| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥ १ ॥
gopā nandādayaḥ śrutvā drumayoḥ patato ravam . tatrājagmuḥ kuruśreṣṭha nirghātabhayaśaṅkitāḥ .. 1 ..
भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥
bhūmyāṃ nipatitau tatra dadṛśuryamalārjunau . babhramustadavijñāya lakṣyaṃ patanakāraṇam .. 2 ..
उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यं उत्पात इति कातराः ॥ ३ ॥
ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ ca bālakam . kasyedaṃ kuta āścaryaṃ utpāta iti kātarāḥ .. 3 ..
बाला ऊचुरनेनेति तिर्यग्गतं उलूखलम् । विकर्षता मध्यगेन पुरुषौ अपि अचक्ष्महि ॥ ४ ॥
bālā ūcuraneneti tiryaggataṃ ulūkhalam . vikarṣatā madhyagena puruṣau api acakṣmahi .. 4 ..
न ते तदुक्तं जगृहुः न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् संदिग्धचेतसः ॥ ५ ॥
na te taduktaṃ jagṛhuḥ na ghaṭeteti tasya tat . bālasyotpāṭanaṃ tarvoḥ kecit saṃdigdhacetasaḥ .. 5 ..
उलूखलं विकर्षन्तं दाम्ना बद्धं स्वमात्मजम् । विलोक्य नन्दः प्रहसद् वदनो विमुमोच ह ॥ ६ ॥
ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svamātmajam . vilokya nandaḥ prahasad vadano vimumoca ha .. 6 ..
गोपीभिः स्तोभितोऽनृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन्मुग्धः तद्वशो दारुयन्त्रवत् ॥ ७ ॥
gopībhiḥ stobhito'nṛtyad bhagavān bālavat kvacit . udgāyati kvacinmugdhaḥ tadvaśo dāruyantravat .. 7 ..
बिभर्ति क्वचिदाज्ञप्तः पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८ ॥
bibharti kvacidājñaptaḥ pīṭhakonmānapādukam . bāhukṣepaṃ ca kurute svānāṃ ca prītimāvahan .. 8 ..
दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बालचेष्टितैः ॥ ९ ॥
darśayaṃstadvidāṃ loka ātmano bhṛtyavaśyatām . vrajasyovāha vai harṣaṃ bhagavān bālaceṣṭitaiḥ .. 9 ..
क्रीणीहि भोः फलानीति श्रुत्वा सत्वरमच्युतः । फलार्थी धान्यमादाय ययौ सर्वफलप्रदः ॥ १० ॥
krīṇīhi bhoḥ phalānīti śrutvā satvaramacyutaḥ . phalārthī dhānyamādāya yayau sarvaphalapradaḥ .. 10 ..
फलविक्रयिणी तस्य च्युतधान्यकरद्वयम् । फलैरपूरयद् रत्नैः फलभाण्डमपूरि च ॥ ॥
phalavikrayiṇī tasya cyutadhānyakaradvayam . phalairapūrayad ratnaiḥ phalabhāṇḍamapūri ca .. ..
सरित्तीरगतं कृष्णं भग्नार्जुनमथाह्वयत् । रामं च रोहिणी देवी क्रीडन्तं बालकैर्भृशम् ॥ १२ ॥
sarittīragataṃ kṛṣṇaṃ bhagnārjunamathāhvayat . rāmaṃ ca rohiṇī devī krīḍantaṃ bālakairbhṛśam .. 12 ..
नोपेयातां यदाऽऽहूतौ क्रीडासङ्गेन पुत्रकौ । यशोदां प्रेषयामास रोहिणी पुत्रवत्सलाम् ॥ १३ ॥
nopeyātāṃ yadā''hūtau krīḍāsaṅgena putrakau . yaśodāṃ preṣayāmāsa rohiṇī putravatsalām .. 13 ..
क्रीडन्तं सा सुतं बालैः अतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्रस्नेहस्नुतस्तनी ॥ १४ ॥
krīḍantaṃ sā sutaṃ bālaiḥ ativelaṃ sahāgrajam . yaśodājohavīt kṛṣṇaṃ putrasnehasnutastanī .. 14 ..
कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्क्षान्तः क्रीडाश्रान्तोऽसि पुत्रक ॥ १५ ॥
kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba . alaṃ vihāraiḥ kṣutkṣāntaḥ krīḍāśrānto'si putraka .. 15 ..
हे रामागच्छ ताताशु सानुजः कुलनन्दन । प्रातरेव कृताहारः तद् भवान् भोक्तुमर्हति ॥ १६ ॥
he rāmāgaccha tātāśu sānujaḥ kulanandana . prātareva kṛtāhāraḥ tad bhavān bhoktumarhati .. 16 ..
