| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
अथ देवगणाः सर्वे रुद्रानीकैः पराजिताः । शूलपट्टिशनिस्त्रिंश गदापरिघमुद्गरैः ॥ १ ॥
अथ देव-गणाः सर्वे रुद्र-अनीकैः पराजिताः । शूल-पट्टिश-निस्त्रिंश गदा-परिघ-मुद्गरैः ॥ १ ॥
atha deva-gaṇāḥ sarve rudra-anīkaiḥ parājitāḥ . śūla-paṭṭiśa-nistriṃśa gadā-parigha-mudgaraiḥ .. 1 ..
सञ्छिन्नभिन्नसर्वाङ्गाः सर्त्विक्सभ्या भयाकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ २ ॥
सञ्छिन्न-भिन्न-सर्व-अङ्गाः स ऋत्विज्-सभ्याः भय-आकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येन एतत् न्यवेदयन् ॥ २ ॥
sañchinna-bhinna-sarva-aṅgāḥ sa ṛtvij-sabhyāḥ bhaya-ākulāḥ . svayambhuve namaskṛtya kārtsnyena etat nyavedayan .. 2 ..
उपलभ्य पुरैवैतद् भगवान् अब्जसम्भवः । नारायणश्च विश्वात्मा न कस्याध्वरमीयतुः ॥ ३ ॥
उपलभ्य पुरा एव एतत् भगवान् अब्ज-सम्भवः । नारायणः च विश्वात्मा न कस्य अध्वरम् ईयतुः ॥ ३ ॥
upalabhya purā eva etat bhagavān abja-sambhavaḥ . nārāyaṇaḥ ca viśvātmā na kasya adhvaram īyatuḥ .. 3 ..
तदाकर्ण्य विभुः प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥
तत् आकर्ण्य विभुः प्राह तेजीयसि कृत-आगसि । क्षेमाय तत्र सा भूयात् नन्न प्रायेण बुभूषताम् ॥ ४ ॥
tat ākarṇya vibhuḥ prāha tejīyasi kṛta-āgasi . kṣemāya tatra sā bhūyāt nanna prāyeṇa bubhūṣatām .. 4 ..
अथापि यूयं कृतकिल्बिषा भवं ये बर्हिषो भागभाजं परादुः । प्रसादयध्वं परिशुद्धचेतसा क्षिप्रप्रसादं प्रगृहीताङ्घ्रिपद्मम् ॥ ५ ॥
अथ अपि यूयम् कृत-किल्बिषाः भवम् ये बर्हिषः भाग-भाजम् परादुः । प्रसादयध्वम् परिशुद्ध-चेतसा क्षिप्र-प्रसादम् प्रगृहीत-अङ्घ्रि-पद्मम् ॥ ५ ॥
atha api yūyam kṛta-kilbiṣāḥ bhavam ye barhiṣaḥ bhāga-bhājam parāduḥ . prasādayadhvam pariśuddha-cetasā kṣipra-prasādam pragṛhīta-aṅghri-padmam .. 5 ..
आशासाना जीवितमध्वरस्य लोकः सपालः कुपिते न यस्मिन् । तमाशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ ६ ॥
आशासाना जीवितम् अध्वरस्य लोकः स पालः कुपिते न यस्मिन् । तम् आशु देवम् प्रियया विहीनम् क्षमापयध्वम् हृदि विद्धम् दुरुक्तैः ॥ ६ ॥
āśāsānā jīvitam adhvarasya lokaḥ sa pālaḥ kupite na yasmin . tam āśu devam priyayā vihīnam kṣamāpayadhvam hṛdi viddham duruktaiḥ .. 6 ..
नाहं न यज्ञो न च यूयमन्ये ये देहभाजो मुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा यस्यात्मतन्त्रस्य क उपायं विधित्सेत् ॥ ७ ॥
न अहम् न यज्ञः न च यूयम् अन्ये ये देहभाजः मुनयः च तत्त्वम् । विदुः प्रमाणम् बल-वीर्ययोः वा यस्य आत्मतन्त्रस्य कः उपायम् विधित्सेत् ॥ ७ ॥
na aham na yajñaḥ na ca yūyam anye ye dehabhājaḥ munayaḥ ca tattvam . viduḥ pramāṇam bala-vīryayoḥ vā yasya ātmatantrasya kaḥ upāyam vidhitset .. 7 ..
