| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

मैत्रेय उवाच -
ते एवमुत्सन्नभया उरुक्रमे कृतावनामाः प्रययुस्त्रिविष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर्वनं भृत्यदिदृक्षया गतः ॥ १ ॥
ते एवम् उत्सन्न-भयाः उरुक्रमे कृतौ अनामाः प्रययुः त्रिविष्टपम् । सहस्रशीर्षा अपि ततस् गरुत्मता मधोः वनम् भृत्य-दिदृक्षया गतः ॥ १ ॥
te evam utsanna-bhayāḥ urukrame kṛtau anāmāḥ prayayuḥ triviṣṭapam . sahasraśīrṣā api tatas garutmatā madhoḥ vanam bhṛtya-didṛkṣayā gataḥ .. 1 ..
स वै धिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिःस्थितं तदवस्थं ददर्श ॥ २ ॥
स वै धिया योग-विपाक-तीव्रया हृद्-पद्म-कोशे स्फुरितम् तडित्-प्रभम् । तिरोहितम् सहसा एव उपलक्ष्य बहिस् स्थितम् तद्-अवस्थम् ददर्श ॥ २ ॥
sa vai dhiyā yoga-vipāka-tīvrayā hṛd-padma-kośe sphuritam taḍit-prabham . tirohitam sahasā eva upalakṣya bahis sthitam tad-avastham dadarśa .. 2 ..
तद्दर्शनेनागतसाध्वसः क्षितौ अवन्दताङ्गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकः चुम्बन्निवास्येन भुजैरिवाश्लिषन् ॥ ३ ॥
तद्-दर्शनेन आगत-साध्वसः क्षितौ अवन्दत अङ्गम् विनमय्य दण्ड-वत् । दृग्भ्याम् प्रपश्यन् प्रपिबन् इव अर्भकः चुम्बन् इव आस्येन भुजैः इव आश्लिषन् ॥ ३ ॥
tad-darśanena āgata-sādhvasaḥ kṣitau avandata aṅgam vinamayya daṇḍa-vat . dṛgbhyām prapaśyan prapiban iva arbhakaḥ cumban iva āsyena bhujaiḥ iva āśliṣan .. 3 ..
स तं विवक्षन्तमतद्विदं हरिः ज्ञात्वास्य सर्वस्य च हृद्यवस्थितः । कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ ४ ॥
स तम् विवक्षन्तम् अ तद्-विदम् हरिः ज्ञात्वा अस्य सर्वस्य च हृदि अवस्थितः । कृताञ्जलिम् ब्रह्म-मयेन कम्बुना पस्पर्श बालम् कृपया कपोले ॥ ४ ॥
sa tam vivakṣantam a tad-vidam hariḥ jñātvā asya sarvasya ca hṛdi avasthitaḥ . kṛtāñjalim brahma-mayena kambunā pasparśa bālam kṛpayā kapole .. 4 ..
स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञातपरात्मनिर्णयः । तं भक्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षितिः ॥ ५ ॥
स वै तदा एव प्रतिपादिताम् गिरम् दैवीम् परिज्ञात-पर-आत्म-निर्णयः । तम् भक्ति-भावः अभ्यगृणात् असत्वरम् परिश्रुत-उरुश्रवसम् ध्रुवक्षितिः ॥ ५ ॥
sa vai tadā eva pratipāditām giram daivīm parijñāta-para-ātma-nirṇayaḥ . tam bhakti-bhāvaḥ abhyagṛṇāt asatvaram pariśruta-uruśravasam dhruvakṣitiḥ .. 5 ..
ध्रुव उवाच -
योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरः स्वधाम्ना । अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् ॥ ६ ॥
यः अन्तर् प्रविश्य मम वाचम् इमाम् प्रसुप्ताम् संजीवयति अखिल-शक्ति-धरः स्व-धाम्ना । अन्यान् च हस्त-चरण-श्रवण-त्वच्-आदीन् प्राणान् नमः भगवते पुरुषाय तुभ्यम् ॥ ६ ॥
yaḥ antar praviśya mama vācam imām prasuptām saṃjīvayati akhila-śakti-dharaḥ sva-dhāmnā . anyān ca hasta-caraṇa-śravaṇa-tvac-ādīn prāṇān namaḥ bhagavate puruṣāya tubhyam .. 6 ..
एकस्त्वमेव भगवन् इदमात्मशक्त्या मायाख्ययोरुगुणया महदाद्यशेषम् । सृष्ट्वानुविश्य पुरुषस्तदसद्गुणेषु नानेव दारुषु विभावसुवद्विभासि ॥ ७ ॥
एकः त्वम् एव भगवन् इदम् आत्म-शक्त्या माया-आख्यया उरु-गुणया महत्-आदि अशेषम् । सृष्ट्वा अनुविश्य पुरुषः तत् असत्-गुणेषु नाना इव दारुषु विभावसु-वत् विभासि ॥ ७ ॥
ekaḥ tvam eva bhagavan idam ātma-śaktyā māyā-ākhyayā uru-guṇayā mahat-ādi aśeṣam . sṛṣṭvā anuviśya puruṣaḥ tat asat-guṇeṣu nānā iva dāruṣu vibhāvasu-vat vibhāsi .. 7 ..
