| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
कथितो वंशविस्तारो भवता सोमसूर्ययोः । राज्ञां च उभयवंश्यानां चरितं परमाद्भुतम् ॥ १ ॥
कथितः वंश-विस्तारः भवता सोम-सूर्ययोः । राज्ञाम् च उभय-वंश्यानाम् चरितम् परम-अद्भुतम् ॥ १ ॥
kathitaḥ vaṃśa-vistāraḥ bhavatā soma-sūryayoḥ . rājñām ca ubhaya-vaṃśyānām caritam parama-adbhutam .. 1 ..
( अनुष्टुप् )
यदोश्च धर्मशीलस्य नितरां मुनिसत्तम । तत्रांशेन अवतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २ ॥
यदोः च धर्म-शीलस्य नितराम् मुनि-सत्तम । तत्र अंशेन अवतीर्णस्य विष्णोः वीर्याणि शंस नः ॥ २ ॥
yadoḥ ca dharma-śīlasya nitarām muni-sattama . tatra aṃśena avatīrṇasya viṣṇoḥ vīryāṇi śaṃsa naḥ .. 2 ..
अवतीर्य यदोर्वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३ ॥
अवतीर्य यदोः वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नः वद विस्तरात् ॥ ३ ॥
avatīrya yadoḥ vaṃśe bhagavān bhūtabhāvanaḥ . kṛtavān yāni viśvātmā tāni naḥ vada vistarāt .. 3 ..
( उपेंद्रवज्रा )
निवृत्ततर्षैः उपगीयमानाद् भवौषधात् श्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ ४ ॥
निवृत्त-तर्षैः उपगीयमानात् भव-औषधात् श्रोत्र-मनः-अभिरामात् । कः उत्तमश्लोक-गुण-अनुवादात् पुमान् विरज्येत विना पशु-घ्नात् ॥ ४ ॥
nivṛtta-tarṣaiḥ upagīyamānāt bhava-auṣadhāt śrotra-manaḥ-abhirāmāt . kaḥ uttamaśloka-guṇa-anuvādāt pumān virajyeta vinā paśu-ghnāt .. 4 ..
( वंशस्थ )
पितामहा मे समरेऽमरञ्जयैः देवव्रताद्यातिरथैस्तिमिङ्गिलैः । दुरत्ययं कौरवसैन्यसागरं कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ ५ ॥
पितामहाः मे समरे अमरञ्जयैः देवव्रत-आद्य-अतिरथैः तिमिङ्गिलैः । दुरत्ययम् कौरव-सैन्य-सागरम् कृत्वा अतरन् वत्स-पदम् स्म यद्-प्लवाः ॥ ५ ॥
pitāmahāḥ me samare amarañjayaiḥ devavrata-ādya-atirathaiḥ timiṅgilaiḥ . duratyayam kaurava-sainya-sāgaram kṛtvā ataran vatsa-padam sma yad-plavāḥ .. 5 ..
( इंद्रवज्रा )
द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः ॥ ६ ॥
द्रौणि-अस्त्र-विप्लुष्टम् इदम् मद्-अङ्गम् सन्तान-बीजम् कुरु-पाण्डवानाम् । जुगोप कुक्षिम् गतः आत्त-चक्रः मातुः च मे यः शरणम् गतायाः ॥ ६ ॥
drauṇi-astra-vipluṣṭam idam mad-aṅgam santāna-bījam kuru-pāṇḍavānām . jugopa kukṣim gataḥ ātta-cakraḥ mātuḥ ca me yaḥ śaraṇam gatāyāḥ .. 6 ..
वीर्याणि तस्याखिलदेहभाजां अन्तर्बहिः पूरुषकालरूपैः । प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्वन् ॥ ७ ॥
वीर्याणि तस्य अखिल-देहभाजाम् अन्तर् बहिस् पूरुष-काल-रूपैः । प्रयच्छतः मृत्युम् उत अमृतम् च माया-मनुष्यस्य वदस्व विद्वन् ॥ ७ ॥
vīryāṇi tasya akhila-dehabhājām antar bahis pūruṣa-kāla-rūpaiḥ . prayacchataḥ mṛtyum uta amṛtam ca māyā-manuṣyasya vadasva vidvan .. 7 ..
( अनुष्टुप् )
रोहिण्यास्तनयः प्रोक्तो रामः संकर्षणस्त्वया । देवक्या गर्भसंबंधः कुतो देहान्तरं विना ॥ ८ ॥
रोहिण्याः तनयः प्रोक्तः रामः संकर्षणः त्वया । देवक्याः गर्भ-संबंधः कुतस् देह-अन्तरम् विना ॥ ८ ॥
rohiṇyāḥ tanayaḥ proktaḥ rāmaḥ saṃkarṣaṇaḥ tvayā . devakyāḥ garbha-saṃbaṃdhaḥ kutas deha-antaram vinā .. 8 ..