स इत्थमादिश्य सुरानजस्तैः समन्वितः पितृभिः सप्रजेशैः । ययौ स्वधिष्ण्यान्निलयं पुरद्विषः कैलासमद्रिप्रवरं प्रियं प्रभोः ॥ ८ ॥
सः इत्थम् आदिश्य सुरान् अजः तैः समन्वितः पितृभिः स प्रजा-ईशैः । ययौ स्व-धिष्ण्यात् निलयम् पुरद्विषः कैलासम् अद्रि-प्रवरम् प्रियम् प्रभोः ॥ ८ ॥
saḥ ittham ādiśya surān ajaḥ taiḥ samanvitaḥ pitṛbhiḥ sa prajā-īśaiḥ . yayau sva-dhiṣṇyāt nilayam puradviṣaḥ kailāsam adri-pravaram priyam prabhoḥ .. 8 ..
(अनुष्टुप्)
जन्मौषधितपोमन्त्र योगसिद्धैर्नरेतरैः । जुष्टं किन्नरगन्धर्वैः अप्सरोभिर्वृतं सदा ॥ ९ ॥
जन्म-औषधि-तपः-मन्त्र-योग-सिद्धैः नरेतरैः । जुष्टम् किन्नर-गन्धर्वैः अप्सरोभिः वृतम् सदा ॥ ९ ॥
janma-auṣadhi-tapaḥ-mantra-yoga-siddhaiḥ naretaraiḥ . juṣṭam kinnara-gandharvaiḥ apsarobhiḥ vṛtam sadā .. 9 ..
नानामणिमयैः शृङ्गैः नानाधातुविचित्रितैः । नानाद्रुमलतागुल्मैः नानामृगगणावृतैः ॥ १० ॥
नाना मणि-मयैः शृङ्गैः नाना धातु-विचित्रितैः । नाना द्रुम-लता-गुल्मैः नाना मृग-गण-आवृतैः ॥ १० ॥
nānā maṇi-mayaiḥ śṛṅgaiḥ nānā dhātu-vicitritaiḥ . nānā druma-latā-gulmaiḥ nānā mṛga-gaṇa-āvṛtaiḥ .. 10 ..
नानामलप्रस्रवणैः नानाकन्दरसानुभिः । रमणं विहरन्तीनां रमणैः सिद्धयोषिताम् ॥ ११ ॥
नाना अमल-प्रस्रवणैः नाना कन्दर-सानुभिः । रमणम् विहरन्तीनाम् रमणैः सिद्ध-योषिताम् ॥ ११ ॥
nānā amala-prasravaṇaiḥ nānā kandara-sānubhiḥ . ramaṇam viharantīnām ramaṇaiḥ siddha-yoṣitām .. 11 ..
मयूरकेकाभिरुतं मदान्धालिविमूर्च्छितम् । प्लावितै रक्तकण्ठानां कूजितैश्च पतत्त्रिणाम् ॥ १२ ॥
मयूर-केका-अभिरुतम् मद-अन्ध-अलि-विमूर्च्छितम् । प्लावितैः रक्तकण्ठानाम् कूजितैः च पतत्त्रिणाम् ॥ १२ ॥
mayūra-kekā-abhirutam mada-andha-ali-vimūrcchitam . plāvitaiḥ raktakaṇṭhānām kūjitaiḥ ca patattriṇām .. 12 ..
आह्वयन्तं इवोद्धस्तैः द्विजान् कामदुघैर्द्रुमैः । व्रजन्तमिव मातङ्गैः गृणन्तमिव निर्झरैः ॥ १३ ॥
आह्वयन्तम् इव उद्धस्तैः द्विजान् काम-दुघैः द्रुमैः । व्रजन्तम् इव मातङ्गैः गृणन्तम् इव निर्झरैः ॥ १३ ॥
āhvayantam iva uddhastaiḥ dvijān kāma-dughaiḥ drumaiḥ . vrajantam iva mātaṅgaiḥ gṛṇantam iva nirjharaiḥ .. 13 ..
