| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
इत्यजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥
इति अजेन अनुनीतेन भवेन परितुष्यता । अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति ॥ १ ॥
iti ajena anunītena bhavena parituṣyatā . abhyadhāyi mahā-bāho prahasya śrūyatām iti .. 1 ..
महादेव उवाच -
नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देवमायाभिभूतानां दण्डस्तत्र धृतो मया ॥ २ ॥
न अघम् प्रजा-ईश बालानाम् वर्णये न अनुचिन्तये । देव-माया-अभिभूतानाम् दण्डः तत्र धृतः मया ॥ २ ॥
na agham prajā-īśa bālānām varṇaye na anucintaye . deva-māyā-abhibhūtānām daṇḍaḥ tatra dhṛtaḥ mayā .. 2 ..
प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः । मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ ३ ॥
प्रजापतेः दग्ध-शीर्ष्णः भवतु अज-मुखम् शिरः । मित्रस्य चक्षुषा ईक्षेत भागम् स्वम् बर्हिषः भगः ॥ ३ ॥
prajāpateḥ dagdha-śīrṣṇaḥ bhavatu aja-mukham śiraḥ . mitrasya cakṣuṣā īkṣeta bhāgam svam barhiṣaḥ bhagaḥ .. 3 ..
पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् । देवाः प्रकृतसर्वाङ्गा ये मे उच्छेषणं ददुः ॥ ४ ॥
पूषा तु यजमानस्य दद्भिः जक्षतु पिष्ट-भुज् । देवाः प्रकृत-सर्व-अङ्गाः ये मे उच्छेषणम् ददुः ॥ ४ ॥
pūṣā tu yajamānasya dadbhiḥ jakṣatu piṣṭa-bhuj . devāḥ prakṛta-sarva-aṅgāḥ ye me uccheṣaṇam daduḥ .. 4 ..
बाहुभ्यां अश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः । भवन्तु अध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत् ॥ ५ ॥
बाहुभ्याम् अश्विनोः पूष्णः हस्ताभ्याम् कृत-बाहवः । भवन्तु अध्वर्यवः च अन्ये बस्त-श्मश्रुः भृगुः भवेत् ॥ ५ ॥
bāhubhyām aśvinoḥ pūṣṇaḥ hastābhyām kṛta-bāhavaḥ . bhavantu adhvaryavaḥ ca anye basta-śmaśruḥ bhṛguḥ bhavet .. 5 ..
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् । परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन् ॥ ६ ॥
तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टम-उदितम् । परितुष्ट-आत्मभिः तात साधु साधु इति अथ अब्रुवन् ॥ ६ ॥
tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭama-uditam . parituṣṭa-ātmabhiḥ tāta sādhu sādhu iti atha abruvan .. 6 ..
ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः । भूयस्तद् देवयजनं समीढ्वद्वेधसो ययुः ॥ ७ ॥
ततस् मीढ्वांसम् आमन्त्र्य शुनासीराः सह ऋषिभिः । भूयस् तत् देवयजनम् स मीढ्वत्-वेधसः ययुः ॥ ७ ॥
tatas mīḍhvāṃsam āmantrya śunāsīrāḥ saha ṛṣibhiḥ . bhūyas tat devayajanam sa mīḍhvat-vedhasaḥ yayuḥ .. 7 ..
विधाय कार्त्स्न्येन च तद् यदाह भगवान्भवः । सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८ ॥
विधाय कार्त्स्न्येन च तत् यत् आह भगवान् भवः । सन्दधुः कस्य कायेन सवनीयपशोः शिरः ॥ ८ ॥
vidhāya kārtsnyena ca tat yat āha bhagavān bhavaḥ . sandadhuḥ kasya kāyena savanīyapaśoḥ śiraḥ .. 8 ..
सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः । सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ ९ ॥
सन्धीयमाने शिरसि दक्षः रुद्र-अभिवीक्षितः । सद्यस् सुप्तः इव उत्तस्थौ ददृशे च अग्रतस् मृडम् ॥ ९ ॥
sandhīyamāne śirasi dakṣaḥ rudra-abhivīkṣitaḥ . sadyas suptaḥ iva uttasthau dadṛśe ca agratas mṛḍam .. 9 ..
तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः । शिवावलोकाद् अभवत् शरद्ध्रद इवामलः ॥ १० ॥
तदा वृषध्वज-द्वेष कलिल-आत्मा प्रजापतिः । शिव-अवलोकात् अभवत् शरद्-ह्रदः इव अमलः ॥ १० ॥
tadā vṛṣadhvaja-dveṣa kalila-ātmā prajāpatiḥ . śiva-avalokāt abhavat śarad-hradaḥ iva amalaḥ .. 10 ..
