam iti pravāhaḥ .. 17 ..
तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् । स्वतेजसा ध्वस्तगुणप्रवाहं आत्मैकभावेन भजध्वमद्धा ॥ १८ ॥
तेन एकम् आत्मानम् अशेष-देहिनाम् कालम् प्रधानम् पुरुषम् पर-ईशम् । स्व-तेजसा ध्वस्त-गुण-प्रवाहम् आत्म-एक-भावेन भजध्वम् अद्धा ॥ १८ ॥
tena ekam ātmānam aśeṣa-dehinām kālam pradhānam puruṣam para-īśam . sva-tejasā dhvasta-guṇa-pravāham ātma-eka-bhāvena bhajadhvam addhā .. 18 ..
(अनुष्टुप्)
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा । सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः ॥ १९ ॥
दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा । सर्व-इन्द्रिय-उपशान्त्या च तुष्यति आशु जनार्दनः ॥ १९ ॥
dayayā sarva-bhūteṣu santuṣṭyā yena kena vā . sarva-indriya-upaśāntyā ca tuṣyati āśu janārdanaḥ .. 19 ..
अपहतसकलैषणामलात्मनि अविरतमेधितभावनोपहूतः । निजजनवशगत्वमात्मनोऽयन् न सरति छिद्रवदक्षरः सतां हि ॥ २० ॥
अपहत-सकल-एषणा-अमल-आत्मनि अविरत-मेधित-भावना-उपहूतः । निज-जन-वश-ग-त्वम् आत्मनः अयन् न सरति छिद्र-वत् अक्षरः सताम् हि ॥ २० ॥
apahata-sakala-eṣaṇā-amala-ātmani avirata-medhita-bhāvanā-upahūtaḥ . nija-jana-vaśa-ga-tvam ātmanaḥ ayan na sarati chidra-vat akṣaraḥ satām hi .. 20 ..
न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः । श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥
न भजति कु मनीषिणाम् सः इज्याम् हरिः अधन-आत्म-धन-प्रियः रसज्ञः । श्रुत-धन-कुल-कर्मणाम् म-दैर्ये विदधति पापम् अकिञ्चनेषु सत्सु ॥ २१ ॥
na bhajati ku manīṣiṇām saḥ ijyām hariḥ adhana-ātma-dhana-priyaḥ rasajñaḥ . śruta-dhana-kula-karmaṇām ma-dairye vidadhati pāpam akiñcaneṣu satsu .. 21 ..
श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान् कृतज्ञः ॥ २२ ॥
श्रियम् अनुचरतीम् तद्-अर्थिनः च द्विपद-पतीन् विबुधान् च यद्-स्व-पूर्णः । न भजति निज-भृत्य-वर्ग-तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृतज्ञः ॥ २२ ॥
śriyam anucaratīm tad-arthinaḥ ca dvipada-patīn vibudhān ca yad-sva-pūrṇaḥ . na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān kṛtajñaḥ .. 22 ..
मैत्रेय उवाच - (अनुष्टुप्)
इति प्रचेतसो राजन् अन्याश्च भगवत्कथाः । श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः ॥ २३ ॥
इति प्रचेतसः राजन् अन्याः च भगवत्-कथाः । श्रावयित्वा ब्रह्म-लोकम् ययौ स्वायम्भुवः मुनिः ॥ २३ ॥
iti pracetasaḥ rājan anyāḥ ca bhagavat-kathāḥ . śrāvayitvā brahma-lokam yayau svāyambhuvaḥ muniḥ .. 23 ..
तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् । हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः ॥ २४ ॥
ते अपि तद्-मुख-निर्यातम् यशः लोक-मल-अपहम् । हरेः निशम्य तद्-पादम् ध्यायन्तः तद्-गतिम् ययुः ॥ २४ ॥
te api tad-mukha-niryātam yaśaḥ loka-mala-apaham . hareḥ niśamya tad-pādam dhyāyantaḥ tad-gatim yayuḥ .. 24 ..