मन्दारैः पारिजातैश्च सरलैश्चोपशोभितम् । तमालैः शालतालैश्च कोविदारासनार्जुनैः ॥ १४ ॥
मन्दारैः पारिजातैः च सरलैः च उपशोभितम् । तमालैः शाल-तालैः च कोविदार-आसन-अर्जुनैः ॥ १४ ॥
mandāraiḥ pārijātaiḥ ca saralaiḥ ca upaśobhitam . tamālaiḥ śāla-tālaiḥ ca kovidāra-āsana-arjunaiḥ .. 14 ..
चूतैः कदम्बैर्नीपैश्च नागपुन्नाग चम्पकैः । पाटलाशोकबकुलैः कुन्दैः कुरबकैरपि ॥ १५ ॥
चूतैः कदम्बैः नीपैः च नाग-पुन्नाग-चम्पकैः । पाटला-अशोक-बकुलैः कुन्दैः कुरबकैः अपि ॥ १५ ॥
cūtaiḥ kadambaiḥ nīpaiḥ ca nāga-punnāga-campakaiḥ . pāṭalā-aśoka-bakulaiḥ kundaiḥ kurabakaiḥ api .. 15 ..
स्वर्णार्णशतपत्रैश्च वररेणुकजातिभिः । कुब्जकैर्मल्लिकाभिश्च माधवीभिश्च मण्डितम् ॥ १६ ॥
स्वर्ण-अर्ण-शतपत्रैः च वर-रेणुक-जातिभिः । कुब्जकैः मल्लिकाभिः च माधवीभिः च मण्डितम् ॥ १६ ॥
svarṇa-arṇa-śatapatraiḥ ca vara-reṇuka-jātibhiḥ . kubjakaiḥ mallikābhiḥ ca mādhavībhiḥ ca maṇḍitam .. 16 ..
पनसोदुम्बराश्वत्थ प्लक्ष न्यग्रोधहिङ्गुभिः । भूर्जैरोषधिभिः पूगै राजपूगैश्च जम्बुभिः ॥ १७ ॥
पनस-उदुम्बर-अश्वत्थ प्लक्ष न्यग्रोध-हिङ्गुभिः । भूर्जैः ओषधिभिः पूगैः राजपूगैः च जम्बुभिः ॥ १७ ॥
panasa-udumbara-aśvattha plakṣa nyagrodha-hiṅgubhiḥ . bhūrjaiḥ oṣadhibhiḥ pūgaiḥ rājapūgaiḥ ca jambubhiḥ .. 17 ..
खर्जूराम्रातकाम्राद्यैः प्रियाल मधुकेङ्गुदैः । द्रुमजातिभिरन्यैश्च राजितं वेणुकीचकैः ॥ १८ ॥
। द्रुम-जातिभिः अन्यैः च राजितम् वेणु-कीचकैः ॥ १८ ॥
. druma-jātibhiḥ anyaiḥ ca rājitam veṇu-kīcakaiḥ .. 18 ..
कुमुदोत्पलकह्लार शतपत्रवनर्द्धिभिः । नलिनीषु कलं कूजत् खगवृन्दोपशोभितम् ॥ १९ ॥
कुमुद-उत्पल-कह्लार शतपत्र-वन-ऋद्धिभिः । नलिनीषु कलम् कूजत् खग-वृन्द-उपशोभितम् ॥ १९ ॥
kumuda-utpala-kahlāra śatapatra-vana-ṛddhibhiḥ . nalinīṣu kalam kūjat khaga-vṛnda-upaśobhitam .. 19 ..
मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्षशल्यकैः । गवयैः शरभैर्व्याघ्रै रुरुभिर्महिषादिभिः ॥ २० ॥
मृगैः शाखामृगैः क्रोडैः मृगेन्द्रैः ऋक्ष-शल्यकैः । गवयैः शरभैः व्याघ्रैः रुरुभिः महिष-आदिभिः ॥ २० ॥
mṛgaiḥ śākhāmṛgaiḥ kroḍaiḥ mṛgendraiḥ ṛkṣa-śalyakaiḥ . gavayaiḥ śarabhaiḥ vyāghraiḥ rurubhiḥ mahiṣa-ādibhiḥ .. 20 ..
