| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥ १ ॥
गोपाः नन्द-आदयः श्रुत्वा द्रुमयोः पततः रवम् । तत्र आजग्मुः कुरुश्रेष्ठ निर्घात-भय-शङ्किताः ॥ १ ॥
gopāḥ nanda-ādayaḥ śrutvā drumayoḥ patataḥ ravam . tatra ājagmuḥ kuruśreṣṭha nirghāta-bhaya-śaṅkitāḥ .. 1 ..
भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥
भूम्याम् निपतितौ तत्र ददृशुः यमलार्जुनौ । बभ्रमुः तत् अ विज्ञाय लक्ष्यम् पतन-कारणम् ॥ २ ॥
bhūmyām nipatitau tatra dadṛśuḥ yamalārjunau . babhramuḥ tat a vijñāya lakṣyam patana-kāraṇam .. 2 ..
उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यं उत्पात इति कातराः ॥ ३ ॥
उलूखलम् विकर्षन्तम् दाम्ना बद्धम् च बालकम् । कस्य इदम् कुतस् आश्चर्यम् उत्पातः इति कातराः ॥ ३ ॥
ulūkhalam vikarṣantam dāmnā baddham ca bālakam . kasya idam kutas āścaryam utpātaḥ iti kātarāḥ .. 3 ..
बाला ऊचुरनेनेति तिर्यग्गतं उलूखलम् । विकर्षता मध्यगेन पुरुषौ अपि अचक्ष्महि ॥ ४ ॥
बालाः ऊचुः अनेन इति तिर्यग्गतम् उलूखलम् । विकर्षता मध्यगेन पुरुषौ अपि अचक्ष्महि ॥ ४ ॥
bālāḥ ūcuḥ anena iti tiryaggatam ulūkhalam . vikarṣatā madhyagena puruṣau api acakṣmahi .. 4 ..
न ते तदुक्तं जगृहुः न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् संदिग्धचेतसः ॥ ५ ॥
न ते तत् उक्तम् जगृहुः न घटेत इति तस्य तत् । बालस्य उत्पाटनम् तर्वोः केचिद् संदिग्ध-चेतसः ॥ ५ ॥
na te tat uktam jagṛhuḥ na ghaṭeta iti tasya tat . bālasya utpāṭanam tarvoḥ kecid saṃdigdha-cetasaḥ .. 5 ..
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ ६ ॥
उलूखलम् विकर्षन्तम् दाम्ना बद्धम् स्वम् आत्मजम् । विलोक्य नन्दः प्रहसत् वदनः विमुमोच ह ॥ ६ ॥
ulūkhalam vikarṣantam dāmnā baddham svam ātmajam . vilokya nandaḥ prahasat vadanaḥ vimumoca ha .. 6 ..
गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन्मुग्धः तद्वशो दारुयन्त्रवत् ॥ ७ ॥
गोपीभिः स्तोभितः अनृत्यत् भगवान् बाल-वत् क्वचिद् । उद्गायति क्वचिद् मुग्धः तद्-वशः दारुयन्त्र-वत् ॥ ७ ॥
gopībhiḥ stobhitaḥ anṛtyat bhagavān bāla-vat kvacid . udgāyati kvacid mugdhaḥ tad-vaśaḥ dāruyantra-vat .. 7 ..
बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥
बिभर्ति क्वचिद् आज्ञप्तः पीठक-उन्मान-पादुकम् । बाहुक्षेपम् च कुरुते स्वानाम् च प्रीतिम् आवहन् ॥ ८ ॥
bibharti kvacid ājñaptaḥ pīṭhaka-unmāna-pādukam . bāhukṣepam ca kurute svānām ca prītim āvahan .. 8 ..
दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९ ॥
दर्शयन् तद्-विदाम् लोके आत्मनः भृत्य-वश्य-ताम् । व्रजस्य उवाह वै हर्षम् भगवान् बाल-चेष्टितैः ॥ ९ ॥
darśayan tad-vidām loke ātmanaḥ bhṛtya-vaśya-tām . vrajasya uvāha vai harṣam bhagavān bāla-ceṣṭitaiḥ .. 9 ..
