| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच ।
कथितो वंशविस्तारो भवता सोमसूर्ययोः । राज्ञां च उभयवंश्यानां चरितं परमाद्भुतम् ॥ १ ॥
kathito vaṃśavistāro bhavatā somasūryayoḥ . rājñāṃ ca ubhayavaṃśyānāṃ caritaṃ paramādbhutam .. 1 ..
( अनुष्टुप् )
यदोश्च धर्मशीलस्य नितरां मुनिसत्तम । तत्रांशेन अवतीर्णस्य विष्णोर्वीर्याणि शंस नः ॥ २ ॥
yadośca dharmaśīlasya nitarāṃ munisattama . tatrāṃśena avatīrṇasya viṣṇorvīryāṇi śaṃsa naḥ .. 2 ..
अवतीर्य यदोर्वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ ३ ॥
avatīrya yadorvaṃśe bhagavān bhūtabhāvanaḥ . kṛtavān yāni viśvātmā tāni no vada vistarāt .. 3 ..
( उपेंद्रवज्रा )
निवृत्ततर्षैः उपगीयमानाद् भवौषधात् श्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ ४ ॥
nivṛttatarṣaiḥ upagīyamānād bhavauṣadhāt śrotramano'bhirāmāt . ka uttamaślokaguṇānuvādāt pumān virajyeta vinā paśughnāt .. 4 ..
( वंशस्थ )
पितामहा मे समरेऽमरञ्जयैः देवव्रताद्यातिरथैस्तिमिङ्गिलैः । दुरत्ययं कौरवसैन्यसागरं कृत्वातरन् वत्सपदं स्म यत्प्लवाः ॥ ५ ॥
pitāmahā me samare'marañjayaiḥ devavratādyātirathaistimiṅgilaiḥ . duratyayaṃ kauravasainyasāgaraṃ kṛtvātaran vatsapadaṃ sma yatplavāḥ .. 5 ..
( इंद्रवज्रा )
द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानाम् । जुगोप कुक्षिं गत आत्तचक्रो मातुश्च मे यः शरणं गतायाः ॥ ६ ॥
drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām . jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ .. 6 ..
वीर्याणि तस्याखिलदेहभाजां अन्तर्बहिः पूरुषकालरूपैः । प्रयच्छतो मृत्युमुतामृतं च मायामनुष्यस्य वदस्व विद्वन् ॥ ७ ॥
vīryāṇi tasyākhiladehabhājāṃ antarbahiḥ pūruṣakālarūpaiḥ . prayacchato mṛtyumutāmṛtaṃ ca māyāmanuṣyasya vadasva vidvan .. 7 ..
( अनुष्टुप् )
रोहिण्यास्तनयः प्रोक्तो रामः संकर्षणस्त्वया । देवक्या गर्भसंबंधः कुतो देहान्तरं विना ॥ ८ ॥
rohiṇyāstanayaḥ prokto rāmaḥ saṃkarṣaṇastvayā . devakyā garbhasaṃbaṃdhaḥ kuto dehāntaraṃ vinā .. 8 ..
कस्मात् मुकुन्दो भगवान् पितुर्गेहाद् व्रजं गतः । क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ ९ ॥
kasmāt mukundo bhagavān piturgehād vrajaṃ gataḥ . kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavān sātvatāṃ patiḥ .. 9 ..
व्रजे वसन् किं अकरोत् मधुपुर्यां च केशवः । भ्रातरं चावधीत् कंसं मातुः अद्धा अतदर्हणम् ॥ १० ॥
vraje vasan kiṃ akarot madhupuryāṃ ca keśavaḥ . bhrātaraṃ cāvadhīt kaṃsaṃ mātuḥ addhā atadarhaṇam .. 10 ..
देहं मानुषमाश्रित्य कति वर्षाणि वृष्णिभिः । यदुपुर्यां सहावात्सीत् पत्न्यः कत्यभवन् प्रभोः ॥ ११ ॥
dehaṃ mānuṣamāśritya kati varṣāṇi vṛṣṇibhiḥ . yadupuryāṃ sahāvātsīt patnyaḥ katyabhavan prabhoḥ .. 11 ..
