| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच । ( अनुष्टुप् )
कथ्यतां भगवन् एतत् तयोः शापस्य कारणम् । यत्तद्विगर्हितं कर्म येन वा देवर्षेस्तमः ॥ १ ॥
kathyatāṃ bhagavan etat tayoḥ śāpasya kāraṇam . yattadvigarhitaṃ karma yena vā devarṣestamaḥ .. 1 ..
श्रीशुक उवाच ।
रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २ ॥
rudrasyānucarau bhūtvā sudṛptau dhanadātmajau . kailāsopavane ramye mandākinyāṃ madotkaṭau .. 2 ..
वारुणीं मदिरां पीत्वा मदाघूर्णितलोचनौ । स्त्रीजनैः अनुगायद्भिः चेरतुः पुष्पिते वने ॥ ३ ॥
vāruṇīṃ madirāṃ pītvā madāghūrṇitalocanau . strījanaiḥ anugāyadbhiḥ ceratuḥ puṣpite vane .. 3 ..
अन्तः प्रविश्य गङ्गायां अंभोजवनराजिनि । चिक्रीडतुर्युवतिभिः गजौ इव करेणुभिः ॥ ४ ॥
antaḥ praviśya gaṅgāyāṃ aṃbhojavanarājini . cikrīḍaturyuvatibhiḥ gajau iva kareṇubhiḥ .. 4 ..
यदृच्छया च देवर्षिः भगवांस्तत्र कौरव । अपश्यन्नारदो देवौ क्षीबाणौ समबुध्यत ॥ ५ ॥
yadṛcchayā ca devarṣiḥ bhagavāṃstatra kaurava . apaśyannārado devau kṣībāṇau samabudhyata .. 5 ..
तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शापशङ्किताः । वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ ६ ॥
taṃ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpaśaṅkitāḥ . vāsāṃsi paryadhuḥ śīghraṃ vivastrau naiva guhyakau .. 6 ..
तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन् इदं जगौ ॥ ७ ॥
tau dṛṣṭvā madirāmattau śrīmadāndhau surātmajau . tayoranugrahārthāya śāpaṃ dāsyan idaṃ jagau .. 7 ..
श्रीनारद उवाच ।
न ह्यन्यो जुषतो जोष्यान् बुद्धिभ्रंशो रजोगुणः । श्रीमदादाभिजात्यादिः यत्र स्त्री द्यूतमासवः ॥ ८ ॥
na hyanyo juṣato joṣyān buddhibhraṃśo rajoguṇaḥ . śrīmadādābhijātyādiḥ yatra strī dyūtamāsavaḥ .. 8 ..
हन्यन्ते पशवो यत्र निर्दयैः अजितात्मभिः । मन्यमानैरिमं देहः अजरामृत्यु नश्वरम् ॥ ९ ॥
hanyante paśavo yatra nirdayaiḥ ajitātmabhiḥ . manyamānairimaṃ dehaḥ ajarāmṛtyu naśvaram .. 9 ..
देवसंज्ञितमप्यन्ते कृमिविड् भस्मसंज्ञितम् । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ १० ॥
devasaṃjñitamapyante kṛmiviḍ bhasmasaṃjñitam . bhūtadhruk tatkṛte svārthaṃ kiṃ veda nirayo yataḥ .. 10 ..
देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव च । मातुः पितुर्वा बलिनः क्रेतुरग्नेः शुनोऽपि वा ॥ ११ ॥
dehaḥ kimannadātuḥ svaṃ niṣekturmātureva ca . mātuḥ piturvā balinaḥ kreturagneḥ śuno'pi vā .. 11 ..
एवं साधारणं देहं अव्यक्त प्रभवाप्ययम् । को विद्वान् आत्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥ १२ ॥
evaṃ sādhāraṇaṃ dehaṃ avyakta prabhavāpyayam . ko vidvān ātmasātkṛtvā hanti jantūnṛte'sataḥ .. 12 ..
असतः श्रीमदान्धस्य दारिद्र्यं परमञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥
asataḥ śrīmadāndhasya dāridryaṃ paramañjanam . ātmaupamyena bhūtāni daridraḥ paramīkṣate .. 13 ..
यथा कण्टकविद्धाङ्गो जन्तोर्नेच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्गैः न तथाविद्धकण्टकः ॥ १४ ॥
yathā kaṇṭakaviddhāṅgo jantornecchati tāṃ vyathām . jīvasāmyaṃ gato liṅgaiḥ na tathāviddhakaṇṭakaḥ .. 14 ..
दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह । कृच्छ्रं यदृच्छयाऽऽप्नोति तद्धि तस्य परं तपः ॥ १५ ॥
daridro nirahaṃstambho muktaḥ sarvamadairiha . kṛcchraṃ yadṛcchayā''pnoti taddhi tasya paraṃ tapaḥ .. 15 ..
नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः । इन्द्रियाणि अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ १६ ॥
nityaṃ kṣutkṣāmadehasya daridrasyānnakāṅkṣiṇaḥ . indriyāṇi anuśuṣyanti hiṃsāpi vinivartate .. 16 ..
दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः । सद्भिः क्षिणोति तं तर्षं तत आराद्विशुद्ध्यति ॥ १७ ॥
daridrasyaiva yujyante sādhavaḥ samadarśinaḥ . sadbhiḥ kṣiṇoti taṃ tarṣaṃ tata ārādviśuddhyati .. 17 ..
साधूनां समचित्तानां मुकुन्द चरणैषिणाम् । उपेक्ष्यैः किं धनस्तम्भैः असद्भिः असदाश्रयैः ॥ १८ ॥
sādhūnāṃ samacittānāṃ mukunda caraṇaiṣiṇām . upekṣyaiḥ kiṃ dhanastambhaiḥ asadbhiḥ asadāśrayaiḥ .. 18 ..
तदहं मत्तयोर्माध्व्या वारुण्या श्रीमदान्धयोः । तमोमदं हरिष्यामि स्त्रैणयोः अजितात्मनोः ॥ १९ ॥
tadahaṃ mattayormādhvyā vāruṇyā śrīmadāndhayoḥ . tamomadaṃ hariṣyāmi straiṇayoḥ ajitātmanoḥ .. 19 ..
यदिमौ लोकपालस्य पुत्रौ भूत्वा तमःप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २० ॥
yadimau lokapālasya putrau bhūtvā tamaḥplutau . na vivāsasamātmānaṃ vijānītaḥ sudurmadau .. 20 ..
अतोऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनुग्रहात् ॥ २१ ॥
ato'rhataḥ sthāvaratāṃ syātāṃ naivaṃ yathā punaḥ . smṛtiḥ syāt matprasādena tatrāpi madanugrahāt .. 21 ..
वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वर्लोकतां भूयो लब्धभक्ती भविष्यतः ॥ २२ ॥
vāsudevasya sānnidhyaṃ labdhvā divyaśaracchate . vṛtte svarlokatāṃ bhūyo labdhabhaktī bhaviṣyataḥ .. 22 ..
श्रीशुक उवाच ।
एवमुक्त्वा स देवर्षिः गतो नारायणाश्रमम् । नलकूवरमणिग्रीवौ आसतुः यमलार्जुनौ ॥ २३ ॥
evamuktvā sa devarṣiḥ gato nārāyaṇāśramam . nalakūvaramaṇigrīvau āsatuḥ yamalārjunau .. 23 ..
ऋषेर्भागवत मुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस्तत्र यत्रास्तां यमलार्जुनौ ॥ २४ ॥
ṛṣerbhāgavata mukhyasya satyaṃ kartuṃ vaco hariḥ . jagāma śanakaistatra yatrāstāṃ yamalārjunau .. 24 ..
देवर्षिर्मे प्रियतमो यदिमौ धनदात्मजौ । तत्तथा साधयिष्यामि यद्गीतं तन्महात्मना ॥ २५ ॥
devarṣirme priyatamo yadimau dhanadātmajau . tattathā sādhayiṣyāmi yadgītaṃ tanmahātmanā .. 25 ..
इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययौ । आत्मनिर्वेशमात्रेण तिर्यग्गतं उलूखलम् ॥ २६ ॥
ityantareṇārjunayoḥ kṛṣṇastu yamayoryayau . ātmanirveśamātreṇa tiryaggataṃ ulūkhalam .. 26 ..
( वसंततिलका )
बालेन निष्कर्षयतान्वगुलूखलं तद् दामोदरेण तरसोत्कलिताङ्घ्रिबन्धौ । निष्पेततुः परमविक्रमितातिवेप स्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥
bālena niṣkarṣayatānvagulūkhalaṃ tad dāmodareṇa tarasotkalitāṅghribandhau . niṣpetatuḥ paramavikramitātivepa skandhapravālaviṭapau kṛtacaṇḍaśabdau .. 27 ..
तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः । कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ॥ २८ ॥
tatra śriyā paramayā kakubhaḥ sphurantau siddhāvupetya kujayoriva jātavedāḥ . kṛṣṇaṃ praṇamya śirasākhilalokanāthaṃ baddhāñjalī virajasāvidamūcatuḥ sma .. 28 ..