क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १० ॥
क्रीणीहि भोः फलानि इति श्रुत्वा स त्वरम् अच्युतः । फल-अर्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥ १० ॥
krīṇīhi bhoḥ phalāni iti śrutvā sa tvaram acyutaḥ . phala-arthī dhānyam ādāya yayau sarva-phala-pradaḥ .. 10 ..
फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्नैः फलभाण्डमपूरि च ॥ ॥
फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् । फलैः अपूरयत् रत्नैः फल-भाण्डम् अपूरि च ॥ ॥
phala-vikrayiṇī tasya cyuta-dhānya-kara-dvayam . phalaiḥ apūrayat ratnaiḥ phala-bhāṇḍam apūri ca .. ..
सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥
सरित्-तीर-गतम् कृष्णम् भग्नार्जुनम् अथ आह्वयत् । रामम् च रोहिणी देवी क्रीडन्तम् बालकैः भृशम् ॥ १२ ॥
sarit-tīra-gatam kṛṣṇam bhagnārjunam atha āhvayat . rāmam ca rohiṇī devī krīḍantam bālakaiḥ bhṛśam .. 12 ..
नोपेयातां यदाऽऽहूतौ क्रीडासङ्गेन पुत्रकौ । यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥
न उपेयाताम् यदा आहूतौ क्रीडा-सङ्गेन पुत्रकौ । यशोदाम् प्रेषयामास रोहिणी पुत्र-वत्सलाम् ॥ १३ ॥
na upeyātām yadā āhūtau krīḍā-saṅgena putrakau . yaśodām preṣayāmāsa rohiṇī putra-vatsalām .. 13 ..
क्रीडन्तं सा सुतं बालैः अतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४ ॥
क्रीडन्तम् सा सुतम् बालैः अतिवेलम् सह अग्रजम् । यशोदा अजोहवीत् कृष्णम् पुत्र-स्नेह-स्नुत-स्तनी ॥ १४ ॥
krīḍantam sā sutam bālaiḥ ativelam saha agrajam . yaśodā ajohavīt kṛṣṇam putra-sneha-snuta-stanī .. 14 ..
कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥
कृष्ण कृष्ण-अरविन्द-अक्ष तात एहि स्तनम् पिब । अलम् विहारैः क्षुध्-क्षान्तः क्रीडा-श्रान्तः असि पुत्रक ॥ १५ ॥
kṛṣṇa kṛṣṇa-aravinda-akṣa tāta ehi stanam piba . alam vihāraiḥ kṣudh-kṣāntaḥ krīḍā-śrāntaḥ asi putraka .. 15 ..
हे रामागच्छ ताताशु सानुजः कुलनन्दन । प्रातरेव कृताहारः तद् भवान् भोक्तुमर्हति ॥ १६ ॥
हे राम आगच्छ तात आशु स अनुजः कुल-नन्दन । प्रातर् एव कृत-आहारः तत् भवान् भोक्तुम् अर्हति ॥ १६ ॥
he rāma āgaccha tāta āśu sa anujaḥ kula-nandana . prātar eva kṛta-āhāraḥ tat bhavān bhoktum arhati .. 16 ..
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७ ॥
प्रतीक्षते त्वाम् दाशार्ह भोक्ष्यमाणः व्रज-अधिपः । एहि आवयोः प्रियम् धेहि स्व-गृहान् यात बालकाः ॥ १७ ॥
pratīkṣate tvām dāśārha bhokṣyamāṇaḥ vraja-adhipaḥ . ehi āvayoḥ priyam dhehi sva-gṛhān yāta bālakāḥ .. 17 ..
धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह । जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८ ॥
धूलि-धूसरित-अङ्गः त्वम् पुत्र मज्जनम् आवह । जन्म-ऋक्षम् अद्य भवतः विप्रेभ्यः देहि गाः शुचिः ॥ १८ ॥
dhūli-dhūsarita-aṅgaḥ tvam putra majjanam āvaha . janma-ṛkṣam adya bhavataḥ viprebhyaḥ dehi gāḥ śuciḥ .. 18 ..
पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ १९ ॥
पश्य पश्य वयस्यान् ते मातृ-मृष्टान् सु अलङ्कृतान् । त्वम् च स्नातः कृत-आहारः विहरस्व सु अलङ्कृतः ॥ १९ ॥
paśya paśya vayasyān te mātṛ-mṛṣṭān su alaṅkṛtān . tvam ca snātaḥ kṛta-āhāraḥ viharasva su alaṅkṛtaḥ .. 19 ..
इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप । हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥
इत्थम् यशोदा तम् अशेष-शेखरम् मत्वा सुतम् स्नेह-निबद्ध-धीः नृप । हस्ते गृहीत्वा सह रामम् अच्युतम् नीत्वा स्व-वाटम् कृतवती अथ उदयम् ॥ २० ॥
ittham yaśodā tam aśeṣa-śekharam matvā sutam sneha-nibaddha-dhīḥ nṛpa . haste gṛhītvā saha rāmam acyutam nītvā sva-vāṭam kṛtavatī atha udayam .. 20 ..
( अनुष्टुप् )
गोपवृद्धा महोत्पातान् अनुभूय बृहद्वने । नन्दादयः समागम्य व्रजकार्यं अमन्त्रयन् ॥ २१ ॥
गोप-वृद्धाः महा-उत्पातान् अनुभूय बृहत्-वने । नन्द-आदयः समागम्य व्रज-कार्यम् अमन्त्रयन् ॥ २१ ॥
gopa-vṛddhāḥ mahā-utpātān anubhūya bṛhat-vane . nanda-ādayaḥ samāgamya vraja-kāryam amantrayan .. 21 ..
तत्र उपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः । देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ २२ ॥
तत्र उपनन्द-नामा आह गोपः ज्ञान-वयः-अधिकः । देश-काल-अर्थ-तत्त्व-ज्ञः प्रिय-कृत् राम-कृष्णयोः ॥ २२ ॥
tatra upananda-nāmā āha gopaḥ jñāna-vayaḥ-adhikaḥ . deśa-kāla-artha-tattva-jñaḥ priya-kṛt rāma-kṛṣṇayoḥ .. 22 ..
उत्थातव्यं इतोऽस्माभिः गोकुलस्य हितैषिभिः । आयान्ति अत्र महोत्पाता बालानां नाशहेतवः ॥ २३ ॥
उत्थातव्यम् इतस् अस्माभिः गोकुलस्य हित-एषिभिः । आयान्ति अत्र महा-उत्पाताः बालानाम् नाश-हेतवः ॥ २३ ॥
utthātavyam itas asmābhiḥ gokulasya hita-eṣibhiḥ . āyānti atra mahā-utpātāḥ bālānām nāśa-hetavaḥ .. 23 ..
मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको ह्यसौ । हरेरनुग्रहात् नूनं अनश्चोपरि नापतत् ॥ २४ ॥
मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालकः हि असौ । हरेः अनुग्रहात् नूनम् अनः च उपरि न अपतत् ॥ २४ ॥
muktaḥ kathañcid rākṣasyā bāla-ghnyā bālakaḥ hi asau . hareḥ anugrahāt nūnam anaḥ ca upari na apatat .. 24 ..
चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५ ॥
चक्र-वातेन नीतः अयम् दैत्येन विपदम् वियत् । शिलायाम् पतितः तत्र परित्रातः सुर-ईश्वरैः ॥ २५ ॥
cakra-vātena nītaḥ ayam daityena vipadam viyat . śilāyām patitaḥ tatra paritrātaḥ sura-īśvaraiḥ .. 25 ..