प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्यावयोः प्रियं धेहि स्वगृहान् यात बालकाः ॥ १७ ॥
pratīkṣate tvāṃ dāśārha bhokṣyamāṇo vrajādhipaḥ . ehyāvayoḥ priyaṃ dhehi svagṛhān yāta bālakāḥ .. 17 ..
धूलिधूसरिताङ्गस्त्वं पुत्र मज्जनमावह । जन्मर्क्षमद्य भवतो विप्रेभ्यो देहि गाः शुचिः ॥ १८ ॥
dhūlidhūsaritāṅgastvaṃ putra majjanamāvaha . janmarkṣamadya bhavato viprebhyo dehi gāḥ śuciḥ .. 18 ..
पश्य पश्य वयस्यांस्ते मातृमृष्टान् स्वलङ्कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ १९ ॥
paśya paśya vayasyāṃste mātṛmṛṣṭān svalaṅkṛtān . tvaṃ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ .. 19 ..
इत्थं यशोदा तमशेषशेखरं मत्वा सुतं स्नेहनिबद्धधीर्नृप । हस्ते गृहीत्वा सहराममच्युतं नीत्वा स्ववाटं कृतवत्यथोदयम् ॥ २० ॥
itthaṃ yaśodā tamaśeṣaśekharaṃ matvā sutaṃ snehanibaddhadhīrnṛpa . haste gṛhītvā saharāmamacyutaṃ nītvā svavāṭaṃ kṛtavatyathodayam .. 20 ..
( अनुष्टुप् )
गोपवृद्धा महोत्पातान् अनुभूय बृहद्वने । नन्दादयः समागम्य व्रजकार्यं अमन्त्रयन् ॥ २१ ॥
gopavṛddhā mahotpātān anubhūya bṛhadvane . nandādayaḥ samāgamya vrajakāryaṃ amantrayan .. 21 ..
तत्र उपनन्दनामाऽऽह गोपो ज्ञानवयोऽधिकः । देशकालार्थतत्त्वज्ञः प्रियकृद् रामकृष्णयोः ॥ २२ ॥
tatra upanandanāmā''ha gopo jñānavayo'dhikaḥ . deśakālārthatattvajñaḥ priyakṛd rāmakṛṣṇayoḥ .. 22 ..
उत्थातव्यं इतोऽस्माभिः गोकुलस्य हितैषिभिः । आयान्ति अत्र महोत्पाता बालानां नाशहेतवः ॥ २३ ॥
utthātavyaṃ ito'smābhiḥ gokulasya hitaiṣibhiḥ . āyānti atra mahotpātā bālānāṃ nāśahetavaḥ .. 23 ..
मुक्तः कथञ्चिद् राक्षस्या बालघ्न्या बालको ह्यसौ । हरेरनुग्रहात् नूनं अनश्चोपरि नापतत् ॥ २४ ॥
muktaḥ kathañcid rākṣasyā bālaghnyā bālako hyasau . hareranugrahāt nūnaṃ anaścopari nāpatat .. 24 ..
चक्रवातेन नीतोऽयं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ २५ ॥
cakravātena nīto'yaṃ daityena vipadaṃ viyat . śilāyāṃ patitastatra paritrātaḥ sureśvaraiḥ .. 25 ..
यन्न म्रियेत द्रुमयोः अन्तरं प्राप्य बालकः । असौ अन्यतमो वापि तदप्यच्युतरक्षणम् ॥ २६ ॥
yanna mriyeta drumayoḥ antaraṃ prāpya bālakaḥ . asau anyatamo vāpi tadapyacyutarakṣaṇam .. 26 ..
यावत् औत्पातिकोऽरिष्टो व्रजं नाभिभवेदितः । तावद् बालानुपादाय यास्यामोऽन्यत्र सानुगाः ॥ २७ ॥
yāvat autpātiko'riṣṭo vrajaṃ nābhibhaveditaḥ . tāvad bālānupādāya yāsyāmo'nyatra sānugāḥ .. 27 ..
वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रि तृणवीरुधम् ॥ २८ ॥
vanaṃ vṛndāvanaṃ nāma paśavyaṃ navakānanam . gopagopīgavāṃ sevyaṃ puṇyādri tṛṇavīrudham .. 28 ..
तत्तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥ २९ ॥
tattatrādyaiva yāsyāmaḥ śakaṭān yuṅkta mā ciram . godhanānyagrato yāntu bhavatāṃ yadi rocate .. 29 ..
तच्छ्रुत्वैकधियो गोपाः साधु साध्विति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः ॥ ३० ॥
tacchrutvaikadhiyo gopāḥ sādhu sādhviti vādinaḥ . vrajān svān svān samāyujya yayū rūḍhaparicchadāḥ .. 30 ..
वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्वारोप्य गोपाला यत्ता आत्त-शरासनाः ॥ ३१ ॥
vṛddhān bālān striyo rājan sarvopakaraṇāni ca . anaḥsvāropya gopālā yattā ātta-śarāsanāḥ .. 31 ..
गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः । तूर्यघोषेण महता ययुः सहपुरोहिताः ॥ ३२ ॥
godhanāni puraskṛtya śṛṅgāṇyāpūrya sarvataḥ . tūryaghoṣeṇa mahatā yayuḥ sahapurohitāḥ .. 32 ..
गोप्यो रूढरथा नूत्न कुचकुंकुम कान्तयः । कृष्णलीला जगुः प्रीत्या निष्ककण्ठ्यः सुवाससः ॥ ३३ ॥
gopyo rūḍharathā nūtna kucakuṃkuma kāntayaḥ . kṛṣṇalīlā jaguḥ prītyā niṣkakaṇṭhyaḥ suvāsasaḥ .. 33 ..
तथा यशोदारोहिण्यौ एकं शकटमास्थिते । रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ ३४ ॥
tathā yaśodārohiṇyau ekaṃ śakaṭamāsthite . rejatuḥ kṛṣṇarāmābhyāṃ tatkathāśravaṇotsuke .. 34 ..
वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्व्रजावासं शकटैः अर्धचन्द्रवत् ॥ ३५ ॥
vṛndāvanaṃ sampraviśya sarvakālasukhāvaham . tatra cakrurvrajāvāsaṃ śakaṭaiḥ ardhacandravat .. 35 ..
वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीत् उत्तमा प्रीती राममाधवयोर्नृप ॥ ३६ ॥
vṛndāvanaṃ govardhanaṃ yamunāpulināni ca . vīkṣyāsīt uttamā prītī rāmamādhavayornṛpa .. 36 ..
एवं व्रजौकसां प्रीतिं यच्छन्तौ बालचेष्टितैः । कलवाक्यैः स्वकालेन वत्सपालौ बभूवतुः ॥ ३७ ॥
evaṃ vrajaukasāṃ prītiṃ yacchantau bālaceṣṭitaiḥ . kalavākyaiḥ svakālena vatsapālau babhūvatuḥ .. 37 ..
अविदूरे व्रजभुवः सह गोपालदारकैः । चारयामासतुः वत्सान् नानाक्रीडापरिच्छदौ ॥ ३८ ॥
avidūre vrajabhuvaḥ saha gopāladārakaiḥ . cārayāmāsatuḥ vatsān nānākrīḍāparicchadau .. 38 ..
क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् । क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिमगोवृषैः ॥ ३९ ॥
kvacid vādayato veṇuṃ kṣepaṇaiḥ kṣipataḥ kvacit . kvacit pādaiḥ kiṅkiṇībhiḥ kvacit kṛtrimagovṛṣaiḥ .. 39 ..
वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तून् चेरतुः प्राकृतौ यथा ॥ ४० ॥
vṛṣāyamāṇau nardantau yuyudhāte parasparam . anukṛtya rutairjantūn ceratuḥ prākṛtau yathā .. 40 ..
कदाचिद् यमुनातीरे वत्सान् चारयतोः स्वकैः । वयस्यैः कृष्णबलयोः जिघांसुर्दैत्य आगमत् ॥ ४१ ॥
kadācid yamunātīre vatsān cārayatoḥ svakaiḥ . vayasyaiḥ kṛṣṇabalayoḥ jighāṃsurdaitya āgamat .. 41 ..
तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥ ४२ ॥
taṃ vatsarūpiṇaṃ vīkṣya vatsayūthagataṃ hariḥ . darśayan baladevāya śanairmugdha ivāsadat .. 42 ..
गृहीत्वा अपरपादाभ्यां सहलाङ्गूलमच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् । स कपित्थैर्महाकायः पात्यमानैः पपात ह ॥ ४३ ॥
gṛhītvā aparapādābhyāṃ sahalāṅgūlamacyutaḥ . bhrāmayitvā kapitthāgre prāhiṇod gatajīvitam . sa kapitthairmahākāyaḥ pātyamānaiḥ papāta ha .. 43 ..
तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्विति । देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः ॥ ४४ ॥
taṃ vīkṣya vismitā bālāḥ śaśaṃsuḥ sādhu sādhviti . devāśca parisantuṣṭā babhūvuḥ puṣpavarṣiṇaḥ .. 44 ..