त्वद्दत्तया वयुनयेदमचष्ट विश्वं सुप्तप्रबुद्ध इव नाथ भवत्प्रपन्नः । तस्यापवर्ग्यशरणं तव पादमूलं विस्मर्यते कृतविदा कथमार्तबन्धो ॥ ८ ॥
त्वद्-दत्तया वयुनया इदम् अचष्ट विश्वम् सुप्त-प्रबुद्धः इव नाथ भवत्-प्रपन्नः । तस्य आपवर्ग्य-शरणम् तव पाद-मूलम् विस्मर्यते कृतविदा कथम् आर्त-बन्धो ॥ ८ ॥
tvad-dattayā vayunayā idam acaṣṭa viśvam supta-prabuddhaḥ iva nātha bhavat-prapannaḥ . tasya āpavargya-śaraṇam tava pāda-mūlam vismaryate kṛtavidā katham ārta-bandho .. 8 ..
नूनं विमुष्टमतयस्तव मायया ते ये त्वां भवाप्ययविमोक्षणमन्यहेतोः । अर्चन्ति कल्पकतरुं कुणपोपभोग्यम् इच्छन्ति यत्स्पर्शजं निरयेऽपि नॄणाम् ॥ ९ ॥
नूनम् विमुष्ट-मतयः तव मायया ते ये त्वाम् भव-अप्यय-विमोक्षणम् अन्य-हेतोः । अर्चन्ति कल्पक-तरुम् कुणप-उपभोग्यम् इच्छन्ति यद्-स्पर्श-जम् निरये अपि नॄणाम् ॥ ९ ॥
nūnam vimuṣṭa-matayaḥ tava māyayā te ye tvām bhava-apyaya-vimokṣaṇam anya-hetoḥ . arcanti kalpaka-tarum kuṇapa-upabhogyam icchanti yad-sparśa-jam niraye api nṝṇām .. 9 ..
या निर्वृतिस्तनुभृतां तव पादपद्म ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात् । सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत् किं त्वन्तकासिलुलितात्पततां विमानात् ॥ १० ॥
या निर्वृतिः तनुभृताम् तव पाद-पद्म ध्यानात् भवत्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमनि अपि नाथ मा भूत् किम् तु अन्तक-असि-लुलितात् पतताम् विमानात् ॥ १० ॥
yā nirvṛtiḥ tanubhṛtām tava pāda-padma dhyānāt bhavat-jana-kathā-śravaṇena vā syāt . sā brahmaṇi sva-mahimani api nātha mā bhūt kim tu antaka-asi-lulitāt patatām vimānāt .. 10 ..
भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो भूयादनन्त महतां अमलाशयानाम् । येनाञ्जसोल्बणमुरुव्यसनं भवाब्धिं नेष्ये भवद्गुणकथामृतपानमत्तः ॥ ११ ॥
भक्तिम् मुहुर् प्रवहताम् त्वयि मे प्रसङ्गः भूयात् अनन्त महताम् अमल-आशयानाम् । येन अञ्जसा उल्बणम् उरु-व्यसनम् भव-अब्धिम् नेष्ये भवत्-गुण-कथा-अमृत-पान-मत्तः ॥ ११ ॥
bhaktim muhur pravahatām tvayi me prasaṅgaḥ bhūyāt ananta mahatām amala-āśayānām . yena añjasā ulbaṇam uru-vyasanam bhava-abdhim neṣye bhavat-guṇa-kathā-amṛta-pāna-mattaḥ .. 11 ..
ते न स्मरन्त्यतितरां प्रियमीश मर्त्यं ये चान्वदः सुतसुहृद्गृहवित्तदाराः । ये त्वब्जनाभ भवदीयपदारविन्द सौगन्ध्यलुब्धहृदयेषु कृतप्रसङ्गाः ॥ १२ ॥
ते न स्मरन्ति अतितराम् प्रियम् ईश मर्त्यम् ये च अन्वदः सुत-सुहृद्-गृह-वित्त-दाराः । ये तु अब्जनाभ भवदीय-पद-अरविन्द सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ १२ ॥
te na smaranti atitarām priyam īśa martyam ye ca anvadaḥ suta-suhṛd-gṛha-vitta-dārāḥ . ye tu abjanābha bhavadīya-pada-aravinda saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ .. 12 ..
तिर्यङ्नगद्विजसरीसृपदेवदैत्य मर्त्यादिभिः परिचितं सदसद्विशेषम् । रूपं स्थविष्ठमज ते महदाद्यनेकं नातः परं परम वेद्मि न यत्र वादः ॥ १३ ॥
तिर्यक्-नग-द्विज-सरीसृप-देव-दैत्य मर्त्य-आदिभिः परिचितम् सत्-असत्-विशेषम् । रूपम् स्थविष्ठम् अज ते महत्-आदि अनेकम् न अतस् परम् परम वेद्मि न यत्र वादः ॥ १३ ॥
tiryak-naga-dvija-sarīsṛpa-deva-daitya martya-ādibhiḥ paricitam sat-asat-viśeṣam . rūpam sthaviṣṭham aja te mahat-ādi anekam na atas param parama vedmi na yatra vādaḥ .. 13 ..
कल्पान्त एतदखिलं जठरेण गृह्णन् शेते पुमान् स्वदृगनन्तसखस्तदङ्के । यन्नाभिसिन्धुरुहकाञ्चन लोकपद्म गर्भे द्युमान्भगवते प्रणतोऽस्मि तस्मै ॥ १४ ॥
कल्पान्ते एतत् अखिलम् जठरेण गृह्णन् शेते पुमान् स्वदृश् अनन्तसखः तद्-अङ्के । यद्-नाभि-सिन्धु-रुह-काञ्चन लोक-पद्म गर्भे द्युमान् भगवते प्रणतः अस्मि तस्मै ॥ १४ ॥
kalpānte etat akhilam jaṭhareṇa gṛhṇan śete pumān svadṛś anantasakhaḥ tad-aṅke . yad-nābhi-sindhu-ruha-kāñcana loka-padma garbhe dyumān bhagavate praṇataḥ asmi tasmai .. 14 ..