एतत् अन्यच्च सर्वं मे मुने कृष्णविचेष्टितम् । वक्तुमर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ १२ ॥
etat anyacca sarvaṃ me mune kṛṣṇaviceṣṭitam . vaktumarhasi sarvajña śraddadhānāya vistṛtam .. 12 ..
नैषातिदुःसहा क्षुन्मां त्यक्तोदं अपि बाधते । पिबन्तं त्वन्मुखाम्भोज अच्युतं हरिकथामृतम् ॥ १३ ॥
naiṣātiduḥsahā kṣunmāṃ tyaktodaṃ api bādhate . pibantaṃ tvanmukhāmbhoja acyutaṃ harikathāmṛtam .. 13 ..
सूत उवाच । ( वसंततिलका )
एवं निशम्य भृगुनन्दन साधुवादं । वैयासकिः स भगवान् अथ विष्णुरातम् । प्रत्यर्च्य कृष्णचरितं कलिकल्मषघ्नं । व्याहर्तुमारभत भागवतप्रधानः ॥ १४ ॥
evaṃ niśamya bhṛgunandana sādhuvādaṃ . vaiyāsakiḥ sa bhagavān atha viṣṇurātam . pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ . vyāhartumārabhata bhāgavatapradhānaḥ .. 14 ..
श्रीशुक उवाच । ( अनुष्टुप् )
सम्यग्व्यवसिता बुद्धिः तव राजर्षिसत्तम । वासुदेवकथायां ते यज्जाता नैष्ठिकी रतिः ॥ १५ ॥
samyagvyavasitā buddhiḥ tava rājarṣisattama . vāsudevakathāyāṃ te yajjātā naiṣṭhikī ratiḥ .. 15 ..
वासुदेवकथाप्रश्नः पुरुषान् त्रीन् पुनाति हि । वक्तारं पृच्छकं श्रोतॄन् तत्पादसलिलं यथा ॥ १६ ॥
vāsudevakathāpraśnaḥ puruṣān trīn punāti hi . vaktāraṃ pṛcchakaṃ śrotṝn tatpādasalilaṃ yathā .. 16 ..
भूमिः दृप्तनृपव्याज दैत्यानीकशतायुतैः । आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥ १७ ॥
bhūmiḥ dṛptanṛpavyāja daityānīkaśatāyutaiḥ . ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau .. 17 ..
गौर्भूत्वा अश्रुमुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं स्वं अवोचत ॥ १८ ॥
gaurbhūtvā aśrumukhī khinnā krandantī karuṇaṃ vibhoḥ . upasthitāntike tasmai vyasanaṃ svaṃ avocata .. 18 ..
ब्रह्मा तद् उपधार्याथ सह देवैस्तया सह । जगाम स-त्रिनयनः तीरं क्षीरपयोनिधेः ॥ १९ ॥
brahmā tad upadhāryātha saha devaistayā saha . jagāma sa-trinayanaḥ tīraṃ kṣīrapayonidheḥ .. 19 ..
तत्र गत्वा जगन्नाथं देवदेवं वृषाकपिम् । पुरुषं पुरुषसूक्तेन उपतस्थे समाहितः ॥ २० ॥
tatra gatvā jagannāthaṃ devadevaṃ vṛṣākapim . puruṣaṃ puruṣasūktena upatasthe samāhitaḥ .. 20 ..
( वंशस्थ )
गिरं समाधौ गगने समीरितां निशम्य वेधास्त्रिदशानुवाच ह । गां पौरुषीं मे श्रृणुतामराः पुनः विधीयतां आशु तथैव मा चिरम् ॥ २१ ॥
giraṃ samādhau gagane samīritāṃ niśamya vedhāstridaśānuvāca ha . gāṃ pauruṣīṃ me śrṛṇutāmarāḥ punaḥ vidhīyatāṃ āśu tathaiva mā ciram .. 21 ..
पुरैव पुंसा अवधृतो धराज्वरो भवद्भिः अंशैः यदुषूपजन्यताम् । स यावद् उर्व्या भरं इश्वरेश्वरः स्वकालशक्त्या क्षपयन् चरेद् भुवि ॥ २२ ॥
puraiva puṃsā avadhṛto dharājvaro bhavadbhiḥ aṃśaiḥ yaduṣūpajanyatām . sa yāvad urvyā bharaṃ iśvareśvaraḥ svakālaśaktyā kṣapayan cared bhuvi .. 22 ..
