| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( मिश्र )
क्वचिद्वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयन् श्रृंगरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥ १ ॥
क्वचिद् वन-अशाय मनः दधत् व्रजात् प्रातर् समुत्थाय वयस्य-वत्सपान् । प्रबोधयन् श्रृंगरवेण चारुणा विनिर्गतः वत्स-पुरःसरः हरिः ॥ १ ॥
kvacid vana-aśāya manaḥ dadhat vrajāt prātar samutthāya vayasya-vatsapān . prabodhayan śrṛṃgaraveṇa cāruṇā vinirgataḥ vatsa-puraḥsaraḥ hariḥ .. 1 ..
( इंद्रवंशा )
तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रो परिसङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २ ॥
तेन एव साकम् पृथुकाः सहस्रशस् स्निग्धाः सुशिज्-वेत्र-विषाण-वेणवः । स्वान् स्वान् परिसङ्ख्यया अन्वितान् वत्सान् पुरस्कृत्य विनिर्ययुः मुदा ॥ २ ॥
tena eva sākam pṛthukāḥ sahasraśas snigdhāḥ suśij-vetra-viṣāṇa-veṇavaḥ . svān svān parisaṅkhyayā anvitān vatsān puraskṛtya viniryayuḥ mudā .. 2 ..
( अनुष्टुप् )
कृष्णवत्सैः असङ्ख्यातैः यूथीकृत्य स्ववत्सकान् । चारयन्तोऽर्भलीलाभिः विजह्रुः तत्र तत्र ह ॥ ३ ॥
कृष्णवत्सैः असङ्ख्यातैः यूथीकृत्य स्ववत्सकान् । चारयन्तः अर्भ-लीलाभिः विजह्रुः तत्र तत्र ह ॥ ३ ॥
kṛṣṇavatsaiḥ asaṅkhyātaiḥ yūthīkṛtya svavatsakān . cārayantaḥ arbha-līlābhiḥ vijahruḥ tatra tatra ha .. 3 ..
फलप्रबालस्तवक सुमनःपिच्छधातुभिः । काचगुञ्जामणिस्वर्ण-भूषिता अप्यभूषयन् ॥ ४ ॥
फल-प्रबाल-स्तवक-सुमनः-पिच्छ-धातुभिः । काच-गुञ्जा-मणि-स्वर्ण-भूषिताः अपि अभूषयन् ॥ ४ ॥
phala-prabāla-stavaka-sumanaḥ-piccha-dhātubhiḥ . kāca-guñjā-maṇi-svarṇa-bhūṣitāḥ api abhūṣayan .. 4 ..
मुष्णन्तोऽन्योन्य शिक्यादीन् न्ज्ञातानाराच्च चिक्षिपुः । तत्रत्याश्च पुनर्दूरात् हसन्तश्च पुनर्ददुः ॥ ५ ॥
मुष्णन्तः अन्योन्य-शिक्य-आदीन् चिक्षिपुः । तत्रत्याः च पुनर् दूरात् हसन्तः च पुनर् ददुः ॥ ५ ॥
muṣṇantaḥ anyonya-śikya-ādīn cikṣipuḥ . tatratyāḥ ca punar dūrāt hasantaḥ ca punar daduḥ .. 5 ..
यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वं अहं पूर्वं इति संस्पृश्य रेमिरे ॥ ६ ॥
यदि दूरम् गतः कृष्णः वन-शोभा-ईक्षणाय तम् । अहम् पूर्वम् अहम् पूर्वम् इति संस्पृश्य रेमिरे ॥ ६ ॥
yadi dūram gataḥ kṛṣṇaḥ vana-śobhā-īkṣaṇāya tam . aham pūrvam aham pūrvam iti saṃspṛśya remire .. 6 ..
केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन । केचिद् भृंङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७ ॥
केचिद् वेणून् वादयन्तः ध्मान्तः शृङ्गाणि केचन । केचिद् भृंङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७ ॥
kecid veṇūn vādayantaḥ dhmāntaḥ śṛṅgāṇi kecana . kecid bhṛṃṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare .. 7 ..
विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः । बकैः उपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८ ॥
विच्छायाभिः प्रधावन्तः गच्छन्तः साधु-हंसकैः । बकैः उपविशन्तः च नृत्यन्तः च कलापिभिः ॥ ८ ॥
vicchāyābhiḥ pradhāvantaḥ gacchantaḥ sādhu-haṃsakaiḥ . bakaiḥ upaviśantaḥ ca nṛtyantaḥ ca kalāpibhiḥ .. 8 ..
