| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
एतावदुक्त्वा विरराम शङ्करः पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन् । सुहृद् दिदृक्षुः परिशङ्किता भवान् निष्क्रामती निर्विशती द्विधाऽऽस सा ॥ १ ॥
एतावत् उक्त्वा विरराम शङ्करः पत्नी-अङ्ग-नाशम् हि उभयत्र चिन्तयन् । सुहृद् दिदृक्षुः परिशङ्किता भवान् निष्क्रामती निर्विशती द्विधा आस सा ॥ १ ॥
etāvat uktvā virarāma śaṅkaraḥ patnī-aṅga-nāśam hi ubhayatra cintayan . suhṛd didṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhā āsa sā .. 1 ..
सुहृद् दिदृक्षाप्रतिघातदुर्मनाः स्नेहाद्रुदत्यश्रुकलातिविह्वला । भवं भवान्यप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जातवेपथुः ॥ २ ॥
सुहृद् दिदृक्षा-प्रतिघात-दुर्मनाः स्नेह-आद्रुदती अश्रु-कला-अति विह्वला । भवम् भवानी अप्रतिपूरुषम् रुषा प्रधक्ष्यती इव ऐक्षत जात-वेपथुः ॥ २ ॥
suhṛd didṛkṣā-pratighāta-durmanāḥ sneha-ādrudatī aśru-kalā-ati vihvalā . bhavam bhavānī apratipūruṣam ruṣā pradhakṣyatī iva aikṣata jāta-vepathuḥ .. 2 ..
ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा । पित्रोरगात् स्त्रैणविमूढधीर्गृहान् प्रेम्णात्मनो योऽर्धमदात्सतां प्रियः ॥ ३ ॥
ततस् विनिःश्वस्य सती विहाय तम् शोकेन रोषेण च दूयता हृदा । पित्रोः अगात् स्त्रैण-विमूढ-धीः गृहान् प्रेम्णा आत्मनः यः अर्धम् अदात् सताम् प्रियः ॥ ३ ॥
tatas viniḥśvasya satī vihāya tam śokena roṣeṇa ca dūyatā hṛdā . pitroḥ agāt straiṇa-vimūḍha-dhīḥ gṛhān premṇā ātmanaḥ yaḥ ardham adāt satām priyaḥ .. 3 ..
तामन्वगच्छन् द्रुतविक्रमां सतीं एकां त्रिनेत्रानुचराः सहस्रशः । सपार्षदयक्षा मणिमन्मदादयः पुरोवृषेन्द्रास्तरसा गतव्यथाः ॥ ४ ॥
ताम् अन्वगच्छन् द्रुत-विक्रमाम् सतीम् एकाम् त्रिनेत्र-अनुचराः सहस्रशस् । स पार्षद-यक्षाः मणिमत्-मद-आदयः पुरस् वृष-इन्द्राः तरसा गत-व्यथाः ॥ ४ ॥
tām anvagacchan druta-vikramām satīm ekām trinetra-anucarāḥ sahasraśas . sa pārṣada-yakṣāḥ maṇimat-mada-ādayaḥ puras vṛṣa-indrāḥ tarasā gata-vyathāḥ .. 4 ..
तां सारिका कन्दुकदर्पणाम्बुज श्वेतातपत्र व्यजनस्रगादिभिः । गीतायनैः दुन्दुभिशङ्खवेणुभिः वृषेन्द्रमारोप्य विटङ्किता ययुः ॥ ५ ॥
ताम् सारिका व्यजन-स्रज्-आदिभिः । गीतायनैः दुन्दुभि-शङ्ख-वेणुभिः वृष-इन्द्रम् आरोप्य विटङ्किताः ययुः ॥ ५ ॥
tām sārikā vyajana-sraj-ādibhiḥ . gītāyanaiḥ dundubhi-śaṅkha-veṇubhiḥ vṛṣa-indram āropya viṭaṅkitāḥ yayuḥ .. 5 ..