( अनुष्टुप् )
वसुदेवगृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्प्रियार्थं संभवन्तु सुरस्त्रियः ॥ २३ ॥
vasudevagṛhe sākṣād bhagavān puruṣaḥ paraḥ . janiṣyate tatpriyārthaṃ saṃbhavantu surastriyaḥ .. 23 ..
वासुदेवकलानन्तः सहस्रवदनः स्वराट् । अग्रतो भविता देवो हरेः प्रियचिकीर्षया ॥ २४ ॥
vāsudevakalānantaḥ sahasravadanaḥ svarāṭ . agrato bhavitā devo hareḥ priyacikīrṣayā .. 24 ..
विष्णोर्माया भगवती यया सम्मोहितं जगत् । आदिष्टा प्रभुणांशेन कार्यार्थे संभविष्यति ॥ २५ ॥
viṣṇormāyā bhagavatī yayā sammohitaṃ jagat . ādiṣṭā prabhuṇāṃśena kāryārthe saṃbhaviṣyati .. 25 ..
श्रीशुक उवाच ।
इत्यादिश्यामरगणान् प्रजापतिपतिः विभुः । आश्वास्य च महीं गीर्भिः स्वधाम परमं ययौ ॥ २६ ॥
ityādiśyāmaragaṇān prajāpatipatiḥ vibhuḥ . āśvāsya ca mahīṃ gīrbhiḥ svadhāma paramaṃ yayau .. 26 ..
शूरसेनो यदुपतिः मथुरां आवसन् पुरीम् । माथुरान् शूरसेनांश्च विषयान् बुभुजे पुरा ॥ २७ ॥
śūraseno yadupatiḥ mathurāṃ āvasan purīm . māthurān śūrasenāṃśca viṣayān bubhuje purā .. 27 ..
राजधानी ततः साभूत् सर्वयादव भूभुजाम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ २८ ॥
rājadhānī tataḥ sābhūt sarvayādava bhūbhujām . mathurā bhagavān yatra nityaṃ sannihito hariḥ .. 28 ..
तस्यां तु कर्हिचित् शौरिः वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ॥ २९ ॥
tasyāṃ tu karhicit śauriḥ vasudevaḥ kṛtodvahaḥ . devakyā sūryayā sārdhaṃ prayāṇe rathamāruhat .. 29 ..
उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया । रश्मीन् हयानां जग्राह रौक्मै रथशतैर्वृतः ॥ ३० ॥
ugrasenasutaḥ kaṃsaḥ svasuḥ priyacikīrṣayā . raśmīn hayānāṃ jagrāha raukmai rathaśatairvṛtaḥ .. 30 ..
चतुःशतं पारिबर्हं गजानां हेममालिनाम् । अश्वानां अयुतं सार्धं रथानां च त्रिषट्शतम् ॥ ३१ ॥
catuḥśataṃ pāribarhaṃ gajānāṃ hemamālinām . aśvānāṃ ayutaṃ sārdhaṃ rathānāṃ ca triṣaṭśatam .. 31 ..
दासीनां सुकुमारीणां द्वे शते समलंकृते । दुहित्रे देवकः प्रादात् याने दुहितृवत्सलः ॥ ३२ ॥
dāsīnāṃ sukumārīṇāṃ dve śate samalaṃkṛte . duhitre devakaḥ prādāt yāne duhitṛvatsalaḥ .. 32 ..
शंखतूर्यमृदंगाश्च नेदुः दुन्दुभयः समम् । प्रयाणप्रक्रमे तावत् वरवध्वोः सुमंगलम् ॥ ३३ ॥
śaṃkhatūryamṛdaṃgāśca neduḥ dundubhayaḥ samam . prayāṇaprakrame tāvat varavadhvoḥ sumaṃgalam .. 33 ..
पथि प्रग्रहिणं कंसं आभाष्य आह अशरीरवाक् । अस्यास्त्वां अष्टमो गर्भो हन्ता यां वहसे अबुध ॥ ३४ ॥
pathi pragrahiṇaṃ kaṃsaṃ ābhāṣya āha aśarīravāk . asyāstvāṃ aṣṭamo garbho hantā yāṃ vahase abudha .. 34 ..
