| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच । ( अनुष्टुप् )
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम् । यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १ ॥
कथ्यताम् भगवन् एतत् तयोः शापस्य कारणम् । यत् तत् विगर्हितम् कर्म येन वा देवर्षेः तमः ॥ १ ॥
kathyatām bhagavan etat tayoḥ śāpasya kāraṇam . yat tat vigarhitam karma yena vā devarṣeḥ tamaḥ .. 1 ..
श्रीशुक उवाच ।
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥
रुद्रस्य अनुचरौ भूत्वा सु दृप्तौ धनद-आत्मजौ । कैलास-उपवने रम्ये मन्दाकिन्याम् मद-उत्कटौ ॥ २ ॥
rudrasya anucarau bhūtvā su dṛptau dhanada-ātmajau . kailāsa-upavane ramye mandākinyām mada-utkaṭau .. 2 ..
वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ । स्त्रीजनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥
वारुणीम् मदिराम् पीत्वा मद-आघूर्णित-लोचनौ । स्त्रीजनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥
vāruṇīm madirām pītvā mada-āghūrṇita-locanau . strījanaiḥ anugāyadbhiḥ ceratuḥ puṣpite vane .. 3 ..
अन्तः प्रविश्य गङ्गायां अंभोजवनराजिनि । चिक्रीडतुर्युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥
अन्तर् प्रविश्य गङ्गायाम् अंभोज-वन-राजिनि । चिक्रीडतुः युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥
antar praviśya gaṅgāyām aṃbhoja-vana-rājini . cikrīḍatuḥ yuvatibhiḥ gajau iva kareṇubhiḥ .. 4 ..
यदृच्छया च देवर्षिः भगवांस्तत्र कौरव । अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥
यदृच्छया च देव-ऋषिः भगवान् तत्र कौरव । अपश्यत् नारदः देवौ क्षीब-अणौ समबुध्यत ॥ ५ ॥
yadṛcchayā ca deva-ṛṣiḥ bhagavān tatra kaurava . apaśyat nāradaḥ devau kṣība-aṇau samabudhyata .. 5 ..
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः । वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥
तम् दृष्ट्वा व्रीडिताः देव्यः विवस्त्राः शाप-शङ्किताः । वासांसि पर्यधुः शीघ्रम् विवस्त्रौ ना एव गुह्यकौ ॥ ६ ॥
tam dṛṣṭvā vrīḍitāḥ devyaḥ vivastrāḥ śāpa-śaṅkitāḥ . vāsāṃsi paryadhuḥ śīghram vivastrau nā eva guhyakau .. 6 ..
तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥
तौ दृष्ट्वा मदिरा-मत्तौ श्री-मद-अन्धौ सुर-आत्मजौ । तयोः अनुग्रह-अर्थाय शापम् दास्यन् इदम् जगौ ॥ ७ ॥
tau dṛṣṭvā madirā-mattau śrī-mada-andhau sura-ātmajau . tayoḥ anugraha-arthāya śāpam dāsyan idam jagau .. 7 ..
श्रीनारद उवाच ।
न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः । श्रीमदादाभिजात्यादिः यत्र स्त्री द्यूतमासवः ॥ ८ ॥
न हि अन्यः जुषतः जोष्यान् बुद्धि-भ्रंशः रजः-गुणः । श्रीमत्-आद-अभिजाति-आदिः यत्र स्त्री द्यूतम् आसवः ॥ ८ ॥
na hi anyaḥ juṣataḥ joṣyān buddhi-bhraṃśaḥ rajaḥ-guṇaḥ . śrīmat-āda-abhijāti-ādiḥ yatra strī dyūtam āsavaḥ .. 8 ..
हन्यन्ते पशवो यत्र निर्दयैः अजितात्मभिः । मन्यमानैरिमं देहः अजरामृत्यु नश्वरम् ॥ ९ ॥
हन्यन्ते पशवः यत्र निर्दयैः अजित-आत्मभिः । मन्यमानैः इमम् देहः अजर-अमृत्यु नश्वरम् ॥ ९ ॥
hanyante paśavaḥ yatra nirdayaiḥ ajita-ātmabhiḥ . manyamānaiḥ imam dehaḥ ajara-amṛtyu naśvaram .. 9 ..
देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितम् । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १० ॥
देव-संज्ञितम् अपि अन्ते कृमि-विश् भस्म-संज्ञितम् । तद्-कृते स्व-अर्थम् किम् वेद निरयः यतस् ॥ १० ॥
deva-saṃjñitam api ante kṛmi-viś bhasma-saṃjñitam . tad-kṛte sva-artham kim veda nirayaḥ yatas .. 10 ..
देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च । मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११ ॥
देहः किम् अन्न-दातुः स्वम् निषेक्तुः मातुः एव च । मातुः पितुः वा बलिनः क्रेतुः अग्नेः शुनः अपि वा ॥ ११ ॥
dehaḥ kim anna-dātuḥ svam niṣektuḥ mātuḥ eva ca . mātuḥ pituḥ vā balinaḥ kretuḥ agneḥ śunaḥ api vā .. 11 ..
एवं साधारणं देहं अव्यक्त प्रभवाप्ययम् । को विद्वान् आत्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ १२ ॥
एवम् साधारणम् देहम् अव्यक्त प्रभव-अप्ययम् । कः विद्वान् आत्मसात्कृत्वा हन्ति जन्तून् ऋते असतः ॥ १२ ॥
evam sādhāraṇam deham avyakta prabhava-apyayam . kaḥ vidvān ātmasātkṛtvā hanti jantūn ṛte asataḥ .. 12 ..
असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥
असतः दारिद्र्यम् परम् अञ्जनम् । आत्म-औपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥
asataḥ dāridryam param añjanam . ātma-aupamyena bhūtāni daridraḥ paramīkṣate .. 13 ..
यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्गैः न तथाविद्धकण्टकः ॥ १४ ॥
यथा कण्टक-विद्ध-अङ्गः जन्तोः ना इच्छति ताम् व्यथाम् । जीव-साम्यम् गतः लिङ्गैः न तथा विद्ध-कण्टकः ॥ १४ ॥
yathā kaṇṭaka-viddha-aṅgaḥ jantoḥ nā icchati tām vyathām . jīva-sāmyam gataḥ liṅgaiḥ na tathā viddha-kaṇṭakaḥ .. 14 ..
दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह । कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५ ॥
दरिद्रः मुक्तः सर्व-मदैः इह । कृच्छ्रम् यदृच्छया आप्नोति तत् हि तस्य परम् तपः ॥ १५ ॥
daridraḥ muktaḥ sarva-madaiḥ iha . kṛcchram yadṛcchayā āpnoti tat hi tasya param tapaḥ .. 15 ..
नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः । इन्द्रियाणि अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥
नित्यम् क्षुध्-क्षाम-देहस्य दरिद्रस्य अन्न-काङ्क्षिणः । इन्द्रियाणि अनुशुष्यन्ति हिंसा अपि विनिवर्तते ॥ १६ ॥
nityam kṣudh-kṣāma-dehasya daridrasya anna-kāṅkṣiṇaḥ . indriyāṇi anuśuṣyanti hiṃsā api vinivartate .. 16 ..
दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः । सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥
दरिद्रस्य एव युज्यन्ते साधवः सम-दर्शिनः । सद्भिः क्षिणोति तम् तर्षम् ततस् आरात् विशुद्धि-अति ॥ १७ ॥
daridrasya eva yujyante sādhavaḥ sama-darśinaḥ . sadbhiḥ kṣiṇoti tam tarṣam tatas ārāt viśuddhi-ati .. 17 ..
साधूनां समचित्तानां मुकुन्द चरणैषिणाम् । उपेक्ष्यैः किं धनस्तम्भैः असद्भिः असदाश्रयैः ॥ १८ ॥
साधूनाम् समचित्तानाम् मुकुन्द चरण-एषिणाम् । उपेक्ष्यैः किम् धन-स्तम्भैः असद्भिः असत्-आश्रयैः ॥ १८ ॥
sādhūnām samacittānām mukunda caraṇa-eṣiṇām . upekṣyaiḥ kim dhana-stambhaiḥ asadbhiḥ asat-āśrayaiḥ .. 18 ..
तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः । तमोमदं हरिष्यामि स्त्रैणयोः अजितात्मनोः ॥ १९ ॥
तत् अहम् मत्तयोः माध्व्या वारुण्या श्री-मद-अन्धयोः । तमः-मदम् हरिष्यामि स्त्रैणयोः अजित-आत्मनोः ॥ १९ ॥
tat aham mattayoḥ mādhvyā vāruṇyā śrī-mada-andhayoḥ . tamaḥ-madam hariṣyāmi straiṇayoḥ ajita-ātmanoḥ .. 19 ..
यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २० ॥
यत् इमौ लोकपालस्य पुत्रौ भूत्वा तमः-प्लुतौ । न विवाससम् आत्मानम् विजानीतः सु दुर्मदौ ॥ २० ॥
yat imau lokapālasya putrau bhūtvā tamaḥ-plutau . na vivāsasam ātmānam vijānītaḥ su durmadau .. 20 ..
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥
अतस् अर्हतः स्थावर-ताम् स्याताम् न एवम् यथा पुनर् । स्मृतिः स्यात् मद्-प्रसादेन तत्र अपि मद्-अनुग्रहात् ॥ २१ ॥
atas arhataḥ sthāvara-tām syātām na evam yathā punar . smṛtiḥ syāt mad-prasādena tatra api mad-anugrahāt .. 21 ..
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२ ॥
वासुदेवस्य सान्निध्यम् लब्ध्वा दिव्य-शरद्-शते । वृत्ते स्वर्लोक-ताम् भूयस् लब्ध-भक्ती भविष्यतः ॥ २२ ॥
vāsudevasya sānnidhyam labdhvā divya-śarad-śate . vṛtte svarloka-tām bhūyas labdha-bhaktī bhaviṣyataḥ .. 22 ..
श्रीशुक उवाच ।
एवमुक्त्वा स देवर्षिः गतो नारायणाश्रमम् । नलकूवरमणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥
एवम् उक्त्वा स देवर्षिः गतः नारायण-आश्रमम् । नलकूबर-मणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥
evam uktvā sa devarṣiḥ gataḥ nārāyaṇa-āśramam . nalakūbara-maṇigrīvau āsatuḥ yamalārjunau .. 23 ..
ऋषेर्भागवत मुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥
ऋषेः भागवत मुख्यस्य सत्यम् कर्तुम् वचः हरिः । जगाम शनकैस् तत्र यत्र आस्ताम् यमलार्जुनौ ॥ २४ ॥
ṛṣeḥ bhāgavata mukhyasya satyam kartum vacaḥ hariḥ . jagāma śanakais tatra yatra āstām yamalārjunau .. 24 ..
देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ । तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥ २५ ॥
देवर्षिः मे प्रियतमः यत् इमौ धनद-आत्मजौ । तत् तथा साधयिष्यामि यत् गीतम् तत् महात्मना ॥ २५ ॥
devarṣiḥ me priyatamaḥ yat imau dhanada-ātmajau . tat tathā sādhayiṣyāmi yat gītam tat mahātmanā .. 25 ..
इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ । आत्मनिर्वेशमात्रेण तिर्यग्गतं उलूखलम् ॥ २६ ॥
इति अन्तरेण अर्जुनयोः कृष्णः तु यमयोः ययौ । आत्म-निर्वेश-मात्रेण तिर्यग्गतम् उलूखलम् ॥ २६ ॥
iti antareṇa arjunayoḥ kṛṣṇaḥ tu yamayoḥ yayau . ātma-nirveśa-mātreṇa tiryaggatam ulūkhalam .. 26 ..