त्वं नित्यमुक्तपरिशुद्धविबुद्ध आत्मा कूटस्थ आदिपुरुषो भगवान् त्र्यधीशः । यद्बुद्ध्यवस्थितिमखण्डितया स्वदृष्ट्या द्रष्टा स्थितावधिमखो व्यतिरिक्त आस्से ॥ १५ ॥
त्वम् नित्य-मुक्त-परिशुद्ध-विबुद्धः आत्मा कूटस्थः आदिपुरुषः भगवान् त्र्यधीशः । यत् बुद्धि-अवस्थितिम् अखण्डितया स्व-दृष्ट्या द्रष्टा स्थित-अवधि-मखः व्यतिरिक्तः आस्से ॥ १५ ॥
tvam nitya-mukta-pariśuddha-vibuddhaḥ ātmā kūṭasthaḥ ādipuruṣaḥ bhagavān tryadhīśaḥ . yat buddhi-avasthitim akhaṇḍitayā sva-dṛṣṭyā draṣṭā sthita-avadhi-makhaḥ vyatiriktaḥ āsse .. 15 ..
यस्मिन् विरुद्धगतयो ह्यनिशं पतन्ति विद्यादयो विविधशक्तय आनुपूर्व्यात् । तद्ब्रह्म विश्वभवमेकमनन्तमाद्यम् आनन्दमात्रमविकारमहं प्रपद्ये ॥ १६ ॥
यस्मिन् विरुद्ध-गतयः हि अनिशम् पतन्ति विद्या-आदयः विविध-शक्तयः आनुपूर्व्यात् । तत् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् आनन्द-मात्रम् अविकारम् अहम् प्रपद्ये ॥ १६ ॥
yasmin viruddha-gatayaḥ hi aniśam patanti vidyā-ādayaḥ vividha-śaktayaḥ ānupūrvyāt . tat brahma viśva-bhavam ekam anantam ādyam ānanda-mātram avikāram aham prapadye .. 16 ..
सत्याशिषो हि भगवन् तव पादपद्मम् आशीस्तथानुभजतः पुरुषार्थमूर्तेः । अप्येवमार्य भगवान्परिपाति दीनान् वाश्रेव वत्सकमनुग्रहकातरोऽस्मान् ॥ १७ ॥
सत्य-आशिषः हि भगवन् तव पाद-पद्मम् आशीः तथा अनुभजतः पुरुष-अर्थ-मूर्तेः । अपि एवम् आर्य भगवान् परिपाति दीनान् वाश्रा इव वत्सकम् अनुग्रह-कातरः अस्मान् ॥ १७ ॥
satya-āśiṣaḥ hi bhagavan tava pāda-padmam āśīḥ tathā anubhajataḥ puruṣa-artha-mūrteḥ . api evam ārya bhagavān paripāti dīnān vāśrā iva vatsakam anugraha-kātaraḥ asmān .. 17 ..
मैत्रेय उवाच - (अनुष्टुप्)
अथाभिष्टुत एवं वै सत्सङ्कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदमब्रवीत् ॥ १८ ॥
अथ अभिष्टुतः एवम् वै सत्-सङ्कल्पेन धीमता । भृत्य-अनुरक्तः भगवान् प्रतिनन्द्य इदम् अब्रवीत् ॥ १८ ॥
atha abhiṣṭutaḥ evam vai sat-saṅkalpena dhīmatā . bhṛtya-anuraktaḥ bhagavān pratinandya idam abravīt .. 18 ..
श्रीभगवानुवाच -
वेदाहं ते व्यवसितं हृदि राजन्यबालक । तत्प्रयच्छामि भद्रं ते दुरापं अपि सुव्रत ॥ १९ ॥
वेद अहम् ते व्यवसितम् हृदि राजन्य-बालक । तत् प्रयच्छामि भद्रम् ते दुरापम् अपि सुव्रत ॥ १९ ॥
veda aham te vyavasitam hṛdi rājanya-bālaka . tat prayacchāmi bhadram te durāpam api suvrata .. 19 ..
नान्यैरधिष्ठितं भद्र यद्भ्राजिष्णु ध्रुवक्षिति । यत्र ग्रहर्क्षताराणां ज्योतिषां चक्रमाहितम् ॥ २० ॥
न अन्यैः अधिष्ठितम् भद्र यत् भ्राजिष्णु ध्रुव-क्षिति । यत्र ग्रह-ऋक्ष-ताराणाम् ज्योतिषाम् चक्रम् आहितम् ॥ २० ॥
na anyaiḥ adhiṣṭhitam bhadra yat bhrājiṣṇu dhruva-kṣiti . yatra graha-ṛkṣa-tārāṇām jyotiṣām cakram āhitam .. 20 ..
मेढ्यां गोचक्रवत्स्थास्नु परस्तात्कल्पवासिनाम् । धर्मोऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः । चरन्ति दक्षिणीकृत्य भ्रमन्तो यत्सतारकाः ॥ २१ ॥
मेढ्याम् गो-चक्र-वत् स्थास्नु परस्तात् कल्प-वासिनाम् । धर्मः अग्निः कश्यपः शुक्रः मुनयः ये वनौकसः । चरन्ति दक्षिणीकृत्य भ्रमन्तः यत् स तारकाः ॥ २१ ॥
meḍhyām go-cakra-vat sthāsnu parastāt kalpa-vāsinām . dharmaḥ agniḥ kaśyapaḥ śukraḥ munayaḥ ye vanaukasaḥ . caranti dakṣiṇīkṛtya bhramantaḥ yat sa tārakāḥ .. 21 ..