यन्न म्रियेत द्रुमयोः अन्तरं प्राप्य बालकः । असौ अन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥
यत् न म्रियेत द्रुमयोः अन्तरम् प्राप्य बालकः । असौ अन्यतमः वा अपि तत् अपि अच्युत-रक्षणम् ॥ २६ ॥
yat na mriyeta drumayoḥ antaram prāpya bālakaḥ . asau anyatamaḥ vā api tat api acyuta-rakṣaṇam .. 26 ..
यावत् औत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः । तावद् बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७ ॥
यावत् औत्पातिकः अरिष्टः व्रजम् न अभिभवेत् इतस् । तावत् बालान् उपादाय यास्यामः अन्यत्र स अनुगाः ॥ २७ ॥
yāvat autpātikaḥ ariṣṭaḥ vrajam na abhibhavet itas . tāvat bālān upādāya yāsyāmaḥ anyatra sa anugāḥ .. 27 ..
वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रि तृणवीरुधम् ॥ २८ ॥
वनम् वृन्दावनम् नाम पशव्यम् नव-काननम् । गोप-गोपी-गवाम् सेव्यम् पुण्य-अद्रि तृणवीरुधम् ॥ २८ ॥
vanam vṛndāvanam nāma paśavyam nava-kānanam . gopa-gopī-gavām sevyam puṇya-adri tṛṇavīrudham .. 28 ..
तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥
तत् तत्र अद्य एव यास्यामः शकटान् युङ्क्त मा चिरम् । गो-धनानि अग्रतस् यान्तु भवताम् यदि रोचते ॥ २९ ॥
tat tatra adya eva yāsyāmaḥ śakaṭān yuṅkta mā ciram . go-dhanāni agratas yāntu bhavatām yadi rocate .. 29 ..
तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३० ॥
तत् श्रुत्वा एक-धियः गोपाः साधु साधु इति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययुः रूढ-परिच्छदाः ॥ ३० ॥
tat śrutvā eka-dhiyaḥ gopāḥ sādhu sādhu iti vādinaḥ . vrajān svān svān samāyujya yayuḥ rūḍha-paricchadāḥ .. 30 ..
वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्वारोप्य गोपाला यत्ता आत्त-शरासनाः ॥ ३१ ॥
वृद्धान् बालान् स्त्रियः राजन् सर्व-उपकरणानि च । अनःसु आरोप्य गोपालाः यत्ताः आत्त-शरासनाः ॥ ३१ ॥
vṛddhān bālān striyaḥ rājan sarva-upakaraṇāni ca . anaḥsu āropya gopālāḥ yattāḥ ātta-śarāsanāḥ .. 31 ..
गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः । तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ ३२ ॥
गो-धनानि पुरस्कृत्य शृङ्गाणि आपूर्य सर्वतस् । तूर्य-घोषेण महता ययुः सह पुरोहिताः ॥ ३२ ॥
go-dhanāni puraskṛtya śṛṅgāṇi āpūrya sarvatas . tūrya-ghoṣeṇa mahatā yayuḥ saha purohitāḥ .. 32 ..
गोप्यो रूढरथा नूत्न कुचकुंकुम कान्तयः । कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ॥ ३३ ॥
गोप्यः रूढ-रथाः कुच-कुंकुम-कान्तयः । कृष्ण-लीलाः जगुः प्रीत्या निष्क-कण्ठ्यः सु वाससः ॥ ३३ ॥
gopyaḥ rūḍha-rathāḥ kuca-kuṃkuma-kāntayaḥ . kṛṣṇa-līlāḥ jaguḥ prītyā niṣka-kaṇṭhyaḥ su vāsasaḥ .. 33 ..
तथा यशोदारोहिण्यौ एकं शकटमास्थिते । रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥
तथा यशोदा-रोहिण्यौ एकम् शकटम् आस्थिते । रेजतुः कृष्ण-रामाभ्याम् तद्-कथा-श्रवण-उत्सुके ॥ ३४ ॥
tathā yaśodā-rohiṇyau ekam śakaṭam āsthite . rejatuḥ kṛṣṇa-rāmābhyām tad-kathā-śravaṇa-utsuke .. 34 ..
वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्व्रजावासं शकटैः अर्धचन्द्रवत् ॥ ३५ ॥
वृन्दावनम् सम्प्रविश्य सर्वकाल-सुख-आवहम् । तत्र चक्रुः व्रज-आवासम् शकटैः अर्धचन्द्र-वत् ॥ ३५ ॥
vṛndāvanam sampraviśya sarvakāla-sukha-āvaham . tatra cakruḥ vraja-āvāsam śakaṭaiḥ ardhacandra-vat .. 35 ..
वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीत् उत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥
वृन्दावनम् गोवर्धनम् यमुना-पुलिनानि च । वीक्ष्य आसीत् उत्तमा प्रीतिः राम-माधवयोः नृप ॥ ३६ ॥
vṛndāvanam govardhanam yamunā-pulināni ca . vīkṣya āsīt uttamā prītiḥ rāma-mādhavayoḥ nṛpa .. 36 ..
एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः । कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७ ॥
एवम् व्रजौकसाम् प्रीतिम् यच्छन्तौ बाल-चेष्टितैः । कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥ ३७ ॥
evam vrajaukasām prītim yacchantau bāla-ceṣṭitaiḥ . kala-vākyaiḥ sva-kālena vatsa-pālau babhūvatuḥ .. 37 ..
अविदूरे व्रजभुवः सह गोपालदारकैः । चारयामासतुः वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥
अविदूरे व्रज-भुवः सह गोपाल-दारकैः । चारयामासतुः वत्सान् नाना क्रीडा-परिच्छदौ ॥ ३८ ॥
avidūre vraja-bhuvaḥ saha gopāla-dārakaiḥ . cārayāmāsatuḥ vatsān nānā krīḍā-paricchadau .. 38 ..
क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् । क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिमगोवृषैः ॥ ३९ ॥
क्वचिद् वादयतः वेणुम् क्षेपणैः क्षिपतः क्वचिद् । क्वचिद् पादैः किङ्किणीभिः क्वचिद् कृत्रिम-गोवृषैः ॥ ३९ ॥
kvacid vādayataḥ veṇum kṣepaṇaiḥ kṣipataḥ kvacid . kvacid pādaiḥ kiṅkiṇībhiḥ kvacid kṛtrima-govṛṣaiḥ .. 39 ..
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैः जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥
vṛṣāyamāṇau nardantau yuyudhāte parasparam . anukṛtya rutaiḥ jantūn ceratuḥ prākṛtau yathā .. 40 ..
कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः । वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत् ॥ ४१ ॥
कदाचिद् यमुना-तीरे वत्सान् चारयतोः स्वकैः । वयस्यैः कृष्ण-बलयोः जिघांसुः दैत्यः आगमत् ॥ ४१ ॥
kadācid yamunā-tīre vatsān cārayatoḥ svakaiḥ . vayasyaiḥ kṛṣṇa-balayoḥ jighāṃsuḥ daityaḥ āgamat .. 41 ..
तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥
तम् वत्स-रूपिणम् वीक्ष्य वत्स-यूथ-गतम् हरिः । दर्शयन् बलदेवाय शनैस् मुग्धः इव असदत् ॥ ४२ ॥
tam vatsa-rūpiṇam vīkṣya vatsa-yūtha-gatam hariḥ . darśayan baladevāya śanais mugdhaḥ iva asadat .. 42 ..
गृहीत्वा अपरपादाभ्यां सहलाङ्गूलमच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् । स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३ ॥
गृहीत्वा अपर-पादाभ्याम् सह लाङ्गूलम् अच्युतः । भ्रामयित्वा कपित्थ-अग्रे प्राहिणोत् गत-जीवितम् । स कपित्थैः महा-कायः पात्यमानैः पपात ह ॥ ४३ ॥
gṛhītvā apara-pādābhyām saha lāṅgūlam acyutaḥ . bhrāmayitvā kapittha-agre prāhiṇot gata-jīvitam . sa kapitthaiḥ mahā-kāyaḥ pātyamānaiḥ papāta ha .. 43 ..