भवस्तवाय कृतधीः नाशक्नोत् अनुरागतः । औत्कण्ठ्याद् बाष्पकलया संपरेतां सुतां स्मरन् ॥ ११ ॥
भव-स्तवाय कृतधीः न अशक्नोत् अनुरागतः । औत्कण्ठ्यात् बाष्प-कलया संपरेताम् सुताम् स्मरन् ॥ ११ ॥
bhava-stavāya kṛtadhīḥ na aśaknot anurāgataḥ . autkaṇṭhyāt bāṣpa-kalayā saṃparetām sutām smaran .. 11 ..
कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः । शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ १२ ॥
कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः । शशंस निर्व्यलीकेन भावेन ईशम् प्रजापतिः ॥ १२ ॥
kṛcchrāt saṃstabhya ca manaḥ prema-vihvalitaḥ sudhīḥ . śaśaṃsa nirvyalīkena bhāvena īśam prajāpatiḥ .. 12 ..
दक्ष उवाच -
भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि प्रलब्धः । न ब्रह्मबन्धुषु च वां भगवन् अवज्ञा
भूयान् अनुग्रह अहो भवता कृतः मे दण्डः त्वया मयि भृतः यत् अपि प्रलब्धः । न ब्रह्मबन्धुषु च वाम् भगवन् अवज्ञा
bhūyān anugraha aho bhavatā kṛtaḥ me daṇḍaḥ tvayā mayi bhṛtaḥ yat api pralabdhaḥ . na brahmabandhuṣu ca vām bhagavan avajñā
विद्यातपो व्रतधरान् मुखतः स्म विप्रान् । ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक् । तद्ब्राह्मणान् परम सर्वविपत्सु पासि । पालः पशूनिव विभो प्रगृहीतदण्डः ॥ १४ ॥
विद्या-तपः व्रत-धरान् मुखतः स्म विप्रान् । ब्रह्म आत्म-तत्त्वम् अवितुम् प्रथमम् त्वम् अ स्राक् । तत् ब्राह्मणान् परम सर्व-विपत्सु पासि । पालः पशून् इव विभो प्रगृहीत-दण्डः ॥ १४ ॥
vidyā-tapaḥ vrata-dharān mukhataḥ sma viprān . brahma ātma-tattvam avitum prathamam tvam a srāk . tat brāhmaṇān parama sarva-vipatsu pāsi . pālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ .. 14 ..
योऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् । अर्वाक् पतन्तमर्हत्तमनिन्दयापाद् दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत् ॥ १५ ॥
यः असौ मया अविदित-तत्त्व-दृशा सभायाम् क्षिप्तः दुरुक्ति-विशिखैः विगणय्य तत् माम् । अर्वाक् पतन्तम् अर्हत्तम-निन्दया अपात् दृष्ट्या आर्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥ १५ ॥
yaḥ asau mayā avidita-tattva-dṛśā sabhāyām kṣiptaḥ durukti-viśikhaiḥ vigaṇayya tat mām . arvāk patantam arhattama-nindayā apāt dṛṣṭyā ārdrayā sa bhagavān sva-kṛtena tuṣyet .. 15 ..
क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमंत्रितः । कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः ॥ १६ ॥
क्षमाप्य एवम् स मीढ्वांसम् ब्रह्मणा च अनुमंत्रितः । कर्म सन्तानयामास स उपाध्याय-ऋत्विज्-आदिभिः ॥ १६ ॥
kṣamāpya evam sa mīḍhvāṃsam brahmaṇā ca anumaṃtritaḥ . karma santānayāmāsa sa upādhyāya-ṛtvij-ādibhiḥ .. 16 ..
मैत्रेय उवाच - (अनुष्टुप्)
वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः । पुरोडाशं निरवपन् वीरसंसर्गशुद्धये ॥ १७ ॥
वैष्णवम् यज्ञ-सन्तत्यै त्रि-कपालम् द्विजोत्तमाः । पुरोडाशम् निरवपन् वीर-संसर्ग-शुद्धये ॥ १७ ॥
vaiṣṇavam yajña-santatyai tri-kapālam dvijottamāḥ . puroḍāśam niravapan vīra-saṃsarga-śuddhaye .. 17 ..
अध्वर्युणाऽऽत्त हविषा यजमानो विशाम्पते । धिया विशुद्धया दध्यौ तथा प्रादुरभूत् हरिः ॥ १८ ॥
अध्वर्युणा आत्त हविषा यजमानः विशाम् पते । धिया विशुद्धया दध्यौ तथा प्रादुरभूत् हरिः ॥ १८ ॥
adhvaryuṇā ātta haviṣā yajamānaḥ viśām pate . dhiyā viśuddhayā dadhyau tathā prādurabhūt hariḥ .. 18 ..
तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश । मुष्णन् तेज उपानीतः तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥
तदा स्व-प्रभया तेषाम् द्योतयन्त्या दिशः दश । मुष्णन् तेजः उपानीतः तार्क्ष्येण स्तोत्रवाजिना ॥ १९ ॥
tadā sva-prabhayā teṣām dyotayantyā diśaḥ daśa . muṣṇan tejaḥ upānītaḥ tārkṣyeṇa stotravājinā .. 19 ..
श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो नीलालक भ्रमरमण्डितकुण्डलास्यः । शङ्खाब्जचक्रशरचापगदासिचर्म व्यग्रैर्हिरण्मयभुजैः इव कर्णिकारः ॥ २० ॥
श्यामः हिरण्य-रशनः-अर्क-किरीट-जुष्टः नील-अलक भ्रमर-मण्डित-कुण्डल-आस्यः । शङ्ख-अब्ज-चक्र-शर-चाप-गदा-असि-चर्म व्यग्रैः हिरण्मय-भुजैः इव कर्णिकारः ॥ २० ॥
śyāmaḥ hiraṇya-raśanaḥ-arka-kirīṭa-juṣṭaḥ nīla-alaka bhramara-maṇḍita-kuṇḍala-āsyaḥ . śaṅkha-abja-cakra-śara-cāpa-gadā-asi-carma vyagraiḥ hiraṇmaya-bhujaiḥ iva karṇikāraḥ .. 20 ..
वक्षस्यधिश्रितवधूर्वनमाल्युदार हासावलोककलया रमयंश्च विश्वम् । पार्श्वभ्रमद्व्यजन चामरराजहंसः श्वेतातपत्रशशिनोपरि रज्यमानः ॥ २१ ॥
वक्षसि अधिश्रित-वधूः वनमाली उदार हास-अवलोक-कलया रमयन् च विश्वम् । पार्श्व-भ्रमत्-व्यजन-चामर-राजहंसः श्वेत-आतपत्र-शशिना उपरि रज्यमानः ॥ २१ ॥
vakṣasi adhiśrita-vadhūḥ vanamālī udāra hāsa-avaloka-kalayā ramayan ca viśvam . pārśva-bhramat-vyajana-cāmara-rājahaṃsaḥ śveta-ātapatra-śaśinā upari rajyamānaḥ .. 21 ..
(अनुष्टुप्)
तमुपागतमालक्ष्य सर्वे सुरगणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः ॥ २२ ॥
तम् उपागतम् आलक्ष्य सर्वे सुर-गण-आदयः । प्रणेमुः सहसा उत्थाय ब्रह्म-इन्द्र-त्र्यक्ष-नायकाः ॥ २२ ॥
tam upāgatam ālakṣya sarve sura-gaṇa-ādayaḥ . praṇemuḥ sahasā utthāya brahma-indra-tryakṣa-nāyakāḥ .. 22 ..
तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः । मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम् ॥ २३ ॥
तद्-तेजसा हत-रुचः सन्न-जिह्वाः स साध्वसाः । मूर्ध्ना धृत-अञ्जलि-पुटाः उपतस्थुः अधोक्षजम् ॥ २३ ॥
tad-tejasā hata-rucaḥ sanna-jihvāḥ sa sādhvasāḥ . mūrdhnā dhṛta-añjali-puṭāḥ upatasthuḥ adhokṣajam .. 23 ..
अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः । यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥
अपि अर्वाक् वृत्तयः यस्य तु आत्मभुवा-आदयः । यथामति गृणन्ति स्म कृत-अनुग्रह-विग्रहम् ॥ २४ ॥
api arvāk vṛttayaḥ yasya tu ātmabhuvā-ādayaḥ . yathāmati gṛṇanti sma kṛta-anugraha-vigraham .. 24 ..
दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् । सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन्प्रपेदे प्रयतः कृताञ्जलिः ॥ २५ ॥
दक्षः गृहीत-अर्हण-सादन-उत्तमम् यज्ञेश्वरम् विश्वसृजाम् परम् गुरुम् । सुनन्द-नन्द-आदि-अनुगैः वृतम् मुदा गृणन् प्रपेदे प्रयतः कृताञ्जलिः ॥ २५ ॥
dakṣaḥ gṛhīta-arhaṇa-sādana-uttamam yajñeśvaram viśvasṛjām param gurum . sunanda-nanda-ādi-anugaiḥ vṛtam mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ .. 25 ..