तौ वत्सपालकौ भूत्वा सर्वलोकैकपालकौ । सप्रातराशौ गोवत्सान् चारयन्तौ विचेरतुः ॥ ४५ ॥
tau vatsapālakau bhūtvā sarvalokaikapālakau . saprātarāśau govatsān cārayantau viceratuḥ .. 45 ..
स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर्जलम् ॥ ४६ ॥
svaṃ svaṃ vatsakulaṃ sarve pāyayiṣyanta ekadā . gatvā jalāśayābhyāśaṃ pāyayitvā papurjalam .. 46 ..
ते तत्र ददृशुर्बाला महासत्त्वमवस्थितम् । तत्रसुर्वज्रनिर्भिन्नं गिरेः शृङ्गमिव च्युतम् ॥ ४७ ॥
te tatra dadṛśurbālā mahāsattvamavasthitam . tatrasurvajranirbhinnaṃ gireḥ śṛṅgamiva cyutam .. 47 ..
स वै बको नाम महानसुरो बकरूपधृक् । आगत्य सहसा कृष्णं तीक्ष्णतुण्डोऽग्रसद्बली ॥ ४८ ॥
sa vai bako nāma mahānasuro bakarūpadhṛk . āgatya sahasā kṛṣṇaṃ tīkṣṇatuṇḍo'grasadbalī .. 48 ..
कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोऽर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणं विचेतसः ॥ ४९ ॥
kṛṣṇaṃ mahābakagrastaṃ dṛṣṭvā rāmādayo'rbhakāḥ . babhūvurindriyāṇīva vinā prāṇaṃ vicetasaḥ .. 49 ..
( मिश्र )
तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरोः । चच्छर्द सद्योऽतिरुषाक्षतं बकः तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ५० ॥
taṃ tālumūlaṃ pradahantamagnivad gopālasūnuṃ pitaraṃ jagadguroḥ . caccharda sadyo'tiruṣākṣataṃ bakaḥ tuṇḍena hantuṃ punarabhyapadyata .. 50 ..
तं आपतन्तं स निगृह्य तुण्डयोः दोर्भ्यां बकं कंससखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ५१ ॥
taṃ āpatantaṃ sa nigṛhya tuṇḍayoḥ dorbhyāṃ bakaṃ kaṃsasakhaṃ satāṃ patiḥ . paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavad divaukasām .. 51 ..
तदा बकारिं सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्खसंस्तवैः तद्वीक्ष्य गोपालसुता विसिस्मिरे ॥ ५२ ॥
tadā bakāriṃ suralokavāsinaḥ samākiran nandanamallikādibhiḥ . samīḍire cānakaśaṅkhasaṃstavaiḥ tadvīkṣya gopālasutā visismire .. 52 ..
मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणमिवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजमेत्य तज्जगुः ॥ ५३ ॥
muktaṃ bakāsyād upalabhya bālakā rāmādayaḥ prāṇamivendriyo gaṇaḥ . sthānāgataṃ taṃ parirabhya nirvṛtāḥ praṇīya vatsān vrajametya tajjaguḥ .. 53 ..
( अनुष्टुप् )
श्रुत्वा तद् विस्मिता गोपा गोप्यश्चातिप्रियादृताः । प्रेत्य आगतमिवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ ५४ ॥
śrutvā tad vismitā gopā gopyaścātipriyādṛtāḥ . pretya āgatamivotsukyād aikṣanta tṛṣitekṣaṇāḥ .. 54 ..
अहो बतास्य बालस्य बहवो मृत्यवोऽभवन् । अप्यासीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ ५५ ॥
aho batāsya bālasya bahavo mṛtyavo'bhavan . apyāsīd vipriyaṃ teṣāṃ kṛtaṃ pūrvaṃ yato bhayam .. 55 ..
अथापि अभिभवन्त्येनं नैव ते घोरदर्शनाः । जिघांसयैनमासाद्य नश्यन्त्यग्नौ पतङ्गवत् ॥ ५६ ॥
athāpi abhibhavantyenaṃ naiva te ghoradarśanāḥ . jighāṃsayainamāsādya naśyantyagnau pataṅgavat .. 56 ..
अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवान् अन्वभावि तथैव तत् ॥ ५७ ॥
aho brahmavidāṃ vāco nāsatyāḥ santi karhicit . gargo yadāha bhagavān anvabhāvi tathaiva tat .. 57 ..
इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥ ५८ ॥
iti nandādayo gopāḥ kṛṣṇarāmakathāṃ mudā . kurvanto ramamāṇāśca nāvindan bhavavedanām .. 58 ..
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ५९ ॥
evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahaturvraje . nilāyanaiḥ setubandhaiḥ markaṭotplavanādibhiḥ .. 59 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकादशोऽध्यायः ॥ ११ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ekādaśo'dhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In