इत्युक्तः स खलः पापो भोजानां कुलपांसनः । भगिनीं हन्तुमारब्धः खड्गपाणिः कचेऽग्रहीत् ॥ ३५ ॥
ityuktaḥ sa khalaḥ pāpo bhojānāṃ kulapāṃsanaḥ . bhaginīṃ hantumārabdhaḥ khaḍgapāṇiḥ kace'grahīt .. 35 ..
तं जुगुप्सितकर्माणं नृशंसं निरपत्रपम् । वसुदेवो महाभाग उवाच परिसान्त्वयन् ॥ ३६ ॥
taṃ jugupsitakarmāṇaṃ nṛśaṃsaṃ nirapatrapam . vasudevo mahābhāga uvāca parisāntvayan .. 36 ..
श्रीवसुदेव उवाच ।
श्लाघनीयगुणः शूरैः भवान् भोज-यशस्करः । स कथं भगिनीं हन्यात् स्त्रियं उद्वाहपर्वणि ॥ ३७ ॥
ślāghanīyaguṇaḥ śūraiḥ bhavān bhoja-yaśaskaraḥ . sa kathaṃ bhaginīṃ hanyāt striyaṃ udvāhaparvaṇi .. 37 ..
मृत्युर्जन्मवतां वीर देहेन सह जायते । अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ३८ ॥
mṛtyurjanmavatāṃ vīra dehena saha jāyate . adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ .. 38 ..
देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः । देहान्तरं अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ ३९ ॥
dehe pañcatvamāpanne dehī karmānugo'vaśaḥ . dehāntaraṃ anuprāpya prāktanaṃ tyajate vapuḥ .. 39 ..
व्रजन् तिष्ठन् पदैकेन यथैवैकेन गच्छति । यथा तृणजलूकैवं देही कर्मगतिं गतः ॥ ४० ॥
vrajan tiṣṭhan padaikena yathaivaikena gacchati . yathā tṛṇajalūkaivaṃ dehī karmagatiṃ gataḥ .. 40 ..
( इंद्रवंशा )
स्वप्ने यथा पश्यति देहमीदृशं मनोरथेन अभिनिविष्टचेतनः । दृष्टश्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किमपि ह्यपस्मृतिः ॥ ४१ ॥
svapne yathā paśyati dehamīdṛśaṃ manorathena abhiniviṣṭacetanaḥ . dṛṣṭaśrutābhyāṃ manasānucintayan prapadyate tat kimapi hyapasmṛtiḥ .. 41 ..
यतो यतो धावति दैवचोदितं मनो विकारात्मकमाप पञ्चसु । गुणेषु मायारचितेषु देह्यसौ प्रपद्यमानः सह तेन जायते ॥ ४२ ॥
yato yato dhāvati daivacoditaṃ mano vikārātmakamāpa pañcasu . guṇeṣu māyāraciteṣu dehyasau prapadyamānaḥ saha tena jāyate .. 42 ..
ज्योतिर्यथैव उदकपार्थिवेष्वदः । समीरवेगानुगतं विभाव्यते । एवं स्वमायारचितेष्वसौ पुमान् । गुणेषु रागानुगतो विमुह्यति ॥ ४३ ॥
jyotiryathaiva udakapārthiveṣvadaḥ . samīravegānugataṃ vibhāvyate . evaṃ svamāyāraciteṣvasau pumān . guṇeṣu rāgānugato vimuhyati .. 43 ..
( अनुष्टुप् )
तस्मात् न कस्यचिद् द्रोहं आचरेत् स तथाविधः । आत्मनः क्षेममन्विच्छन् द्रोग्धुर्वै परतो भयम् ॥ ४४ ॥
tasmāt na kasyacid drohaṃ ācaret sa tathāvidhaḥ . ātmanaḥ kṣemamanvicchan drogdhurvai parato bhayam .. 44 ..
एषा तव अनुजा बाला कृपणा पुत्रिकोपमा । हन्तुं नार्हसि कल्याणीं इमां त्वं दीनवत्सलः ॥ ४५ ॥
eṣā tava anujā bālā kṛpaṇā putrikopamā . hantuṃ nārhasi kalyāṇīṃ imāṃ tvaṃ dīnavatsalaḥ .. 45 ..
