| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच - (अनुष्टुप्)
सनकाद्या नारदश्च ऋभुर्हंसोऽरुणिर्यतिः । नैते गृहान् ब्रह्मसुता ह्यावसन् ऊर्ध्वरेतसः ॥ १ ॥
sanakādyā nāradaśca ṛbhurhaṃso'ruṇiryatiḥ . naite gṛhān brahmasutā hyāvasan ūrdhvaretasaḥ .. 1 ..
मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रुहन् । असूत मिथुनं तत्तु निर्ऋतिर्जगृहेऽप्रजः ॥ २ ॥
mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatruhan . asūta mithunaṃ tattu nirṛtirjagṛhe'prajaḥ .. 2 ..
तयोः समभवल्लोभो निकृतिश्च महामते । ताभ्यां क्रोधश्च हिंसा च यद्दुरुक्तिः स्वसा कलिः ॥ ३ ॥
tayoḥ samabhavallobho nikṛtiśca mahāmate . tābhyāṃ krodhaśca hiṃsā ca yadduruktiḥ svasā kaliḥ .. 3 ..
दुरुक्तौ कलिराधत्त भयं मृत्युं च सत्तम । तयोश्च मिथुनं जज्ञे यातना निरयस्तथा ॥ ४ ॥
duruktau kalirādhatta bhayaṃ mṛtyuṃ ca sattama . tayośca mithunaṃ jajñe yātanā nirayastathā .. 4 ..
सङ्ग्रहेण मयाऽऽख्यातः प्रतिसर्गस्तवानघ । त्रिः श्रुत्वैतत्पुमान् पुण्यं विधुनोत्यात्मनो मलम् ॥ ५ ॥
saṅgraheṇa mayā''khyātaḥ pratisargastavānagha . triḥ śrutvaitatpumān puṇyaṃ vidhunotyātmano malam .. 5 ..
अथातः कीर्तये वंशं पुण्यकीर्तेः कुरूद्वह । स्वायम्भुवस्यापि मनोः हरेरंशांशजन्मनः ॥ ६ ॥
athātaḥ kīrtaye vaṃśaṃ puṇyakīrteḥ kurūdvaha . svāyambhuvasyāpi manoḥ hareraṃśāṃśajanmanaḥ .. 6 ..
प्रियव्रतोत्तानपादौ शतरूपापतेः सुतौ । वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ ७ ॥
priyavratottānapādau śatarūpāpateḥ sutau . vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau .. 7 ..
जाये उत्तानपादस्य सुनीतिः सुरुचिस्तयोः । सुरुचिः प्रेयसी पत्युः नेतरा यत्सुतो ध्रुवः ॥ ८ ॥
jāye uttānapādasya sunītiḥ surucistayoḥ . suruciḥ preyasī patyuḥ netarā yatsuto dhruvaḥ .. 8 ..
एकदा सुरुचेः पुत्रं अङ्कमारोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ ९ ॥
ekadā suruceḥ putraṃ aṅkamāropya lālayan . uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata .. 9 ..
तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् । सुरुचिः शृण्वतो राज्ञः सेर्ष्यमाहातिगर्विता ॥ १० ॥
tathā cikīrṣamāṇaṃ taṃ sapatnyāstanayaṃ dhruvam . suruciḥ śṛṇvato rājñaḥ serṣyamāhātigarvitā .. 10 ..
न वत्स नृपतेर्धिष्ण्यं भवान् आरोढुमर्हति । न गृहीतो मया यत्त्वं कुक्षौ अपि नृपात्मजः ॥ ११ ॥
na vatsa nṛpaterdhiṣṇyaṃ bhavān āroḍhumarhati . na gṛhīto mayā yattvaṃ kukṣau api nṛpātmajaḥ .. 11 ..
बालोऽसि बत नात्मानं अन्यस्त्रीगर्भसम्भृतम् । नूनं वेद भवान् यस्य दुर्लभेऽर्थे मनोरथः ॥ १२ ॥
bālo'si bata nātmānaṃ anyastrīgarbhasambhṛtam . nūnaṃ veda bhavān yasya durlabhe'rthe manorathaḥ .. 12 ..
तपसाऽऽराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ १३ ॥
tapasā''rādhya puruṣaṃ tasyaivānugraheṇa me . garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam .. 13 ..
मैत्रेय उवाच -
मातुः सपत्न्याः स दुरुक्तिविद्धः श्वसन् रुषा दण्डहतो यथाहिः । हित्वा मिषन्तं पितरं सन्नवाचं जगाम मातुः प्ररुदन् सकाशम् ॥ १४ ॥
mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasan ruṣā daṇḍahato yathāhiḥ . hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam .. 14 ..
तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिरुत्सङ्ग उदूह्य बालम् । निशम्य तत्पौरमुखान्नितान्तं सा विव्यथे यद्गदितं सपत्न्या ॥ १५ ॥
taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītirutsaṅga udūhya bālam . niśamya tatpauramukhānnitāntaṃ sā vivyathe yadgaditaṃ sapatnyā .. 15 ..
सोत्सृज्य धैर्यं विललाप शोक दावाग्निना दावलतेव बाला । वाक्यं सपत्न्याः स्मरती सरोज श्रिया दृशा बाष्पकलामुवाह ॥ १६ ॥
sotsṛjya dhairyaṃ vilalāpa śoka dāvāgninā dāvalateva bālā . vākyaṃ sapatnyāḥ smaratī saroja śriyā dṛśā bāṣpakalāmuvāha .. 16 ..
दीर्घं श्वसन्ती वृजिनस्य पारं अपश्यती बालकमाह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत्परदुःखदस्तत् ॥ १७ ॥
dīrghaṃ śvasantī vṛjinasya pāraṃ apaśyatī bālakamāha bālā . māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yatparaduḥkhadastat .. 17 ..
सत्यं सुरुच्याभिहितं भवान्मे यद् दुर्भगाया उदरे गृहीतः । स्तन्येन वृद्धश्च विलज्जते यां भार्येति वा वोढुमिडस्पतिर्माम् ॥ १८ ॥
satyaṃ surucyābhihitaṃ bhavānme yad durbhagāyā udare gṛhītaḥ . stanyena vṛddhaśca vilajjate yāṃ bhāryeti vā voḍhumiḍaspatirmām .. 18 ..
आतिष्ठ तत्तात विमत्सरस्त्वं उक्तं समात्रापि यदव्यलीकम् । आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमो यथा ॥ १९ ॥
ātiṣṭha tattāta vimatsarastvaṃ uktaṃ samātrāpi yadavyalīkam . ārādhayādhokṣajapādapadmaṃ yadīcchase'dhyāsanamuttamo yathā .. 19 ..
यस्याङ्घ्रिपद्मं परिचर्य विश्व विभावनायात्तगुणाभिपत्तेः । अजोऽध्यतिष्ठत्खलु पारमेष्ठ्यं पदं जितात्मश्वसनाभिवन्द्यम् ॥ २० ॥
yasyāṅghripadmaṃ paricarya viśva vibhāvanāyāttaguṇābhipatteḥ . ajo'dhyatiṣṭhatkhalu pārameṣṭhyaṃ padaṃ jitātmaśvasanābhivandyam .. 20 ..
तथा मनुर्वो भगवान्पितामहो यमेकमत्या पुरुदक्षिणैर्मखैः । इष्ट्वाभिपेदे दुरवापमन्यतो भौमं सुखं दिव्यमथापवर्ग्यम् ॥ २१ ॥
tathā manurvo bhagavānpitāmaho yamekamatyā purudakṣiṇairmakhaiḥ . iṣṭvābhipede duravāpamanyato bhaumaṃ sukhaṃ divyamathāpavargyam .. 21 ..
तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् । अनन्यभावे निजधर्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् ॥ २२ ॥
tameva vatsāśraya bhṛtyavatsalaṃ mumukṣubhirmṛgyapadābjapaddhatim . ananyabhāve nijadharmabhāvite manasyavasthāpya bhajasva pūruṣam .. 22 ..