दक्ष उवाच -
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् । तिष्ठन् तयैव पुरुषत्वमुपेत्य तस्याम् आस्ते भवानपरिशुद्ध इवात्मतंत्र ॥ २६ ॥
शुद्धम् स्व-धाम्नि उपरत-अखिल-बुद्धि-अवस्थम् चित्-मात्रम् एकम् अभयम् प्रतिषिध्य मायाम् । तिष्ठन् तया एव पुरुष-त्वम् उपेत्य तस्याम् आस्ते भवान् अपरिशुद्धः इव आत्मतंत्र ॥ २६ ॥
śuddham sva-dhāmni uparata-akhila-buddhi-avastham cit-mātram ekam abhayam pratiṣidhya māyām . tiṣṭhan tayā eva puruṣa-tvam upetya tasyām āste bhavān apariśuddhaḥ iva ātmataṃtra .. 26 ..
ऋत्विज ऊचुः -
तत्त्वं न ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन् विदामः । धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः ॥ २७ ॥
तत्त्वम् न ते वयम् अनञ्जन रुद्र-शापात् कर्मणि अवग्रह-धियः भगवन् विदामः । धर्म-उपलक्षणम् इदम् त्रिवृत्-अध्वर-आख्यम् ज्ञातम् यद्-अर्थम् अधिदैवम् अदः व्यवस्थाः ॥ २७ ॥
tattvam na te vayam anañjana rudra-śāpāt karmaṇi avagraha-dhiyaḥ bhagavan vidāmaḥ . dharma-upalakṣaṇam idam trivṛt-adhvara-ākhyam jñātam yad-artham adhidaivam adaḥ vyavasthāḥ .. 27 ..
सदस्या ऊचुः -
उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः । द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः पादौकस्ते शरणद कदा याति कामोपसृष्टः ॥ २८ ॥
उत्पत्ति-अध्वनि अशरणे उरु-क्लेश-दुर्गे अन्तक-उग्र व्याल-अन्विष्टे विषय-मृग-तृषि-आत्म-गेह-उरु-भारः । द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावे अज्ञ-सार्थः पाद-ओकः ते शरण-द कदा याति काम-उपसृष्टः ॥ २८ ॥
utpatti-adhvani aśaraṇe uru-kleśa-durge antaka-ugra vyāla-anviṣṭe viṣaya-mṛga-tṛṣi-ātma-geha-uru-bhāraḥ . dvandva-śvabhre khala-mṛga-bhaye śoka-dāve ajña-sārthaḥ pāda-okaḥ te śaraṇa-da kadā yāti kāma-upasṛṣṭaḥ .. 28 ..
रुद्र उवाच -
तव वरद वराङ्घ्रावाशिषेहाखिलार्थे ह्यपि मुनिभिरसक्तैरादरेणार्हणीये । यदि रचितधियं माविद्यलोकोऽपविद्धं जपति न गणये तत्त्वत्परानुग्रहेण ॥ २९ ॥
तव वर-द वर-अङ्घ्रौ आशिषा इह अखिल-अर्थे हि अपि मुनिभिः असक्तैः आदरेण अर्हणीये । यदि रचित-धियम् मा अविद्य-लोकः अपविद्धम् जपति न गणये तत् त्वद्-पर-अनुग्रहेण ॥ २९ ॥
tava vara-da vara-aṅghrau āśiṣā iha akhila-arthe hi api munibhiḥ asaktaiḥ ādareṇa arhaṇīye . yadi racita-dhiyam mā avidya-lokaḥ apaviddham japati na gaṇaye tat tvad-para-anugraheṇa .. 29 ..
भृगुरुवाच -
यन्मायया गहनयापहृतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः । नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः ॥ ३० ॥
यद्-मायया गहनया अपहृत-आत्म-बोधाः ब्रह्म-आदयः तनुभृतः तमसि स्वपन्तः । न आत्मन् श्रितम् तव विदन्ति अधुना अपि तत्त्वम् सः अयम् प्रसीदतु भवान् प्रणत-आत्म-बन्धुः ॥ ३० ॥
yad-māyayā gahanayā apahṛta-ātma-bodhāḥ brahma-ādayaḥ tanubhṛtaḥ tamasi svapantaḥ . na ātman śritam tava vidanti adhunā api tattvam saḥ ayam prasīdatu bhavān praṇata-ātma-bandhuḥ .. 30 ..
ब्रह्मोवाच -
नैतत्स्वरूपं भवतोऽसौ पदार्थ भेदग्रहैः पुरुषो यावदीक्षेत् । ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस्त्वम् ॥ ३१ ॥
न एतत् स्व-रूपम् भवतः असौ पदार्थ भेद-ग्रहैः पुरुषः यावत् ईक्षेत् । ज्ञानस्य च अर्थस्य गुणस्य च आश्रयः माया-मयात् व्यतिरिक्तः मतः त्वम् ॥ ३१ ॥
na etat sva-rūpam bhavataḥ asau padārtha bheda-grahaiḥ puruṣaḥ yāvat īkṣet . jñānasya ca arthasya guṇasya ca āśrayaḥ māyā-mayāt vyatiriktaḥ mataḥ tvam .. 31 ..