प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्मसंश्रयः । षट्त्रिंशद् वर्षसाहस्रं रक्षिताव्याहतेन्द्रियः ॥ २२ ॥
प्रस्थिते तु वनम् पित्रा दत्त्वा गाम् धर्म-संश्रयः । षट्त्रिंशत् वर्ष-साहस्रम् रक्षिता अव्याहत-इन्द्रियः ॥ २२ ॥
prasthite tu vanam pitrā dattvā gām dharma-saṃśrayaḥ . ṣaṭtriṃśat varṣa-sāhasram rakṣitā avyāhata-indriyaḥ .. 22 ..
त्वद्भ्रातर्युत्तमे नष्टे मृगयायां तु तन्मनाः । अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ २३ ॥
त्वद्-भ्रातरि उत्तमे नष्टे मृगयायाम् तु तन्मनाः । अन्वेषन्ती वनम् माता दाव-अग्निम् सा प्रवेक्ष्यति ॥ २३ ॥
tvad-bhrātari uttame naṣṭe mṛgayāyām tu tanmanāḥ . anveṣantī vanam mātā dāva-agnim sā pravekṣyati .. 23 ..
इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः । भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ २४ ॥
इष्ट्वा माम् यज्ञ-हृदयम् यज्ञैः पुष्कल-दक्षिणैः । भुक्त्वा च इह आशिषः सत्याः अन्ते माम् संस्मरिष्यसि ॥ २४ ॥
iṣṭvā mām yajña-hṛdayam yajñaiḥ puṣkala-dakṣiṇaiḥ . bhuktvā ca iha āśiṣaḥ satyāḥ ante mām saṃsmariṣyasi .. 24 ..
ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्टादृषिभ्यस्त्वं यतो नावर्तते गतः ॥ २५ ॥
ततस् गन्तासि मद्-स्थानम् सर्व-लोक-नमस्कृतम् । उपरिष्टात् ऋषिभ्यः त्वम् यतस् न आवर्तते गतः ॥ २५ ॥
tatas gantāsi mad-sthānam sarva-loka-namaskṛtam . upariṣṭāt ṛṣibhyaḥ tvam yatas na āvartate gataḥ .. 25 ..
मैत्रेय उवाच -
इत्यर्चितः स भगवान् अतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वं अगाद् गरुडध्वजः ॥ २६ ॥
इति अर्चितः स भगवान् अतिदिश्य आत्मनः पदम् । बालस्य पश्यतः धाम स्वम् अगात् गरुडध्वजः ॥ २६ ॥
iti arcitaḥ sa bhagavān atidiśya ātmanaḥ padam . bālasya paśyataḥ dhāma svam agāt garuḍadhvajaḥ .. 26 ..
विदुर उवाच -
सोऽपि सङ्कल्पजं विष्णोः पादसेवोपसादितम् । प्राप्य सङ्कल्पनिर्वाणं नातिप्रीतोऽभ्यगात्पुरम् ॥ २७ ॥
सः अपि सङ्कल्प-जम् विष्णोः पाद-सेवा-उपसादितम् । प्राप्य सङ्कल्प-निर्वाणम् न अति प्रीतः अभ्यगात् पुरम् ॥ २७ ॥
saḥ api saṅkalpa-jam viṣṇoḥ pāda-sevā-upasāditam . prāpya saṅkalpa-nirvāṇam na ati prītaḥ abhyagāt puram .. 27 ..
सुदुर्लभं यत्परमं पदं हरेः मायाविनस्तत् चरणार्चनार्जितम् । लब्ध्वाप्यसिद्धार्थमिवैकजन्मना कथं स्वमात्मानममन्यतार्थवित् ॥ २८ ॥
सु दुर्लभम् यत् परमम् पदम् हरेः मायाविनः तत् चरण-अर्चन-अर्जितम् । लब्ध्वा अपि अ सिद्धार्थम् इव एक-जन्मना कथम् स्वम् आत्मानम् अमन्यत अर्थ-विद् ॥ २८ ॥
su durlabham yat paramam padam hareḥ māyāvinaḥ tat caraṇa-arcana-arjitam . labdhvā api a siddhārtham iva eka-janmanā katham svam ātmānam amanyata artha-vid .. 28 ..
मैत्रेय उवाच - (अनुष्टुप्)
मातुः सपत्न्या वाग्बाणैः हृदि विद्धस्तु तान् स्मरन् । नैच्छन्मुक्तिपतेर्मुक्तिं तस्मात् तापमुपेयिवान् ॥ २९ ॥
मातुः सपत्न्या वाच्-बाणैः हृदि विद्धः तु तान् स्मरन् । न ऐच्छत् मुक्तिपतेः मुक्तिम् तस्मात् तापम् उपेयिवान् ॥ २९ ॥
mātuḥ sapatnyā vāc-bāṇaiḥ hṛdi viddhaḥ tu tān smaran . na aicchat muktipateḥ muktim tasmāt tāpam upeyivān .. 29 ..