आब्रह्मघोषोर्जितयज्ञवैशसं विप्रर्षिजुष्टं विबुधैश्च सर्वशः । मृद्दार्वयःकाञ्चनदर्भचर्मभिः निसृष्टभाण्डं यजनं समाविशत् ॥ ॥ ६ ॥
आ ब्रह्म-घोष-ऊर्जित-यज्ञ-वैशसम् विप्र-ऋषि-जुष्टम् विबुधैः च सर्वशस् । मृद्-दारु-अयः-काञ्चन-दर्भ-चर्मभिः निसृष्ट-भाण्डम् यजनम् समाविशत् ॥ ॥ ६ ॥
ā brahma-ghoṣa-ūrjita-yajña-vaiśasam vipra-ṛṣi-juṣṭam vibudhaiḥ ca sarvaśas . mṛd-dāru-ayaḥ-kāñcana-darbha-carmabhiḥ nisṛṣṭa-bhāṇḍam yajanam samāviśat .. .. 6 ..
तामागतां तत्र न कश्चनाद्रियद् विमानितां यज्ञकृतो भयाज्जनः । ऋते स्वसॄर्वै जननीं च सादराः प्रेमाश्रुकण्ठ्यः परिषस्वजुर्मुदा ॥ ७ ॥
ताम् आगताम् तत्र न कश्चन आद्रियत् विमानिताम् यज्ञ-कृतः भयात् जनः । ऋते स्वसॄः वै जननीम् च सादराः प्रेम-अश्रु-कण्ठ्यः परिषस्वजुः मुदा ॥ ७ ॥
tām āgatām tatra na kaścana ādriyat vimānitām yajña-kṛtaḥ bhayāt janaḥ . ṛte svasṝḥ vai jananīm ca sādarāḥ prema-aśru-kaṇṭhyaḥ pariṣasvajuḥ mudā .. 7 ..
सौदर्यसम्प्रश्नसमर्थवार्तया मात्रा च मातृष्वसृभिश्च सादरम् । दत्तां सपर्यां वरमासनं च सा नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥
स औदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृष्वसृभिः च सादरम् । दत्ताम् सपर्याम् वरम् आसनम् च सा ना अदत्त पित्रा अ प्रतिनन्दिता सती ॥ ८ ॥
sa audarya-sampraśna-samartha-vārtayā mātrā ca mātṛṣvasṛbhiḥ ca sādaram . dattām saparyām varam āsanam ca sā nā adatta pitrā a pratinanditā satī .. 8 ..
अरुद्रभागं तमवेक्ष्य चाध्वरं पित्रा च देवे कृतहेलनं विभौ । अनादृता यज्ञसदस्यधीश्वरी चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥
अ रुद्र-भागम् तम् अवेक्ष्य च अध्वरम् पित्रा च देवे कृत-हेलनम् विभौ । अन् आदृता यज्ञ-सदसि अधि ईश्वरी चुकोप लोकान् इव धक्ष्यती रुषा ॥ ९ ॥
a rudra-bhāgam tam avekṣya ca adhvaram pitrā ca deve kṛta-helanam vibhau . an ādṛtā yajña-sadasi adhi īśvarī cukopa lokān iva dhakṣyatī ruṣā .. 9 ..
जगर्ह सामर्षविपन्नया गिरा शिवद्विषं धूमपथश्रमस्मयम् । स्वतेजसा भूतगणान् समुत्थितान् निगृह्य देवी जगतोऽभिशृण्वतः ॥ १० ॥
जगर्ह स अमर्ष-विपन्नया गिरा शिव-द्विषम् धूम-पथ-श्रम-स्मयम् । स्व-तेजसा भूत-गणान् समुत्थितान् निगृह्य देवी जगतः अभिशृण्वतः ॥ १० ॥
jagarha sa amarṣa-vipannayā girā śiva-dviṣam dhūma-patha-śrama-smayam . sva-tejasā bhūta-gaṇān samutthitān nigṛhya devī jagataḥ abhiśṛṇvataḥ .. 10 ..
न यस्य लोकेऽस्त्यतिशायनः प्रियः तथाप्रियो देहभृतां प्रियात्मनः । तस्मिन् समस्तात्मनि मुक्तवैरके ऋते भवन्तं कतमः प्रतीपयेत् ॥ ११ ॥
न यस्य लोके अस्ति अतिशायनः प्रियः तथा अप्रियः देहभृताम् प्रिय-आत्मनः । तस्मिन् समस्त-आत्मनि मुक्त-वैरके ऋते भवन्तम् कतमः प्रतीपयेत् ॥ ११ ॥
na yasya loke asti atiśāyanaḥ priyaḥ tathā apriyaḥ dehabhṛtām priya-ātmanaḥ . tasmin samasta-ātmani mukta-vairake ṛte bhavantam katamaḥ pratīpayet .. 11 ..
दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन्न भवादृशो द्विज । गुणांश्च फल्गून् बहुलीकरिष्णवो महत्तमास्तेष्वविदद्भवानघम् ॥ १२ ॥
दोषान् परेषाम् हि गुणेषु साधवः गृह्णन्ति केचिद् न भवादृशः द्विज । गुणान् च फल्गून् बहुलीकरिष्णवः महत्तमाः तेषु अविदत् भवान् अनघम् ॥ १२ ॥
doṣān pareṣām hi guṇeṣu sādhavaḥ gṛhṇanti kecid na bhavādṛśaḥ dvija . guṇān ca phalgūn bahulīkariṣṇavaḥ mahattamāḥ teṣu avidat bhavān anagham .. 12 ..
नाश्चर्यमेतद्यदसत्सु सर्वदा महद्विनिन्दा कुणपात्मवादिषु । सेर्ष्यं महापूरुषपादपांसुभिः निरस्ततेजःसु तदेव शोभनम् ॥ १३ ॥
न आश्चर्यम् एतत् यत् असत्सु सर्वदा महत्-विनिन्दा कुणप-आत्म-वादिषु । स ईर्ष्यम् महा-पूरुष-पाद-पांसुभिः निरस्त-तेजःसु तत् एव शोभनम् ॥ १३ ॥
na āścaryam etat yat asatsu sarvadā mahat-vinindā kuṇapa-ātma-vādiṣu . sa īrṣyam mahā-pūruṣa-pāda-pāṃsubhiḥ nirasta-tejaḥsu tat eva śobhanam .. 13 ..
यद् द्व्यक्षरं नाम गिरेरितं नृणां सकृत्प्रसङ्गादघमाशु हन्ति तत् । पवित्रकीर्तिं तमलङ्घ्यशासनं भवानहो द्वेष्टि शिवं शिवेतरः ॥ १४ ॥
यत् द्वि-अक्षरम् नाम गिरा ईरितम् नृणाम् सकृत् प्रसङ्गात् अघम् आशु हन्ति तत् । पवित्र-कीर्तिम् तम् अ लङ्घ्य-शासनम् भवान् अहो द्वेष्टि शिवम् शिव-इतरः ॥ १४ ॥
yat dvi-akṣaram nāma girā īritam nṛṇām sakṛt prasaṅgāt agham āśu hanti tat . pavitra-kīrtim tam a laṅghya-śāsanam bhavān aho dveṣṭi śivam śiva-itaraḥ .. 14 ..
यत्पादपद्मं महतां मनोऽलिभिः निषेवितं ब्रह्मरसासवार्थिभिः । लोकस्य यद्वर्षति चाशिषोऽर्थिनः तस्मै भवान् द्रुह्यति विश्वबन्धवे ॥ १५ ॥
यद्-पाद-पद्मम् महताम् मनः-अलिभिः निषेवितम् ब्रह्म-रस-आसव-अर्थिभिः । लोकस्य यत् वर्षति च आशिषः अर्थिनः तस्मै भवान् द्रुह्यति विश्व-बन्धवे ॥ १५ ॥
yad-pāda-padmam mahatām manaḥ-alibhiḥ niṣevitam brahma-rasa-āsava-arthibhiḥ . lokasya yat varṣati ca āśiṣaḥ arthinaḥ tasmai bhavān druhyati viśva-bandhave .. 15 ..
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये ब्रह्मादयस्तमवकीर्य जटाः श्मशाने । तन्माल्यभस्मनृकपाल्यवसत्पिशाचैः ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
किम् वा शिव-आख्यम् अशिवम् न विदुः त्वद्-अन्ये ब्रह्म-आदयः तम् अवकीर्य जटाः श्मशाने । तद्-माल्य-भस्म-नृ-कपाल्य-वसत्-पिशाचैः ये मूर्धभिः दधति तद्-चरण-अवसृष्टम् ॥ १६ ॥
kim vā śiva-ākhyam aśivam na viduḥ tvad-anye brahma-ādayaḥ tam avakīrya jaṭāḥ śmaśāne . tad-mālya-bhasma-nṛ-kapālya-vasat-piśācaiḥ ye mūrdhabhiḥ dadhati tad-caraṇa-avasṛṣṭam .. 16 ..
