| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः । नैते गृहान् ब्रह्मसुता ह्यावसन् ऊर्ध्वरेतसः ॥ १ ॥
सनक-आद्याः नारदः च ऋभुः हंसः अरुणिः यतिः । न एते गृहान् ब्रह्म-सुताः हि आवसन् ऊर्ध्वरेतसः ॥ १ ॥
sanaka-ādyāḥ nāradaḥ ca ṛbhuḥ haṃsaḥ aruṇiḥ yatiḥ . na ete gṛhān brahma-sutāḥ hi āvasan ūrdhvaretasaḥ .. 1 ..
मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रुहन् । असूत मिथुनं तत्तु निर्ऋतिर्जगृहेऽप्रजः ॥ २ ॥
मृषा धर्मस्य भार्या आसीत् दम्भम् मायाम् च शत्रु-हन् । असूत मिथुनम् तत् तु निरृतिः जगृहे अप्रजः ॥ २ ॥
mṛṣā dharmasya bhāryā āsīt dambham māyām ca śatru-han . asūta mithunam tat tu nirṛtiḥ jagṛhe aprajaḥ .. 2 ..
तयोः समभवल्लोभो निकृतिश्च महामते । ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥ ३ ॥
तयोः समभवत् लोभः निकृतिः च महामते । ताभ्याम् क्रोधः च हिंसा च यत् दुरुक्तिः स्वसा कलिः ॥ ३ ॥
tayoḥ samabhavat lobhaḥ nikṛtiḥ ca mahāmate . tābhyām krodhaḥ ca hiṃsā ca yat duruktiḥ svasā kaliḥ .. 3 ..
दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम । तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥
दुरुक्तौ कलिः आधत्त भयम् मृत्युम् च सत्तम । तयोः च मिथुनम् जज्ञे यातना निरयः तथा ॥ ४ ॥
duruktau kaliḥ ādhatta bhayam mṛtyum ca sattama . tayoḥ ca mithunam jajñe yātanā nirayaḥ tathā .. 4 ..
सङ्ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ । त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥
सङ्ग्रहेण मया आख्यातः प्रतिसर्गः तव अनघ । त्रिस् श्रुत्वा एतत् पुमान् पुण्यम् विधुनोति आत्मनः मलम् ॥ ५ ॥
saṅgraheṇa mayā ākhyātaḥ pratisargaḥ tava anagha . tris śrutvā etat pumān puṇyam vidhunoti ātmanaḥ malam .. 5 ..
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह । स्वायम्भुवस्यापि मनोः हरेरंशांशजन्मनः ॥ ६ ॥
अथ अतस् कीर्तये वंशम् पुण्य-कीर्तेः कुरु-उद्वह । स्वायम्भुवस्य अपि मनोः हरेः अंश-अंश-जन्मनः ॥ ६ ॥
atha atas kīrtaye vaṃśam puṇya-kīrteḥ kuru-udvaha . svāyambhuvasya api manoḥ hareḥ aṃśa-aṃśa-janmanaḥ .. 6 ..
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ । वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ७ ॥
प्रियव्रत-उत्तानपादौ शतरूपा-पतेः सुतौ । वासुदेवस्य कलया रक्षायाम् जगतः स्थितौ ॥ ७ ॥
priyavrata-uttānapādau śatarūpā-pateḥ sutau . vāsudevasya kalayā rakṣāyām jagataḥ sthitau .. 7 ..
जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः । सुरुचिः प्रेयसी पत्युः नेतरा यत्सुतो ध्रुवः ॥ ८ ॥
जाये उत्तानपादस्य सुनीतिः सुरुचिः तयोः । सु रुचिः प्रेयसी पत्युः न इतरा यत् सुतः ध्रुवः ॥ ८ ॥
jāye uttānapādasya sunītiḥ suruciḥ tayoḥ . su ruciḥ preyasī patyuḥ na itarā yat sutaḥ dhruvaḥ .. 8 ..
एकदा सुरुचेः पुत्रं अङ्कमारोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥
एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् । उत्तमम् न आरुरुक्षन्तम् ध्रुवम् राजा अभ्यनन्दत ॥ ९ ॥
ekadā suruceḥ putram aṅkam āropya lālayan . uttamam na ārurukṣantam dhruvam rājā abhyanandata .. 9 ..
तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् । सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ १० ॥
तथा चिकीर्षमाणम् तम् सपत्न्याः तनयम् ध्रुवम् । सुरुचिः शृण्वतः राज्ञः स ईर्ष्यम् आह अति गर्विता ॥ १० ॥
tathā cikīrṣamāṇam tam sapatnyāḥ tanayam dhruvam . suruciḥ śṛṇvataḥ rājñaḥ sa īrṣyam āha ati garvitā .. 10 ..
न वत्स नृपतेर्धिष्ण्यं भवान् आरोढुमर्हति । न गृहीतो मया यत्त्वं कुक्षौ अपि नृपात्मजः ॥ ११ ॥
न वत्स नृपतेः धिष्ण्यम् भवान् आरोढुम् अर्हति । न गृहीतः मया यत् त्वम् कुक्षौ अपि नृप-आत्मजः ॥ ११ ॥
na vatsa nṛpateḥ dhiṣṇyam bhavān āroḍhum arhati . na gṛhītaḥ mayā yat tvam kukṣau api nṛpa-ātmajaḥ .. 11 ..