कर्णान्त्रैकपदाश्वास्यैः निर्जुष्टं वृकनाभिभिः । कदलीखण्डसंरुद्ध नलिनीपुलिनश्रियम् ॥ २१ ॥
कर्ण-अन्त्र-एक-पद-आश्वास्यैः निर्जुष्टम् वृक-नाभिभिः । कदली-खण्ड-संरुद्ध नलिनी-पुलिन-श्रियम् ॥ २१ ॥
karṇa-antra-eka-pada-āśvāsyaiḥ nirjuṣṭam vṛka-nābhibhiḥ . kadalī-khaṇḍa-saṃruddha nalinī-pulina-śriyam .. 21 ..
पर्यस्तं नन्दया सत्याः स्नानपुण्यतरोदया । विलोक्य भूतेशगिरिं विबुधा विस्मयं ययुः ॥ २२ ॥
पर्यस्तम् नन्दया सत्याः स्नान-पुण्यतर-उदया । विलोक्य भूतेश-गिरिम् विबुधाः विस्मयम् ययुः ॥ २२ ॥
paryastam nandayā satyāḥ snāna-puṇyatara-udayā . vilokya bhūteśa-girim vibudhāḥ vismayam yayuḥ .. 22 ..
ददृशुस्तत्र ते रम्यां अलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्नाम पङ्कजम् ॥ २३ ॥
ददृशुः तत्र ते रम्याम् अलकाम् नाम वै पुरीम् । वनम् सौगन्धिकम् च अपि यत्र तद्-नाम पङ्कजम् ॥ २३ ॥
dadṛśuḥ tatra te ramyām alakām nāma vai purīm . vanam saugandhikam ca api yatra tad-nāma paṅkajam .. 23 ..
नन्दा च अलकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपादपदाम्भोज रजसातीव पावने ॥ २४ ॥
नन्दा च अलकनन्दा च सरितौ बाह्यतस् पुरस् । तीर्थ-पाद-पद-अम्भोज रजसा अतीव पावने ॥ २४ ॥
nandā ca alakanandā ca saritau bāhyatas puras . tīrtha-pāda-pada-ambhoja rajasā atīva pāvane .. 24 ..
ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्वधिष्ण्यतः । क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रतिकर्शिताः ॥ २५ ॥
ययोः सुरस्त्रियः क्षत्तः अवरुह्य स्व-धिष्ण्यतः । क्रीडन्ति पुंसः सिञ्चन्त्यः विगाह्य रति-कर्शिताः ॥ २५ ॥
yayoḥ surastriyaḥ kṣattaḥ avaruhya sva-dhiṣṇyataḥ . krīḍanti puṃsaḥ siñcantyaḥ vigāhya rati-karśitāḥ .. 25 ..
ययोः तत्स्नानविभ्रष्ट नवकुङ्कुमपिञ्जरम् । वितृषोऽपि पिबन्त्यम्भः पाययन्तो गजा गजीः ॥ २ ॥
ययोः तद्-स्नान-विभ्रष्ट-नव-कुङ्कुम-पिञ्जरम् । वितृषः अपि पिबन्ति अम्भः पाययन्तः गजाः गजीः ॥ २ ॥
yayoḥ tad-snāna-vibhraṣṭa-nava-kuṅkuma-piñjaram . vitṛṣaḥ api pibanti ambhaḥ pāyayantaḥ gajāḥ gajīḥ .. 2 ..
तारहेम महारत्न विमानशतसङ्कुलाम् । जुष्टां पुण्यजनस्त्रीभिः यथा खं सतडिद्घनम् ॥ २७ ॥
तार-हेम-महा-रत्न-विमान-शत-सङ्कुलाम् । जुष्टाम् पुण्यजन-स्त्रीभिः यथा खम् स तडित्-घनम् ॥ २७ ॥
tāra-hema-mahā-ratna-vimāna-śata-saṅkulām . juṣṭām puṇyajana-strībhiḥ yathā kham sa taḍit-ghanam .. 27 ..