विकर्षन्तः कीशबालान् आरोहन्तश्च तैर्द्रुमान् । विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥
विकर्षन्तः कीश-बालान् आरोहन्तः च तैः द्रुमान् । विकुर्वन्तः च तैः साकम् प्लवन्तः च पलाशिषु ॥ ९ ॥
vikarṣantaḥ kīśa-bālān ārohantaḥ ca taiḥ drumān . vikurvantaḥ ca taiḥ sākam plavantaḥ ca palāśiṣu .. 9 ..
साकं भेकैर्विलङ्घन्तः सरित् प्रस्रवसम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ १० ॥
साकम् भेकैः विलङ्घन्तः सरित् प्रस्रव-सम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तः च ॥ १० ॥
sākam bhekaiḥ vilaṅghantaḥ sarit prasrava-samplutāḥ . vihasantaḥ praticchāyāḥ śapantaḥ ca .. 10 ..
( इंद्रवज्रा )
इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ११ ॥
इत्थम् सताम् ब्रह्म-सुख-अनुभूत्या दास्यम् गतानाम् पर-दैवतेन । माया-आश्रितानाम् नर-दारकेण साकम् विजह्रुः कृत-पुण्य-पुञ्जाः ॥ ११ ॥
ittham satām brahma-sukha-anubhūtyā dāsyam gatānām para-daivatena . māyā-āśritānām nara-dārakeṇa sākam vijahruḥ kṛta-puṇya-puñjāḥ .. 11 ..
( मिश्र )
यत्पादपांसुः बहुजन्मकृच्छ्रतो धृतात्मभिः योगिभिरप्यलभ्यः । स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२ ॥
यद्-पाद-पांसुः बहु-जन्म-कृच्छ्रतः धृत-आत्मभिः योगिभिः अपि अलभ्यः । सः एव यद्-दृश्-विषयः स्वयम् स्थितः किम् वर्ण्यते दिष्टम् अतस् व्रजौकसाम् ॥ १२ ॥
yad-pāda-pāṃsuḥ bahu-janma-kṛcchrataḥ dhṛta-ātmabhiḥ yogibhiḥ api alabhyaḥ . saḥ eva yad-dṛś-viṣayaḥ svayam sthitaḥ kim varṇyate diṣṭam atas vrajaukasām .. 12 ..
अथ अघनामाभ्यपतन् महासुरः तेषां सुखक्रीडनवीक्षणाक्षमः । नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैः अप्यमरैः प्रतीक्ष्यते ॥ १३ ॥
अथ अघ-नामा अभ्यपतत् महा-असुरः तेषाम् सुख-क्रीडन-वीक्षण-अक्षमः । नित्यम् यत् अन्तर् निज-जीवित-ईप्सुभिः पीत-अमृतैः अपि अमरैः प्रतीक्ष्यते ॥ १३ ॥
atha agha-nāmā abhyapatat mahā-asuraḥ teṣām sukha-krīḍana-vīkṣaṇa-akṣamaḥ . nityam yat antar nija-jīvita-īpsubhiḥ pīta-amṛtaiḥ api amaraiḥ pratīkṣyate .. 13 ..
दृष्ट्वार्भकान् कृष्णमुखान् अघासुरः । कंसानुशिष्टः स बकीबकानुजः । अयं तु मे सोदरनाशकृत्तयोरः द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥
दृष्ट्वा अर्भकान् कृष्ण-मुखान् अघ-असुरः । कंस-अनुशिष्टः स बकीबक-अनुजः । अयम् तु मे सोदर-नाश-कृत्तयोः उरः द्वयोः मम एनम् स बलम् हनिष्ये ॥ १४ ॥
dṛṣṭvā arbhakān kṛṣṇa-mukhān agha-asuraḥ . kaṃsa-anuśiṣṭaḥ sa bakībaka-anujaḥ . ayam tu me sodara-nāśa-kṛttayoḥ uraḥ dvayoḥ mama enam sa balam haniṣye .. 14 ..
एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते ॥ १५ ॥
एते यदा मद्-सुहृदोः तिलापः कृताः तदा नष्ट-समाः व्रज-ओकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजा-असवः प्राणभृतः हि ये ते ॥ १५ ॥
ete yadā mad-suhṛdoḥ tilāpaḥ kṛtāḥ tadā naṣṭa-samāḥ vraja-okasaḥ . prāṇe gate varṣmasu kā nu cintā prajā-asavaḥ prāṇabhṛtaḥ hi ye te .. 15 ..
( वंशस्था )
इति व्यवस्याजगरं बृहद् वपुः स योजनायाम महाद्रिपीवरम् । धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥ १६ ॥
इति व्यवस्य आजगरम् बृहत् वपुः स योजन-आयाम महा-अद्रि-पीवरम् । धृत्वा अद्भुतम् व्यात्त-गुहा-आननम् तदा पथि व्यशेत ग्रसन-आशया खलः ॥ १६ ॥
iti vyavasya ājagaram bṛhat vapuḥ sa yojana-āyāma mahā-adri-pīvaram . dhṛtvā adbhutam vyātta-guhā-ānanam tadā pathi vyaśeta grasana-āśayā khalaḥ .. 16 ..
( मिश्र )
धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः । ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥ १७ ॥
धराधर-उष्ठः जलद-उत्तर-उष्ठः दर्य-आनन-अन्तः गिरि-शृङ्ग-दंष्ट्रः । ॥ १७ ॥
dharādhara-uṣṭhaḥ jalada-uttara-uṣṭhaḥ darya-ānana-antaḥ giri-śṛṅga-daṃṣṭraḥ . .. 17 ..
( अनुष्टुप् )
दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥
दृष्ट्वा तम् तादृशम् सर्वे मत्वा वृन्दावन-श्रियम् । व्यात्त-अजगर-तुण्डेन हि उत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥
dṛṣṭvā tam tādṛśam sarve matvā vṛndāvana-śriyam . vyātta-ajagara-tuṇḍena hi utprekṣante sma līlayā .. 18 ..
अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् । अस्मत्सङ्ग्रसनव्यात्त व्यालतुण्डायते न वा ॥ १९ ॥
अहो मित्राणि गदत सत्त्व-कूटम् पुरस् स्थितम् । अस्मद्-सङ्ग्रसन-व्यात्त व्यालतुण्डायते न वा ॥ १९ ॥
aho mitrāṇi gadata sattva-kūṭam puras sthitam . asmad-saṅgrasana-vyātta vyālatuṇḍāyate na vā .. 19 ..
सत्यमर्ककरारक्तं उत्तराहनुवद्घनम् । अधराहनुवद् रोधः तत् प्रतिच्छाययारुणम् ॥ २० ॥
सत्यम् अर्क-कर-अ रक्तम् उत्तरा-हनु-वत् घनम् । अधरा-हनु-वत् रोधः तत् प्रतिच्छायया अरुणम् ॥ २० ॥
satyam arka-kara-a raktam uttarā-hanu-vat ghanam . adharā-hanu-vat rodhaḥ tat praticchāyayā aruṇam .. 20 ..
प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे । तुंगशृंगालयोऽप्येताः तद् दंष्ट्राभिश्च पश्यत ॥ २१ ॥
प्रतिस्पर्धेते सृक्किभ्याम् सव्य-असव्ये नग-उदरे । तुंग-शृंग-आलयः अपि एताः तत् दंष्ट्राभिः च पश्यत ॥ २१ ॥
pratispardhete sṛkkibhyām savya-asavye naga-udare . tuṃga-śṛṃga-ālayaḥ api etāḥ tat daṃṣṭrābhiḥ ca paśyata .. 21 ..
आस्तृतायाम मार्गोऽयं रसनां प्रतिगर्जति । एषां अन्तर्गतं ध्वान्तं एतदप्यन्तः आननम् ॥ २२ ॥
आस्तृत-आयाम मार्गः अयम् रसनाम् प्रतिगर्जति । एषाम् अन्तर्गतम् ध्वान्तम् एतत् अपि अन्तर् आननम् ॥ २२ ॥
āstṛta-āyāma mārgaḥ ayam rasanām pratigarjati . eṣām antargatam dhvāntam etat api antar ānanam .. 22 ..
दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत । तद् दग्धसत्त्वदुर्गन्धोऽपि अन्तरामिषगन्धवत् ॥ २३ ॥
दाव-उष्ण-खर-वातः अयम् श्वास-वत् भाति पश्यत । तत् दग्ध-सत्त्व-दुर्गन्धः अपि अन्तर् आमिष-गन्ध-वत् ॥ २३ ॥
dāva-uṣṇa-khara-vātaḥ ayam śvāsa-vat bhāti paśyata . tat dagdha-sattva-durgandhaḥ api antar āmiṣa-gandha-vat .. 23 ..