बालोऽसि बत नात्मानं अन्यस्त्रीगर्भसम्भृतम् । नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १२ ॥
बालः असि बत न आत्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् । नूनम् वेद भवान् यस्य दुर्लभे अर्थे मनोरथः ॥ १२ ॥
bālaḥ asi bata na ātmānam anya-strī-garbha-sambhṛtam . nūnam veda bhavān yasya durlabhe arthe manorathaḥ .. 12 ..
तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥
तपसा आराध्य पुरुषम् तस्य एव अनुग्रहेण मे । गर्भे त्वम् साधय आत्मानम् यदि इच्छसि नृपासनम् ॥ १३ ॥
tapasā ārādhya puruṣam tasya eva anugraheṇa me . garbhe tvam sādhaya ātmānam yadi icchasi nṛpāsanam .. 13 ..
मैत्रेय उवाच -
मातुः सपत्न्याः स दुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथाहिः । हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन् सकाशम् ॥ १४ ॥
मातुः सपत्न्याः स दुरुक्ति-विद्धः श्वसन् रुषा दण्ड-हतः यथा अहिः । हित्वा मिषन्तम् पितरम् सन्न-वाचम् जगाम मातुः प्ररुदन् सकाशम् ॥ १४ ॥
mātuḥ sapatnyāḥ sa durukti-viddhaḥ śvasan ruṣā daṇḍa-hataḥ yathā ahiḥ . hitvā miṣantam pitaram sanna-vācam jagāma mātuḥ prarudan sakāśam .. 14 ..
तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग उदूह्य बालम् । निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्न्या ॥ १५ ॥
तम् निःश्वसन्तम् स्फुरित-अधर-उष्ठम् सुनीतिः उत्सङ्गः उदूह्य बालम् । निशम्य तद्-पौर-मुखात् नितान्तम् सा विव्यथे यत् गदितम् सपत्न्या ॥ १५ ॥
tam niḥśvasantam sphurita-adhara-uṣṭham sunītiḥ utsaṅgaḥ udūhya bālam . niśamya tad-paura-mukhāt nitāntam sā vivyathe yat gaditam sapatnyā .. 15 ..
सोत्सृज्य धैर्यं विललाप शोक दावाग्निना दावलतेव बाला । वाक्यं सपत्न्याः स्मरती सरोज श्रिया दृशा बाष्पकलामुवाह ॥ १६ ॥
सा उत्सृज्य धैर्यम् विललाप शोक दाव-अग्निना दाव-लता इव बाला । वाक्यम् सपत्न्याः स्मरती सरोज श्रिया दृशा बाष्प-कलाम् उवाह ॥ १६ ॥
sā utsṛjya dhairyam vilalāpa śoka dāva-agninā dāva-latā iva bālā . vākyam sapatnyāḥ smaratī saroja śriyā dṛśā bāṣpa-kalām uvāha .. 16 ..
दीर्घं श्वसन्ती वृजिनस्य पारं अपश्यती बालकमाह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदुःखदस्तत् ॥ १७ ॥
दीर्घम् श्वसन्ती वृजिनस्य पारम् अ पश्यती बालकम् आह बाला । मा अ मङ्गलम् तात परेषु भुङ्क्ते जनः यत् पर-दुःख-दः तत् ॥ १७ ॥
dīrgham śvasantī vṛjinasya pāram a paśyatī bālakam āha bālā . mā a maṅgalam tāta pareṣu bhuṅkte janaḥ yat para-duḥkha-daḥ tat .. 17 ..
सत्यं सुरुच्याभिहितं भवान्मे यद् दुर्भगाया उदरे गृहीतः । स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥
सत्यम् सुरुच्या अभिहितम् भवान् मे यत् दुर्भगायाः उदरे गृहीतः । स्तन्येन वृद्धः च विलज्जते याम् भार्या इति वा वोढुम् इडस्पतिः माम् ॥ १८ ॥
satyam surucyā abhihitam bhavān me yat durbhagāyāḥ udare gṛhītaḥ . stanyena vṛddhaḥ ca vilajjate yām bhāryā iti vā voḍhum iḍaspatiḥ mām .. 18 ..
आतिष्ठ तत्तात विमत्सरस्त्वं उक्तं समात्रापि यदव्यलीकम् । आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥
आतिष्ठ तत् तात विमत्सरः त्वम् उक्तम् स मात्रा अपि यत् अव्यलीकम् । आराधय अधोक्षज-पाद-पद्मम् यदि इच्छसे अध्यासनम् उत्तमः यथा ॥ १९ ॥
ātiṣṭha tat tāta vimatsaraḥ tvam uktam sa mātrā api yat avyalīkam . ārādhaya adhokṣaja-pāda-padmam yadi icchase adhyāsanam uttamaḥ yathā .. 19 ..
यस्याङ्घ्रिपद्मं परिचर्य विश्व विभावनायात्तगुणाभिपत्तेः । अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥
यस्य अङ्घ्रि-पद्मम् परिचर्य विश्व विभावनाय आत्त-गुण-अभिपत्तेः । अजः अध्यतिष्ठत् खलु पारमेष्ठ्यम् पदम् जित-आत्म-श्वसन-अभिवन्द्यम् ॥ २० ॥
yasya aṅghri-padmam paricarya viśva vibhāvanāya ātta-guṇa-abhipatteḥ . ajaḥ adhyatiṣṭhat khalu pārameṣṭhyam padam jita-ātma-śvasana-abhivandyam .. 20 ..