श्रीशुक उवाच ।
एवं स सामभिर्भेदैः बोध्यमानोऽपि दारुणः । न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ ४६ ॥
evaṃ sa sāmabhirbhedaiḥ bodhyamāno'pi dāruṇaḥ . na nyavartata kauravya puruṣādān anuvrataḥ .. 46 ..
निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः । प्राप्तं कालं प्रतिव्योढुं इदं तत्रान्वपद्यत ॥ ४७ ॥
nirbandhaṃ tasya taṃ jñātvā vicintyānakadundubhiḥ . prāptaṃ kālaṃ prativyoḍhuṃ idaṃ tatrānvapadyata .. 47 ..
मृत्युर्बुद्धिमतापोह्यो यावद्बुद्धिबलोदयम् । यद्यसौ न निवर्तेत नापराधोऽस्ति देहिनः ॥ ४८ ॥
mṛtyurbuddhimatāpohyo yāvadbuddhibalodayam . yadyasau na nivarteta nāparādho'sti dehinaḥ .. 48 ..
प्रदाय मृत्यवे पुत्रान् मोचये कृपणां इमाम् । सुता मे यदि जायेरन् मृत्युर्वा न म्रियेत चेत् ॥ ४९ ॥
pradāya mṛtyave putrān mocaye kṛpaṇāṃ imām . sutā me yadi jāyeran mṛtyurvā na mriyeta cet .. 49 ..
विपर्ययो वा किं न स्याद् गतिर्धातुः[1] दुरत्यया । उपस्थितो निवर्तेत निवृत्तः पुनरापतेत् ॥ ५० ॥
viparyayo vā kiṃ na syād gatirdhātuḥ[1] duratyayā . upasthito nivarteta nivṛttaḥ punarāpatet .. 50 ..
( मिश्र )
अग्नेर्यथा दारुवियोगयोगयोः अदृष्टतोऽन्यन्न निमित्तमस्ति । एवं हि जन्तोरपि दुर्विभाव्यः शरीर संयोगवियोगहेतुः ॥ ५१ ॥
agneryathā dāruviyogayogayoḥ adṛṣṭato'nyanna nimittamasti . evaṃ hi jantorapi durvibhāvyaḥ śarīra saṃyogaviyogahetuḥ .. 51 ..
( अनुष्टुप् )
एवं विमृश्य तं पापं यावद् आत्मनिदर्शनम् । पूजयामास वै शौरिः बहुमानपुरःसरम् ॥ ५२ ॥
evaṃ vimṛśya taṃ pāpaṃ yāvad ātmanidarśanam . pūjayāmāsa vai śauriḥ bahumānapuraḥsaram .. 52 ..
प्रसन्न वदनाम्भोजो नृशंसं निरपत्रपम् । मनसा दूयमानेन विहसन् इदमब्रवीत् ॥ ५३ ॥
prasanna vadanāmbhojo nṛśaṃsaṃ nirapatrapam . manasā dūyamānena vihasan idamabravīt .. 53 ..
श्रीवसुदेव उवाच ।
न ह्यस्यास्ते भयं सौम्य यद् वाक् आहाशरीरिणी । पुत्रान् समर्पयिष्येऽस्या यतस्ते भयमुत्थितम् ॥ ५४ ॥
na hyasyāste bhayaṃ saumya yad vāk āhāśarīriṇī . putrān samarpayiṣye'syā yataste bhayamutthitam .. 54 ..
श्रीशुक उवाच ।
स्वसुर्वधात् निववृते कंसः तद्वाक्यसारवित् । वसुदेवोऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ ५५ ॥
svasurvadhāt nivavṛte kaṃsaḥ tadvākyasāravit . vasudevo'pi taṃ prītaḥ praśasya prāviśad gṛham .. 55 ..
अथ काल उपावृत्ते देवकी सर्वदेवता । पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् ॥ ५६ ॥
atha kāla upāvṛtte devakī sarvadevatā . putrān prasuṣuve cāṣṭau kanyāṃ caivānuvatsaram .. 56 ..
कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः । अर्पयामास कृच्छ्रेण सोऽनृताद् अतिविह्वलः ॥ ५७ ॥
kīrtimantaṃ prathamajaṃ kaṃsāyānakadundubhiḥ . arpayāmāsa kṛcchreṇa so'nṛtād ativihvalaḥ .. 57 ..