हित्वा यक्षेश्वरपुरीं वनं सौगन्धिकं च तत् । द्रुमैः कामदुघैर्हृद्यं चित्रमाल्यफलच्छदैः ॥ २८ ॥
हित्वा यक्ष-ईश्वर-पुरीम् वनम् सौगन्धिकम् च तत् । द्रुमैः काम-दुघैः हृद्यम् चित्र-माल्य-फल-छदैः ॥ २८ ॥
hitvā yakṣa-īśvara-purīm vanam saugandhikam ca tat . drumaiḥ kāma-dughaiḥ hṛdyam citra-mālya-phala-chadaiḥ .. 28 ..
रक्तकण्ठखगानीक स्वरमण्डितषट्पदम् । कलहंसकुलप्रेष्ठं खरदण्डजलाशयम् ॥ २९ ॥
। कलहंस-कुल-प्रेष्ठम् खरदण्ड-जलाशयम् ॥ २९ ॥
. kalahaṃsa-kula-preṣṭham kharadaṇḍa-jalāśayam .. 29 ..
वनकुञ्जर सङ्घृष्ट हरिचन्दनवायुना । अधि पुण्यजनस्त्रीणां मुहुरुन्मथयन्मनः ॥ ३० ॥
वन-कुञ्जर सङ्घृष्ट हरिचन्दन-वायुना । अधि पुण्यजन-स्त्रीणाम् मुहुर् उन्मथयन् मनः ॥ ३० ॥
vana-kuñjara saṅghṛṣṭa haricandana-vāyunā . adhi puṇyajana-strīṇām muhur unmathayan manaḥ .. 30 ..
वैदूर्यकृतसोपाना वाप्य उत्पलमालिनीः । प्राप्तं किम्पुरुषैर्दृष्ट्वा ते आराद् ददृशुर्वटम् ॥ ३१ ॥
वैदूर्य-कृत-सोपानाः वाप्यः उत्पल-मालिनीः । प्राप्तम् किम्पुरुषैः दृष्ट्वा ते आरात् ददृशुः वटम् ॥ ३१ ॥
vaidūrya-kṛta-sopānāḥ vāpyaḥ utpala-mālinīḥ . prāptam kimpuruṣaiḥ dṛṣṭvā te ārāt dadṛśuḥ vaṭam .. 31 ..
स योजनशतोत्सेधः पादोनविटपायतः । पर्यक्कृताचलच्छायो निर्नीडस्तापवर्जितः ॥ ३२ ॥
स योजन-शत-उत्सेधः पाद-ऊन-विटप-आयतः । निर्नीडः ताप-वर्जितः ॥ ३२ ॥
sa yojana-śata-utsedhaḥ pāda-ūna-viṭapa-āyataḥ . nirnīḍaḥ tāpa-varjitaḥ .. 32 ..
तस्मिन् महायोगमये मुमुक्षुशरणे सुराः । ददृशुः शिवमासीनं त्यक्तामर्षमिवान्तकम् ॥ ३३ ॥
तस्मिन् महा-योग-मये मुमुक्षु-शरणे सुराः । ददृशुः शिवम् आसीनम् त्यक्त-अमर्षम् इव अन्तकम् ॥ ३३ ॥
tasmin mahā-yoga-maye mumukṣu-śaraṇe surāḥ . dadṛśuḥ śivam āsīnam tyakta-amarṣam iva antakam .. 33 ..
सनन्दनाद्यैर्महासिद्धैः शान्तैः संशान्तविग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यकरक्षसाम् ॥ ३४ ॥
सनन्दन-आद्यैः महा-सिद्धैः शान्तैः संशान्त-विग्रहम् । उपास्यमानम् सख्या च भर्त्रा गुह्यक-रक्षसाम् ॥ ३४ ॥
sanandana-ādyaiḥ mahā-siddhaiḥ śāntaiḥ saṃśānta-vigraham . upāsyamānam sakhyā ca bhartrā guhyaka-rakṣasām .. 34 ..
विद्यातपोयोगपथं आस्थितं तमधीश्वरम् । चरन्तं विश्वसुहृदं वात्सल्यात् लोकमङ्गलम् ॥ ३५ ॥
विद्या-तपः-योग-पथम् आस्थितम् तम् अधीश्वरम् । चरन्तम् विश्व-सुहृदम् वात्सल्यात् लोक-मङ्गलम् ॥ ३५ ॥
vidyā-tapaḥ-yoga-patham āsthitam tam adhīśvaram . carantam viśva-suhṛdam vātsalyāt loka-maṅgalam .. 35 ..