तथा मनुर्वो भगवान्पितामहो यमेकमत्या पुरुदक्षिणैर्मखैः । इष्ट्वाभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥
तथा मनुः वः भगवान् पितामहः यम् एकमत्या पुरु-दक्षिणैः मखैः । इष्ट्वा अभिपेदे दुरवापम् अन्यतस् भौमम् सुखम् दिव्यम् अथ आपवर्ग्यम् ॥ २१ ॥
tathā manuḥ vaḥ bhagavān pitāmahaḥ yam ekamatyā puru-dakṣiṇaiḥ makhaiḥ . iṣṭvā abhipede duravāpam anyatas bhaumam sukham divyam atha āpavargyam .. 21 ..
तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् । अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥
तम् एव वत्स आश्रय भृत्य-वत्सलम् मुमुक्षुभिः मृग्य-पद-अब्ज-पद्धतिम् । अनन्य-भावे निज-धर्म-भाविते मनसि अवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥
tam eva vatsa āśraya bhṛtya-vatsalam mumukṣubhiḥ mṛgya-pada-abja-paddhatim . ananya-bhāve nija-dharma-bhāvite manasi avasthāpya bhajasva pūruṣam .. 22 ..
नान्यं ततः पद्मपलाशलोचनाद् दुःखच्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३ ॥
ना अन्यम् ततस् पद्म-पलाश-लोचनात् दुःख-छिदम् ते मृगयामि कञ्चन । यः मृग्यते हस्त-गृहीत-पद्मया श्रिया इतरैः अङ्ग विमृग्यमाणया ॥ २३ ॥
nā anyam tatas padma-palāśa-locanāt duḥkha-chidam te mṛgayāmi kañcana . yaḥ mṛgyate hasta-gṛhīta-padmayā śriyā itaraiḥ aṅga vimṛgyamāṇayā .. 23 ..
एवं सञ्जल्पितं मातुः आकर्ण्यार्थागमं वचः । सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २४ ॥
एवम् सञ्जल्पितम् मातुः आकर्ण्य अर्थ-आगमम् वचः । सन् नियम्य आत्मना आत्मानम् निश्चक्राम पितुः पुरात् ॥ २४ ॥
evam sañjalpitam mātuḥ ākarṇya artha-āgamam vacaḥ . san niyamya ātmanā ātmānam niścakrāma pituḥ purāt .. 24 ..
मैत्रेय उवाच - (अनुष्टुप्)
नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २५ ॥
नारदः तत् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धनि अघ-घ्नेन पाणिना प्राह विस्मितः ॥ २५ ॥
nāradaḥ tat upākarṇya jñātvā tasya cikīrṣitam . spṛṣṭvā mūrdhani agha-ghnena pāṇinā prāha vismitaḥ .. 25 ..
अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम् । बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥ २६ ॥
अहो तेजः क्षत्रियाणाम् मान-भङ्गम् अ मृष्यताम् । बालः अपि अयम् हृदा धत्ते यत् स मातुः असत् वचः ॥ २६ ॥
aho tejaḥ kṣatriyāṇām māna-bhaṅgam a mṛṣyatām . bālaḥ api ayam hṛdā dhatte yat sa mātuḥ asat vacaḥ .. 26 ..
नारद उवाच -
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक । लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥
न अधुना अपि अवमानम् ते सम्मानम् वा अपि पुत्रक । लक्षयामः कुमारस्य सक्तस्य क्रीडन-आदिषु ॥ २७ ॥
na adhunā api avamānam te sammānam vā api putraka . lakṣayāmaḥ kumārasya saktasya krīḍana-ādiṣu .. 27 ..
विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः । पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥ २८ ॥
विकल्पे विद्यमाने अपि न हि असन्तोष-हेतवः । पुंसः मोहम् ऋते भिन्नाः यत् लोके निज-कर्मभिः ॥ २८ ॥
vikalpe vidyamāne api na hi asantoṣa-hetavaḥ . puṃsaḥ moham ṛte bhinnāḥ yat loke nija-karmabhiḥ .. 28 ..
परितुष्येत् ततस्तात तावन्मात्रेण पूरुषः । दैवोपसादितं यावद् वीक्ष्येश्वरगतिं बुधः ॥ २९ ॥
परितुष्येत् ततस् तात तावत्-मात्रेण पूरुषः । दैव-उपसादितम् यावत् वीक्ष्य ईश्वर-गतिम् बुधः ॥ २९ ॥
parituṣyet tatas tāta tāvat-mātreṇa pūruṣaḥ . daiva-upasāditam yāvat vīkṣya īśvara-gatim budhaḥ .. 29 ..
अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥
अथ मात्रा उपदिष्टेन योगेन अवरुरुत्ससि । यद्-प्रसादम् स वै पुंसाम् दुराराध्यः मतः मम ॥ ३० ॥
atha mātrā upadiṣṭena yogena avarurutsasi . yad-prasādam sa vai puṃsām durārādhyaḥ mataḥ mama .. 30 ..
मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः । न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥
मुनयः पदवीम् यस्य निःसङ्गेन ऊरु-जन्मभिः । न विदुः मृगयन्तः अपि तीव्र-योग-समाधिना ॥ ३१ ॥
munayaḥ padavīm yasya niḥsaṅgena ūru-janmabhiḥ . na viduḥ mṛgayantaḥ api tīvra-yoga-samādhinā .. 31 ..
अतो निवर्ततामेष निर्बन्धस्तव निष्फलः । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥
अतस् निवर्तताम् एष निर्बन्धः तव निष्फलः । यतिष्यति भवान् काले श्रेयसाम् समुपस्थिते ॥ ३२ ॥
atas nivartatām eṣa nirbandhaḥ tava niṣphalaḥ . yatiṣyati bhavān kāle śreyasām samupasthite .. 32 ..
यस्य यद् दैवविहितं स तेन सुखदुःखयोः । आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३३ ॥
यस्य यत् दैव-विहितम् स तेन सुख-दुःखयोः । आत्मानम् तोषयन् देही तमसः पारम् ऋच्छति ॥ ३३ ॥
yasya yat daiva-vihitam sa tena sukha-duḥkhayoḥ . ātmānam toṣayan dehī tamasaḥ pāram ṛcchati .. 33 ..
गुणाधिकान्मुदं लिप्सेद् अनुक्रोशं गुणाधमात् । मैत्रीं समानादन्विच्छेत् न तापैरभिभूयते ॥ ३४ ॥
गुण-अधिकात् मुदम् लिप्सेत् अनुक्रोशम् गुण-अधमात् । मैत्रीम् समानात् अन्विच्छेत् न तापैः अभिभूयते ॥ ३४ ॥
guṇa-adhikāt mudam lipset anukrośam guṇa-adhamāt . maitrīm samānāt anvicchet na tāpaiḥ abhibhūyate .. 34 ..
ध्रुव उवाच -
सोऽयं शमो भगवता सुखदुःखहतात्मनाम् । दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३५ ॥
सः अयम् शमः भगवता सुख-दुःख-हत-आत्मनाम् । दर्शितः कृपया पुंसाम् दुर्दर्शः अस्मद्विधैः तु यः ॥ ३५ ॥
saḥ ayam śamaḥ bhagavatā sukha-duḥkha-hata-ātmanām . darśitaḥ kṛpayā puṃsām durdarśaḥ asmadvidhaiḥ tu yaḥ .. 35 ..
अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः । सुरुच्या दुर्वचोबाणैः न भिन्ने श्रयते हृदि ॥ ३६ ॥
अथ अपि मे अविनीतस्य क्षात्त्रम् घोरम् उपेयुषः । सुरुच्या दुर्वचः-बाणैः न भिन्ने श्रयते हृदि ॥ ३६ ॥
atha api me avinītasya kṣāttram ghoram upeyuṣaḥ . surucyā durvacaḥ-bāṇaiḥ na bhinne śrayate hṛdi .. 36 ..
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूहि अस्मत् पितृभिर्ब्रह्मन् अन्यैरप्यनधिष्ठितम् ॥ ३७ ॥
पदम् त्रिभुवन-उत्कृष्टम् जिगीषोः साधु वर्त्म मे । ब्रूहि अस्मत् पितृभिः ब्रह्मन् अन्यैः अपि अनधिष्ठितम् ॥ ३७ ॥
padam tribhuvana-utkṛṣṭam jigīṣoḥ sādhu vartma me . brūhi asmat pitṛbhiḥ brahman anyaiḥ api anadhiṣṭhitam .. 37 ..
नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः । वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥
नूनम् भवान् भगवतः यः अङ्गजः परमेष्ठिनः । वितुदन् अटते वीणाम् हिताय जगतः अर्क-वत् ॥ ३८ ॥
nūnam bhavān bhagavataḥ yaḥ aṅgajaḥ parameṣṭhinaḥ . vitudan aṭate vīṇām hitāya jagataḥ arka-vat .. 38 ..
मैत्रेय उवाच -
इत्युदाहृतमाकर्ण्य भगवान् नारदस्तदा । प्रीतः प्रत्याह तं बालं सद्वाक्यं अनुकम्पया ॥ ३९ ॥
इति उदाहृतम् आकर्ण्य भगवान् नारदः तदा । प्रीतः प्रत्याह तम् बालम् सत्-वाक्यम् अनुकम्पया ॥ ३९ ॥
iti udāhṛtam ākarṇya bhagavān nāradaḥ tadā . prītaḥ pratyāha tam bālam sat-vākyam anukampayā .. 39 ..
नारद उवाच -
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥
जनन्या अभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवः तम् भज तम् प्रवण-आत्मना ॥ ४० ॥
jananyā abhihitaḥ panthāḥ sa vai niḥśreyasasya te . bhagavān vāsudevaḥ tam bhaja tam pravaṇa-ātmanā .. 40 ..