नान्यं ततः पद्मपलाशलोचनाद् दुःखच्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग विमृग्यमाणया ॥ २३ ॥
nānyaṃ tataḥ padmapalāśalocanād duḥkhacchidaṃ te mṛgayāmi kañcana . yo mṛgyate hastagṛhītapadmayā śriyetarairaṅga vimṛgyamāṇayā .. 23 ..
एवं सञ्जल्पितं मातुः आकर्ण्यार्थागमं वचः । सन्नियम्यात्मनाऽऽत्मानं निश्चक्राम पितुः पुरात् ॥ २४ ॥
evaṃ sañjalpitaṃ mātuḥ ākarṇyārthāgamaṃ vacaḥ . sanniyamyātmanā''tmānaṃ niścakrāma pituḥ purāt .. 24 ..
मैत्रेय उवाच - (अनुष्टुप्)
नारदस्तदुपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्यघघ्नेन पाणिना प्राह विस्मितः ॥ २५ ॥
nāradastadupākarṇya jñātvā tasya cikīrṣitam . spṛṣṭvā mūrdhanyaghaghnena pāṇinā prāha vismitaḥ .. 25 ..
अहो तेजः क्षत्रियाणां मानभङ्गममृष्यताम् । बालोऽप्ययं हृदा धत्ते यत्समातुरसद्वचः ॥ २६ ॥
aho tejaḥ kṣatriyāṇāṃ mānabhaṅgamamṛṣyatām . bālo'pyayaṃ hṛdā dhatte yatsamāturasadvacaḥ .. 26 ..
नारद उवाच -
नाधुनाप्यवमानं ते सम्मानं वापि पुत्रक । लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु ॥ २७ ॥
nādhunāpyavamānaṃ te sammānaṃ vāpi putraka . lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu .. 27 ..
विकल्पे विद्यमानेऽपि न ह्यसन्तोषहेतवः । पुंसो मोहमृते भिन्ना यल्लोके निजकर्मभिः ॥ २८ ॥
vikalpe vidyamāne'pi na hyasantoṣahetavaḥ . puṃso mohamṛte bhinnā yalloke nijakarmabhiḥ .. 28 ..
परितुष्येत् ततस्तात तावन्मात्रेण पूरुषः । दैवोपसादितं यावद् वीक्ष्येश्वरगतिं बुधः ॥ २९ ॥
parituṣyet tatastāta tāvanmātreṇa pūruṣaḥ . daivopasāditaṃ yāvad vīkṣyeśvaragatiṃ budhaḥ .. 29 ..
अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ ३० ॥
atha mātropadiṣṭena yogenāvarurutsasi . yatprasādaṃ sa vai puṃsāṃ durārādhyo mato mama .. 30 ..
मुनयः पदवीं यस्य निःसङ्गेनोरुजन्मभिः । न विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना ॥ ३१ ॥
munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ . na vidurmṛgayanto'pi tīvrayogasamādhinā .. 31 ..
अतो निवर्ततामेष निर्बन्धस्तव निष्फलः । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ ३२ ॥
ato nivartatāmeṣa nirbandhastava niṣphalaḥ . yatiṣyati bhavān kāle śreyasāṃ samupasthite .. 32 ..
यस्य यद् दैवविहितं स तेन सुखदुःखयोः । आत्मानं तोषयन् देही तमसः पारमृच्छति ॥ ३३ ॥
yasya yad daivavihitaṃ sa tena sukhaduḥkhayoḥ . ātmānaṃ toṣayan dehī tamasaḥ pāramṛcchati .. 33 ..
गुणाधिकान्मुदं लिप्सेद् अनुक्रोशं गुणाधमात् । मैत्रीं समानादन्विच्छेत् न तापैरभिभूयते ॥ ३४ ॥
guṇādhikānmudaṃ lipsed anukrośaṃ guṇādhamāt . maitrīṃ samānādanvicchet na tāpairabhibhūyate .. 34 ..