लिङ्गं च तापसाभीष्टं भस्मदण्डजटाजिनम् । अङ्गेन सन्ध्याभ्ररुचा चन्द्रलेखां च बिभ्रतम् ॥ ३६ ॥
लिङ्गम् च तापस-अभीष्टम् भस्म-दण्ड-जटा-अजिनम् । अङ्गेन सन्ध्या-अभ्र-रुचा चन्द्रलेखाम् च बिभ्रतम् ॥ ३६ ॥
liṅgam ca tāpasa-abhīṣṭam bhasma-daṇḍa-jaṭā-ajinam . aṅgena sandhyā-abhra-rucā candralekhām ca bibhratam .. 36 ..
उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ ३७ ॥
उपविष्टम् दर्भ-मय्याम् बृस्याम् ब्रह्म सनातनम् । नारदाय प्रवोचन्तम् पृच्छते शृण्वताम् सताम् ॥ ३७ ॥
upaviṣṭam darbha-mayyām bṛsyām brahma sanātanam . nāradāya pravocantam pṛcchate śṛṇvatām satām .. 37 ..
कृत्वोरौ दक्षिणे सव्यं पादपद्मं च जानुनि । बाहुं प्रकोष्ठेऽक्षमालां आसीनं तर्कमुद्रया ॥ ३८ ॥
कृत्वा ऊरौ दक्षिणे सव्यम् पाद-पद्मम् च जानुनि । बाहुम् प्रकोष्ठे अक्षमालाम् आसीनम् तर्कमुद्रया ॥ ३८ ॥
kṛtvā ūrau dakṣiṇe savyam pāda-padmam ca jānuni . bāhum prakoṣṭhe akṣamālām āsīnam tarkamudrayā .. 38 ..
तं ब्रह्मनिर्वाणसमाधिमाश्रितं व्युपाश्रितं गिरिशं योगकक्षाम् । सलोकपाला मुनयो मनूनां आद्यं मनुं प्राञ्जलयः प्रणेमुः ॥ ३९ ॥
तम् ब्रह्म-निर्वाण-समाधिम् आश्रितम् व्युपाश्रितम् गिरिशम् योगकक्षाम् । स लोकपालाः मुनयः मनूनाम् आद्यम् मनुम् प्राञ्जलयः प्रणेमुः ॥ ३९ ॥
tam brahma-nirvāṇa-samādhim āśritam vyupāśritam giriśam yogakakṣām . sa lokapālāḥ munayaḥ manūnām ādyam manum prāñjalayaḥ praṇemuḥ .. 39 ..
स तूपलभ्यागतमात्मयोनिं सुरासुरेशैरभिवन्दिताङ्घ्रिः । उत्थाय चक्रे शिरसाभिवन्दन मर्हत्तमः कस्य यथैव विष्णुः ॥ ४० ॥
स तु उपलभ्य आगतम् आत्मयोनिम् सुर-असुर-ईशैः अभिवन्दित-अङ्घ्रिः । उत्थाय चक्रे शिरसा अभिवन्दन मर्हत्तमः कस्य यथा एव विष्णुः ॥ ४० ॥
sa tu upalabhya āgatam ātmayonim sura-asura-īśaiḥ abhivandita-aṅghriḥ . utthāya cakre śirasā abhivandana marhattamaḥ kasya yathā eva viṣṇuḥ .. 40 ..
तथापरे सिद्धगणा महर्षिभिः ये वै समन्तादनु नीललोहितम् । नमस्कृतः प्राह शशाङ्कशेखरं कृतप्रणामं प्रहसन्निवात्मभूः ॥ ४१ ॥
तथा अपरे सिद्ध-गणाः महा-ऋषिभिः ये वै समन्तात् अनु नीललोहितम् । नमस्कृतः प्राह शशाङ्क-शेखरम् कृत-प्रणामम् प्रहसन् इव आत्मभूः ॥ ४१ ॥
tathā apare siddha-gaṇāḥ mahā-ṛṣibhiḥ ye vai samantāt anu nīlalohitam . namaskṛtaḥ prāha śaśāṅka-śekharam kṛta-praṇāmam prahasan iva ātmabhūḥ .. 41 ..