ध्रुव उवाच - (अनुष्टुप्)
समाधिना नैकभवेन यत्पदं विदुः सनन्दादय ऊर्ध्वरेतसः । मासैरहं षड्भिरमुष्य पादयोः छायामुपेत्यापगतः पृथङ्मतिः ॥ ३० ॥
समाधिना न एक-भवेन यत् पदम् विदुः सनन्द-आदयः ऊर्ध्वरेतसः । मासैः अहम् षड्भिः अमुष्य पादयोः छायाम् उपेत्य अपगतः पृथक् मतिः ॥ ३० ॥
samādhinā na eka-bhavena yat padam viduḥ sananda-ādayaḥ ūrdhvaretasaḥ . māsaiḥ aham ṣaḍbhiḥ amuṣya pādayoḥ chāyām upetya apagataḥ pṛthak matiḥ .. 30 ..
अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे यदन्तवत् ॥ ३१ ॥
अहो बत मम अनात्म्यम् मन्दभाग्यस्य पश्यत । भवत्-छिदः पाद-मूलम् गत्वा याचे यत् अन्तवत् ॥ ३१ ॥
aho bata mama anātmyam mandabhāgyasya paśyata . bhavat-chidaḥ pāda-mūlam gatvā yāce yat antavat .. 31 ..
मतिर्विदूषिता देवैः पतद्भिः असहिष्णुभिः । यो नारदवचस्तथ्यं नाग्राहिषमसत्तमः ॥ ३२ ॥
मतिः विदूषिता देवैः पतद्भिः असहिष्णुभिः । यः नारद-वचः तथ्यम् न अग्राहिषम् असत्तमः ॥ ३२ ॥
matiḥ vidūṣitā devaiḥ patadbhiḥ asahiṣṇubhiḥ . yaḥ nārada-vacaḥ tathyam na agrāhiṣam asattamaḥ .. 32 ..
दैवीं मायामुपाश्रित्य प्रसुप्त इव भिन्नदृक् । तप्ये द्वितीयेऽप्यसति भ्रातृभ्रातृव्यहृद्रुजा ॥ ३३ ॥
दैवीम् मायाम् उपाश्रित्य प्रसुप्तः इव भिन्नदृश् । तप्ये द्वितीये अपि असति भ्रातृ-भ्रातृव्य-हृद्-रुजा ॥ ३३ ॥
daivīm māyām upāśritya prasuptaḥ iva bhinnadṛś . tapye dvitīye api asati bhrātṛ-bhrātṛvya-hṛd-rujā .. 33 ..
मयैतत्प्रार्थितं व्यर्थं चिकित्सेव गतायुषि । प्रसाद्य जगदात्मानं तपसा दुष्प्रसादनम् । भवच्छिदमयाचेऽहं भवं भाग्यविवर्जितः ॥ ३४ ॥
मया एतत् प्रार्थितम् व्यर्थम् चिकित्सा इव गत-आयुषि । प्रसाद्य जगदात्मानम् तपसा दुष्प्रसादनम् । भवत्-छिदम् अयाचे अहम् भवम् भाग्य-विवर्जितः ॥ ३४ ॥
mayā etat prārthitam vyartham cikitsā iva gata-āyuṣi . prasādya jagadātmānam tapasā duṣprasādanam . bhavat-chidam ayāce aham bhavam bhāgya-vivarjitaḥ .. 34 ..
स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत । ईश्वरात्क्षीणपुण्येन फलीकारानिवाधनः ॥ ३५ ॥
स्वाराज्यम् यच्छतः मौढ्यात् मानः मे भिक्षितः बत । ईश्वरात् क्षीण-पुण्येन ॥ ३५ ॥
svārājyam yacchataḥ mauḍhyāt mānaḥ me bhikṣitaḥ bata . īśvarāt kṣīṇa-puṇyena .. 35 ..
मैत्रेय उवाच - (अनुष्टुप्)
न वै मुकुन्दस्य पदारविन्दयो रजोजुषस्तात भवादृशा जनाः । वाञ्छन्ति तद्दास्यमृतेऽर्थमात्मनो यदृच्छया लब्धमनःसमृद्धयः ॥ ३६ ॥
न वै मुकुन्दस्य पद-अरविन्दयः रजः-जुषः तात भवादृशाः जनाः । वाञ्छन्ति तद्-दास्यम् ऋते अर्थम् आत्मनः यदृच्छया लब्ध-मनः-समृद्धयः ॥ ३६ ॥
na vai mukundasya pada-aravindayaḥ rajaḥ-juṣaḥ tāta bhavādṛśāḥ janāḥ . vāñchanti tad-dāsyam ṛte artham ātmanaḥ yadṛcchayā labdha-manaḥ-samṛddhayaḥ .. 36 ..
आकर्ण्यात्मजमायान्तं सम्परेत्य यथाऽऽगतम् । राजा न श्रद्दधे भद्रं अभद्रस्य कुतो मम ॥ ३७ ॥
आकर्ण्य आत्मजम् आयान्तम् सम्परेत्य यथा आगतम् । राजा न श्रद्दधे भद्रम् अभद्रस्य कुतस् मम ॥ ३७ ॥
ākarṇya ātmajam āyāntam samparetya yathā āgatam . rājā na śraddadhe bhadram abhadrasya kutas mama .. 37 ..
श्रद्धाय वाक्यं देवर्षेः हर्षवेगेन धर्षितः । वार्ताहर्तुरतिप्रीतो हारं प्रादान्महाधनम् ॥ ३८ ॥
श्रद्धाय वाक्यम् देवर्षेः हर्ष-वेगेन धर्षितः । वार्ता-हर्तुः अति प्रीतः हारम् प्रादात् महाधनम् ॥ ३८ ॥
śraddhāya vākyam devarṣeḥ harṣa-vegena dharṣitaḥ . vārtā-hartuḥ ati prītaḥ hāram prādāt mahādhanam .. 38 ..