इन्द्र उवाच -
इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम् । सुरविद्विट्क्षपणैरुदायुधैः भुजदण्डैरुपपन्नमष्टभिः ॥ ३२ ॥
इदम् अपि अच्युत विश्व-भावनम् वपुः आनन्द-करम् मनः-दृशाम् । सुर-विद्विष्-क्षपणैः उदायुधैः भुज-दण्डैः उपपन्नम् अष्टभिः ॥ ३२ ॥
idam api acyuta viśva-bhāvanam vapuḥ ānanda-karam manaḥ-dṛśām . sura-vidviṣ-kṣapaṇaiḥ udāyudhaiḥ bhuja-daṇḍaiḥ upapannam aṣṭabhiḥ .. 32 ..
पत्‍न्य ऊचुः -
यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात् । तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्मन्नलिनरुचा दृशा पुनीहि ॥ ३३ ॥
यज्ञः अयम् तव यजनाय केन सृष्टः विध्वस्तः पशुपतिना अद्य दक्ष-कोपात् । तम् नः त्वम् शव-शयन-आभ-शान्त-मेधम् यज्ञात्मन् नलिन-रुचा दृशा पुनीहि ॥ ३३ ॥
yajñaḥ ayam tava yajanāya kena sṛṣṭaḥ vidhvastaḥ paśupatinā adya dakṣa-kopāt . tam naḥ tvam śava-śayana-ābha-śānta-medham yajñātman nalina-rucā dṛśā punīhi .. 33 ..
ऋषय ऊचुः -
अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे । विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान् ॥ ३४ ॥
अनन्वितम् ते भगवन् विचेष्टितम् यदा आत्मना चरसि हि कर्म न अज्यसे । विभूतये यतस् उपसेदुः ईश्वरीम् न मन्यते स्वयम् अनुवर्ततीम् भवान् ॥ ३४ ॥
ananvitam te bhagavan viceṣṭitam yadā ātmanā carasi hi karma na ajyase . vibhūtaye yatas upaseduḥ īśvarīm na manyate svayam anuvartatīm bhavān .. 34 ..
सिद्धा ऊचुः -
अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः । तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः ॥ ३५ ॥
अयम् त्वद्-कथा-मृष्ट-पीयूष-नद्याम् मनः-वारणः क्लेश-दाव-अग्नि-दग्धः । तृषा-आर्तः अवगाढः न सस्मार दावम् न निष्क्रामति ब्रह्म-सम्पन्न-वत् नः ॥ ३५ ॥
ayam tvad-kathā-mṛṣṭa-pīyūṣa-nadyām manaḥ-vāraṇaḥ kleśa-dāva-agni-dagdhaḥ . tṛṣā-ārtaḥ avagāḍhaḥ na sasmāra dāvam na niṣkrāmati brahma-sampanna-vat naḥ .. 35 ..
यजमान्युवाच -
स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः । त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः ॥ ३६ ॥
स्वागतम् ते प्रसीद ईश तुभ्यम् नमः श्रीनिवास श्रिया कान्तया त्राहि नः । त्वाम् ऋते अधीश न अङ्गैः मखः शोभते शीर्ष-हीनः कबन्धः यथा पुरुषः ॥ ३६ ॥
svāgatam te prasīda īśa tubhyam namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ . tvām ṛte adhīśa na aṅgaiḥ makhaḥ śobhate śīrṣa-hīnaḥ kabandhaḥ yathā puruṣaḥ .. 36 ..
लोकपाला ऊचुः -
दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्द्रष्टा दृश्यते येन विश्वम् । माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः ॥ ३७ ॥
दृष्टः किम् नः प्रत्यक्-द्रष्टा दृश्यते येन विश्वम् । माया हि एषा भवदीया हि भूमन् यः त्वम् षष्ठः पञ्चभिः भासि भूतैः ॥ ३७ ॥
dṛṣṭaḥ kim naḥ pratyak-draṣṭā dṛśyate yena viśvam . māyā hi eṣā bhavadīyā hi bhūman yaḥ tvam ṣaṣṭhaḥ pañcabhiḥ bhāsi bhūtaiḥ .. 37 ..