( मिश्र )
अस्मान्किमत्र ग्रसिता निविष्टा- नयं तथा चेद् बकवद् विनङ्क्ष्यति । क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४ ॥
अस्मान् किम् अत्र ग्रसिता निविष्टा नयम् तथा चेद् बक-वत् विनङ्क्ष्यति । क्षणात् अनेन इति बकारि-उशत्-मुखम् वीक्ष्य उद्धसन्तः कर-ताडनैः ययुः ॥ २४ ॥
asmān kim atra grasitā niviṣṭā nayam tathā ced baka-vat vinaṅkṣyati . kṣaṇāt anena iti bakāri-uśat-mukham vīkṣya uddhasantaḥ kara-tāḍanaiḥ yayuḥ .. 24 ..
इत्थं मिथोऽतथ्यं अतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिल-भूतहृत्स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५ ॥
इत्थम् मिथस् अतथ्यम् अतज्ज्ञ-भाषितम् श्रुत्वा विचिन्त्य इति अमृषा मृषायते । रक्षः विदित्वा अखिल-भूत-हृद्-स्थितः स्वानाम् निरोद्धुम् भगवान् मनः दधे ॥ २५ ॥
ittham mithas atathyam atajjña-bhāṣitam śrutvā vicintya iti amṛṣā mṛṣāyate . rakṣaḥ viditvā akhila-bhūta-hṛd-sthitaḥ svānām niroddhum bhagavān manaḥ dadhe .. 25 ..
तावत् प्रविष्टास्तु असुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः । प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥
तावत् प्रविष्टाः तु असुर-उदर-अन्तरम् परम् न गीर्णाः शिशवः स वत्साः । प्रतीक्षमाणेन बक-अरि-वेशनम् हत-स्व-कान्त-स्मरणेन रक्षसा ॥ २६ ॥
tāvat praviṣṭāḥ tu asura-udara-antaram param na gīrṇāḥ śiśavaḥ sa vatsāḥ . pratīkṣamāṇena baka-ari-veśanam hata-sva-kānta-smaraṇena rakṣasā .. 26 ..
तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान् । दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ॥ २७ ॥
तान् वीक्ष्य कृष्णः सकल-अभय-प्रदः हि अनन्य-नाथान् स्व-करात् अवच्युतान् । दीनान् च मृत्योः जठर-अग्नि-घासान् घृणा-अर्दितः दिष्ट-कृतेन विस्मितः ॥ २७ ॥
tān vīkṣya kṛṣṇaḥ sakala-abhaya-pradaḥ hi ananya-nāthān sva-karāt avacyutān . dīnān ca mṛtyoḥ jaṭhara-agni-ghāsān ghṛṇā-arditaḥ diṣṭa-kṛtena vismitaḥ .. 27 ..
कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् । द्वयं कथं स्यादिति संविचिन्त्य तत् ज्ञात्वाविशत् तुण्डमशेषदृग्घरिः ॥ २८ ॥
कृत्यम् किम् अत्र अस्य खलस्य जीवनम् न वा अमीषाम् च सताम् विहिंसनम् । द्वयम् कथम् स्यात् इति संविचिन्त्य तत् ज्ञात्वा अविशत् तुण्डम् अशेष-दृश् हरिः ॥ २८ ॥
kṛtyam kim atra asya khalasya jīvanam na vā amīṣām ca satām vihiṃsanam . dvayam katham syāt iti saṃvicintya tat jñātvā aviśat tuṇḍam aśeṣa-dṛś hariḥ .. 28 ..
( अनुष्टुप् )
तदा घनच्छदा देवा भयाद् हाहेति चुक्रुशुः । जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ २९ ॥
तदा घनच्छदाः देवाः भयात् हाहा इति चुक्रुशुः । जहृषुः ये च कंस-आद्याः कौणपाः तु अघ-बान्धवाः ॥ २९ ॥
tadā ghanacchadāḥ devāḥ bhayāt hāhā iti cukruśuḥ . jahṛṣuḥ ye ca kaṃsa-ādyāḥ kauṇapāḥ tu agha-bāndhavāḥ .. 29 ..