ब्रह्मोवाच -
जाने त्वामीशं विश्वस्य जगतो योनिबीजयोः । शक्तेः शिवस्य च परं यत्तद्ब्रह्मा निरन्तरम् ॥ ४२ ॥
जाने त्वाम् ईशम् विश्वस्य जगतः योनि-बीजयोः । शक्तेः शिवस्य च परम् यत् तत् ब्रह्मा निरन्तरम् ॥ ४२ ॥
jāne tvām īśam viśvasya jagataḥ yoni-bījayoḥ . śakteḥ śivasya ca param yat tat brahmā nirantaram .. 42 ..
(अनुष्टुप्)
त्वमेव भगवन् एतत् शिवशक्त्योः स्वरूपयोः । विश्वं सृजसि पास्यत्सि क्रीडन् ऊर्णपटो यथा ॥ ४३ ॥
त्वम् एव भगवन् एतत् शिव-शक्त्योः स्व-रूपयोः । विश्वम् सृजसि क्रीडन् ऊर्णपटः यथा ॥ ४३ ॥
tvam eva bhagavan etat śiva-śaktyoḥ sva-rūpayoḥ . viśvam sṛjasi krīḍan ūrṇapaṭaḥ yathā .. 43 ..
त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोकेऽवसिताश्च सेतवो यान्ब्राह्मणाः श्रद्दधते धृतव्रताः ॥ ४४ ॥
त्वम् एव धर्म-अर्थ-दुघ-अभिपत्तये दक्षेण सूत्रेण ससर्जिथ अध्वरम् । त्वया एव लोके अवसिताः च सेतवः यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः ॥ ४४ ॥
tvam eva dharma-artha-dugha-abhipattaye dakṣeṇa sūtreṇa sasarjitha adhvaram . tvayā eva loke avasitāḥ ca setavaḥ yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ .. 44 ..
त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्वलोकं तनुषे स्वः परं वा । अमङ्गलानां च तमिस्रमुल्बणं विपर्ययः केन तदेव कस्यचित् ॥ ४५ ॥
त्वम् कर्मणाम् मङ्गल मङ्गलानाम् कर्तुः स्व-लोकम् तनुषे स्वर् परम् वा । अमङ्गलानाम् च तमिस्रम् उल्बणम् विपर्ययः केन तत् एव कस्यचिद् ॥ ४५ ॥
tvam karmaṇām maṅgala maṅgalānām kartuḥ sva-lokam tanuṣe svar param vā . amaṅgalānām ca tamisram ulbaṇam viparyayaḥ kena tat eva kasyacid .. 45 ..
न वै सतां त्वत् चरणार्पितात्मनां भूतेषु सर्वेष्वभिपश्यतां तव । भूतानि चात्मन्यपृथग्दिदृक्षतां
न वै सताम् त्वत् चरण-अर्पित-आत्मनाम् भूतेषु सर्वेषु अभिपश्यताम् तव । भूतानि च आत्मनि अपृथक् दिदृक्षताम्
na vai satām tvat caraṇa-arpita-ātmanām bhūteṣu sarveṣu abhipaśyatām tava . bhūtāni ca ātmani apṛthak didṛkṣatām
पृथग्धियः कर्मदृशो दुराशयाः परोदयेनार्पितहृद्रुजोऽनिशम् । परान् दुरुक्तैर्वितुदन्त्यरुन्तुदाः तान्मावधीद् दैववधान् भवद्विधः ॥ ४७ ॥
पृथक् धियः कर्म-दृशः दुराशयाः पर-उदयेन अर्पित-हृद्रुजः अनिशम् । परान् दुरुक्तैः वितुदन्ति अरुन्तुदाः तान् मा अवधीत् दैव-वधान् भवद्विधः ॥ ४७ ॥
pṛthak dhiyaḥ karma-dṛśaḥ durāśayāḥ para-udayena arpita-hṛdrujaḥ aniśam . parān duruktaiḥ vitudanti aruntudāḥ tān mā avadhīt daiva-vadhān bhavadvidhaḥ .. 47 ..