योगेश्वरा ऊचुः -
प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः । अथापि भक्त्येश तयोपधावतां अनन्यवृत्त्यानुगृहाण वत्सल ॥ ३८ ॥
प्रेयान् न ते अन्यः अस्ति अमुतस् त्वयि प्रभो विश्वात्मन् ईक्षेत् न पृथक् यः आत्मनः । अथा अपि भक्त्या ईश तया उपधावताम् अनन्य-वृत्त्या अनुगृहाण वत्सल ॥ ३८ ॥
preyān na te anyaḥ asti amutas tvayi prabho viśvātman īkṣet na pṛthak yaḥ ātmanaḥ . athā api bhaktyā īśa tayā upadhāvatām ananya-vṛttyā anugṛhāṇa vatsala .. 38 ..
जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयाऽऽत्ममायया । रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः ॥ ३९ ॥
जगत्-उद्भव-स्थिति-लयेषु दैवतः बहु-भिद्यमान-गुणया आत्म-मायया । रचित-आत्म-भेद-मतये स्व-संस्थया विनिवर्तित-भ्रम-गुण-आत्मने नमः ॥ ३९ ॥
jagat-udbhava-sthiti-layeṣu daivataḥ bahu-bhidyamāna-guṇayā ātma-māyayā . racita-ātma-bheda-mataye sva-saṃsthayā vinivartita-bhrama-guṇa-ātmane namaḥ .. 39 ..
ब्रह्मोवाच - (अनुष्टुप्)
नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च ॥ ४० ॥
नमः ते श्रित-सत्त्वाय धर्म-आदीनाम् च सूतये । निर्गुणाय च यद्-काष्ठाम् न अहम् वेद अपरे अपि च ॥ ४० ॥
namaḥ te śrita-sattvāya dharma-ādīnām ca sūtaye . nirguṇāya ca yad-kāṣṭhām na aham veda apare api ca .. 40 ..
अग्निरुवाच -
यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम् । तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम् ॥ ४१ ॥
यत् तेजसा अहम् सु समिद्ध-तेजाः हव्यम् वहे सु अध्वरे आज्य-सिक्तम् । तम् यज्ञियम् पञ्चविधम् च पञ्चभिः सु इष्टम् यजुर्भिः प्रणतः अस्मि यज्ञम् ॥ ४१ ॥
yat tejasā aham su samiddha-tejāḥ havyam vahe su adhvare ājya-siktam . tam yajñiyam pañcavidham ca pañcabhiḥ su iṣṭam yajurbhiḥ praṇataḥ asmi yajñam .. 41 ..
देवा ऊचुः -
पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने । पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः ॥ ४२ ॥
पुरा कल्प-अपाये स्व-कृतम् उदरीकृत्य विकृतम् त्वम् एव आद्यः तस्मिन् सलिले उरग-इन्द्र-अधिशयने । पुमान् शेषे सिद्धैः हृदि विमृशित-अध्यात्म-पदविः सः एव अद्य अक्ष्णोः यः पथि चरसि भृत्यान् अवसि नः ॥ ४२ ॥
purā kalpa-apāye sva-kṛtam udarīkṛtya vikṛtam tvam eva ādyaḥ tasmin salile uraga-indra-adhiśayane . pumān śeṣe siddhaiḥ hṛdi vimṛśita-adhyātma-padaviḥ saḥ eva adya akṣṇoḥ yaḥ pathi carasi bhṛtyān avasi naḥ .. 42 ..
गन्धर्वा ऊचुः -
अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः । क्रीडाभाण्डं विश्वमिदं यस्य विभूमन् तस्मै नित्यं नाथ नमस्ते करवाम ॥ ४३ ॥
अंश-अंशाः ते देव मरीचि-आदयः एते ब्रह्म-इन्द्र-आद्याः देव-गणाः रुद्र-पुरोगाः । क्रीडा-भाण्डम् विश्वम् इदम् यस्य विभूमन् तस्मै नित्यम् नाथ नमः ते करवाम ॥ ४३ ॥
aṃśa-aṃśāḥ te deva marīci-ādayaḥ ete brahma-indra-ādyāḥ deva-gaṇāḥ rudra-purogāḥ . krīḍā-bhāṇḍam viśvam idam yasya vibhūman tasmai nityam nātha namaḥ te karavāma .. 43 ..
विद्याधरा ऊचुः -
त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः । क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उद्व्युदस्येत् ॥ ४४ ॥
त्वद्-मायया अर्थम् अभिपद्य कलेवरे अस्मिन् कृत्वा मम अहम् इति दुर्मतिः उत्पथैः स्वैः । क्षिप्तः अपि असत्-विषय-लालसः आत्म-मोहम् युष्मद्-कथा-अमृत-निषेवकः उद्व्युदस्येत् ॥ ४४ ॥
tvad-māyayā artham abhipadya kalevare asmin kṛtvā mama aham iti durmatiḥ utpathaiḥ svaiḥ . kṣiptaḥ api asat-viṣaya-lālasaḥ ātma-moham yuṣmad-kathā-amṛta-niṣevakaḥ udvyudasyet .. 44 ..