सदश्वं रथमारुह्य कार्तस्वरपरिष्कृतम् । ब्राह्मणैः कुलवृद्धैश्च पर्यस्तोऽमात्यबन्धुभिः ॥ ३९ ॥
सत्-अश्वम् रथम् आरुह्य कार्तस्वर-परिष्कृतम् । ब्राह्मणैः कुल-वृद्धैः च पर्यस्तः अमात्य-बन्धुभिः ॥ ३९ ॥
sat-aśvam ratham āruhya kārtasvara-pariṣkṛtam . brāhmaṇaiḥ kula-vṛddhaiḥ ca paryastaḥ amātya-bandhubhiḥ .. 39 ..
शङ्खदुन्दुभिनादेन ब्रह्मघोषेण वेणुभिः । निश्चक्राम पुरात् तूर्णं आत्मजाभीक्षणोत्सुकः ॥ ४० ॥
शङ्ख-दुन्दुभि-नादेन ब्रह्मघोषेण वेणुभिः । निश्चक्राम पुरात् तूर्णम् आत्मज-अभीक्षण-उत्सुकः ॥ ४० ॥
śaṅkha-dundubhi-nādena brahmaghoṣeṇa veṇubhiḥ . niścakrāma purāt tūrṇam ātmaja-abhīkṣaṇa-utsukaḥ .. 40 ..
सुनीतिः सुरुचिश्चास्य महिष्यौ रुक्मभूषिते । आरुह्य शिबिकां सार्धं उत्तमेनाभिजग्मतुः ॥ ४१ ॥
सुनीतिः सुरुचिः च अस्य महिष्यौ रुक्म-भूषिते । आरुह्य शिबिकाम् सार्धम् उत्तमेन अभिजग्मतुः ॥ ४१ ॥
sunītiḥ suruciḥ ca asya mahiṣyau rukma-bhūṣite . āruhya śibikām sārdham uttamena abhijagmatuḥ .. 41 ..
तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् । अवरुह्य नृपस्तूर्णं आसाद्य प्रेमविह्वलः ॥ ४२ ॥
तम् दृष्ट्वा उपवन-अभ्याशे आयान्तम् तरसा रथात् । अवरुह्य नृपः तूर्णम् आसाद्य प्रेम-विह्वलः ॥ ४२ ॥
tam dṛṣṭvā upavana-abhyāśe āyāntam tarasā rathāt . avaruhya nṛpaḥ tūrṇam āsādya prema-vihvalaḥ .. 42 ..
परिरेभेऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठमनाः श्वसन् । विष्वक्सेनाङ्घ्रिसंस्पर्श हताशेषाघबन्धनम् ॥ ४३ ॥
परिरेभे अङ्गजम् दोर्भ्याम् दीर्घ-उत्कण्ठ-मनाः श्वसन् । विष्वक्सेन-अङ्घ्रि-संस्पर्श हत-अशेष-अघ-बन्धनम् ॥ ४३ ॥
parirebhe aṅgajam dorbhyām dīrgha-utkaṇṭha-manāḥ śvasan . viṣvaksena-aṅghri-saṃsparśa hata-aśeṣa-agha-bandhanam .. 43 ..
अथाजिघ्रन् मुहुर्मूर्ध्नि शीतैर्नयनवारिभिः । स्नापयामास तनयं जातोद्दाममनोरथः ॥ ४४ ॥
अथा आजिघ्रन् मुहुर् मूर्ध्नि शीतैः नयन-वारिभिः । स्नापयामास तनयम् जात-उद्दाम-मनोरथः ॥ ४४ ॥
athā ājighran muhur mūrdhni śītaiḥ nayana-vāribhiḥ . snāpayāmāsa tanayam jāta-uddāma-manorathaḥ .. 44 ..
अभिवन्द्य पितुः पादौ आशीर्भिश्चाभिमन्त्रितः । ननाम मातरौ शीर्ष्णा सत्कृतः सज्जनाग्रणीः ॥ ४५ ॥
अभिवन्द्य पितुः पादौ आशीर्भिः च अभिमन्त्रितः । ननाम मातरौ शीर्ष्णा सत्कृतः सत्-जन-अग्रणीः ॥ ४५ ॥
abhivandya pituḥ pādau āśīrbhiḥ ca abhimantritaḥ . nanāma mātarau śīrṣṇā satkṛtaḥ sat-jana-agraṇīḥ .. 45 ..
सुरुचिस्तं समुत्थाप्य पादावनतमर्भकम् । परिष्वज्याह जीवेति बाष्पगद्गदया गिरा ॥ ४६ ॥
सुरुचिः तम् समुत्थाप्य पाद-अवनतम् अर्भकम् । परिष्वज्य आह जीव इति बाष्प-गद्गदया गिरा ॥ ४६ ॥
suruciḥ tam samutthāpya pāda-avanatam arbhakam . pariṣvajya āha jīva iti bāṣpa-gadgadayā girā .. 46 ..
यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरिः । तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ ४७ ॥
यस्य प्रसन्नः भगवान् गुणैः मैत्री-आदिभिः हरिः । तस्मै नमन्ति भूतानि निम्नम् आपः इव स्वयम् ॥ ४७ ॥
yasya prasannaḥ bhagavān guṇaiḥ maitrī-ādibhiḥ hariḥ . tasmai namanti bhūtāni nimnam āpaḥ iva svayam .. 47 ..