कस्मात् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः । क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ ९ ॥
कस्मात् मुकुन्दः भगवान् पितुः गेहात् व्रजम् गतः । क्व वासम् ज्ञातिभिः सार्धम् कृतवान् सात्वताम् पतिः ॥ ९ ॥
kasmāt mukundaḥ bhagavān pituḥ gehāt vrajam gataḥ . kva vāsam jñātibhiḥ sārdham kṛtavān sātvatām patiḥ .. 9 ..
व्रजे वसन् किं अकरोत् मधुपुर्यां च केशवः । भ्रातरं चावधीत् कंसं मातुः अद्धा अतदर्हणम् ॥ १० ॥
व्रजे वसन् किम् अकरोत् मधुपुर्याम् च केशवः । भ्रातरम् च अवधीत् कंसम् मातुः अद्धा अ तद्-अर्हणम् ॥ १० ॥
vraje vasan kim akarot madhupuryām ca keśavaḥ . bhrātaram ca avadhīt kaṃsam mātuḥ addhā a tad-arhaṇam .. 10 ..
देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः । यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः ॥ ११ ॥
देहम् मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः । यदु-पुर्याम् सह अवात्सीत् पत्न्यः कति अभवन् प्रभोः ॥ ११ ॥
deham mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ . yadu-puryām saha avātsīt patnyaḥ kati abhavan prabhoḥ .. 11 ..
एतत् अन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् । वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥
एतत् अन्यत् च सर्वम् मे मुने कृष्ण-विचेष्टितम् । वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥
etat anyat ca sarvam me mune kṛṣṇa-viceṣṭitam . vaktum arhasi sarvajña śraddadhānāya vistṛtam .. 12 ..
नैषातिदुःसहा क्षुन्मां त्यक्तोदं अपि बाधते । पिबन्तं त्वन्मुखाम्भोज अच्युतं हरिकथामृतम् ॥ १३ ॥
न एषा अति दुःसहा क्षुध् माम् त्यक्त-उदम् अपि बाधते । पिबन्तम् त्वद्-मुख-अम्भोज अच्युतम् हरि-कथा-अमृतम् ॥ १३ ॥
na eṣā ati duḥsahā kṣudh mām tyakta-udam api bādhate . pibantam tvad-mukha-ambhoja acyutam hari-kathā-amṛtam .. 13 ..
सूत उवाच । ( वसंततिलका )
एवं निशम्य भृगुनन्दन साधुवादं । वैयासकिः स भगवान् अथ विष्णुरातम् । प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं । व्याहर्तुमारभत भागवतप्रधानः ॥ १४ ॥
एवम् निशम्य भृगुनन्दन साधुवादम् । वैयासकिः स भगवान् अथ विष्णुरातम् । प्रत्यर्च्य कृष्ण-चरितम् कलि-कल्मष-घ्नम् । व्याहर्तुम् आरभत भागवत-प्रधानः ॥ १४ ॥
evam niśamya bhṛgunandana sādhuvādam . vaiyāsakiḥ sa bhagavān atha viṣṇurātam . pratyarcya kṛṣṇa-caritam kali-kalmaṣa-ghnam . vyāhartum ārabhata bhāgavata-pradhānaḥ .. 14 ..
श्रीशुक उवाच । ( अनुष्टुप् )
सम्यग्व्यवसिता बुद्धिः तव राजर्षिसत्तम । वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५ ॥
सम्यक् व्यवसिता बुद्धिः तव राज-ऋषि-सत्तम । वासुदेव-कथायाम् ते यत् जाता नैष्ठिकी रतिः ॥ १५ ॥
samyak vyavasitā buddhiḥ tava rāja-ṛṣi-sattama . vāsudeva-kathāyām te yat jātā naiṣṭhikī ratiḥ .. 15 ..
वासुदेवकथाप्रश्नः पुरुषान् त्रीन् पुनाति हि । वक्तारं पृच्छकं श्रोतॄन् तत्पादसलिलं यथा ॥ १६ ॥
वासुदेव-कथा-प्रश्नः पुरुषान् त्रीन् पुनाति हि । वक्तारम् पृच्छकम् श्रोतॄन् तत् पाद-सलिलम् यथा ॥ १६ ॥
vāsudeva-kathā-praśnaḥ puruṣān trīn punāti hi . vaktāram pṛcchakam śrotṝn tat pāda-salilam yathā .. 16 ..