ध्रुव उवाच -
सोऽयं शमो भगवता सुखदुःखहतात्मनाम् । दर्शितः कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यः ॥ ३५ ॥
so'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām . darśitaḥ kṛpayā puṃsāṃ durdarśo'smadvidhaistu yaḥ .. 35 ..
अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषः । सुरुच्या दुर्वचोबाणैः न भिन्ने श्रयते हृदि ॥ ३६ ॥
athāpi me'vinītasya kṣāttraṃ ghoramupeyuṣaḥ . surucyā durvacobāṇaiḥ na bhinne śrayate hṛdi .. 36 ..
पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूहि अस्मत् पितृभिर्ब्रह्मन् अन्यैरप्यनधिष्ठितम् ॥ ३७ ॥
padaṃ tribhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me . brūhi asmat pitṛbhirbrahman anyairapyanadhiṣṭhitam .. 37 ..
नूनं भवान् भगवतो योऽङ्गजः परमेष्ठिनः । वितुदन्नटते वीणां हिताय जगतोऽर्कवत् ॥ ३८ ॥
nūnaṃ bhavān bhagavato yo'ṅgajaḥ parameṣṭhinaḥ . vitudannaṭate vīṇāṃ hitāya jagato'rkavat .. 38 ..
मैत्रेय उवाच -
इत्युदाहृतमाकर्ण्य भगवान् नारदस्तदा । प्रीतः प्रत्याह तं बालं सद्वाक्यं अनुकम्पया ॥ ३९ ॥
ityudāhṛtamākarṇya bhagavān nāradastadā . prītaḥ pratyāha taṃ bālaṃ sadvākyaṃ anukampayā .. 39 ..
नारद उवाच -
जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवस्तं भज तं प्रवणात्मना ॥ ४० ॥
jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te . bhagavān vāsudevastaṃ bhaja taṃ pravaṇātmanā .. 40 ..
धर्मार्थकाममोक्षाख्यं य इच्छेत् श्रेय आत्मनः । एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥ ४१ ॥
dharmārthakāmamokṣākhyaṃ ya icchet śreya ātmanaḥ . ekaṃ hyeva harestatra kāraṇaṃ pādasevanam .. 41 ..
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ ४२ ॥
tattāta gaccha bhadraṃ te yamunāyāstaṭaṃ śuci . puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ .. 42 ..
स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे । कृत्वोचितानि निवसन् आत्मनः कल्पितासनः ॥ ४३ ॥
snātvānusavanaṃ tasmin kālindyāḥ salile śive . kṛtvocitāni nivasan ātmanaḥ kalpitāsanaḥ .. 43 ..
प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् । शनैर्व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ ४४ ॥
prāṇāyāmena trivṛtā prāṇendriyamanomalam . śanairvyudasyābhidhyāyen manasā guruṇā gurum .. 44 ..
प्रसादाभिमुखं शश्वत् प्रसन्नवदनेक्षणम् । सुनासं सुभ्रुवं चारु कपोलं सुरसुन्दरम् ॥ ४५ ॥
prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam . sunāsaṃ subhruvaṃ cāru kapolaṃ surasundaram .. 45 ..
तरुणं रमणीयाङ्गं अरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ ४६ ॥
taruṇaṃ ramaṇīyāṅgaṃ aruṇoṣṭhekṣaṇādharam . praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam .. 46 ..
श्रीवत्साङ्कं घनश्यामं पुरुषं वनमालिनम् । शङ्खचक्रगदापद्मैः अभिव्यक्तचतुर्भुजम् ॥ ४७ ॥
śrīvatsāṅkaṃ ghanaśyāmaṃ puruṣaṃ vanamālinam . śaṅkhacakragadāpadmaiḥ abhivyaktacaturbhujam .. 47 ..
किरीटिनं कुण्डलिनं केयूरवलयान्वितम् । कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥ ४८ ॥
kirīṭinaṃ kuṇḍalinaṃ keyūravalayānvitam . kaustubhābharaṇagrīvaṃ pītakauśeyavāsasam .. 48 ..