किं दुःसहं नु साधूनां विदुषां किं अपेक्षितम् । किं अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ ५८ ॥
kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kiṃ apekṣitam . kiṃ akāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām .. 58 ..
दृष्ट्वा समत्वं तत् शौरेः सत्ये चैव व्यवस्थितिम् । कंसस्तुष्टमना राजन् प्रहसन् इदमब्रवीत् ॥ ५९ ॥
dṛṣṭvā samatvaṃ tat śaureḥ satye caiva vyavasthitim . kaṃsastuṣṭamanā rājan prahasan idamabravīt .. 59 ..
प्रतियातु कुमारोऽयं न ह्यस्मादस्ति मे भयम् । अष्टमाद् युवयोर्गर्भान् मृत्युर्मे विहितः किल ॥ ६० ॥
pratiyātu kumāro'yaṃ na hyasmādasti me bhayam . aṣṭamād yuvayorgarbhān mṛtyurme vihitaḥ kila .. 60 ..
तथेति सुतमादाय ययौ आनकदुन्दुभिः । नाभ्यनन्दत तद्वाक्यं असतोऽविजितात्मनः ॥ ६१ ॥
tatheti sutamādāya yayau ānakadundubhiḥ . nābhyanandata tadvākyaṃ asato'vijitātmanaḥ .. 61 ..
नन्दाद्या ये व्रजे गोपा याश्चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्याद्या यदुस्त्रियः ॥ ६२ ॥
nandādyā ye vraje gopā yāścāmīṣāṃ ca yoṣitaḥ . vṛṣṇayo vasudevādyā devakyādyā yadustriyaḥ .. 62 ..
सर्वे वै देवताप्राया उभयोरपि भारत । ज्ञातयो बन्धुसुहृदो ये च कंसं अनुव्रताः ॥ ६३ ॥
sarve vai devatāprāyā ubhayorapi bhārata . jñātayo bandhusuhṛdo ye ca kaṃsaṃ anuvratāḥ .. 63 ..
एतत् कंसाय भगवान् शशंसाभ्येत्य नारदः । भूमेर्भारायमाणानां दैत्यानां च वधोद्यमम् ॥ ६४ ॥
etat kaṃsāya bhagavān śaśaṃsābhyetya nāradaḥ . bhūmerbhārāyamāṇānāṃ daityānāṃ ca vadhodyamam .. 64 ..
ऋषेः विनिर्गमे कंसो यदून् मत्वा सुरान् इति । देवक्या गर्भसंभूतं विष्णुं च स्ववधं प्रति ॥ ६५ ॥
ṛṣeḥ vinirgame kaṃso yadūn matvā surān iti . devakyā garbhasaṃbhūtaṃ viṣṇuṃ ca svavadhaṃ prati .. 65 ..
देवकीं वसुदेवं च निगृह्य निगडैर्गृहे । जातं जातं अहन् पुत्रं तयोः अजनशंकया ॥ ६६ ॥
devakīṃ vasudevaṃ ca nigṛhya nigaḍairgṛhe . jātaṃ jātaṃ ahan putraṃ tayoḥ ajanaśaṃkayā .. 66 ..
मातरं पितरं भ्रातॄन् सर्वांश्च सुहृदस्तथा । घ्नन्ति ह्यसुतृपो लुब्धा राजानः प्रायशो भुवि ॥ ६७ ॥
mātaraṃ pitaraṃ bhrātṝn sarvāṃśca suhṛdastathā . ghnanti hyasutṛpo lubdhā rājānaḥ prāyaśo bhuvi .. 67 ..
आत्मानं इह सञ्जातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ ६८ ॥
ātmānaṃ iha sañjātaṃ jānan prāg viṣṇunā hatam . mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata .. 68 ..
उग्रसेनं च पितरं यदुभोजान्धकाधिपम् । स्वयं निगृह्य बुभुजे शूरसेनान् महाबलः ॥ ६९ ॥
ugrasenaṃ ca pitaraṃ yadubhojāndhakādhipam . svayaṃ nigṛhya bubhuje śūrasenān mahābalaḥ .. 69 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रथमोध्याऽयः ॥ १ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe prathamodhyā'yaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In