भूमिः दृप्तनृपव्याज दैत्यानीकशतायुतैः । आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७ ॥
भूमिः दृप्त-नृप-व्याज दैत्य-अनीक-शत-अयुतैः । आक्रान्ता भूरि-भारेण ब्रह्माणम् शरणम् ययौ ॥ १७ ॥
bhūmiḥ dṛpta-nṛpa-vyāja daitya-anīka-śata-ayutaiḥ . ākrāntā bhūri-bhāreṇa brahmāṇam śaraṇam yayau .. 17 ..
गौर्भूत्वा अश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं स्वं अवोचत ॥ १८ ॥
गौः भूत्वा अश्रु-मुखी खिन्ना क्रन्दन्ती करुणम् विभोः । उपस्थिता अन्तिके तस्मै व्यसनम् स्वम् अवोचत ॥ १८ ॥
gauḥ bhūtvā aśru-mukhī khinnā krandantī karuṇam vibhoḥ . upasthitā antike tasmai vyasanam svam avocata .. 18 ..
ब्रह्मा तद् उपधार्याथ सह देवैस्तया सह । जगाम स-त्रिनयनः तीरं क्षीरपयोनिधेः ॥ १९ ॥
ब्रह्मा तत् उपधार्य अथ सह देवैः तया सह । जगाम स त्रिनयनः तीरम् क्षीर-पयोनिधेः ॥ १९ ॥
brahmā tat upadhārya atha saha devaiḥ tayā saha . jagāma sa trinayanaḥ tīram kṣīra-payonidheḥ .. 19 ..
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् । पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २० ॥
तत्र गत्वा जगन्नाथम् देवदेवम् वृषाकपिम् । पुरुषम् पुरुषसूक्तेन उपतस्थे समाहितः ॥ २० ॥
tatra gatvā jagannātham devadevam vṛṣākapim . puruṣam puruṣasūktena upatasthe samāhitaḥ .. 20 ..
( वंशस्थ )
गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह । गां पौरुषीं मे श्रृणुतामराः पुनः विधीयतां आशु तथैव मा चिरम् ॥ २१ ॥
गिरम् समाधौ गगने समीरिताम् निशम्य वेधाः त्रिदशान् उवाच ह । गाम् पौरुषीम् मे श्रृणुता अमराः पुनर् विधीयताम् आशु तथा एव मा चिरम् ॥ २१ ॥
giram samādhau gagane samīritām niśamya vedhāḥ tridaśān uvāca ha . gām pauruṣīm me śrṛṇutā amarāḥ punar vidhīyatām āśu tathā eva mā ciram .. 21 ..
पुरैव पुंसा अवधृतो धराज्वरो भवद्भिः अंशैः यदुषूपजन्यताम् । स यावद् उर्व्या भरं इश्वरेश्वरः स्वकालशक्त्या क्षपयन् चरेद् भुवि ॥ २२ ॥
पुरा एव पुंसा अवधृतः धरा-ज्वरः भवद्भिः अंशैः यदुषु उपजन्यताम् । स यावत् उर्व्याः भरम् इश्वर-ईश्वरः स्व-काल-शक्त्या क्षपयन् चरेत् भुवि ॥ २२ ॥
purā eva puṃsā avadhṛtaḥ dharā-jvaraḥ bhavadbhiḥ aṃśaiḥ yaduṣu upajanyatām . sa yāvat urvyāḥ bharam iśvara-īśvaraḥ sva-kāla-śaktyā kṣapayan caret bhuvi .. 22 ..
( अनुष्टुप् )
वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्प्रियार्थं संभवन्तु सुरस्त्रियः ॥ २३ ॥
वसुदेव-गृहे साक्षात् भगवान् पुरुषः परः । जनिष्यते तद्-प्रिय-अर्थम् संभवन्तु सुर-स्त्रियः ॥ २३ ॥
vasudeva-gṛhe sākṣāt bhagavān puruṣaḥ paraḥ . janiṣyate tad-priya-artham saṃbhavantu sura-striyaḥ .. 23 ..
वासुदेवकलानन्तः सहस्रवदनः स्वराट् । अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४ ॥
। अग्रतस् भविता देवः हरेः प्रिय-चिकीर्षया ॥ २४ ॥
. agratas bhavitā devaḥ hareḥ priya-cikīrṣayā .. 24 ..
विष्णोर्माया भगवती यया सम्मोहितं जगत् । आदिष्टा प्रभुणांशेन कार्यार्थे संभविष्यति ॥ २५ ॥
विष्णोः माया भगवती यया सम्मोहितम् जगत् । आदिष्टा प्रभुणा अंशेन कार्य-अर्थे संभविष्यति ॥ २५ ॥
viṣṇoḥ māyā bhagavatī yayā sammohitam jagat . ādiṣṭā prabhuṇā aṃśena kārya-arthe saṃbhaviṣyati .. 25 ..