काञ्चीकलापपर्यस्तं लसत्काञ्चन नूपुरम् । दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ ४९ ॥
kāñcīkalāpaparyastaṃ lasatkāñcana nūpuram . darśanīyatamaṃ śāntaṃ manonayanavardhanam .. 49 ..
पद्भ्यां नखमणिश्रेण्या विलसद्भ्यां समर्चताम् । हृत्पद्मकर्णिकाधिष्ण्यं आक्रम्यात् मन्यवस्थितम् ॥ ५० ॥
padbhyāṃ nakhamaṇiśreṇyā vilasadbhyāṃ samarcatām . hṛtpadmakarṇikādhiṣṇyaṃ ākramyāt manyavasthitam .. 50 ..
स्मयमानं अभिध्यायेत् सानुरागावलोकनम् । नियतेनैकभूतेन मनसा वरदर्षभम् ॥ ५१ ॥
smayamānaṃ abhidhyāyet sānurāgāvalokanam . niyatenaikabhūtena manasā varadarṣabham .. 51 ..
एवं भगवतो रूपं सुभद्रं ध्यायतो मनः । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ ५२ ॥
evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ . nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate .. 52 ..
जपश्च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्तरात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ ५३ ॥
japaśca paramo guhyaḥ śrūyatāṃ me nṛpātmaja . yaṃ saptarātraṃ prapaṭhan pumān paśyati khecarān .. 53 ..
ॐ नमो भगवते वासुदेवाय । मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः । सपर्यां विविधैर्द्रव्यैः देशकालविभागवित् ॥ ५४ ॥
oṃ namo bhagavate vāsudevāya . mantreṇānena devasya kuryād dravyamayīṃ budhaḥ . saparyāṃ vividhairdravyaiḥ deśakālavibhāgavit .. 54 ..
सलिलैः शुचिभिर्माल्यैः वन्यैर्मूलफलादिभिः । शस्ताङ्कुरांशुकैश्चार्चेत् तुलस्या प्रियया प्रभुम् ॥ ५५ ॥
salilaiḥ śucibhirmālyaiḥ vanyairmūlaphalādibhiḥ . śastāṅkurāṃśukaiścārcet tulasyā priyayā prabhum .. 55 ..
लब्ध्वा द्रव्यमयीमर्चां क्षित्यम्ब्वादिषु वार्चयेत् । आभृतात्मा मुनिः शान्तो यतवाङ्मितवन्यभुक् ॥ ५६ ॥
labdhvā dravyamayīmarcāṃ kṣityambvādiṣu vārcayet . ābhṛtātmā muniḥ śānto yatavāṅmitavanyabhuk .. 56 ..
स्वेच्छावतारचरितैः अचिन्त्यनिजमायया । करिष्यति उत्तमश्लोकः तद् ध्यायेद् हृदयङ्गमम् ॥ ५७ ॥
svecchāvatāracaritaiḥ acintyanijamāyayā . kariṣyati uttamaślokaḥ tad dhyāyed hṛdayaṅgamam .. 57 ..
परिचर्या भगवतो यावत्यः पूर्वसेविताः । ता मंत्रहृदयेनैव प्रयुञ्ज्यान् मंत्रमूर्तये ॥ ५८ ॥
paricaryā bhagavato yāvatyaḥ pūrvasevitāḥ . tā maṃtrahṛdayenaiva prayuñjyān maṃtramūrtaye .. 58 ..
एवं कायेन मनसा वचसा च मनोगतम् । परिचर्यमाणो भगवान् भक्तिमत्परिचर्यया ॥ ५९ ॥
evaṃ kāyena manasā vacasā ca manogatam . paricaryamāṇo bhagavān bhaktimatparicaryayā .. 59 ..