उत्तमश्च ध्रुवश्चोभौ अन्योन्यं प्रेमविह्वलौ । अङ्गसङ्गाद् उत्पुलकौ अस्रौघं मुहुरूहतुः ॥ ४८ ॥
उत्तमः च ध्रुवः च उभौ अन्योन्यम् प्रेम-विह्वलौ । अङ्गसङ्गात् उत्पुलकौ अस्र-ओघम् मुहुर् ऊहतुः ॥ ४८ ॥
uttamaḥ ca dhruvaḥ ca ubhau anyonyam prema-vihvalau . aṅgasaṅgāt utpulakau asra-ogham muhur ūhatuḥ .. 48 ..
सुनीतिरस्य जननी प्राणेभ्योऽपि प्रियं सुतम् । उपगुह्य जहावाधिं तदङ्गस्पर्शनिर्वृता ॥ ४९ ॥
सुनीतिः अस्य जननी प्राणेभ्यः अपि प्रियम् सुतम् । उपगुह्य जहौ आधिम् तद्-अङ्ग-स्पर्श-निर्वृता ॥ ४९ ॥
sunītiḥ asya jananī prāṇebhyaḥ api priyam sutam . upaguhya jahau ādhim tad-aṅga-sparśa-nirvṛtā .. 49 ..
पयः स्तनाभ्यां सुस्राव नेत्रजैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीरसुवो मुहुः ॥ ५० ॥
पयः स्तनाभ्याम् सुस्राव नेत्र-जैः सलिलैः शिवैः । तदा अभिषिच्यमानाभ्याम् वीर वीरसुवः मुहुर् ॥ ५० ॥
payaḥ stanābhyām susrāva netra-jaiḥ salilaiḥ śivaiḥ . tadā abhiṣicyamānābhyām vīra vīrasuvaḥ muhur .. 50 ..
तां शशंसुर्जना राज्ञीं दिष्ट्या ते पुत्र आर्तिहा । प्रतिलब्धश्चिरं नष्टो रक्षिता मण्डलं भुवः ॥ ५१ ॥
ताम् शशंसुः जनाः राज्ञीम् दिष्ट्या ते पुत्रः आर्ति-हा । प्रतिलब्धः चिरम् नष्टः रक्षिता मण्डलम् भुवः ॥ ५१ ॥
tām śaśaṃsuḥ janāḥ rājñīm diṣṭyā te putraḥ ārti-hā . pratilabdhaḥ ciram naṣṭaḥ rakṣitā maṇḍalam bhuvaḥ .. 51 ..
अभ्यर्चितस्त्वया नूनं भगवान् प्रणतार्तिहा । यदनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ ५२ ॥
अभ्यर्चितः त्वया नूनम् भगवान् प्रणत-आर्ति-हा । यद्-अनुध्यायिनः धीराः मृत्युम् जिग्युः सु दुर्जयम् ॥ ५२ ॥
abhyarcitaḥ tvayā nūnam bhagavān praṇata-ārti-hā . yad-anudhyāyinaḥ dhīrāḥ mṛtyum jigyuḥ su durjayam .. 52 ..
लाल्यमानं जनैरेवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानोऽविशत्पुरम् ॥ ५३ ॥
लाल्यमानम् जनैः एवम् ध्रुवम् स भ्रातरम् नृपः । आरोप्य करिणीम् हृष्टः स्तूयमानः अविशत् पुरम् ॥ ५३ ॥
lālyamānam janaiḥ evam dhruvam sa bhrātaram nṛpaḥ . āropya kariṇīm hṛṣṭaḥ stūyamānaḥ aviśat puram .. 53 ..
तत्र तत्रोपसङ्कॢप्तैः लसन् मकरतोरणैः । सवृन्दैः कदलीस्तम्भैः पूगपोतैश्च तद्विधैः ॥ ५४ ॥
तत्र तत्र उपसङ्कॢप्तैः लसत्-मकर-तोरणैः । स वृन्दैः कदली-स्तम्भैः पूग-पोतैः च तद्विधैः ॥ ५४ ॥
tatra tatra upasaṅkḷptaiḥ lasat-makara-toraṇaiḥ . sa vṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ ca tadvidhaiḥ .. 54 ..
चूतपल्लववासःस्रङ् मुक्तादामविलम्बिभिः । उपस्कृतं प्रतिद्वारं अपां कुम्भैः सदीपकैः ॥ ५५ ॥
चूत-पल्लव-वासः-स्रज् मुक्ता-दाम-विलम्बिभिः । उपस्कृतम् प्रतिद्वारम् अपाम् कुम्भैः स दीपकैः ॥ ५५ ॥
cūta-pallava-vāsaḥ-sraj muktā-dāma-vilambibhiḥ . upaskṛtam pratidvāram apām kumbhaiḥ sa dīpakaiḥ .. 55 ..
प्राकारैः गोपुरागारैः शातकुम्भपरिच्छदैः । सर्वतोऽलङ्कृतं श्रीमद् विमानशिखरद्युभिः ॥ ५६ ॥
प्राकारैः गोपुर-आगारैः शातकुम्भ-परिच्छदैः । सर्वतस् अलङ्कृतम् श्रीमत् विमान-शिखर-द्युभिः ॥ ५६ ॥
prākāraiḥ gopura-āgāraiḥ śātakumbha-paricchadaiḥ . sarvatas alaṅkṛtam śrīmat vimāna-śikhara-dyubhiḥ .. 56 ..