श्रीशुक उवाच ।
इत्यादिश्यामरगणान् प्रजापतिपतिः विभुः । आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६ ॥
इति आदिश्य अमर-गणान् प्रजापति-पतिः विभुः । आश्वास्य च महीम् गीर्भिः स्व-धाम परमम् ययौ ॥ २६ ॥
iti ādiśya amara-gaṇān prajāpati-patiḥ vibhuḥ . āśvāsya ca mahīm gīrbhiḥ sva-dhāma paramam yayau .. 26 ..
शूरसेनो यदुपतिः मथुरां आवसन् पुरीम् । माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७ ॥
शूरसेनः यदु-पतिः मथुराम् आवसन् पुरीम् । माथुरान् शूरसेनान् च विषयान् बुभुजे पुरा ॥ २७ ॥
śūrasenaḥ yadu-patiḥ mathurām āvasan purīm . māthurān śūrasenān ca viṣayān bubhuje purā .. 27 ..
राजधानी ततः साभूत् सर्वयादव भूभुजाम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८ ॥
राजधानी ततस् सा अभूत् सर्व-यादव भूभुजाम् । मथुरा भगवान् यत्र नित्यम् सन्निहितः हरिः ॥ २८ ॥
rājadhānī tatas sā abhūt sarva-yādava bhūbhujām . mathurā bhagavān yatra nityam sannihitaḥ hariḥ .. 28 ..
तस्यां तु कर्हिचित् शौरिः वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९ ॥
तस्याम् तु कर्हिचित् शौरिः वसुदेवः कृत-उद्वहः । देवक्या सूर्यया सार्धम् प्रयाणे रथम् आरुहत् ॥ २९ ॥
tasyām tu karhicit śauriḥ vasudevaḥ kṛta-udvahaḥ . devakyā sūryayā sārdham prayāṇe ratham āruhat .. 29 ..
उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया । रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥ ३० ॥
उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया । रश्मीन् हयानाम् जग्राह रौक्मैः रथ-शतैः वृतः ॥ ३० ॥
ugrasena-sutaḥ kaṃsaḥ svasuḥ priya-cikīrṣayā . raśmīn hayānām jagrāha raukmaiḥ ratha-śataiḥ vṛtaḥ .. 30 ..
चतुःशतं पारिबर्हं गजानां हेममालिनाम् । अश्वानां अयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१ ॥
चतुर्-शतम् पारिबर्हम् गजानाम् हेम-मालिनाम् । अश्वानाम् अयुतम् सार्धम् रथानाम् च त्रि-षष्-शतम् ॥ ३१ ॥
catur-śatam pāribarham gajānām hema-mālinām . aśvānām ayutam sārdham rathānām ca tri-ṣaṣ-śatam .. 31 ..
दासीनां सुकुमारीणां द्वे शते समलंकृते । दुहित्रे देवकः प्रादात् याने दुहितृवत्सलः ॥ ३२ ॥
दासीनाम् सुकुमारीणाम् द्वे शते समलंकृते । दुहित्रे देवकः प्रादात् याने दुहितृ-वत्सलः ॥ ३२ ॥
dāsīnām sukumārīṇām dve śate samalaṃkṛte . duhitre devakaḥ prādāt yāne duhitṛ-vatsalaḥ .. 32 ..
शंखतूर्यमृदंगाश्च नेदुः दुन्दुभयः समम् । प्रयाणप्रक्रमे तावत् वरवध्वोः सुमंगलम् ॥ ३३ ॥
शंख-तूर्य-मृदंगाः च नेदुः दुन्दुभयः समम् । प्रयाण-प्रक्रमे तावत् वर-वध्वोः सु मंगलम् ॥ ३३ ॥
śaṃkha-tūrya-mṛdaṃgāḥ ca neduḥ dundubhayaḥ samam . prayāṇa-prakrame tāvat vara-vadhvoḥ su maṃgalam .. 33 ..
पथि प्रग्रहिणं कंसं आभाष्य आह अशरीरवाक् । अस्यास्त्वां अष्टमो गर्भो हन्ता यां वहसे अबुध ॥ ३४ ॥
पथि प्रग्रहिणम् कंसम् आभाष्य आह अशरीर-वाच् । अस्याः त्वाम् अष्टमः गर्भः हन्ता याम् वहसे अबुध ॥ ३४ ॥
pathi pragrahiṇam kaṃsam ābhāṣya āha aśarīra-vāc . asyāḥ tvām aṣṭamaḥ garbhaḥ hantā yām vahase abudha .. 34 ..