पुंसां अमायिनां सम्यक् भजतां भाववर्धनः । श्रेयो दिशत्यभिमतं यद्धर्मादिषु देहिनाम् । ॥ ६० ॥
puṃsāṃ amāyināṃ samyak bhajatāṃ bhāvavardhanaḥ . śreyo diśatyabhimataṃ yaddharmādiṣu dehinām . .. 60 ..
विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा । तं निरन्तरभावेन भजेताद्धा विमुक्तये । ॥ ६१ ॥
viraktaścendriyaratau bhaktiyogena bhūyasā . taṃ nirantarabhāvena bhajetāddhā vimuktaye . .. 61 ..
इत्युक्तस्तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश्चरणचर्चितम् । ॥ ६२ ॥
ityuktastaṃ parikramya praṇamya ca nṛpārbhakaḥ . yayau madhuvanaṃ puṇyaṃ hareścaraṇacarcitam . .. 62 ..
तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरं मुनिः । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् । ॥ ६३ ॥
tapovanaṃ gate tasmin praviṣṭo'ntaḥpuraṃ muniḥ . arhitārhaṇako rājñā sukhāsīna uvāca tam . .. 63 ..
नारद उवाच -
राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः । ॥ ६४ ॥
rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā . kiṃ vā na riṣyate kāmo dharmo vārthena saṃyutaḥ . .. 64 ..
राजोवाच -
सुतो मे बालको ब्रह्मन् स्त्रैणेना-करुणात्मना । निर्वासितः पञ्चवर्षः सह मात्रा महान्कविः । ॥ ६५ ॥
suto me bālako brahman straiṇenā-karuṇātmanā . nirvāsitaḥ pañcavarṣaḥ saha mātrā mahānkaviḥ . .. 65 ..
अप्यनाथं वने ब्रह्मन् मा स्मादन्त्यर्भकं वृकाः । श्रान्तं शयानं क्षुधितं परिम्लानमुखाम्बुजम् ॥ ६६ ॥
apyanāthaṃ vane brahman mā smādantyarbhakaṃ vṛkāḥ . śrāntaṃ śayānaṃ kṣudhitaṃ parimlānamukhāmbujam .. 66 ..
अहो मे बत दौरात्म्यं स्त्रीजितस्योपधारय । योऽङ्कं प्रेम्णाऽऽरुरुक्षन्तं नाभ्यनन्दमसत्तमः । ॥ ६७ ॥
aho me bata daurātmyaṃ strījitasyopadhāraya . yo'ṅkaṃ premṇā''rurukṣantaṃ nābhyanandamasattamaḥ . .. 67 ..
नारद उवाच -
मा मा शुचः स्वतनयं देवगुप्तं विशाम्पते । तत्प्रभावं अविज्ञाय प्रावृङ्क्ते यद्यशो जगत् । ॥ ६८ ॥
mā mā śucaḥ svatanayaṃ devaguptaṃ viśāmpate . tatprabhāvaṃ avijñāya prāvṛṅkte yadyaśo jagat . .. 68 ..
मैत्रेय उवाच -
सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः । ऐष्यत्यचिरतो राजन् यशो विपुलयंस्तव । ॥ ६९ ॥
suduṣkaraṃ karma kṛtvā lokapālairapi prabhuḥ . aiṣyatyacirato rājan yaśo vipulayaṃstava . .. 69 ..
इति देवर्षिणा प्रोक्तं विश्रुत्य जगतीपतिः । राजलक्ष्मीमनादृत्य पुत्रं एवान्वचिन्तयत् ॥ ७० ॥
iti devarṣiṇā proktaṃ viśrutya jagatīpatiḥ . rājalakṣmīmanādṛtya putraṃ evānvacintayat .. 70 ..
तत्राभिषिक्तः प्रयतः तां उपोष्य विभावरीम् । समाहितः पर्यचर दृष्यादेशेन पूरुषम् ॥ ७१ ॥
tatrābhiṣiktaḥ prayataḥ tāṃ upoṣya vibhāvarīm . samāhitaḥ paryacara dṛṣyādeśena pūruṣam .. 71 ..
