स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः । तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५ ॥
PADACHEDA
स वै तदा एव प्रतिपादिताम् गिरम् दैवीम् परिज्ञात-पर-आत्म-निर्णयः । तम् भक्ति-भावः अभ्यगृणात् असत्वरम् परिश्रुत-उरुश्रवसम् ध्रुवक्षितिः ॥ ५ ॥
TRANSLITERATION
sa vai tadā eva pratipāditām giram daivīm parijñāta-para-ātma-nirṇayaḥ . tam bhakti-bhāvaḥ abhyagṛṇāt asatvaram pariśruta-uruśravasam dhruvakṣitiḥ .. 5 ..
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥
PADACHEDA
ते न स्मरन्ति अतितराम् प्रियम् ईश मर्त्यम् ये च अन्वदः सुत-सुहृद्-गृह-वित्त-दाराः । ये तु अब्जनाभ भवदीय-पद-अरविन्द सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ १२ ॥
TRANSLITERATION
te na smaranti atitarām priyam īśa martyam ye ca anvadaḥ suta-suhṛd-gṛha-vitta-dārāḥ . ye tu abjanābha bhavadīya-pada-aravinda saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ .. 12 ..
तिर्यङ्नगद्विजसरीसृपदेवदैत्य मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वेद्मि न यत्र वादः ॥ १३ ॥
PADACHEDA
तिर्यक्-नग-द्विज-सरीसृप-देव-दैत्य मर्त्य-आदिभिः परिचितम् सत्-असत्-विशेषम् । रूपम् स्थविष्ठम् अज ते महत्-आदि अनेकम् न अतस् परम् परम वेद्मि न यत्र वादः ॥ १३ ॥
TRANSLITERATION
tiryak-naga-dvija-sarīsṛpa-deva-daitya martya-ādibhiḥ paricitam sat-asat-viśeṣam . rūpam sthaviṣṭham aja te mahat-ādi anekam na atas param parama vedmi na yatra vādaḥ .. 13 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.