धर्मार्थकाममोक्षाख्यं य इच्छेत् श्रेय आत्मनः । एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥
धर्म-अर्थ-काम-मोक्ष-आख्यम् यः इच्छेत् श्रेयः आत्मनः । एकम् हि एव हरेः तत्र कारणम् पाद-सेवनम् ॥ ४१ ॥
dharma-artha-kāma-mokṣa-ākhyam yaḥ icchet śreyaḥ ātmanaḥ . ekam hi eva hareḥ tatra kāraṇam pāda-sevanam .. 41 ..
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४२ ॥
तत् तात गच्छ भद्रम् ते यमुनायाः तटम् शुचि । पुण्यम् मधुवनम् यत्र सान्निध्यम् नित्यदा हरेः ॥ ४२ ॥
tat tāta gaccha bhadram te yamunāyāḥ taṭam śuci . puṇyam madhuvanam yatra sānnidhyam nityadā hareḥ .. 42 ..
स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे । कृत्वोचितानि निवसन् आत्मनः कल्पितासनः ॥ ४३ ॥
स्नात्वा अनुसवनम् तस्मिन् कालिन्द्याः सलिले शिवे । कृत्वा उचितानि निवसन् आत्मनः कल्पित-आसनः ॥ ४३ ॥
snātvā anusavanam tasmin kālindyāḥ salile śive . kṛtvā ucitāni nivasan ātmanaḥ kalpita-āsanaḥ .. 43 ..
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् । शनैर्व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ ४४ ॥
। शनैस् व्युदस्य अभिध्यायेत् मनसा गुरुणा गुरुम् ॥ ४४ ॥
. śanais vyudasya abhidhyāyet manasā guruṇā gurum .. 44 ..
प्रसादाभिमुखं शश्वत् प्रसन्नवदनेक्षणम् । सुनासं सुभ्रुवं चारु कपोलं सुरसुन्दरम् ॥ ४५ ॥
प्रसाद-अभिमुखम् शश्वत् प्रसन्न-वदन-ईक्षणम् । सु नासम् सु भ्रुवम् चारु कपोलम् सुर-सुन्दरम् ॥ ४५ ॥
prasāda-abhimukham śaśvat prasanna-vadana-īkṣaṇam . su nāsam su bhruvam cāru kapolam sura-sundaram .. 45 ..
तरुणं रमणीयाङ्गं अरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥
तरुणम् रमणीय-अङ्गम् अरुण-उष्ठ-ईक्षण-अधरम् । प्रणत-आश्रयणम् नृम्णम् शरण्यम् करुणा-अर्णवम् ॥ ४६ ॥
taruṇam ramaṇīya-aṅgam aruṇa-uṣṭha-īkṣaṇa-adharam . praṇata-āśrayaṇam nṛmṇam śaraṇyam karuṇā-arṇavam .. 46 ..
श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् । शङ्खचक्रगदापद्मैः अभिव्यक्तचतुर्भुजम् ॥ ४७ ॥
श्रीवत्स-अङ्कम् घनश्यामम् पुरुषम् वनमालिनम् । शङ्ख-चक्र-गदा-पद्मैः अभिव्यक्त-चतुर्भुजम् ॥ ४७ ॥
śrīvatsa-aṅkam ghanaśyāmam puruṣam vanamālinam . śaṅkha-cakra-gadā-padmaiḥ abhivyakta-caturbhujam .. 47 ..
किरीटिनं कुण्डलिनं केयूरवलयान्वितम् । कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥
किरीटिनम् कुण्डलिनम् केयूर-वलय-अन्वितम् । कौस्तुभ-आभरण-ग्रीवम् पीत-कौशेय-वाससम् ॥ ४८ ॥
kirīṭinam kuṇḍalinam keyūra-valaya-anvitam . kaustubha-ābharaṇa-grīvam pīta-kauśeya-vāsasam .. 48 ..
काञ्चीकलापपर्यस्तं लसत्काञ्चन नूपुरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥
काञ्ची-कलाप-पर्यस्तम् लसत्-काञ्चन नूपुरम् । दर्शनीयतमम् शान्तम् मनः-नयन-वर्धनम् ॥ ४९ ॥
kāñcī-kalāpa-paryastam lasat-kāñcana nūpuram . darśanīyatamam śāntam manaḥ-nayana-vardhanam .. 49 ..
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् । हृत्पद्मकर्णिकाधिष्ण्यं आक्रम्यात् मन्यवस्थितम् ॥ ५० ॥
पद्भ्याम् नख-मणि-श्रेण्या विलसद्भ्याम् समर्चताम् । हृद्-पद्म-कर्णिका-धिष्ण्यम् ॥ ५० ॥
padbhyām nakha-maṇi-śreṇyā vilasadbhyām samarcatām . hṛd-padma-karṇikā-dhiṣṇyam .. 50 ..
स्मयमानं अभिध्यायेत् सानुरागावलोकनम् । नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥
स्मयमानम् अभिध्यायेत् स अनुराग-अवलोकनम् । नियतेन एक-भूतेन मनसा वर-द-ऋषभम् ॥ ५१ ॥
smayamānam abhidhyāyet sa anurāga-avalokanam . niyatena eka-bhūtena manasā vara-da-ṛṣabham .. 51 ..