( वसंततिलका )
बालेन निष्कर्षयतान्वगुलूखलं तद् दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ । निष्पेततुः परमविक्रमितातिवेप स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥
बालेन तत् दामोदरेण तरसा उत्कलित-अङ्घ्रि-बन्धौ । निष्पेततुः परम-विक्रमित-अति वेप स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ २७ ॥
bālena tat dāmodareṇa tarasā utkalita-aṅghri-bandhau . niṣpetatuḥ parama-vikramita-ati vepa skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau .. 27 ..
तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः । कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८ ॥
तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धौ उपेत्य कुजयोः इव जातवेदाः । कृष्णम् प्रणम्य शिरसा अखिल-लोक-नाथम् बद्धाञ्जली विरजसौ इदम् ऊचतुः स्म ॥ २८ ॥
tatra śriyā paramayā kakubhaḥ sphurantau siddhau upetya kujayoḥ iva jātavedāḥ . kṛṣṇam praṇamya śirasā akhila-loka-nātham baddhāñjalī virajasau idam ūcatuḥ sma .. 28 ..
( अनुष्टुप् )
कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९ ॥
कृष्ण कृष्ण महायोगिन् त्वम् आद्यः पुरुषः परः । व्यक्त-अव्यक्तम् इदम् विश्वम् रूपम् ते ब्राह्मणाः विदुः ॥ २९ ॥
kṛṣṇa kṛṣṇa mahāyogin tvam ādyaḥ puruṣaḥ paraḥ . vyakta-avyaktam idam viśvam rūpam te brāhmaṇāḥ viduḥ .. 29 ..
त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३० ॥
त्वम् एकः सर्व-भूतानाम् । त्वम् एव कालः भगवान् विष्णुः अव्ययः ईश्वरः ॥ ३० ॥
tvam ekaḥ sarva-bhūtānām . tvam eva kālaḥ bhagavān viṣṇuḥ avyayaḥ īśvaraḥ .. 30 ..
त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१ ॥
त्वम् महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमः-मयी । त्वम् एव पुरुषः अध्यक्षः सर्व-क्षेत्र-विकार-विद् ॥ ३१ ॥
tvam mahān prakṛtiḥ sūkṣmā rajaḥ-sattva-tamaḥ-mayī . tvam eva puruṣaḥ adhyakṣaḥ sarva-kṣetra-vikāra-vid .. 31 ..
गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ३२ ॥
गृह्यमाणैः त्वम् अग्राह्यः विकारैः प्राकृतैः गुणैः । कः नु इह अर्हति विज्ञातुम् प्राच्-सिद्धम् गुण-संवृतः ॥ ३२ ॥
gṛhyamāṇaiḥ tvam agrāhyaḥ vikāraiḥ prākṛtaiḥ guṇaiḥ . kaḥ nu iha arhati vijñātum prāc-siddham guṇa-saṃvṛtaḥ .. 32 ..
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः ॥ ३३ ॥
तस्मै तुभ्यम् भगवते वासुदेवाय वेधसे । आत्म-द्योत-गुणैः छन्न महिम्ने ब्रह्मणे नमः ॥ ३३ ॥
tasmai tubhyam bhagavate vāsudevāya vedhase . ātma-dyota-guṇaiḥ channa mahimne brahmaṇe namaḥ .. 33 ..
यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैः वीर्यैर्देहिष्वसङ्गतैः ॥ ३४ ॥
यस्य अवताराः ज्ञायन्ते शरीरेषु अशरीरिणः । तैः तैः अतुल्य-अतिशयैः वीर्यैः देहिषु असङ्ग-तैः ॥ ३४ ॥
yasya avatārāḥ jñāyante śarīreṣu aśarīriṇaḥ . taiḥ taiḥ atulya-atiśayaiḥ vīryaiḥ dehiṣu asaṅga-taiḥ .. 34 ..
स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥
स भवान् सर्व-लोकस्य भवाय विभवाय च । अवतीर्णः ॐऽश-भागेन साम्प्रतम् पतिः आशिषाम् ॥ ३५ ॥
sa bhavān sarva-lokasya bhavāya vibhavāya ca . avatīrṇaḥ oṃ'śa-bhāgena sāmpratam patiḥ āśiṣām .. 35 ..