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४ ॥
तम् वीक्ष्य विस्मिताः बालाः शशंसुः साधु साधु इति । देवाः च परिसन्तुष्टाः बभूवुः पुष्प-वर्षिणः ॥ ४४ ॥
tam vīkṣya vismitāḥ bālāḥ śaśaṃsuḥ sādhu sādhu iti . devāḥ ca parisantuṣṭāḥ babhūvuḥ puṣpa-varṣiṇaḥ .. 44 ..
तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः ॥ ४५ ॥
तौ वत्स-पालकौ भूत्वा सर्व-लोक-एक-पालकौ । स प्रातराशौ गो-वत्सान् चारयन्तौ विचेरतुः ॥ ४५ ॥
tau vatsa-pālakau bhūtvā sarva-loka-eka-pālakau . sa prātarāśau go-vatsān cārayantau viceratuḥ .. 45 ..
स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥
स्वम् स्वम् वत्स-कुलम् सर्वे पाययिष्यन्ते एकदा । गत्वा जलाशय-अभ्याशम् पाययित्वा पपुः जलम् ॥ ४६ ॥
svam svam vatsa-kulam sarve pāyayiṣyante ekadā . gatvā jalāśaya-abhyāśam pāyayitvā papuḥ jalam .. 46 ..
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम् ॥ ४७ ॥
ते तत्र ददृशुः बालाः महा-सत्त्वम् अवस्थितम् । तत्रसुः वज्र-निर्भिन्नम् गिरेः शृङ्गम् इव च्युतम् ॥ ४७ ॥
te tatra dadṛśuḥ bālāḥ mahā-sattvam avasthitam . tatrasuḥ vajra-nirbhinnam gireḥ śṛṅgam iva cyutam .. 47 ..
स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥ ४८ ॥
स वै बकः नाम महान् असुरः बक-रूपधृक् । आगत्य सहसा कृष्णम् तीक्ष्ण-तुण्डः अग्रसत् बली ॥ ४८ ॥
sa vai bakaḥ nāma mahān asuraḥ baka-rūpadhṛk . āgatya sahasā kṛṣṇam tīkṣṇa-tuṇḍaḥ agrasat balī .. 48 ..
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९ ॥
कृष्णम् महा-बक-ग्रस्तम् दृष्ट्वा राम-आदयः अर्भकाः । बभूवुः इन्द्रियाणि इव विना प्राणम् विचेतसः ॥ ४९ ॥
kṛṣṇam mahā-baka-grastam dṛṣṭvā rāma-ādayaḥ arbhakāḥ . babhūvuḥ indriyāṇi iva vinā prāṇam vicetasaḥ .. 49 ..
( मिश्र )
तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरोः । चच्छर्द सद्योऽतिरुषाक्षतं बकः तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥
तम् तालु-मूलम् प्रदहन्तम् अग्नि-वत् गोपाल-सूनुम् पितरम् जगद्गुरोः । चच्छर्द सद्यस् अति रुषा अक्षतम् बकः तुण्डेन हन्तुम् पुनर् अभ्यपद्यत ॥ ५० ॥
tam tālu-mūlam pradahantam agni-vat gopāla-sūnum pitaram jagadguroḥ . caccharda sadyas ati ruṣā akṣatam bakaḥ tuṇḍena hantum punar abhyapadyata .. 50 ..
तं आपतन्तं स निगृह्य तुण्डयोः दोर्भ्यां बकं कंससखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥
तम् आपतन्तम् स निगृह्य तुण्डयोः दोर्भ्याम् बकम् कंस-सखम् सताम् पतिः । पश्यत्सु बालेषु ददार लीलया मुदा आवहः वीरण-वत् दिवौकसाम् ॥ ५१ ॥
tam āpatantam sa nigṛhya tuṇḍayoḥ dorbhyām bakam kaṃsa-sakham satām patiḥ . paśyatsu bāleṣu dadāra līlayā mudā āvahaḥ vīraṇa-vat divaukasām .. 51 ..
तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्खसंस्तवैः तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥
तदा बकारिम् सुर-लोक-वासिनः समाकिरन् नन्दन-मल्लिका-आदिभिः । समीडिरे च आनक-शङ्ख-संस्तवैः तत् वीक्ष्य गोपाल-सुताः विसिस्मिरे ॥ ५२ ॥
tadā bakārim sura-loka-vāsinaḥ samākiran nandana-mallikā-ādibhiḥ . samīḍire ca ānaka-śaṅkha-saṃstavaiḥ tat vīkṣya gopāla-sutāḥ visismire .. 52 ..
मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३ ॥
मुक्तम् बक-आस्यात् उपलभ्य बालकाः राम-आदयः प्राणम् इव इन्द्रियः गणः । स्थान-आगतम् तम् परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तत् जगुः ॥ ५३ ॥
muktam baka-āsyāt upalabhya bālakāḥ rāma-ādayaḥ prāṇam iva indriyaḥ gaṇaḥ . sthāna-āgatam tam parirabhya nirvṛtāḥ praṇīya vatsān vrajam etya tat jaguḥ .. 53 ..
( अनुष्टुप् )
श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः । प्रेत्य आगतमिवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ ५४ ॥
श्रुत्वा तत् विस्मिताः गोपाः गोप्यः च अति प्रिय-आदृताः । प्रेत्य आगतम् इव उत्सुक्यात् ऐक्षन्त तृषित-ईक्षणाः ॥ ५४ ॥
śrutvā tat vismitāḥ gopāḥ gopyaḥ ca ati priya-ādṛtāḥ . pretya āgatam iva utsukyāt aikṣanta tṛṣita-īkṣaṇāḥ .. 54 ..
अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥
अहो बत अस्य बालस्य बहवः मृत्यवः अभवन् । अपि आसीत् विप्रियम् तेषाम् कृतम् पूर्वम् यतस् भयम् ॥ ५५ ॥
aho bata asya bālasya bahavaḥ mṛtyavaḥ abhavan . api āsīt vipriyam teṣām kṛtam pūrvam yatas bhayam .. 55 ..
अथापि अभिभवन्त्येनं नैव ते घोरदर्शनाः । जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६ ॥
अथ अपि अभिभवन्ति एनम् न एव ते घोर-दर्शनाः । जिघांसया एनम् आसाद्य नश्यन्ति अग्नौ पतङ्ग-वत् ॥ ५६ ॥
atha api abhibhavanti enam na eva te ghora-darśanāḥ . jighāṃsayā enam āsādya naśyanti agnau pataṅga-vat .. 56 ..
अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवान् अन्वभावि तथैव तत् ॥ ५७ ॥
अहो ब्रह्म-विदाम् वाचः नासत्याः सन्ति कर्हिचित् । गर्गः यत् आह भगवान् अन्वभावि तथा एव तत् ॥ ५७ ॥
aho brahma-vidām vācaḥ nāsatyāḥ santi karhicit . gargaḥ yat āha bhagavān anvabhāvi tathā eva tat .. 57 ..
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥
इति नन्द-आदयः गोपाः कृष्ण-राम-कथाम् मुदा । कुर्वन्तः रममाणाः च न अविन्दन् भव-वेदनाम् ॥ ५८ ॥
iti nanda-ādayaḥ gopāḥ kṛṣṇa-rāma-kathām mudā . kurvantaḥ ramamāṇāḥ ca na avindan bhava-vedanām .. 58 ..
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ५९ ॥
एवम् विहारैः कौमारैः कौमारम् जहतुः व्रजे । निलायनैः सेतु-बन्धैः मर्कट-उत्प्लवन-आदिभिः ॥ ५९ ॥
evam vihāraiḥ kaumāraiḥ kaumāram jahatuḥ vraje . nilāyanaiḥ setu-bandhaiḥ markaṭa-utplavana-ādibhiḥ .. 59 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकादशोऽध्यायः ॥ ११ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे एकादशः अध्यायः ॥ ११ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ekādaśaḥ adhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In