एवं भगवतो रूपं सुभद्रं ध्यायतो मनः । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥
एवम् भगवतः रूपम् सु भद्रम् ध्यायतः मनः । निर्वृत्या परया तूर्णम् सम्पन्नम् न निवर्तते ॥ ५२ ॥
evam bhagavataḥ rūpam su bhadram dhyāyataḥ manaḥ . nirvṛtyā parayā tūrṇam sampannam na nivartate .. 52 ..
जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३ ॥
जपः च परमः गुह्यः श्रूयताम् मे नृप-आत्मज । यम् सप्त-रात्रम् प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३ ॥
japaḥ ca paramaḥ guhyaḥ śrūyatām me nṛpa-ātmaja . yam sapta-rātram prapaṭhan pumān paśyati khecarān .. 53 ..
ॐ नमो भगवते वासुदेवाय । मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः । सपर्यां विविधैर्द्रव्यैः देशकालविभागवित् ॥ ५४ ॥
ओम् नमः भगवते वासुदेवाय । मन्त्रेण अनेन देवस्य कुर्यात् द्रव्य-मयीम् बुधः । सपर्याम् विविधैः द्रव्यैः देश-काल-विभाग-विद् ॥ ५४ ॥
om namaḥ bhagavate vāsudevāya . mantreṇa anena devasya kuryāt dravya-mayīm budhaḥ . saparyām vividhaiḥ dravyaiḥ deśa-kāla-vibhāga-vid .. 54 ..
सलिलैः शुचिभिर्माल्यैः वन्यैर्मूलफलादिभिः । शस्ताङ्कुरांशुकैश्चार्चेत् तुलस्या प्रियया प्रभुम् ॥ ५५ ॥
सलिलैः शुचिभिः माल्यैः वन्यैः मूल-फल-आदिभिः । शस्त-अङ्कुर-अंशुकैः च अर्चेत् तुलस्या प्रियया प्रभुम् ॥ ५५ ॥
salilaiḥ śucibhiḥ mālyaiḥ vanyaiḥ mūla-phala-ādibhiḥ . śasta-aṅkura-aṃśukaiḥ ca arcet tulasyā priyayā prabhum .. 55 ..
लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् । आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक् ॥ ५६ ॥
लब्ध्वा द्रव्य-मयीम् अर्चाम् क्षिति-अम्बु-आदिषु वा अर्चयेत् । आभृत-आत्मा मुनिः शान्तः यत-वाच्-मित-वन्य-भुज् ॥ ५६ ॥
labdhvā dravya-mayīm arcām kṣiti-ambu-ādiṣu vā arcayet . ābhṛta-ātmā muniḥ śāntaḥ yata-vāc-mita-vanya-bhuj .. 56 ..
स्वेच्छावतारचरितैः अचिन्त्यनिजमायया । करिष्यति उत्तमश्लोकः तद् ध्यायेद् हृदयङ्गमम् ॥ ५७ ॥
स्व-इच्छा-अवतार-चरितैः अ चिन्त्य-निज-मायया । करिष्यति उत्तमश्लोकः तत् ध्यायेत् हृदयङ्गमम् ॥ ५७ ॥
sva-icchā-avatāra-caritaiḥ a cintya-nija-māyayā . kariṣyati uttamaślokaḥ tat dhyāyet hṛdayaṅgamam .. 57 ..
परिचर्या भगवतो यावत्यः पूर्वसेविताः । ता मंत्रहृदयेनैव प्रयुञ्ज्यान् मंत्रमूर्तये ॥ ५८ ॥
परिचर्याः भगवतः यावत्यः पूर्व-सेविताः । ताः मंत्रहृदयेन एव प्रयुञ्ज्यात् मंत्रमूर्तये ॥ ५८ ॥
paricaryāḥ bhagavataḥ yāvatyaḥ pūrva-sevitāḥ . tāḥ maṃtrahṛdayena eva prayuñjyāt maṃtramūrtaye .. 58 ..
एवं कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥
एवम् कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणः भगवान् भक्तिमत्-परिचर्यया ॥ ५९ ॥
evam kāyena manasā vacasā ca manogatam . paricaryamāṇaḥ bhagavān bhaktimat-paricaryayā .. 59 ..
पुंसां अमायिनां सम्यक् भजतां भाववर्धनः । श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् । ॥ ६० ॥
पुंसाम् अमायिनाम् सम्यक् भजताम् भाव-वर्धनः । श्रेयः दिशति अभिमतम् यत् धर्म-आदिषु देहिनाम् । ॥ ६० ॥
puṃsām amāyinām samyak bhajatām bhāva-vardhanaḥ . śreyaḥ diśati abhimatam yat dharma-ādiṣu dehinām . .. 60 ..
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा । तं निरन्तरभावेन भजेताद्धा विमुक्तये । ॥ ६१ ॥
विरक्तः च इन्द्रिय-रतौ भक्ति-योगेन भूयसा । तम् निरन्तर-भावेन भजेत अद्धा विमुक्तये । ॥ ६१ ॥
viraktaḥ ca indriya-ratau bhakti-yogena bhūyasā . tam nirantara-bhāvena bhajeta addhā vimuktaye . .. 61 ..
इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् । ॥ ६२ ॥
इति उक्तः तम् परिक्रम्य प्रणम्य च नृप-अर्भकः । ययौ मधुवनम् पुण्यम् हरेः चरण-चर्चितम् । ॥ ६२ ॥
iti uktaḥ tam parikramya praṇamya ca nṛpa-arbhakaḥ . yayau madhuvanam puṇyam hareḥ caraṇa-carcitam . .. 62 ..
तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् । ॥ ६३ ॥
तपोवनम् गते तस्मिन् प्रविष्टः अन्तःपुरम् मुनिः । अर्हित-अर्हणकः राज्ञा सुख-आसीनः उवाच तम् । ॥ ६३ ॥
tapovanam gate tasmin praviṣṭaḥ antaḥpuram muniḥ . arhita-arhaṇakaḥ rājñā sukha-āsīnaḥ uvāca tam . .. 63 ..
नारद उवाच -
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः । ॥ ६४ ॥
राजन् किम् ध्यायसे दीर्घम् मुखेन परिशुष्यता । किम् वा न रिष्यते कामः धर्मः वा अर्थेन संयुतः । ॥ ६४ ॥
rājan kim dhyāyase dīrgham mukhena pariśuṣyatā . kim vā na riṣyate kāmaḥ dharmaḥ vā arthena saṃyutaḥ . .. 64 ..
राजोवाच -
सुतो मे बालको ब्रह्मन् स्त्रैणेना-करुणात्मना । निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः । ॥ ६५ ॥
सुतः मे बालकः ब्रह्मन् स्त्रैणेन अ करुण-आत्मना । निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः । ॥ ६५ ॥
sutaḥ me bālakaḥ brahman straiṇena a karuṇa-ātmanā . nirvāsitaḥ pañca-varṣaḥ saha mātrā mahān kaviḥ . .. 65 ..
अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः । श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६६ ॥
अपि अनाथम् वने ब्रह्मन् मा स्मादन्ति अर्भकम् वृकाः । श्रान्तम् शयानम् क्षुधितम् परिम्लान-मुख-अम्बुजम् ॥ ६६ ॥
api anātham vane brahman mā smādanti arbhakam vṛkāḥ . śrāntam śayānam kṣudhitam parimlāna-mukha-ambujam .. 66 ..
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय । योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः । ॥ ६७ ॥
अहो मे बत दौरात्म्यम् स्त्री-जितस्य उपधारय । यः अङ्कम् प्रेम्णा आरुरुक्षन्तम् न अभ्यनन्दम् असत्तमः । ॥ ६७ ॥
aho me bata daurātmyam strī-jitasya upadhāraya . yaḥ aṅkam premṇā ārurukṣantam na abhyanandam asattamaḥ . .. 67 ..
नारद उवाच -
मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते । तत्प्रभावं अविज्ञाय प्रावृङ्क्ते यद्यशो जगत् । ॥ ६८ ॥
मा मा शुचः स्व-तनयम् देवगुप्तम् विशाम् पते । तद्-प्रभावम् अ विज्ञाय प्रावृङ्क्ते यत् यशः जगत् । ॥ ६८ ॥
mā mā śucaḥ sva-tanayam devaguptam viśām pate . tad-prabhāvam a vijñāya prāvṛṅkte yat yaśaḥ jagat . .. 68 ..
मैत्रेय उवाच -
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः । ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव । ॥ ६९ ॥
सु दुष्करम् कर्म कृत्वा लोकपालैः अपि प्रभुः । ऐष्यति अचिरतस् राजन् यशः विपुलयन् तव । ॥ ६९ ॥
su duṣkaram karma kṛtvā lokapālaiḥ api prabhuḥ . aiṣyati aciratas rājan yaśaḥ vipulayan tava . .. 69 ..
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः । राजलक्ष्मीमनादृत्य पुत्रं एवान्वचिन्तयत् ॥ ७० ॥
इति देवर्षिणा प्रोक्तम् विश्रुत्य जगतीपतिः । राज-लक्ष्मीम् अन् आदृत्य पुत्रम् एव अन्वचिन्तयत् ॥ ७० ॥
iti devarṣiṇā proktam viśrutya jagatīpatiḥ . rāja-lakṣmīm an ādṛtya putram eva anvacintayat .. 70 ..
तत्राभिषिक्तः प्रयतः तां उपोष्य विभावरीम् । समाहितः पर्यचर दृष्यादेशेन पूरुषम् ॥ ७१ ॥
तत्र अभिषिक्तः प्रयतः ताम् उपोष्य विभावरीम् । समाहितः पर्यचर दृष्य-आदेशेन पूरुषम् ॥ ७१ ॥
tatra abhiṣiktaḥ prayataḥ tām upoṣya vibhāvarīm . samāhitaḥ paryacara dṛṣya-ādeśena pūruṣam .. 71 ..
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः । आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७२ ॥
त्रि-रात्र-अन्ते त्रि-रात्र-अन्ते कपित्थ-बदर-अशनः । आत्म-वृत्ति-अनुसारेण मासम् निन्ये अर्चयन् हरिम् ॥ ७२ ॥
tri-rātra-ante tri-rātra-ante kapittha-badara-aśanaḥ . ātma-vṛtti-anusāreṇa māsam ninye arcayan harim .. 72 ..