तच्छ्रुत्वा भगवान् कृष्णस्तु अव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३० ॥
तत् श्रुत्वा भगवान् कृष्णः तु अव्ययः सार्भ-वत्सकम् । चूर्णीचिकीर्षोः आत्मानम् तरसा ववृधे गले ॥ ३० ॥
tat śrutvā bhagavān kṛṣṇaḥ tu avyayaḥ sārbha-vatsakam . cūrṇīcikīrṣoḥ ātmānam tarasā vavṛdhe gale .. 30 ..
( मिश्र )
ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेः भ्रमतस्त्वितस्ततः । पूर्णोऽन्तरंगे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१ ॥
ततस् अतिकायस्य निरुद्ध-मार्गिणः हि उद्गीर्ण-दृष्टेः भ्रमतः तु इतस् ततस् । पूर्णः अन्तरंगे पवनः निरुद्धः मूर्धन् विनिष्पाट्य विनिर्गतः बहिस् ॥ ३१ ॥
tatas atikāyasya niruddha-mārgiṇaḥ hi udgīrṇa-dṛṣṭeḥ bhramataḥ tu itas tatas . pūrṇaḥ antaraṃge pavanaḥ niruddhaḥ mūrdhan viniṣpāṭya vinirgataḥ bahis .. 31 ..
तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनः वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥
तेन एव सर्वेषु बहिस् गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वया उत्थाप्य तद्-अन्वितः पुनर् वक्त्रात् मुकुन्दः भगवान् विनिर्ययौ ॥ ३२ ॥
tena eva sarveṣu bahis gateṣu prāṇeṣu vatsān suhṛdaḥ paretān . dṛṣṭyā svayā utthāpya tad-anvitaḥ punar vaktrāt mukundaḥ bhagavān viniryayau .. 32 ..
पीनाहिभोगोत्थितमद्भुतं महत् ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥
पीन-अहि-भोग-उत्थितम् अद्भुतम् महत् ज्योतिः स्व-धाम्ना ज्वलयत् दिशः दश । प्रतीक्ष्य खे अवस्थितम् ईश-निर्गमम् विवेश तस्मिन् मिषताम् दिवौकसाम् ॥ ३३ ॥
pīna-ahi-bhoga-utthitam adbhutam mahat jyotiḥ sva-dhāmnā jvalayat diśaḥ daśa . pratīkṣya khe avasthitam īśa-nirgamam viveśa tasmin miṣatām divaukasām .. 33 ..
ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं पुष्पैः सुगा अप्सरसश्च नर्तनैः । गीतैः सुरा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ ३४ ॥
ततस् अति हृष्टाः स्वकृतः अकृत-अर्हणम् पुष्पैः सुगाः अप्सरसः च नर्तनैः । गीतैः सुराः वाद्य-धराः च वाद्यकैः स्तवैः च विप्राः जय-निःस्वनैः गणाः ॥ ३४ ॥
tatas ati hṛṣṭāḥ svakṛtaḥ akṛta-arhaṇam puṣpaiḥ sugāḥ apsarasaḥ ca nartanaiḥ . gītaiḥ surāḥ vādya-dharāḥ ca vādyakaiḥ stavaiḥ ca viprāḥ jaya-niḥsvanaiḥ gaṇāḥ .. 34 ..
तदद्भुतस्तोत्रसुवाद्यगीतिका जयादिनैकोत्सव मङ्गलस्वनान् । श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥
तद्-अद्भुत-स्तोत्र-सु वाद्य-गीतिका मङ्गल-स्वनान् । श्रुत्वा स्व-धाम्नः अन्त्यजः आगतः अचिरात् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥
tad-adbhuta-stotra-su vādya-gītikā maṅgala-svanān . śrutvā sva-dhāmnaḥ antyajaḥ āgataḥ acirāt dṛṣṭvā mahīśasya jagāma vismayam .. 35 ..
( अनुष्टुप् )
राजन् आजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥
राजन् आजगरम् चर्म शुष्कम् वृन्दावने अद्भुतम् । व्रजौकसाम् बहुतिथम् बभूव आक्रीड-गह्वरम् ॥ ३६ ॥
rājan ājagaram carma śuṣkam vṛndāvane adbhutam . vrajaukasām bahutitham babhūva ākrīḍa-gahvaram .. 36 ..
एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७ ॥
एतत् कौमार-जम् कर्म हरेः आत्म-अहि-मोक्षणम् । मृत्योः पौगण्डके बालाः दृष्ट्वा ऊचुः विस्मिताः व्रजे ॥ ३७ ॥
etat kaumāra-jam karma hareḥ ātma-ahi-mokṣaṇam . mṛtyoḥ paugaṇḍake bālāḥ dṛṣṭvā ūcuḥ vismitāḥ vraje .. 37 ..
( मिश्र )
नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥
न एतत् विचित्रम् मनुज-अर्भ-मायिनः परावराणाम् परमस्य वेधसः । अघः अपि यद्-स्पर्शन-धौत-पातकः प्राप आत्म-साम्यम् तु असताम् सु दुर्लभम् ॥ ३८ ॥
na etat vicitram manuja-arbha-māyinaḥ parāvarāṇām paramasya vedhasaḥ . aghaḥ api yad-sparśana-dhauta-pātakaḥ prāpa ātma-sāmyam tu asatām su durlabham .. 38 ..
( वंशस्था )
सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ ३९ ॥
सकृत् यद्-अङ्ग-प्रतिमा-अन्तर-आहिता मनः-मयी भागवतीम् ददौ गतिम् । सः एव नित्य-आत्म-सुख-अनुभूति-अभि व्युदस्त-मायः अन्तर्गतः हि किम् पुनर् ॥ ३९ ॥
sakṛt yad-aṅga-pratimā-antara-āhitā manaḥ-mayī bhāgavatīm dadau gatim . saḥ eva nitya-ātma-sukha-anubhūti-abhi vyudasta-māyaḥ antargataḥ hi kim punar .. 39 ..
श्रीसूत उवाच । ( इंद्रवज्रा )
इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् । पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ॥ ४० ॥
इत्थम् द्विजाः यादवदेवदत्तः श्रुत्वा स्व-रातुः चरितम् विचित्रम् । पप्रच्छ भूयस् अपि तत् एव पुण्यम् वैयासकिम् यत् निगृहीत-चेताः ॥ ४० ॥
ittham dvijāḥ yādavadevadattaḥ śrutvā sva-rātuḥ caritam vicitram . papraccha bhūyas api tat eva puṇyam vaiyāsakim yat nigṛhīta-cetāḥ .. 40 ..
श्रीराजोवाच । ( अनुष्टुप् )
ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् । यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ ४१ ॥
ब्रह्मन् काल-अन्तर-कृतम् तद्-कालीनम् कथम् भवेत् । यत् कौमारे हरि-कृतम् जगुः पौगण्डके अर्भकाः ॥ ४१ ॥
brahman kāla-antara-kṛtam tad-kālīnam katham bhavet . yat kaumāre hari-kṛtam jaguḥ paugaṇḍake arbhakāḥ .. 41 ..
तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥
तत् ब्रूहि मे महा-योगिन् परम् कौतूहलम् गुरो । नूनम् एतत् हरेः एव माया भवति ना अन्यथा ॥ ४२ ॥
tat brūhi me mahā-yogin param kautūhalam guro . nūnam etat hareḥ eva māyā bhavati nā anyathā .. 42 ..
वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ ४३ ॥
वयम् धन्यतमाः लोके गुरः अपि क्षत्रबन्धवः । यत् पिबामः मुहुर् त्वत्तः पुण्यम् कृष्ण-कथा-अमृतम् ॥ ४३ ॥
vayam dhanyatamāḥ loke guraḥ api kṣatrabandhavaḥ . yat pibāmaḥ muhur tvattaḥ puṇyam kṛṣṇa-kathā-amṛtam .. 43 ..
श्रीसूत उवाच । ( इंद्रवंशा )
इत्थं स्म पृष्टः स तु बादरायणिः तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४ ॥
इत्थम् स्म पृष्टः स तु बादरायणिः तद्-स्मारित-अनन्त-हृत-अखिल-इन्द्रियः । कृच्छ्रात् पुनर् लब्ध-बहिस् दृशिः शनैस् प्रत्याह तम् भागवत-उत्तम-उत्तम ॥ ४४ ॥
ittham sma pṛṣṭaḥ sa tu bādarāyaṇiḥ tad-smārita-ananta-hṛta-akhila-indriyaḥ . kṛcchrāt punar labdha-bahis dṛśiḥ śanais pratyāha tam bhāgavata-uttama-uttama .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ १२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे द्वादशः अध्यायः ॥ १२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe dvādaśaḥ adhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In