यस्मिन्यदा पुष्करनाभमायया दुरन्तया स्पृष्टधियः पृथग्दृशः । कुर्वन्ति तत्र ह्यनुकम्पया कृपां न साधवो दैवबलात्कृते क्रमम् ॥ ४८ ॥
यस्मिन् यदा पुष्करनाभ-मायया दुरन्तया स्पृष्ट-धियः पृथक् दृशः । कुर्वन्ति तत्र हि अनुकम्पया कृपाम् न साधवः दैव-बलात्कृते क्रमम् ॥ ४८ ॥
yasmin yadā puṣkaranābha-māyayā durantayā spṛṣṭa-dhiyaḥ pṛthak dṛśaḥ . kurvanti tatra hi anukampayā kṛpām na sādhavaḥ daiva-balātkṛte kramam .. 48 ..
भवांस्तु पुंसः परमस्य मायया दुरन्तयास्पृष्टमतिः समस्तदृक् । तया हतात्मस्वनुकर्मचेतः स्वनुग्रहं कर्तुमिहार्हसि प्रभो ॥ ४९ ॥
भवान् तु पुंसः परमस्य मायया दुरन्तया अ स्पृष्ट-मतिः समस्त-दृश् । तया हत-आत्म-स्वनुकर्म-चेतः सु अनुग्रहम् कर्तुम् इह अर्हसि प्रभो ॥ ४९ ॥
bhavān tu puṃsaḥ paramasya māyayā durantayā a spṛṣṭa-matiḥ samasta-dṛś . tayā hata-ātma-svanukarma-cetaḥ su anugraham kartum iha arhasi prabho .. 49 ..
कुर्वध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः । न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते ॥ ५० ॥
कुरु अध्वरस्य उद्धरणम् हतस्य भोः त्वया असमाप्तस्य मनो प्रजापतेः । न यत्र भागम् तव भागिनः ददुः कु याजिनः येन मखः निनीयते ॥ ५० ॥
kuru adhvarasya uddharaṇam hatasya bhoḥ tvayā asamāptasya mano prajāpateḥ . na yatra bhāgam tava bhāginaḥ daduḥ ku yājinaḥ yena makhaḥ ninīyate .. 50 ..
(अनुष्टुप्)
जीवताद् यजमानोऽयं प्रपद्येताक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश्च पूर्ववत् ॥ ५१ ॥
जीवतात् यजमानः अयम् प्रपद्येत अक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णः दन्ताः च पूर्ववत् ॥ ५१ ॥
jīvatāt yajamānaḥ ayam prapadyeta akṣiṇī bhagaḥ . bhṛgoḥ śmaśrūṇi rohantu pūṣṇaḥ dantāḥ ca pūrvavat .. 51 ..
देवानां भग्नगात्राणां ऋत्विजां चायुधाश्मभिः । भवतानुगृहीतानां आशु मन्योऽस्त्वनातुरम् ॥ ५२ ॥
देवानाम् भग्न-गात्राणाम् ऋत्विजाम् च आयुध-अश्मभिः । भवता अनुगृहीतानाम् आशु मन्यः अस्तु अनातुरम् ॥ ५२ ॥
devānām bhagna-gātrāṇām ṛtvijām ca āyudha-aśmabhiḥ . bhavatā anugṛhītānām āśu manyaḥ astu anāturam .. 52 ..
एष ते रुद्र भागोऽस्तु यदुच्छिष्टोऽध्वरस्य वै । यज्ञस्ते रुद्र भागेन कल्पतां अद्य यज्ञहन् ॥ ५३ ॥
एष ते रुद्र भागः अस्तु यत् उच्छिष्टः अध्वरस्य वै । यज्ञः ते रुद्र भागेन कल्पताम् अद्य यज्ञहन् ॥ ५३ ॥
eṣa te rudra bhāgaḥ astu yat ucchiṣṭaḥ adhvarasya vai . yajñaḥ te rudra bhāgena kalpatām adya yajñahan .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे रुद्रसान्त्वनं नाम षष्ठोऽध्यायः ॥ ६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे रुद्रसान्त्वनम् नाम षष्ठः अध्यायः ॥ ६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe rudrasāntvanam nāma ṣaṣṭhaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In