द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने । तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम् ॥ ७३ ॥
द्वितीयम् च तथा मासम् षष्ठे षष्ठे अर्भकः दिने । तृण-पर्ण-आदिभिः शीर्णैः कृतान्नः अभ्यर्चयन् विभुम् ॥ ७३ ॥
dvitīyam ca tathā māsam ṣaṣṭhe ṣaṣṭhe arbhakaḥ dine . tṛṇa-parṇa-ādibhiḥ śīrṇaiḥ kṛtānnaḥ abhyarcayan vibhum .. 73 ..
तृतीयं चानयन् मासं नवमे नवमेऽहनि । अब्भक्ष उत्तमश्लोकं उपाधावत्समाधिना ॥ ७४ ॥
तृतीयम् च अनयत् मासम् नवमे नवमे अहनि । अब्भक्षः उत्तमश्लोकम् उपाधावत् समाधिना ॥ ७४ ॥
tṛtīyam ca anayat māsam navame navame ahani . abbhakṣaḥ uttamaślokam upādhāvat samādhinā .. 74 ..
चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि । वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥ ७५ ॥
चतुर्थम् अपि वै मासम् द्वादशे द्वादशे अहनि । वायुभक्षः जित-श्वासः ध्यायन् देवम् अधारयत् ॥ ७५ ॥
caturtham api vai māsam dvādaśe dvādaśe ahani . vāyubhakṣaḥ jita-śvāsaḥ dhyāyan devam adhārayat .. 75 ..
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७६ ॥
पञ्चमे मासि अनुप्राप्ते जित-श्वासः नृप-आत्मजः । ध्यायन् ब्रह्म पदा एकेन तस्थौ स्थाणुः इव अचलः ॥ ७६ ॥
pañcame māsi anuprāpte jita-śvāsaḥ nṛpa-ātmajaḥ . dhyāyan brahma padā ekena tasthau sthāṇuḥ iva acalaḥ .. 76 ..
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किंचनापरम् ॥ ७७ ॥
सर्वतस् मनः आकृष्य हृदि भूत-इन्द्रिय-आशयम् । ध्यायन् भगवतः रूपम् न अद्राक्षीत् किंचन अपरम् ॥ ७७ ॥
sarvatas manaḥ ākṛṣya hṛdi bhūta-indriya-āśayam . dhyāyan bhagavataḥ rūpam na adrākṣīt kiṃcana aparam .. 77 ..
आधारं महदादीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥
आधारम् महत्-आदीनाम् प्रधान-पुरुष-ईश्वरम् । ब्रह्म धारयमाणस्य त्रयः लोकाः चकम्पिरे ॥ ७८ ॥
ādhāram mahat-ādīnām pradhāna-puruṣa-īśvaram . brahma dhārayamāṇasya trayaḥ lokāḥ cakampire .. 78 ..
यदैकपादेन स पार्थिवार्भकः तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥ ७९ ॥
यदा एक-पादेन स पार्थिव-अर्भकः तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही । ननाम तत्र अर्धम् इभ-इन्द्र-धिष्ठिता तरी इव सव्या इतरतस् पदे पदे ॥ ७९ ॥
yadā eka-pādena sa pārthiva-arbhakaḥ tasthau tad-aṅguṣṭha-nipīḍitā mahī . nanāma tatra ardham ibha-indra-dhiṣṭhitā tarī iva savyā itaratas pade pade .. 79 ..
तस्मिन् अभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम् ॥ ८० ॥
तस्मिन् अभिध्यायति विश्वम् आत्मनः द्वारम् निरुध्य असुम् अनन्यया धिया । लोकाः निरुच्छ्वास-निपीडिताः भृशम् स लोकपालाः शरणम् ययुः हरिम् ॥ ८० ॥
tasmin abhidhyāyati viśvam ātmanaḥ dvāram nirudhya asum ananyayā dhiyā . lokāḥ nirucchvāsa-nipīḍitāḥ bhṛśam sa lokapālāḥ śaraṇam yayuḥ harim .. 80 ..
देवा ऊचुः -
नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः । विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥
न एवम् विदामः भगवन् प्राण-रोधम् चराचरस्य अखिल-सत्त्व-धाम्नः । विधेहि तत् नः वृजिनात् विमोक्षम् प्राप्ताः वयम् त्वाम् शरणम् शरण्यम् ॥ ८१ ॥
na evam vidāmaḥ bhagavan prāṇa-rodham carācarasya akhila-sattva-dhāmnaḥ . vidhehi tat naḥ vṛjināt vimokṣam prāptāḥ vayam tvām śaraṇam śaraṇyam .. 81 ..
श्रीभगवानुवाच -
मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्वधाम । यतो हि वः प्राणनिरोध आसीत् औत्तानपादिर्मयि सङ्गतात्मा ॥ ८२ ॥
मा भैष्ट बालम् तपसः दुरत्ययात् निवर्तयिष्ये प्रतियात स्व-धाम । यतस् हि वः प्राण-निरोधः आसीत् औत्तानपादिः मयि सङ्ग-ता-आत्मा ॥ ८२ ॥
mā bhaiṣṭa bālam tapasaḥ duratyayāt nivartayiṣye pratiyāta sva-dhāma . yatas hi vaḥ prāṇa-nirodhaḥ āsīt auttānapādiḥ mayi saṅga-tā-ātmā .. 82 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे ध्रुवचरिते अष्टमः अध्यायः ॥ ८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe dhruvacarite aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In