अन्वीयमानः स तु रुद्रपार्षदैः भृशं नदद्भिर्व्यनदत्सुभैरवम् । उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रवद् घोषणभूषणाङ्घ्रिः ॥ ॥ ६ ॥
PADACHEDA
अन्वीयमानः स तु रुद्र-पार्षदैः भृशम् नदद्भिः व्यनदत् सु भैरवम् । उद्यम्य शूलम् जगदन्तक-अन्तकम् स प्राद्रवत् घोषण-भूषण-अङ्घ्रिः ॥ ॥ ६ ॥
TRANSLITERATION
anvīyamānaḥ sa tu rudra-pārṣadaiḥ bhṛśam nadadbhiḥ vyanadat su bhairavam . udyamya śūlam jagadantaka-antakam sa prādravat ghoṣaṇa-bhūṣaṇa-aṅghriḥ .. .. 6 ..
वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः । गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥
PADACHEDA
वाताः न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिः जीवति ह उग्र-दण्डः । गावः न काल्यन्ते इदम् कुतस् रजः लोकः अधुना किम् प्रलयाय कल्पते ॥ ८ ॥
TRANSLITERATION
vātāḥ na vānti na hi santi dasyavaḥ prācīnabarhiḥ jīvati ha ugra-daṇḍaḥ . gāvaḥ na kālyante idam kutas rajaḥ lokaḥ adhunā kim pralayāya kalpate .. 8 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.