मृष्टचत्वररथ्याट्ट मार्गं चन्दनचर्चितम् । लाजाक्षतैः पुष्पफलैः तण्डुलैर्बलिभिर्युतम् ॥ ५७ ॥
मृष्ट-चत्वर-रथ्या-अट्ट मार्गम् चन्दन-चर्चितम् । लाज-अक्षतैः पुष्प-फलैः तण्डुलैः बलिभिः युतम् ॥ ५७ ॥
mṛṣṭa-catvara-rathyā-aṭṭa mārgam candana-carcitam . lāja-akṣataiḥ puṣpa-phalaiḥ taṇḍulaiḥ balibhiḥ yutam .. 57 ..
ध्रुवाय पथि दृष्टाय तत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्यम्बु दूर्वापुष्पफलानि च ॥ ५८ ॥
ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः । सिद्धार्थ-अक्षत-दधि-अम्बु दूर्वा-पुष्प-फलानि च ॥ ५८ ॥
dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ . siddhārtha-akṣata-dadhi-ambu dūrvā-puṣpa-phalāni ca .. 58 ..
उपजह्रुः प्रयुञ्जाना वात्सल्यादाशिषः सतीः । शृण्वन् तद्वल्गुगीतानि प्राविशद्भवनं पितुः ॥ ५९ ॥
उपजह्रुः प्रयुञ्जानाः वात्सल्यात् आशिषः सतीः । शृण्वन् तद्-वल्गु-गीतानि प्राविशत् भवनम् पितुः ॥ ५९ ॥
upajahruḥ prayuñjānāḥ vātsalyāt āśiṣaḥ satīḥ . śṛṇvan tad-valgu-gītāni prāviśat bhavanam pituḥ .. 59 ..
महामणिव्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ ६० ॥
महा-मणि-व्रात-मये स तस्मिन् भवन-उत्तमे । लालितः नितराम् पित्रा न्यवसत् दिवि देव-वत् ॥ ६० ॥
mahā-maṇi-vrāta-maye sa tasmin bhavana-uttame . lālitaḥ nitarām pitrā nyavasat divi deva-vat .. 60 ..
पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ ६१ ॥
पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । आसनानि महार्हाणि यत्र रौक्माः उपस्कराः ॥ ६१ ॥
payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ . āsanāni mahārhāṇi yatra raukmāḥ upaskarāḥ .. 61 ..
यत्र स्फटिककुड्येषु महामारकतेषु च । मणिप्रदीपा आभान्ति ललनारत्नसंयुताः ॥ ६२ ॥
यत्र स्फटिक-कुड्येषु महा-मारकतेषु च । मणि-प्रदीपाः आभान्ति ललना-रत्न-संयुताः ॥ ६२ ॥
yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca . maṇi-pradīpāḥ ābhānti lalanā-ratna-saṃyutāḥ .. 62 ..
उद्यानानि च रम्याणि विचित्रैरमरद्रुमैः । कूजद्विहङ्गमिथुनैः गायन्मत्तमधुव्रतैः ॥ ६३ ॥
उद्यानानि च रम्याणि विचित्रैः अमर-द्रुमैः । कूजत्-विहङ्ग-मिथुनैः गायत्-मत्त-मधु-व्रतैः ॥ ६३ ॥
udyānāni ca ramyāṇi vicitraiḥ amara-drumaiḥ . kūjat-vihaṅga-mithunaiḥ gāyat-matta-madhu-vrataiḥ .. 63 ..
वाप्यो वैदूर्यसोपानाः पद्मोत्पलकुमुद्वतीः । हंसकारण्डवकुलैः जुष्टाश्चक्राह्वसारसैः ॥ ६४ ॥
वाप्यः वैदूर्य-सोपानाः पद्म-उत्पल-कुमुद्वतीः । हंस-कारण्डव-कुलैः जुष्टाः चक्राह्व-सारसैः ॥ ६४ ॥
vāpyaḥ vaidūrya-sopānāḥ padma-utpala-kumudvatīḥ . haṃsa-kāraṇḍava-kulaiḥ juṣṭāḥ cakrāhva-sārasaiḥ .. 64 ..
उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ ६५ ॥
उत्तानपादः राजर्षिः प्रभावम् तनयस्य तम् । श्रुत्वा दृष्ट्वा अद्भुततमम् प्रपेदे विस्मयम् परम् ॥ ६५ ॥
uttānapādaḥ rājarṣiḥ prabhāvam tanayasya tam . śrutvā dṛṣṭvā adbhutatamam prapede vismayam param .. 65 ..
वीक्ष्योढवयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्तप्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ ६६ ॥
वीक्ष्य ऊढ-वयसम् तम् च प्रकृतीनाम् च सम्मतम् । अनुरक्त-प्रजम् राजा ध्रुवम् चक्रे भुवः पतिम् ॥ ६६ ॥
vīkṣya ūḍha-vayasam tam ca prakṛtīnām ca sammatam . anurakta-prajam rājā dhruvam cakre bhuvaḥ patim .. 66 ..
आत्मानं च प्रवयसं आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्नात्मनो गतिम् ॥ ६७ ॥
आत्मानम् च प्रवयसम् आकलय्य विशाम् पतिः । वनम् विरक्तः प्रातिष्ठत् विमृशन् आत्मनः गतिम् ॥ ६७ ॥
ātmānam ca pravayasam ākalayya viśām patiḥ . vanam viraktaḥ prātiṣṭhat vimṛśan ātmanaḥ gatim .. 67 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवराज्याभिषेक वर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थ-स्कन्धे ध्रुवराज्याभिषेकवर्णनम् नाम नवमः अध्यायः ॥ ९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām caturtha-skandhe dhruvarājyābhiṣekavarṇanam nāma navamaḥ adhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In