इत्युक्तः स खलः पापो भोजानां कुलपांसनः । भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५ ॥
इति उक्तः स खलः पापः भोजानाम् कुल-पांसनः । भगिनीम् हन्तुम् आरब्धः खड्ग-पाणिः कचे अग्रहीत् ॥ ३५ ॥
iti uktaḥ sa khalaḥ pāpaḥ bhojānām kula-pāṃsanaḥ . bhaginīm hantum ārabdhaḥ khaḍga-pāṇiḥ kace agrahīt .. 35 ..
तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् । वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६ ॥
तम् जुगुप्सित-कर्माणम् नृशंसम् निरपत्रपम् । वसुदेवः महाभागः उवाच परिसान्त्वयन् ॥ ३६ ॥
tam jugupsita-karmāṇam nṛśaṃsam nirapatrapam . vasudevaḥ mahābhāgaḥ uvāca parisāntvayan .. 36 ..
श्रीवसुदेव उवाच ।
श्लाघनीयगुणः शूरैः भवान् भोज-यशस्करः । स कथं भगिनीं हन्यात् स्त्रियं उद्वाहपर्वणि ॥ ३७ ॥
श्लाघनीय-गुणः शूरैः भवान् भोज-यशस्करः । स कथम् भगिनीम् हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥ ३७ ॥
ślāghanīya-guṇaḥ śūraiḥ bhavān bhoja-yaśaskaraḥ . sa katham bhaginīm hanyāt striyam udvāha-parvaṇi .. 37 ..
मृत्युर्जन्मवतां वीर देहेन सह जायते । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८ ॥
मृत्युः जन्मवताम् वीर देहेन सह जायते । अद्य वा अब्द-शत-अन्ते वा मृत्युः वै प्राणिनाम् ध्रुवः ॥ ३८ ॥
mṛtyuḥ janmavatām vīra dehena saha jāyate . adya vā abda-śata-ante vā mṛtyuḥ vai prāṇinām dhruvaḥ .. 38 ..
देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः । देहान्तरं अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥
देहे पञ्चत्वम् आपन्ने देही कर्म-अनुगः अवशः । देह-अन्तरम् अनुप्राप्य प्राक्तनम् त्यजते वपुः ॥ ३९ ॥
dehe pañcatvam āpanne dehī karma-anugaḥ avaśaḥ . deha-antaram anuprāpya prāktanam tyajate vapuḥ .. 39 ..
व्रजन् तिष्ठन् पदैकेन यथैवैकेन गच्छति । यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४० ॥
व्रजन् तिष्ठन् पदा एकेन यथा एव एकेन गच्छति । यथा तृण-जलूका एवम् देही कर्म-गतिम् गतः ॥ ४० ॥
vrajan tiṣṭhan padā ekena yathā eva ekena gacchati . yathā tṛṇa-jalūkā evam dehī karma-gatim gataḥ .. 40 ..
( इंद्रवंशा )
स्वप्ने यथा पश्यति देहमीदृशं मनोरथेन अभिनिविष्टचेतनः । दृष्टश्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
स्वप्ने यथा पश्यति देहम् ईदृशम् मनोरथेन अभिनिविष्ट-चेतनः । दृष्ट-श्रुताभ्याम् मनसा अनुचिन्तयन् प्रपद्यते तत् किम् अपि हि अपस्मृतिः ॥ ४१ ॥
svapne yathā paśyati deham īdṛśam manorathena abhiniviṣṭa-cetanaḥ . dṛṣṭa-śrutābhyām manasā anucintayan prapadyate tat kim api hi apasmṛtiḥ .. 41 ..
यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु । गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
यतस् यतस् धावति दैव-चोदितम् मनः विकार-आत्मकम् आप पञ्चसु । गुणेषु माया-रचितेषु देही असौ प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
yatas yatas dhāvati daiva-coditam manaḥ vikāra-ātmakam āpa pañcasu . guṇeṣu māyā-raciteṣu dehī asau prapadyamānaḥ saha tena jāyate .. 42 ..
ज्योतिर्यथैव उदकपार्थिवेष्वदः । समीरवेगानुगतं विभाव्यते । एवं स्वमायारचितेष्वसौ पुमान् । गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥
ज्योतिः यथा एव उदक-पार्थिवेषु अदः । समीर-वेग-अनुगतम् विभाव्यते । एवम् स्व-माया-रचितेषु असौ पुमान् । गुणेषु राग-अनुगतः विमुह्यति ॥ ४३ ॥
jyotiḥ yathā eva udaka-pārthiveṣu adaḥ . samīra-vega-anugatam vibhāvyate . evam sva-māyā-raciteṣu asau pumān . guṇeṣu rāga-anugataḥ vimuhyati .. 43 ..