कर्णौ पिधाय निरयाद्यदकल्प ईशे धर्मावितर्यसृणिभिर्नृभिरस्यमाने । छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चेत् जिह्वामसूनपि ततो विसृजेत्स धर्मः ॥ १७ ॥
कर्णौ पिधाय निरयात् यत् अकल्पे ईशे धर्म-अवितरि असृणिभिः नृभिः अस्यमाने । छिन्द्यात् प्रसह्य रुशतीम् असतीम् प्रभुः चेद् जिह्वाम् असून् अपि ततस् विसृजेत् स धर्मः ॥ १७ ॥
karṇau pidhāya nirayāt yat akalpe īśe dharma-avitari asṛṇibhiḥ nṛbhiḥ asyamāne . chindyāt prasahya ruśatīm asatīm prabhuḥ ced jihvām asūn api tatas visṛjet sa dharmaḥ .. 17 ..
अतस्तवोत्पन्नमिदं कलेवरं न धारयिष्ये शितिकण्ठगर्हिणः । जग्धस्य मोहाद्धि विशुद्धिमन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
अतस् तव उत्पन्नम् इदम् कलेवरम् न धारयिष्ये शितिकण्ठ-गर्हिणः । जग्धस्य मोहात् हि विशुद्धिम् अन्धसः जुगुप्सितस्य उद्धरणम् प्रचक्षते ॥ १८ ॥
atas tava utpannam idam kalevaram na dhārayiṣye śitikaṇṭha-garhiṇaḥ . jagdhasya mohāt hi viśuddhim andhasaḥ jugupsitasya uddharaṇam pracakṣate .. 18 ..
न वेदवादान् अनुवर्तते मतिः स्व एव लोके रमतो महामुनेः । यथा गतिर्देवमनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत्स्थितः ॥ १९ ॥
न वेद-वादान् अनुवर्तते मतिः स्वे एव लोके रमतः महा-मुनेः । यथा गतिः देव-मनुष्ययोः पृथक् स्वे एव धर्मे न परम् क्षिपेत् स्थितः ॥ १९ ॥
na veda-vādān anuvartate matiḥ sve eva loke ramataḥ mahā-muneḥ . yathā gatiḥ deva-manuṣyayoḥ pṛthak sve eva dharme na param kṣipet sthitaḥ .. 19 ..
कर्म प्रवृत्तं च निवृत्तमप्यृतं वेदे विविच्योभयलिङ्गमाश्रितम् । विरोधि तद्यौगपदैककर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २० ॥
कर्म प्रवृत्तम् च निवृत्तम् अपि ऋतम् वेदे विविच्य उभय-लिङ्गम् आश्रितम् । विरोधि तद्-यौगपद-एक-कर्तरि द्वयम् तथा ब्रह्मणि कर्म न ऋच्छति ॥ २० ॥
karma pravṛttam ca nivṛttam api ṛtam vede vivicya ubhaya-liṅgam āśritam . virodhi tad-yaugapada-eka-kartari dvayam tathā brahmaṇi karma na ṛcchati .. 20 ..
मा वः पदव्यः पितरस्मदास्थिता या यज्ञशालासु न धूमवर्त्मभिः । तदन्नतृप्तैरसुभृद्भिरीडिता अव्यक्तलिङ्गा अवधूतसेविताः ॥ २१ ॥
मा वः पदव्यः पितर् अस्मत् आस्थिताः याः यज्ञ-शालासु न धूम-वर्त्मभिः । तद्-अन्न-तृप्तैः असुभृद्भिः ईडिताः अव्यक्त-लिङ्गाः अवधूत-सेविताः ॥ २१ ॥
mā vaḥ padavyaḥ pitar asmat āsthitāḥ yāḥ yajña-śālāsu na dhūma-vartmabhiḥ . tad-anna-tṛptaiḥ asubhṛdbhiḥ īḍitāḥ avyakta-liṅgāḥ avadhūta-sevitāḥ .. 21 ..