त्रिरात्रान्ते त्रिरात्रान्ते कपित्थबदराशनः । आत्मवृत्त्यनुसारेण मासं निन्येऽर्चयन् हरिम् ॥ ७२ ॥
trirātrānte trirātrānte kapitthabadarāśanaḥ . ātmavṛttyanusāreṇa māsaṃ ninye'rcayan harim .. 72 ..
द्वितीयं च तथा मासं षष्ठे षष्ठेऽर्भको दिने । तृणपर्णादिभिः शीर्णैः कृतान्नोऽभ्यर्चयन् विभुम् ॥ ७३ ॥
dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe'rbhako dine . tṛṇaparṇādibhiḥ śīrṇaiḥ kṛtānno'bhyarcayan vibhum .. 73 ..
तृतीयं चानयन् मासं नवमे नवमेऽहनि । अब्भक्ष उत्तमश्लोकं उपाधावत्समाधिना ॥ ७४ ॥
tṛtīyaṃ cānayan māsaṃ navame navame'hani . abbhakṣa uttamaślokaṃ upādhāvatsamādhinā .. 74 ..
चतुर्थमपि वै मासं द्वादशे द्वादशेऽहनि । वायुभक्षो जितश्वासो ध्यायन् देवमधारयत् ॥ ७५ ॥
caturthamapi vai māsaṃ dvādaśe dvādaśe'hani . vāyubhakṣo jitaśvāso dhyāyan devamadhārayat .. 75 ..
पञ्चमे मास्यनुप्राप्ते जितश्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुरिवाचलः ॥ ७६ ॥
pañcame māsyanuprāpte jitaśvāso nṛpātmajaḥ . dhyāyan brahma padaikena tasthau sthāṇurivācalaḥ .. 76 ..
सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किंचनापरम् ॥ ७७ ॥
sarvato mana ākṛṣya hṛdi bhūtendriyāśayam . dhyāyan bhagavato rūpaṃ nādrākṣīt kiṃcanāparam .. 77 ..
आधारं महदादीनां प्रधानपुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश्चकम्पिरे ॥ ७८ ॥
ādhāraṃ mahadādīnāṃ pradhānapuruṣeśvaram . brahma dhārayamāṇasya trayo lokāścakampire .. 78 ..
यदैकपादेन स पार्थिवार्भकः तस्थौ तदङ्गुष्ठनिपीडिता मही । ननाम तत्रार्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदे पदे ॥ ७९ ॥
yadaikapādena sa pārthivārbhakaḥ tasthau tadaṅguṣṭhanipīḍitā mahī . nanāma tatrārdhamibhendradhiṣṭhitā tarīva savyetarataḥ pade pade .. 79 ..
तस्मिन् अभिध्यायति विश्वमात्मनो द्वारं निरुध्यासुमनन्यया धिया । लोका निरुच्छ्वासनिपीडिता भृशं सलोकपालाः शरणं ययुर्हरिम् ॥ ८० ॥
tasmin abhidhyāyati viśvamātmano dvāraṃ nirudhyāsumananyayā dhiyā . lokā nirucchvāsanipīḍitā bhṛśaṃ salokapālāḥ śaraṇaṃ yayurharim .. 80 ..
देवा ऊचुः -
नैवं विदामो भगवन् प्राणरोधं चराचरस्याखिलसत्त्वधाम्नः । विधेहि तन्नो वृजिनाद्विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ ८१ ॥
naivaṃ vidāmo bhagavan prāṇarodhaṃ carācarasyākhilasattvadhāmnaḥ . vidhehi tanno vṛjinādvimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam .. 81 ..
श्रीभगवानुवाच -
मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्वधाम । यतो हि वः प्राणनिरोध आसीत् औत्तानपादिर्मयि सङ्गतात्मा ॥ ८२ ॥
mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma . yato hi vaḥ prāṇanirodha āsīt auttānapādirmayi saṅgatātmā .. 82 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरिते अष्टमोऽध्यायः ॥ ८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ caturthaskandhe dhruvacarite aṣṭamo'dhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In