( अनुष्टुप् )
तस्मात् न कस्यचिद् द्रोहं आचरेत् स तथाविधः । आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥
तस्मात् न कस्यचिद् द्रोहम् आचरेत् स तथाविधः । आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुः वै परतस् भयम् ॥ ४४ ॥
tasmāt na kasyacid droham ācaret sa tathāvidhaḥ . ātmanaḥ kṣemam anvicchan drogdhuḥ vai paratas bhayam .. 44 ..
एषा तव अनुजा बाला कृपणा पुत्रिकोपमा । हन्तुं नार्हसि कल्याणीं इमां त्वं दीनवत्सलः ॥ ४५ ॥
एषा तव अनुजा बाला कृपणा पुत्रिका-उपमा । हन्तुम् ना अर्हसि कल्याणीम् इमाम् त्वम् दीन-वत्सलः ॥ ४५ ॥
eṣā tava anujā bālā kṛpaṇā putrikā-upamā . hantum nā arhasi kalyāṇīm imām tvam dīna-vatsalaḥ .. 45 ..
श्रीशुक उवाच ।
एवं स सामभिर्भेदैः बोध्यमानोऽपि दारुणः । न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ ४६ ॥
एवम् स सामभिः भेदैः बोध्यमानः अपि दारुणः । न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ ४६ ॥
evam sa sāmabhiḥ bhedaiḥ bodhyamānaḥ api dāruṇaḥ . na nyavartata kauravya puruṣādān anuvrataḥ .. 46 ..
निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः । प्राप्तं कालं प्रतिव्योढुं इदं तत्रान्वपद्यत ॥ ४७ ॥
निर्बन्धम् तस्य तम् ज्ञात्वा विचिन्त्य आनकदुन्दुभिः । प्राप्तम् कालम् प्रतिव्योढुम् इदम् तत्र अन्वपद्यत ॥ ४७ ॥
nirbandham tasya tam jñātvā vicintya ānakadundubhiḥ . prāptam kālam prativyoḍhum idam tatra anvapadyata .. 47 ..
मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् । यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८ ॥
मृत्युः बुद्धिमता अपोह्यः यावत् बुद्धि-बल-उदयम् । यदि असौ न निवर्तेत न अपराधः अस्ति देहिनः ॥ ४८ ॥
mṛtyuḥ buddhimatā apohyaḥ yāvat buddhi-bala-udayam . yadi asau na nivarteta na aparādhaḥ asti dehinaḥ .. 48 ..
प्रदाय मृत्यवे पुत्रान् मोचये कृपणां इमाम् । सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९ ॥
प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् । सुताः मे यदि जायेरन् मृत्युः वा न म्रियेत चेद् ॥ ४९ ॥
pradāya mṛtyave putrān mocaye kṛpaṇām imām . sutāḥ me yadi jāyeran mṛtyuḥ vā na mriyeta ced .. 49 ..
विपर्ययो वा किं न स्याद् गतिर्धातुः[1] दुरत्यया । उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥
विपर्ययः वा किम् न स्यात् गतिः धातुः[१] दुरत्यया । उपस्थितः निवर्तेत निवृत्तः पुनर् आपतेत् ॥ ५० ॥
viparyayaḥ vā kim na syāt gatiḥ dhātuḥ[1] duratyayā . upasthitaḥ nivarteta nivṛttaḥ punar āpatet .. 50 ..
( मिश्र )
अग्नेर्यथा दारुवियोगयोगयोः अदृष्टतोऽन्यन्न निमित्तमस्ति । एवं हि जन्तोरपि दुर्विभाव्यः शरीर संयोगवियोगहेतुः ॥ ५१ ॥
अग्नेः यथा दारु-वियोग-योगयोः अदृष्टतः अन्यत् न निमित्तम् अस्ति । एवम् हि जन्तोः अपि दुर्विभाव्यः शरीर-संयोग-वियोग-हेतुः ॥ ५१ ॥
agneḥ yathā dāru-viyoga-yogayoḥ adṛṣṭataḥ anyat na nimittam asti . evam hi jantoḥ api durvibhāvyaḥ śarīra-saṃyoga-viyoga-hetuḥ .. 51 ..
( अनुष्टुप् )
एवं विमृश्य तं पापं यावद् आत्मनिदर्शनम् । पूजयामास वै शौरिः बहुमानपुरःसरम् ॥ ५२ ॥
एवम् विमृश्य तम् पापम् यावत् आत्म-निदर्शनम् । पूजयामास वै शौरिः बहु-मान-पुरःसरम् ॥ ५२ ॥
evam vimṛśya tam pāpam yāvat ātma-nidarśanam . pūjayāmāsa vai śauriḥ bahu-māna-puraḥsaram .. 52 ..