नैतेन देहेन हरे कृतागसो देहोद्भवेनालमलं कुजन्मना । व्रीडा ममाभूत्कुजनप्रसङ्गतः तज्जन्म धिग् यो महतामवद्यकृत् ॥ २२ ॥
न एतेन देहेन हरे कृत-आगसः देह-उद्भवेन अलम् अलम् कु जन्मना । व्रीडा मम अभूत् कु जन-प्रसङ्गतः तत् जन्म धिक् यः महताम् अवद्य-कृत् ॥ २२ ॥
na etena dehena hare kṛta-āgasaḥ deha-udbhavena alam alam ku janmanā . vrīḍā mama abhūt ku jana-prasaṅgataḥ tat janma dhik yaḥ mahatām avadya-kṛt .. 22 ..
गोत्रं त्वदीयं भगवान्वृषध्वजो दाक्षायणीत्याह यदा सुदुर्मनाः । व्यपेतनर्मस्मितमाशु तद्ध्यहं व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥ २३ ॥
गोत्रम् त्वदीयम् भगवान् वृषध्वजः दाक्षायणि इति आह यदा सु दुर्मनाः । व्यपेत-नर्म-स्मितम् आशु तत् हि अहम् व्युत्स्रक्ष्ये एतत् कुणपम् त्वद्-अङ्ग-जम् ॥ २३ ॥
gotram tvadīyam bhagavān vṛṣadhvajaḥ dākṣāyaṇi iti āha yadā su durmanāḥ . vyapeta-narma-smitam āśu tat hi aham vyutsrakṣye etat kuṇapam tvad-aṅga-jam .. 23 ..
इत्यध्वरे दक्षमनूद्य शत्रुहन् क्षितावुदीचीं निषसाद शान्तवाक् । स्पृष्ट्वा जलं पीतदुकूलसंवृता निमील्य दृग्योगपथं समाविशत् ॥ २४ ॥
इति अध्वरे दक्षम् अनूद्य शत्रु-हन् क्षितौ उदीचीम् निषसाद शान्त-वाच् । स्पृष्ट्वा जलम् पीत-दुकूल-संवृता निमील्य दृश्-योग-पथम् समाविशत् ॥ २४ ॥
iti adhvare dakṣam anūdya śatru-han kṣitau udīcīm niṣasāda śānta-vāc . spṛṣṭvā jalam pīta-dukūla-saṃvṛtā nimīlya dṛś-yoga-patham samāviśat .. 24 ..
कृत्वा समानावनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः । शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५ ॥
कृत्वा समानौ अनिलौ जित-आसना सा उदानम् उत्थाप्य च नाभि-चक्रतः । शनैस् हृदि स्थाप्य धिया उरसि स्थितम् कण्ठात् भ्रुवोः मध्यम् अनिन्दिता अनयत् ॥ २५ ॥
kṛtvā samānau anilau jita-āsanā sā udānam utthāpya ca nābhi-cakrataḥ . śanais hṛdi sthāpya dhiyā urasi sthitam kaṇṭhāt bhruvoḥ madhyam aninditā anayat .. 25 ..
एवं स्वदेहं महतां महीयसा मुहुः समारोपितमङ्कमादरात् । जिहासती दक्षरुषा मनस्विनी दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६ ॥
एवम् स्व-देहम् महताम् महीयसा मुहुर् समारोपितम् अङ्कम् आदरात् । जिहासती दक्ष-रुषा मनस्विनी दधार गात्रेषु अनिल-अग्नि-धारणाम् ॥ २६ ॥
evam sva-deham mahatām mahīyasā muhur samāropitam aṅkam ādarāt . jihāsatī dakṣa-ruṣā manasvinī dadhāra gātreṣu anila-agni-dhāraṇām .. 26 ..
ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम् । ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥ २७ ॥
ततस् स्व-भर्तुः चरण-अम्बुज-आसवम् जगद्गुरोः चिन्तयती न च अपरम् । ददर्श देहः हत-कल्मषः सती सद्यस् प्रजज्वाल समाधि-ज-अग्निना ॥ २७ ॥
tatas sva-bhartuḥ caraṇa-ambuja-āsavam jagadguroḥ cintayatī na ca aparam . dadarśa dehaḥ hata-kalmaṣaḥ satī sadyas prajajvāla samādhi-ja-agninā .. 27 ..