एतत्तेऽभिहितं क्षत्तः यन्मां त्वं परिपृष्टवान् । प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥
एतत् ते अभिहितम् क्षत्तर् यत् माम् त्वम् परिपृष्टवान् । प्रचेतसाम् नारदस्य संवादम् हरि-कीर्तनम् ॥ २५ ॥
etat te abhihitam kṣattar yat mām tvam paripṛṣṭavān . pracetasām nāradasya saṃvādam hari-kīrtanam .. 25 ..
श्रीशुक उवाच -
य एष उत्तानपदो मानवस्यानुवर्णितः । वंशः प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥
यः एषः उत्तानपदः मानवस्य अनुवर्णितः । वंशः प्रियव्रतस्य अपि निबोध नृप-सत्तम ॥ २६ ॥
yaḥ eṣaḥ uttānapadaḥ mānavasya anuvarṇitaḥ . vaṃśaḥ priyavratasya api nibodha nṛpa-sattama .. 26 ..
यो नारदादात् आत्मविद्यां अधिगम्य पुनर्महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥
यः नारद अदात् आत्म-विद्याम् अधिगम्य पुनर् महीम् । भुक्त्वा विभज्य पुत्रेभ्यः ऐश्वरम् समगात् पदम् ॥ २७ ॥
yaḥ nārada adāt ātma-vidyām adhigamya punar mahīm . bhuktvā vibhajya putrebhyaḥ aiśvaram samagāt padam .. 27 ..
इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् । प्रवृद्धभावोऽश्रुकलाकुलो मुनेः दधार मूर्ध्ना चरणं हृदा हरेः ॥ २८ ॥
इमाम् तु कौषारविणा उपवर्णिताम् क्षत्ता निशम्य अजित-वाद-सत्-कथाम् । प्रवृद्ध-भावः अश्रु-कला-आकुलः मुनेः दधार मूर्ध्ना चरणम् हृदा हरेः ॥ २८ ॥
imām tu kauṣāraviṇā upavarṇitām kṣattā niśamya ajita-vāda-sat-kathām . pravṛddha-bhāvaḥ aśru-kalā-ākulaḥ muneḥ dadhāra mūrdhnā caraṇam hṛdā hareḥ .. 28 ..
विदुर उवाच - (अनुष्टुप्)
सोऽयमद्य महायोगिन् भवता करुणात्मना । दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः ॥ २९ ॥
सः अयम् अद्य महा-योगिन् भवता करुण-आत्मना । दर्शितः तमसः पारः यत्र अकिञ्चन-गः हरिः ॥ २९ ॥
saḥ ayam adya mahā-yogin bhavatā karuṇa-ātmanā . darśitaḥ tamasaḥ pāraḥ yatra akiñcana-gaḥ hariḥ .. 29 ..
श्रीशुक उवाच -
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् । स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ ३० ॥
इति आनम्य तम् आमन्त्र्य विदुरः गजसाह्वयम् । स्वानाम् दिदृक्षुः प्रययौ ज्ञातीनाम् निर्वृत-आशयः ॥ ३० ॥
iti ānamya tam āmantrya viduraḥ gajasāhvayam . svānām didṛkṣuḥ prayayau jñātīnām nirvṛta-āśayaḥ .. 30 ..
एतद् यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् । आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१ ॥
एतत् यः शृणुयात् राजन् राज्ञाम् हरि-अर्पित-आत्मनाम् । आयुः धनम् यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात् ॥ ३१ ॥
etat yaḥ śṛṇuyāt rājan rājñām hari-arpita-ātmanām . āyuḥ dhanam yaśaḥ svasti gatim aiśvaryam āpnuyāt .. 31 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेतौपाख्यानं नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे प्रचेतौपाख्यानम् नाम एकयस्त्रिंशः अध्यायः ॥ ३१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe pracetaupākhyānam nāma ekayastriṃśaḥ adhyāyaḥ .. 31 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In