प्रसन्न वदनाम्भोजो नृशंसं निरपत्रपम् । मनसा दूयमानेन विहसन् इदमब्रवीत् ॥ ५३ ॥
वदन-अम्भोजः नृशंसम् निरपत्रपम् । मनसा दूयमानेन विहसन् इदम् अब्रवीत् ॥ ५३ ॥
vadana-ambhojaḥ nṛśaṃsam nirapatrapam . manasā dūyamānena vihasan idam abravīt .. 53 ..
श्रीवसुदेव उवाच ।
न ह्यस्यास्ते भयं सौम्य यद् वाक् आहाशरीरिणी । पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४ ॥
न हि अस्याः ते भयम् सौम्य यत् वाच् आह अशरीरिणी । पुत्रान् समर्पयिष्ये अस्याः यतस् ते भयम् उत्थितम् ॥ ५४ ॥
na hi asyāḥ te bhayam saumya yat vāc āha aśarīriṇī . putrān samarpayiṣye asyāḥ yatas te bhayam utthitam .. 54 ..
श्रीशुक उवाच ।
स्वसुर्वधात् निववृते कंसः तद्वाक्यसारवित् । वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ ५५ ॥
स्वसुः वधात् निववृते कंसः तद्-वाक्य-सार-विद् । वसुदेवः अपि तम् प्रीतः प्रशस्य प्राविशत् गृहम् ॥ ५५ ॥
svasuḥ vadhāt nivavṛte kaṃsaḥ tad-vākya-sāra-vid . vasudevaḥ api tam prītaḥ praśasya prāviśat gṛham .. 55 ..
अथ काल उपावृत्ते देवकी सर्वदेवता । पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६ ॥
अथ काले उपावृत्ते देवकी सर्व-देवता । पुत्रान् प्रसुषुवे च अष्टौ कन्याम् च एव अनुवत्सरम् ॥ ५६ ॥
atha kāle upāvṛtte devakī sarva-devatā . putrān prasuṣuve ca aṣṭau kanyām ca eva anuvatsaram .. 56 ..
कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः । अर्पयामास कृच्छ्रेण सोऽनृताद् अतिविह्वलः ॥ ५७ ॥
कीर्तिमन्तम् प्रथम-जम् कंसाय आनकदुन्दुभिः । अर्पयामास कृच्छ्रेण सः अनृतात् अति विह्वलः ॥ ५७ ॥
kīrtimantam prathama-jam kaṃsāya ānakadundubhiḥ . arpayāmāsa kṛcchreṇa saḥ anṛtāt ati vihvalaḥ .. 57 ..
किं दुःसहं नु साधूनां विदुषां किं अपेक्षितम् । किं अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८ ॥
किम् दुःसहम् नु साधूनाम् विदुषाम् किम् अपेक्षितम् । किम् अकार्यम् कदर्याणाम् दुस्त्यजम् किम् धृत-आत्मनाम् ॥ ५८ ॥
kim duḥsaham nu sādhūnām viduṣām kim apekṣitam . kim akāryam kadaryāṇām dustyajam kim dhṛta-ātmanām .. 58 ..
दृष्ट्वा समत्वं तत् शौरेः सत्ये चैव व्यवस्थितिम् । कंसस्तुष्टमना राजन् प्रहसन् इदमब्रवीत् ॥ ५९ ॥
दृष्ट्वा सम-त्वम् तत् शौरेः सत्ये च एव व्यवस्थितिम् । कंसः तुष्ट-मनाः राजन् प्रहसन् इदम् अब्रवीत् ॥ ५९ ॥
dṛṣṭvā sama-tvam tat śaureḥ satye ca eva vyavasthitim . kaṃsaḥ tuṣṭa-manāḥ rājan prahasan idam abravīt .. 59 ..
प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् । अष्टमाद् युवयोर्गर्भान् मृत्युर्मे विहितः किल ॥ ६० ॥
प्रतियातु कुमारः अयम् न हि अस्मात् अस्ति मे भयम् । अष्टमात् युवयोः गर्भात् मृत्युः मे विहितः किल ॥ ६० ॥
pratiyātu kumāraḥ ayam na hi asmāt asti me bhayam . aṣṭamāt yuvayoḥ garbhāt mṛtyuḥ me vihitaḥ kila .. 60 ..
