तामागतां तत्र न कश्चनाद्रियद् विमानितां यज्ञकृतो भयाज्जनः । ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७ ॥
PADACHEDA
ताम् आगताम् तत्र न कश्चन आद्रियत् विमानिताम् यज्ञ-कृतः भयात् जनः । ऋते स्वसॄः वै जननीम् च सादराः प्रेम-अश्रु-कण्ठ्यः परिषस्वजुः मुदा ॥ ७ ॥
TRANSLITERATION
tām āgatām tatra na kaścana ādriyat vimānitām yajña-kṛtaḥ bhayāt janaḥ . ṛte svasṝḥ vai jananīm ca sādarāḥ prema-aśru-kaṇṭhyaḥ pariṣasvajuḥ mudā .. 7 ..
सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम् । दत्तां सपर्यां वरमासनं च सा नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥
PADACHEDA
स औदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृष्वसृभिः च सादरम् । दत्ताम् सपर्याम् वरम् आसनम् च सा ना अदत्त पित्रा अ प्रतिनन्दिता सती ॥ ८ ॥
TRANSLITERATION
sa audarya-sampraśna-samartha-vārtayā mātrā ca mātṛṣvasṛbhiḥ ca sādaram . dattām saparyām varam āsanam ca sā nā adatta pitrā a pratinanditā satī .. 8 ..
अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः । जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
PADACHEDA
अतस् तव उत्पन्नम् इदम् कलेवरम् न धारयिष्ये शितिकण्ठ-गर्हिणः । जग्धस्य मोहात् हि विशुद्धिम् अन्धसः जुगुप्सितस्य उद्धरणम् प्रचक्षते ॥ १८ ॥
TRANSLITERATION
atas tava utpannam idam kalevaram na dhārayiṣye śitikaṇṭha-garhiṇaḥ . jagdhasya mohāt hi viśuddhim andhasaḥ jugupsitasya uddharaṇam pracakṣate .. 18 ..
नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना । व्रीडा ममाभूत्कुजनप्रसङ्गतः तज्जन्म धिग् यो महतामवद्यकृत् ॥ २२ ॥
PADACHEDA
न एतेन देहेन हरे कृत-आगसः देह-उद्भवेन अलम् अलम् कु जन्मना । व्रीडा मम अभूत् कु जन-प्रसङ्गतः तत् जन्म धिक् यः महताम् अवद्य-कृत् ॥ २२ ॥
TRANSLITERATION
na etena dehena hare kṛta-āgasaḥ deha-udbhavena alam alam ku janmanā . vrīḍā mama abhūt ku jana-prasaṅgataḥ tat janma dhik yaḥ mahatām avadya-kṛt .. 22 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.