| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
भवो भवान्या निधनं प्रजापतेः असत्कृताया अवगम्य नारदात् । स्वपार्षदसैन्यं च तदध्वरर्भुभिः विद्रावितं क्रोधमपारमादधे ॥ १ ॥
भवः भवान्याः निधनम् प्रजापतेः असत्कृतायाः अवगम्य नारदात् । स्व-पार्षद-सैन्यम् च तद्-अध्वर-ऋभुभिः विद्रावितम् क्रोधम् अपारम् आदधे ॥ १ ॥
bhavaḥ bhavānyāḥ nidhanam prajāpateḥ asatkṛtāyāḥ avagamya nāradāt . sva-pārṣada-sainyam ca tad-adhvara-ṛbhubhiḥ vidrāvitam krodham apāram ādadhe .. 1 ..
क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिः जटां तडिद् वह्निसटोग्ररोचिषम् । उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि ॥ २ ॥
क्रुद्धः सु दष्ट-ओष्ठ-पुटः स धूर्जटिः जटाम् तडित् वह्नि-सटा-उग्र-रोचिषम् । उत्कृत्य रुद्रः सहसा उत्थितः हसन् गम्भीर-नादः विससर्ज ताम् भुवि ॥ २ ॥
kruddhaḥ su daṣṭa-oṣṭha-puṭaḥ sa dhūrjaṭiḥ jaṭām taḍit vahni-saṭā-ugra-rociṣam . utkṛtya rudraḥ sahasā utthitaḥ hasan gambhīra-nādaḥ visasarja tām bhuvi .. 2 ..
ततोऽतिकायस्तनुवा स्पृशन्दिवं सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् । करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः ॥ ३ ॥
ततस् अतिकायः तनुवा स्पृशन् दिवम् सहस्र-बाहुः घन-रुज् त्रि-सूर्य-दृश् । ॥ ३ ॥
tatas atikāyaḥ tanuvā spṛśan divam sahasra-bāhuḥ ghana-ruj tri-sūrya-dṛś . .. 3 ..
तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः । दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र भटांशको मे ॥ ४ ॥
तम् किम् करोमि इति गृणन्तम् आह बद्धाञ्जलिम् भगवान् भूतनाथः । दक्षम् स यज्ञम् जहि मद्-भटानाम् त्वम् अग्रणी रुद्र भट-अंशकः मे ॥ ४ ॥
tam kim karomi iti gṛṇantam āha baddhāñjalim bhagavān bhūtanāthaḥ . dakṣam sa yajñam jahi mad-bhaṭānām tvam agraṇī rudra bhaṭa-aṃśakaḥ me .. 4 ..
आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् । मेनेतदात्मानमसङ्गरंहसा महीयसां तात सहः सहिष्णुम् ॥ ५ ॥
आज्ञप्तः एवम् कुपितेन मन्युना स देवदेवम् परिचक्रमे विभुम् । मेने इतद्-आत्मानम् असङ्ग-रंहसा महीयसाम् तात सहः सहिष्णुम् ॥ ५ ॥
ājñaptaḥ evam kupitena manyunā sa devadevam paricakrame vibhum . mene itad-ātmānam asaṅga-raṃhasā mahīyasām tāta sahaḥ sahiṣṇum .. 5 ..
अन्वीयमानः स तु रुद्रपार्षदैः भृशं नदद्भिर्व्यनदत्सुभैरवम् । उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रवद् घोषणभूषणाङ्घ्रिः ॥ ॥ ६ ॥
अन्वीयमानः स तु रुद्र-पार्षदैः भृशम् नदद्भिः व्यनदत् सु भैरवम् । उद्यम्य शूलम् जगदन्तक-अन्तकम् स प्राद्रवत् घोषण-भूषण-अङ्घ्रिः ॥ ॥ ६ ॥
anvīyamānaḥ sa tu rudra-pārṣadaiḥ bhṛśam nadadbhiḥ vyanadat su bhairavam . udyamya śūlam jagadantaka-antakam sa prādravat ghoṣaṇa-bhūṣaṇa-aṅghriḥ .. .. 6 ..
अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् । तमः किमेतत्कुत एतद्रजोऽभू दिति द्विजा द्विजपत्न्यश्च दध्युः ॥ ७ ॥
अथ ऋत्विजः यजमानः सदस्याः ककुभि उदीच्याम् प्रसमीक्ष्य रेणुम् । तमः किम् एतत् कुतस् एतत् रजः अभूत् इति द्विजाः द्विज-पत्न्यः च दध्युः ॥ ७ ॥
atha ṛtvijaḥ yajamānaḥ sadasyāḥ kakubhi udīcyām prasamīkṣya reṇum . tamaḥ kim etat kutas etat rajaḥ abhūt iti dvijāḥ dvija-patnyaḥ ca dadhyuḥ .. 7 ..
वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः । गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते ॥ ८ ॥
वाताः न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिः जीवति ह उग्र-दण्डः । गावः न काल्यन्ते इदम् कुतस् रजः लोकः अधुना किम् प्रलयाय कल्पते ॥ ८ ॥
vātāḥ na vānti na hi santi dasyavaḥ prācīnabarhiḥ jīvati ha ugra-daṇḍaḥ . gāvaḥ na kālyante idam kutas rajaḥ lokaḥ adhunā kim pralayāya kalpate .. 8 ..
प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य । यत्पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागाम् ॥ ९ ॥
प्रसूति-मिश्राः स्त्रियः उद्विग्न-चित्ताः ऊचुः विपाकः वृजिनस्य एव तस्य । यत् पश्यन्तीनाम् दुहितॄणाम् प्रजा-ईशः सुताम् सतीम् अवदध्यौ अनागाम् ॥ ९ ॥
prasūti-miśrāḥ striyaḥ udvigna-cittāḥ ūcuḥ vipākaḥ vṛjinasya eva tasya . yat paśyantīnām duhitṝṇām prajā-īśaḥ sutām satīm avadadhyau anāgām .. 9 ..
यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः । वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान् उच्चाट्टहास स्तनयित्नुभिन्नदिक् ॥ १० ॥
यः तु अन्तकाले व्युप्त-जटा-कलापः स्व-शूल-सूचि-अर्पित-दिग्गज-इन्द्रः । वितत्य नृत्यति उदित-अस्त्र-द-ऊर्ध्वजान् उच्च-अट्टहास स्तनयित्नु-भिन्न-दिश् ॥ १० ॥
yaḥ tu antakāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūci-arpita-diggaja-indraḥ . vitatya nṛtyati udita-astra-da-ūrdhvajān ucca-aṭṭahāsa stanayitnu-bhinna-diś .. 10 ..
अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या । करालदंष्ट्राभिरुदस्तभागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ ११ ॥
अ मर्षयित्वा तम् असह्य-तेजसम् मन्यु-प्लुतम् दुर्निरीक्ष्यम् भ्रुकुट्या । कराल-दंष्ट्राभिः उदस्त-भा-गणम् स्यात् स्वस्ति किम् कोपयतः विधातुः ॥ ११ ॥
a marṣayitvā tam asahya-tejasam manyu-plutam durnirīkṣyam bhrukuṭyā . karāla-daṃṣṭrābhiḥ udasta-bhā-gaṇam syāt svasti kim kopayataḥ vidhātuḥ .. 11 ..
बह्वेवमुद्विग्न दृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः । उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ १२ ॥
बहु एवम् उद्विग्न दृशा उच्यमाने जनेन दक्षस्य मुहुर् महात्मनः । उत्पेतुः उत्पाततमाः सहस्रशस् भय-आवहाः दिवि भूमौ च पर्यक् ॥ १२ ॥
bahu evam udvigna dṛśā ucyamāne janena dakṣasya muhur mahātmanaḥ . utpetuḥ utpātatamāḥ sahasraśas bhaya-āvahāḥ divi bhūmau ca paryak .. 12 ..
तावत्स रुद्रानुचरैर्मखो महान् नानायुधैर्वामनकैरुदायुधैः । पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याद्रवद्भिः विदुरान्वरुध्यत ॥ १३ ॥
तावत् स रुद्र-अनुचरैः मखः महान् नाना आयुधैः वामनकैः उदायुधैः । पिङ्गैः पिशङ्गैः मकर-उदर-आननैः पर्याद्रवद्भिः विदुरैः अन्वरुध्यत ॥ १३ ॥
tāvat sa rudra-anucaraiḥ makhaḥ mahān nānā āyudhaiḥ vāmanakaiḥ udāyudhaiḥ . piṅgaiḥ piśaṅgaiḥ makara-udara-ānanaiḥ paryādravadbhiḥ viduraiḥ anvarudhyata .. 13 ..
केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे । सद आग्नीध्रशालां च तद्विहारं महानसम् ॥ १४ ॥
केचिद् बभञ्जुः प्राग्वंशम् पत्नीशालाम् तथा अपरे । सदः आग्नीध्र-शालाम् च तद्-विहारम् महानसम् ॥ १४ ॥
kecid babhañjuḥ prāgvaṃśam patnīśālām tathā apare . sadaḥ āgnīdhra-śālām ca tad-vihāram mahānasam .. 14 ..
रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् । कुण्डेष्वमूत्रयन्केचिद् बिभिदुर्वेदिमेखलाः ॥ १५ ॥
रुरुजुः यज्ञ-पात्राणि तथा एके अग्नीन् अनाशयन् । कुण्डेषु अमूत्रयन् केचिद् बिभिदुः वेदि-मेखलाः ॥ १५ ॥
rurujuḥ yajña-pātrāṇi tathā eke agnīn anāśayan . kuṇḍeṣu amūtrayan kecid bibhiduḥ vedi-mekhalāḥ .. 15 ..
अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् । अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥
अबाधन्त मुनीन् अन्ये एके पत्नीः अतर्जयन् । अपरे जगृहुः देवान् प्रत्यासन्नान् पलायितान् ॥ १६ ॥
abādhanta munīn anye eke patnīḥ atarjayan . apare jagṛhuḥ devān pratyāsannān palāyitān .. 16 ..
भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥
भृगुम् बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणम् देवम् भगम् नन्दीश्वरः अग्रहीत् ॥ १७ ॥
bhṛgum babandha maṇimān vīrabhadraḥ prajāpatim . caṇḍeśaḥ pūṣaṇam devam bhagam nandīśvaraḥ agrahīt .. 17 ..
सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः । तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन् ॥ १८ ॥
सर्वे एव ऋत्विजः दृष्ट्वा सदस्याः स दिवौकसः । तैः अर्द्यमानाः सु भृशम् ग्रावभिः न एकधा अद्रवन् ॥ १८ ॥
sarve eva ṛtvijaḥ dṛṣṭvā sadasyāḥ sa divaukasaḥ . taiḥ ardyamānāḥ su bhṛśam grāvabhiḥ na ekadhā adravan .. 18 ..
जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः । भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन् ॥ १९ ॥
जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः । भृगोः लुलुञ्चे सदसि यः अहसत् श्मश्रु दर्शयन् ॥ १९ ॥
juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ . bhṛgoḥ luluñce sadasi yaḥ ahasat śmaśru darśayan .. 19 ..
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदःस्थोऽक्ष्णा यः शपन्तं असूसुचत् ॥ २० ॥
भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सदःस्थः अक्ष्णा यः शपन्तम् असूसुचत् ॥ २० ॥
bhagasya netre bhagavān pātitasya ruṣā bhuvi . ujjahāra sadaḥsthaḥ akṣṇā yaḥ śapantam asūsucat .. 20 ..
पूष्णो ह्यपातयद् दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि योऽहसद् दर्शयन्दतः ॥ २१ ॥
पूष्णः हि अपातयत् दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि यः अहसत् दर्शयन् दतः ॥ २१ ॥
pūṣṇaḥ hi apātayat dantān kāliṅgasya yathā balaḥ . śapyamāne garimaṇi yaḥ ahasat darśayan dataḥ .. 21 ..
आक्रम्योरसि दक्षस्य शितधारेण हेतिना । छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा ॥ २२ ॥
आक्रम्य उरसि दक्षस्य शित-धारेण हेतिना । छिन्दन् अपि तत् उद्धर्तुम् ना अशक्नोत् त्र्यम्बकः तदा ॥ २२ ॥
ākramya urasi dakṣasya śita-dhāreṇa hetinā . chindan api tat uddhartum nā aśaknot tryambakaḥ tadā .. 22 ..
शस्त्रैरस्त्रान्वितैरेवं अनिर्भिन्नत्वचं हरः । विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम् ॥ २३ ॥
शस्त्रैः अस्त्र-अन्वितैः एवम् अनिर्भिन्न-त्वचम् हरः । विस्मयम् परम् आपन्नः दध्यौ पशुपतिः चिरम् ॥ २३ ॥
śastraiḥ astra-anvitaiḥ evam anirbhinna-tvacam haraḥ . vismayam param āpannaḥ dadhyau paśupatiḥ ciram .. 23 ..
दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे । यजमानपशोः कस्य कायात्तेनाहरच्छिरः ॥ २४ ॥
दृष्ट्वा संज्ञपनम् योगम् पशूनाम् स पतिः मखे । यजमान-पशोः कस्य कायात् तेन अहरत् शिरः ॥ २४ ॥
dṛṣṭvā saṃjñapanam yogam paśūnām sa patiḥ makhe . yajamāna-paśoḥ kasya kāyāt tena aharat śiraḥ .. 24 ..
साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम् । भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः ॥ २५ ॥
साधुवादः तदा तेषाम् कर्म तत् तस्य शंसताम् । भूत-प्रेत-पिशाचानाम् अन्येषाम् तद्-विपर्ययः ॥ २५ ॥
sādhuvādaḥ tadā teṣām karma tat tasya śaṃsatām . bhūta-preta-piśācānām anyeṣām tad-viparyayaḥ .. 25 ..
जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः । तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ २६ ॥
जुहाव एतत् शिरः तस्मिन् दक्षिण-अग्नौ अमर्षितः । तत् देवयजनम् दग्ध्वा प्रातिष्ठत् गुह्यक-आलयम् ॥ २६ ॥
juhāva etat śiraḥ tasmin dakṣiṇa-agnau amarṣitaḥ . tat devayajanam dagdhvā prātiṣṭhat guhyaka-ālayam .. 26 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे दक्षयज्ञविध्वंसः नाम पञ्चमः अध्यायः ॥ ५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe dakṣayajñavidhvaṃsaḥ nāma pañcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In