( अनुष्टुप् )
कृष्ण कृष्ण महायोगिन् त्वमाद्यः पुरुषः परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ २९ ॥
kṛṣṇa kṛṣṇa mahāyogin tvamādyaḥ puruṣaḥ paraḥ . vyaktāvyaktamidaṃ viśvaṃ rūpaṃ te brāhmaṇā viduḥ .. 29 ..
त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३० ॥
tvamekaḥ sarvabhūtānāṃ dehāsvātmendriyeśvaraḥ . tvameva kālo bhagavān viṣṇuravyaya īśvaraḥ .. 30 ..
त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१ ॥
tvaṃ mahān prakṛtiḥ sūkṣmā rajaḥsattvatamomayī . tvameva puruṣo'dhyakṣaḥ sarvakṣetravikāravit .. 31 ..
गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं गुणसंवृतः ॥ ३२ ॥
gṛhyamāṇaistvamagrāhyo vikāraiḥ prākṛtairguṇaiḥ . ko nvihārhati vijñātuṃ prāksiddhaṃ guṇasaṃvṛtaḥ .. 32 ..
तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मद्योतगुणैश्छन्न महिम्ने ब्रह्मणे नमः ॥ ३३ ॥
tasmai tubhyaṃ bhagavate vāsudevāya vedhase . ātmadyotaguṇaiśchanna mahimne brahmaṇe namaḥ .. 33 ..
यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैः वीर्यैर्देहिष्वसङ्गतैः ॥ ३४ ॥
yasyāvatārā jñāyante śarīreṣvaśarīriṇaḥ . taistairatulyātiśayaiḥ vīryairdehiṣvasaṅgataiḥ .. 34 ..
स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णोंऽशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥
sa bhavān sarvalokasya bhavāya vibhavāya ca . avatīrṇoṃ'śabhāgena sāmprataṃ patirāśiṣām .. 35 ..
नमः परमकल्याण नमः परममङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥
namaḥ paramakalyāṇa namaḥ paramamaṅgala . vāsudevāya śāntāya yadūnāṃ pataye namaḥ .. 36 ..
अनुजानीहि नौ भूमन् तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७ ॥
anujānīhi nau bhūman tavānucarakiṅkarau . darśanaṃ nau bhagavata ṛṣerāsīdanugrahāt .. 37 ..
( वसंततिलका )
वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥ ३८ ॥
vāṇī guṇānukathane śravaṇau kathāyāṃ hastau ca karmasu manastava pādayornaḥ . smṛtyāṃ śirastava nivāsajagatpraṇāme dṛṣṭiḥ satāṃ darśane'stu bhavattanūnām .. 38 ..
श्रीशुक उवाच । ( अनुष्टुप् )
इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९ ॥
itthaṃ saṅkīrtitastābhyāṃ bhagavān gokuleśvaraḥ . dāmnā colūkhale baddhaḥ prahasannāha guhyakau .. 39 ..
श्रीभगवानुवाच ।
ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना । यत् श्रीमदान्धयोर्वाग्भिः विभ्रंशोऽनुग्रहः कृतः ॥ ४० ॥
jñātaṃ mama puraivaitad ṛṣiṇā karuṇātmanā . yat śrīmadāndhayorvāgbhiḥ vibhraṃśo'nugrahaḥ kṛtaḥ .. 40 ..
साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनान्नो भवेद्बन्धः पुंसोऽक्ष्णोः सवितुर्यथा ॥ ४१ ॥
sādhūnāṃ samacittānāṃ sutarāṃ matkṛtātmanām . darśanānno bhavedbandhaḥ puṃso'kṣṇoḥ savituryathā .. 41 ..
तद्गच्छतं मत्परमौ नलकूबर सादनम् । सञ्जातो मयि भावो वां ईप्सितः परमोऽभवः ॥ ४२ ॥
tadgacchataṃ matparamau nalakūbara sādanam . sañjāto mayi bhāvo vāṃ īpsitaḥ paramo'bhavaḥ .. 42 ..
श्रीशुक उवाच ।
इत्युक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलमामन्त्र्य जग्मतुर्दिशमुत्तराम् ॥ ४३ ॥
ityuktau tau parikramya praṇamya ca punaḥ punaḥ . baddholūkhalamāmantrya jagmaturdiśamuttarām .. 43 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे दशमोऽध्यायः ॥ १० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe daśamo'dhyāyaḥ .. 10 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In