नमः परमकल्याण नमः परममङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥
नमः परम-कल्याण नमः परम-मङ्गल । वासुदेवाय शान्ताय यदूनाम् पतये नमः ॥ ३६ ॥
namaḥ parama-kalyāṇa namaḥ parama-maṅgala . vāsudevāya śāntāya yadūnām pataye namaḥ .. 36 ..
अनुजानीहि नौ भूमन् तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥
अनुजानीहि नौ भूमन् तव अनुचर-किङ्करौ । दर्शनम् नौ भगवतः ऋषेः आसीत् अनुग्रहात् ॥ ३७ ॥
anujānīhi nau bhūman tava anucara-kiṅkarau . darśanam nau bhagavataḥ ṛṣeḥ āsīt anugrahāt .. 37 ..
( वसंततिलका )
वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥
वाणी गुण-अनुकथने श्रवणौ कथायाम् हस्तौ च कर्मसु मनः तव पादयोः नः । स्मृत्याम् शिरः तव निवास-जगत्-प्रणामे दृष्टिः सताम् दर्शने अस्तु भवत्-तनूनाम् ॥ ३८ ॥
vāṇī guṇa-anukathane śravaṇau kathāyām hastau ca karmasu manaḥ tava pādayoḥ naḥ . smṛtyām śiraḥ tava nivāsa-jagat-praṇāme dṛṣṭiḥ satām darśane astu bhavat-tanūnām .. 38 ..
श्रीशुक उवाच । ( अनुष्टुप् )
इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९ ॥
इत्थम् सङ्कीर्तितः ताभ्याम् भगवान् गोकुल-ईश्वरः । दाम्ना च उलूखले बद्धः प्रहसन् आह गुह्यकौ ॥ ३९ ॥
ittham saṅkīrtitaḥ tābhyām bhagavān gokula-īśvaraḥ . dāmnā ca ulūkhale baddhaḥ prahasan āha guhyakau .. 39 ..
श्रीभगवानुवाच ।
ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना । यत् श्रीमदान्धयोर्वाग्भिः विभ्रंशोऽनुग्रहः कृतः ॥ ४० ॥
ज्ञातम् मम पुरा एव एतत् ऋषिणा करुण-आत्मना । यत् श्री-मदान्धयोः वाग्भिः विभ्रंशः अनुग्रहः कृतः ॥ ४० ॥
jñātam mama purā eva etat ṛṣiṇā karuṇa-ātmanā . yat śrī-madāndhayoḥ vāgbhiḥ vibhraṃśaḥ anugrahaḥ kṛtaḥ .. 40 ..
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१ ॥
साधूनाम् समचित्तानाम् सुतराम् मद्-कृतात्मनाम् । दर्शनात् नः भवेत् बन्धः पुंसः अक्ष्णोः सवितुः यथा ॥ ४१ ॥
sādhūnām samacittānām sutarām mad-kṛtātmanām . darśanāt naḥ bhavet bandhaḥ puṃsaḥ akṣṇoḥ savituḥ yathā .. 41 ..
तद्गच्छतं मत्परमौ नलकूबर सादनम् । सञ्जातो मयि भावो वां ईप्सितः परमोऽभवः ॥ ४२ ॥
तत् गच्छतम् मद्-परमौ नलकूबर सादनम् । सञ्जातः मयि भावः वाम् ईप्सितः परमः अभवः ॥ ४२ ॥
tat gacchatam mad-paramau nalakūbara sādanam . sañjātaḥ mayi bhāvaḥ vām īpsitaḥ paramaḥ abhavaḥ .. 42 ..
श्रीशुक उवाच ।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥
इति उक्तौ तौ परिक्रम्य प्रणम्य च पुनर् पुनर् । बद्ध-उलूखलम् आमन्त्र्य जग्मतुः दिशम् उत्तराम् ॥ ४३ ॥
iti uktau tau parikramya praṇamya ca punar punar . baddha-ulūkhalam āmantrya jagmatuḥ diśam uttarām .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दशमोऽध्यायः ॥ १० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे दशमः अध्यायः ॥ १० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe daśamaḥ adhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In