तथेति सुतमादाय ययौ आनकदुन्दुभिः । नाभ्यनन्दत तद्वाक्यं असतोऽविजितात्मनः ॥ ६१ ॥
तथा इति सुतम् आदाय ययौ आनकदुन्दुभिः । न अभ्यनन्दत तत् वाक्यम् असतः अविजित-आत्मनः ॥ ६१ ॥
tathā iti sutam ādāya yayau ānakadundubhiḥ . na abhyanandata tat vākyam asataḥ avijita-ātmanaḥ .. 61 ..
नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२ ॥
नन्द-आद्याः ये व्रजे गोपाः याः च अमीषाम् च योषितः । वृष्णयः वसुदेव-आद्याः देवकी-आद्याः यदु-स्त्रियः ॥ ६२ ॥
nanda-ādyāḥ ye vraje gopāḥ yāḥ ca amīṣām ca yoṣitaḥ . vṛṣṇayaḥ vasudeva-ādyāḥ devakī-ādyāḥ yadu-striyaḥ .. 62 ..
सर्वे वै देवताप्राया उभयोरपि भारत । ज्ञातयो बन्धुसुहृदो ये च कंसं अनुव्रताः ॥ ६३ ॥
सर्वे वै देवता-प्रायाः उभयोः अपि भारत । ज्ञातयः बन्धु-सुहृदः ये च कंसम् अनुव्रताः ॥ ६३ ॥
sarve vai devatā-prāyāḥ ubhayoḥ api bhārata . jñātayaḥ bandhu-suhṛdaḥ ye ca kaṃsam anuvratāḥ .. 63 ..
एतत् कंसाय भगवान् शशंसाभ्येत्य नारदः । भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४ ॥
एतत् कंसाय भगवान् शशंस अभ्येत्य नारदः । भूमेः भारायमाणानाम् दैत्यानाम् च वध-उद्यमम् ॥ ६४ ॥
etat kaṃsāya bhagavān śaśaṃsa abhyetya nāradaḥ . bhūmeḥ bhārāyamāṇānām daityānām ca vadha-udyamam .. 64 ..
ऋषेः विनिर्गमे कंसो यदून् मत्वा सुरान् इति । देवक्या गर्भसंभूतं विष्णुं च स्ववधं प्रति ॥ ६५ ॥
ऋषेः विनिर्गमे कंसः यदून् मत्वा सुरान् इति । देवक्याः गर्भ-संभूतम् विष्णुम् च स्व-वधम् प्रति ॥ ६५ ॥
ṛṣeḥ vinirgame kaṃsaḥ yadūn matvā surān iti . devakyāḥ garbha-saṃbhūtam viṣṇum ca sva-vadham prati .. 65 ..
देवकीं वसुदेवं च निगृह्य निगडैर्गृहे । जातं जातं अहन् पुत्रं तयोः अजनशंकया ॥ ६६ ॥
देवकीम् वसुदेवम् च निगृह्य निगडैः गृहे । जातम् जातम् अहन् पुत्रम् तयोः अजन-शंकया ॥ ६६ ॥
devakīm vasudevam ca nigṛhya nigaḍaiḥ gṛhe . jātam jātam ahan putram tayoḥ ajana-śaṃkayā .. 66 ..
मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा । घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ ६७ ॥
मातरम् पितरम् भ्रातॄन् सर्वान् च सुहृदः तथा । घ्नन्ति हि असुतृपः लुब्धाः राजानः प्रायशस् भुवि ॥ ६७ ॥
mātaram pitaram bhrātṝn sarvān ca suhṛdaḥ tathā . ghnanti hi asutṛpaḥ lubdhāḥ rājānaḥ prāyaśas bhuvi .. 67 ..
आत्मानं इह सञ्जातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ ६८ ॥
आत्मानम् इह सञ्जातम् जानन् प्राक् विष्णुना हतम् । महा-असुरम् कालनेमिम् यदुभिः स व्यरुध्यत ॥ ६८ ॥
ātmānam iha sañjātam jānan prāk viṣṇunā hatam . mahā-asuram kālanemim yadubhiḥ sa vyarudhyata .. 68 ..
उग्रसेनं च पितरं यदुभोजान्धकाधिपम् । स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ॥ ६९ ॥
उग्रसेनम् च पितरम् यदु-भोज-अन्धक-अधिपम् । स्वयम् निगृह्य बुभुजे शूरसेनात् महा-बलः ॥ ६९ ॥
ugrasenam ca pitaram yadu-bhoja-andhaka-adhipam . svayam nigṛhya bubhuje śūrasenāt mahā-balaḥ .. 69 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रथमोध्याऽयः ॥ १ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे प्रथम-उध्या-अयः ॥ १ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe prathama-udhyā-ayaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In