तत्पश्यतां खे भुवि चाद्भुतं महत् हा हेति वादः सुमहान् अजायत । हन्त प्रिया दैवतमस्य देवी जहावसून्केन सती प्रकोपिता ॥ २८ ॥
तत् पश्यताम् खे भुवि च अद्भुतम् महत् हा हा इति वादः सु महान् अजायत । हन्त प्रिया दैवतम् अस्य देवी जहौ असून् केन सती प्रकोपिता ॥ २८ ॥
tat paśyatām khe bhuvi ca adbhutam mahat hā hā iti vādaḥ su mahān ajāyata . hanta priyā daivatam asya devī jahau asūn kena satī prakopitā .. 28 ..
अहो अनात्म्यं महदस्य पश्यत प्रजापतेर्यस्य चराचरं प्रजाः । जहावसून्यद्विमताऽऽत्मजा सती मनस्विनी मानमभीक्ष्णमर्हति ॥ २९ ॥
अहो अनात्म्यम् महत् अस्य पश्यत प्रजापतेः यस्य चराचरम् प्रजाः । सती मनस्विनी मानम् अभीक्ष्णम् अर्हति ॥ २९ ॥
aho anātmyam mahat asya paśyata prajāpateḥ yasya carācaram prajāḥ . satī manasvinī mānam abhīkṣṇam arhati .. 29 ..
सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च लोकेऽपकीर्तिं महतीमवाप्स्यति । यदङ्गजां स्वां पुरुषद्विडुद्यतां न प्रत्यषेधन्मृतयेऽपराधतः ॥ ३० ॥
सः अयम् दुर्मर्ष-हृदयः च लोके अपकीर्तिम् महतीम् अवाप्स्यति । यत् अङ्गजाम् स्वाम् पुरुष-द्विष्-उद्यताम् न प्रत्यषेधत् मृतये अपराधतः ॥ ३० ॥
saḥ ayam durmarṣa-hṛdayaḥ ca loke apakīrtim mahatīm avāpsyati . yat aṅgajām svām puruṣa-dviṣ-udyatām na pratyaṣedhat mṛtaye aparādhataḥ .. 30 ..
वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् । दक्षं तत्पार्षदा हन्तुं उदतिष्ठन्नुदायुधाः ॥ ३१ ॥
वदति एवम् जने सत्याः दृष्ट्वा असु-त्यागम् अद्भुतम् । दक्षम् तद्-पार्षदाः हन्तुम् उदतिष्ठन् उदायुधाः ॥ ३१ ॥
vadati evam jane satyāḥ dṛṣṭvā asu-tyāgam adbhutam . dakṣam tad-pārṣadāḥ hantum udatiṣṭhan udāyudhāḥ .. 31 ..
तेषां आपततां वेगं निशाम्य भगवान् भृगुः । यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२ ॥
तेषाम् आपतताम् वेगम् निशाम्य भगवान् भृगुः । यज्ञ-घ्न-घ्नेन यजुषा दक्षिण-अग्नौ जुहाव ह ॥ ३२ ॥
teṣām āpatatām vegam niśāmya bhagavān bhṛguḥ . yajña-ghna-ghnena yajuṣā dakṣiṇa-agnau juhāva ha .. 32 ..
अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा । ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ ३३ ॥
अध्वर्युणा हूयमाने देवाः उत्पेतुः ओजसा । ऋभवः नाम तपसा सोमम् प्राप्ताः सहस्रशस् ॥ ३३ ॥
adhvaryuṇā hūyamāne devāḥ utpetuḥ ojasā . ṛbhavaḥ nāma tapasā somam prāptāḥ sahasraśas .. 33 ..
तैरलातायुधैः सर्वे प्रमथाः सहगुह्यकाः । हन्यमाना दिशो भेजुः उशद्भिर्ब्रह्मतेजसा ॥ ३४ ॥
तैः अलात-आयुधैः सर्वे प्रमथाः सह गुह्यकाः । हन्यमानाः दिशः भेजुः उशद्भिः ब्रह्म-तेजसा ॥ ३४ ॥
taiḥ alāta-āyudhaiḥ sarve pramathāḥ saha guhyakāḥ . hanyamānāḥ diśaḥ bhejuḥ uśadbhiḥ brahma-tejasā .. 34 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे सतीदेहोत्सर्गो नाम चतुर्थोऽध्यायः ॥ ४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे सतीदेहोत्सर्गः नाम चतुर्थः अध्यायः ॥ ४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe satīdehotsargaḥ nāma caturthaḥ adhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In