ब्राह्मणा ऊचुः -
त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मंत्रः समिद् दर्भपात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ ४५ ॥
त्वम् क्रतुः त्वम् हविः त्वम् हुताशः स्वयम् त्वम् हि मंत्रः समिध् दर्भ-पात्राणि च । त्वम् सदस्य-ऋत्विजः दम्पती देवता अग्निहोत्रम् स्वधा सोमः आज्यम् पशुः ॥ ४५ ॥
tvam kratuḥ tvam haviḥ tvam hutāśaḥ svayam tvam hi maṃtraḥ samidh darbha-pātrāṇi ca . tvam sadasya-ṛtvijaḥ dampatī devatā agnihotram svadhā somaḥ ājyam paśuḥ .. 45 ..
त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदन् लीलया योगिभिः व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः ॥ ४६ ॥
त्वम् पुरा गाम् रसायाः महा-सूकरः दंष्ट्रया पद्मिनीम् वारण-इन्द्रः यथा । स्तूयमानः नदन् लीलया योगिभिः व्युज्जहर्थ त्रयी-गात्र यज्ञक्रतुः ॥ ४६ ॥
tvam purā gām rasāyāḥ mahā-sūkaraḥ daṃṣṭrayā padminīm vāraṇa-indraḥ yathā . stūyamānaḥ nadan līlayā yogibhiḥ vyujjahartha trayī-gātra yajñakratuḥ .. 46 ..
स प्रसीद त्वमस्माकं आकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् । कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः ॥ ४७ ॥
स प्रसीद त्वम् अस्माकम् आकाङ्क्षताम् दर्शनम् ते परिभ्रष्ट-सत्-कर्मणाम् । कीर्त्यमाने नृभिः नाम्नि यज्ञेश ते यज्ञ-विघ्नाः क्षयम् यान्ति तस्मै नमः ॥ ४७ ॥
sa prasīda tvam asmākam ākāṅkṣatām darśanam te paribhraṣṭa-sat-karmaṇām . kīrtyamāne nṛbhiḥ nāmni yajñeśa te yajña-vighnāḥ kṣayam yānti tasmai namaḥ .. 47 ..
मैत्रेय उवाच - (अनुष्टुप्)
इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् । कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने ॥ ४८ ॥
इति दक्षः कविः यज्ञम् भद्र रुद्र-अभिमर्शितम् । कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने ॥ ४८ ॥
iti dakṣaḥ kaviḥ yajñam bhadra rudra-abhimarśitam . kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane .. 48 ..
भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् । दक्षं बभाष आभाष्य प्रीयमाण इवानघ ॥ ४९ ॥
भगवान् स्वेन भागेन सर्व-आत्मा सर्व-भाग-भुज् । दक्षम् बभाष आभाष्य प्रीयमाणः इव अनघ ॥ ४९ ॥
bhagavān svena bhāgena sarva-ātmā sarva-bhāga-bhuj . dakṣam babhāṣa ābhāṣya prīyamāṇaḥ iva anagha .. 49 ..
श्रीभगवानुवाच -
अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः ॥ ५० ॥
अहम् ब्रह्मा च शर्वः च जगतः कारणम् परम् । आत्म-ईश्वरः उपद्रष्टा स्वयम् दृश्-अविशेषणः ॥ ५० ॥
aham brahmā ca śarvaḥ ca jagataḥ kāraṇam param . ātma-īśvaraḥ upadraṣṭā svayam dṛś-aviśeṣaṇaḥ .. 50 ..
आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज । सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ ५१ ॥
आत्म-मायाम् समाविश्य सः अहम् गुण-मयीम् द्विज । सृजन् रक्षन् हरन् विश्वम् दध्रे संज्ञाम् क्रिया-उचिताम् ॥ ५१ ॥
ātma-māyām samāviśya saḥ aham guṇa-mayīm dvija . sṛjan rakṣan haran viśvam dadhre saṃjñām kriyā-ucitām .. 51 ..
तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि । ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥
तस्मिन् ब्रह्मणि अद्वितीये केवले परमात्मनि । ब्रह्म-रुद्रौ च भूतानि भेदेन अज्ञः अनुपश्यति ॥ ५२ ॥
tasmin brahmaṇi advitīye kevale paramātmani . brahma-rudrau ca bhūtāni bhedena ajñaḥ anupaśyati .. 52 ..
यथा पुमान्न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित् । पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः ॥ ५३ ॥
यथा पुमान् न स्व-अङ्गेषु शिरः-पाणि-आदिषु क्वचिद् । पारक्य-बुद्धिम् कुरुते एवम् भूतेषु मद्-परः ॥ ५३ ॥
yathā pumān na sva-aṅgeṣu śiraḥ-pāṇi-ādiṣu kvacid . pārakya-buddhim kurute evam bhūteṣu mad-paraḥ .. 53 ..
त्रयाणां एकभावानां यो न पश्यति वै भिदाम् । सर्वभूतात्मनां ब्रह्मन् स शान्तिं अधिगच्छति ॥ ५४ ॥
त्रयाणाम् एक-भावानाम् यः न पश्यति वै भिदाम् । सर्व-भूत-आत्मनाम् ब्रह्मन् स शान्तिम् अधिगच्छति ॥ ५४ ॥
trayāṇām eka-bhāvānām yaḥ na paśyati vai bhidām . sarva-bhūta-ātmanām brahman sa śāntim adhigacchati .. 54 ..
मैत्रेय उवाच -
एवं भगवतादिष्टः प्रजापतिपतिर्हरिम् । अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत् ॥ ५५ ॥
एवम् भगवता आदिष्टः प्रजापति-पतिः हरिम् । अर्चित्वा क्रतुना स्वेन देवान् उभयतस् अयजत् ॥ ५५ ॥
evam bhagavatā ādiṣṭaḥ prajāpati-patiḥ harim . arcitvā kratunā svena devān ubhayatas ayajat .. 55 ..
रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः । कर्मणोदवसानेन सोमपानितरानपि । उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः ॥ ५६ ॥
रुद्रम् च स्वेन भागेन हि उपाधावत् समाहितः । कर्मणा उदवसानेन सोमपान् इतरान् अपि । उदवस्य सह ऋत्विग्भिः सस्नौ अवभृथम् ततस् ॥ ५६ ॥
rudram ca svena bhāgena hi upādhāvat samāhitaḥ . karmaṇā udavasānena somapān itarān api . udavasya saha ṛtvigbhiḥ sasnau avabhṛtham tatas .. 56 ..
तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे । धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः ॥ ५७ ॥
तस्मै अपि अनुभावेन स्वेन एव अवाप्त-राधसे । धर्मे एव मतिम् दत्त्वा त्रिदशाः ते दिवम् ययुः ॥ ५७ ॥
tasmai api anubhāvena svena eva avāpta-rādhase . dharme eva matim dattvā tridaśāḥ te divam yayuḥ .. 57 ..
एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् । जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम ॥ ५८ ॥
एवम् दाक्षायणी हित्वा सती पूर्व-कलेवरम् । जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम ॥ ५८ ॥
evam dākṣāyaṇī hitvā satī pūrva-kalevaram . jajñe himavataḥ kṣetre menāyām iti śuśruma .. 58 ..
तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका । अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम् ॥ ५९ ॥
तम् एव दयितम् भूयस् आवृङ्क्ते पतिम् अम्बिका । अनन्य-भाव-एक-गतिम् शक्तिः सुप्ता इव पूरुषम् ॥ ५९ ॥
tam eva dayitam bhūyas āvṛṅkte patim ambikā . ananya-bhāva-eka-gatim śaktiḥ suptā iva pūruṣam .. 59 ..
एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः । श्रुतं भागवतात् शिष्याद् उद्धवान्मे बृहस्पतेः । ॥ ६० ॥
एतत् भगवतः शम्भोः कर्म दक्ष-अध्वर-द्रुहः । श्रुतम् भागवतात् शिष्यात् उद्धवात् मे बृहस्पतेः । ॥ ६० ॥
etat bhagavataḥ śambhoḥ karma dakṣa-adhvara-druhaḥ . śrutam bhāgavatāt śiṣyāt uddhavāt me bṛhaspateḥ . .. 60 ..
इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम् । यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तयेद् धुनोत्यघं कौरव भक्तिभावतः । ॥ ६१ ॥
इदम् पवित्रम् परम् ईश-चेष्टितम् यशस्यम् आयुष्यम् अघ-ओघ-मर्षणम् । यः नित्यदा आकर्ण्य नरः अनुकीर्तयेत् धुनोति अघम् कौरव भक्ति-भावतः । ॥ ६१ ॥
idam pavitram param īśa-ceṣṭitam yaśasyam āyuṣyam agha-ogha-marṣaṇam . yaḥ nityadā ākarṇya naraḥ anukīrtayet dhunoti agham kaurava bhakti-bhāvataḥ . .. 61 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञसंधान सप्तमोऽध्यायः ॥ ७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे दक्षयज्ञसंधान-सप्तमः अध्यायः ॥ ७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe dakṣayajñasaṃdhāna-saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In