| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( मिश्र )
क्वचिद्वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयन् श्रृंगरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः ॥ १ ॥
kvacidvanāśāya mano dadhad vrajāt prātaḥ samutthāya vayasyavatsapān . prabodhayan śrṛṃgaraveṇa cāruṇā vinirgato vatsapuraḥsaro hariḥ .. 1 ..
( इंद्रवंशा )
तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रो परिसङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर्मुदा ॥ २ ॥
tenaiva sākaṃ pṛthukāḥ sahasraśaḥ snigdhāḥ suśigvetraviṣāṇaveṇavaḥ . svān svān sahasro parisaṅkhyayānvitān vatsān puraskṛtya viniryayurmudā .. 2 ..
( अनुष्टुप् )
कृष्णवत्सैः असङ्ख्यातैः यूथीकृत्य स्ववत्सकान् । चारयन्तोऽर्भलीलाभिः विजह्रुः तत्र तत्र ह ॥ ३ ॥
kṛṣṇavatsaiḥ asaṅkhyātaiḥ yūthīkṛtya svavatsakān . cārayanto'rbhalīlābhiḥ vijahruḥ tatra tatra ha .. 3 ..
फलप्रबालस्तवक सुमनःपिच्छधातुभिः । काचगुञ्जामणिस्वर्ण-भूषिता अप्यभूषयन् ॥ ४ ॥
phalaprabālastavaka sumanaḥpicchadhātubhiḥ . kācaguñjāmaṇisvarṇa-bhūṣitā apyabhūṣayan .. 4 ..
मुष्णन्तोऽन्योन्य शिक्यादीन् न्ज्ञातानाराच्च चिक्षिपुः । तत्रत्याश्च पुनर्दूरात् हसन्तश्च पुनर्ददुः ॥ ५ ॥
muṣṇanto'nyonya śikyādīn njñātānārācca cikṣipuḥ . tatratyāśca punardūrāt hasantaśca punardaduḥ .. 5 ..
यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहं पूर्वं अहं पूर्वं इति संस्पृश्य रेमिरे ॥ ६ ॥
yadi dūraṃ gataḥ kṛṣṇo vanaśobhekṣaṇāya tam . ahaṃ pūrvaṃ ahaṃ pūrvaṃ iti saṃspṛśya remire .. 6 ..
केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन । केचिद् भृंङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ ७ ॥
kecid veṇūn vādayanto dhmāntaḥ śṛṅgāṇi kecana . kecid bhṛṃṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare .. 7 ..
विच्छायाभिः प्रधावन्तो गच्छन्तः साधुहंसकैः । बकैः उपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८ ॥
vicchāyābhiḥ pradhāvanto gacchantaḥ sādhuhaṃsakaiḥ . bakaiḥ upaviśantaśca nṛtyantaśca kalāpibhiḥ .. 8 ..
विकर्षन्तः कीशबालान् आरोहन्तश्च तैर्द्रुमान् । विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥
vikarṣantaḥ kīśabālān ārohantaśca tairdrumān . vikurvantaśca taiḥ sākaṃ plavantaśca palāśiṣu .. 9 ..
साकं भेकैर्विलङ्घन्तः सरित् प्रस्रवसम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश्च प्रतिस्वनान् ॥ १० ॥
sākaṃ bhekairvilaṅghantaḥ sarit prasravasamplutāḥ . vihasantaḥ praticchāyāḥ śapantaśca pratisvanān .. 10 ..
( इंद्रवज्रा )
इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेण साकं विजह्रुः कृतपुण्यपुञ्जाः ॥ ११ ॥
itthaṃ satāṃ brahmasukhānubhūtyā dāsyaṃ gatānāṃ paradaivatena . māyāśritānāṃ naradārakeṇa sākaṃ vijahruḥ kṛtapuṇyapuñjāḥ .. 11 ..
( मिश्र )
यत्पादपांसुः बहुजन्मकृच्छ्रतो धृतात्मभिः योगिभिरप्यलभ्यः । स एव यद्दृग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो व्रजौकसाम् ॥ १२ ॥
yatpādapāṃsuḥ bahujanmakṛcchrato dhṛtātmabhiḥ yogibhirapyalabhyaḥ . sa eva yaddṛgviṣayaḥ svayaṃ sthitaḥ kiṃ varṇyate diṣṭamato vrajaukasām .. 12 ..
अथ अघनामाभ्यपतन् महासुरः तेषां सुखक्रीडनवीक्षणाक्षमः । नित्यं यदन्तर्निजजीवितेप्सुभिः पीतामृतैः अप्यमरैः प्रतीक्ष्यते ॥ १३ ॥
atha aghanāmābhyapatan mahāsuraḥ teṣāṃ sukhakrīḍanavīkṣaṇākṣamaḥ . nityaṃ yadantarnijajīvitepsubhiḥ pītāmṛtaiḥ apyamaraiḥ pratīkṣyate .. 13 ..
दृष्ट्वार्भकान् कृष्णमुखान् अघासुरः । कंसानुशिष्टः स बकीबकानुजः । अयं तु मे सोदरनाशकृत्तयोरः द्वयोर्ममैनं सबलं हनिष्ये ॥ १४ ॥
dṛṣṭvārbhakān kṛṣṇamukhān aghāsuraḥ . kaṃsānuśiṣṭaḥ sa bakībakānujaḥ . ayaṃ tu me sodaranāśakṛttayoraḥ dvayormamainaṃ sabalaṃ haniṣye .. 14 ..
एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राणभृतो हि ये ते ॥ १५ ॥
ete yadā matsuhṛdostilāpaḥ kṛtāstadā naṣṭasamā vrajaukasaḥ . prāṇe gate varṣmasu kā nu cintā prajāsavaḥ prāṇabhṛto hi ye te .. 15 ..
( वंशस्था )
इति व्यवस्याजगरं बृहद् वपुः स योजनायाम महाद्रिपीवरम् । धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥ १६ ॥
iti vyavasyājagaraṃ bṛhad vapuḥ sa yojanāyāma mahādripīvaram . dhṛtvādbhutaṃ vyāttaguhānanaṃ tadā pathi vyaśeta grasanāśayā khalaḥ .. 16 ..
( मिश्र )
धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशृङ्गदंष्ट्रः । ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥ १७ ॥
dharādharoṣṭho jaladottaroṣṭho daryānanānto giriśṛṅgadaṃṣṭraḥ . dhvāntāntarāsyo vitatādhvajihvaḥ paruṣānilaśvāsadavekṣaṇoṣṇaḥ .. 17 ..
( अनुष्टुप् )
दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥
dṛṣṭvā taṃ tādṛśaṃ sarve matvā vṛndāvanaśriyam . vyāttājagaratuṇḍena hyutprekṣante sma līlayā .. 18 ..
अहो मित्राणि गदत सत्त्वकूटं पुरः स्थितम् । अस्मत्सङ्ग्रसनव्यात्त व्यालतुण्डायते न वा ॥ १९ ॥
aho mitrāṇi gadata sattvakūṭaṃ puraḥ sthitam . asmatsaṅgrasanavyātta vyālatuṇḍāyate na vā .. 19 ..
सत्यमर्ककरारक्तं उत्तराहनुवद्घनम् । अधराहनुवद् रोधः तत् प्रतिच्छाययारुणम् ॥ २० ॥
satyamarkakarāraktaṃ uttarāhanuvadghanam . adharāhanuvad rodhaḥ tat praticchāyayāruṇam .. 20 ..
प्रतिस्पर्धेते सृक्किभ्यां सव्यासव्ये नगोदरे । तुंगशृंगालयोऽप्येताः तद् दंष्ट्राभिश्च पश्यत ॥ २१ ॥
pratispardhete sṛkkibhyāṃ savyāsavye nagodare . tuṃgaśṛṃgālayo'pyetāḥ tad daṃṣṭrābhiśca paśyata .. 21 ..
आस्तृतायाम मार्गोऽयं रसनां प्रतिगर्जति । एषां अन्तर्गतं ध्वान्तं एतदप्यन्तः आननम् ॥ २२ ॥
āstṛtāyāma mārgo'yaṃ rasanāṃ pratigarjati . eṣāṃ antargataṃ dhvāntaṃ etadapyantaḥ ānanam .. 22 ..
दावोष्णखरवातोऽयं श्वासवद्भाति पश्यत । तद् दग्धसत्त्वदुर्गन्धोऽपि अन्तरामिषगन्धवत् ॥ २३ ॥
dāvoṣṇakharavāto'yaṃ śvāsavadbhāti paśyata . tad dagdhasattvadurgandho'pi antarāmiṣagandhavat .. 23 ..
( मिश्र )
अस्मान्किमत्र ग्रसिता निविष्टा- नयं तथा चेद् बकवद् विनङ्क्ष्यति । क्षणादनेनेति बकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४ ॥
asmānkimatra grasitā niviṣṭā- nayaṃ tathā ced bakavad vinaṅkṣyati . kṣaṇādaneneti bakāryuśanmukhaṃ vīkṣyoddhasantaḥ karatāḍanairyayuḥ .. 24 ..
इत्थं मिथोऽतथ्यं अतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिल-भूतहृत्स्थितः स्वानां निरोद्धुं भगवान् मनो दधे ॥ २५ ॥
itthaṃ mitho'tathyaṃ atajjñabhāṣitaṃ śrutvā vicintyetyamṛṣā mṛṣāyate . rakṣo viditvākhila-bhūtahṛtsthitaḥ svānāṃ niroddhuṃ bhagavān mano dadhe .. 25 ..
तावत् प्रविष्टास्तु असुरोदरान्तरं परं न गीर्णाः शिशवः सवत्साः । प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥
tāvat praviṣṭāstu asurodarāntaraṃ paraṃ na gīrṇāḥ śiśavaḥ savatsāḥ . pratīkṣamāṇena bakāriveśanaṃ hatasvakāntasmaraṇena rakṣasā .. 26 ..
तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान् । दीनांश्च मृत्योर्जठराग्निघासान् घृणार्दितो दिष्टकृतेन विस्मितः ॥ २७ ॥
tān vīkṣya kṛṣṇaḥ sakalābhayaprado hyananyanāthān svakarādavacyutān . dīnāṃśca mṛtyorjaṭharāgnighāsān ghṛṇārdito diṣṭakṛtena vismitaḥ .. 27 ..
कृत्यं किमत्रास्य खलस्य जीवनं न वा अमीषां च सतां विहिंसनम् । द्वयं कथं स्यादिति संविचिन्त्य तत् ज्ञात्वाविशत् तुण्डमशेषदृग्घरिः ॥ २८ ॥
kṛtyaṃ kimatrāsya khalasya jīvanaṃ na vā amīṣāṃ ca satāṃ vihiṃsanam . dvayaṃ kathaṃ syāditi saṃvicintya tat jñātvāviśat tuṇḍamaśeṣadṛgghariḥ .. 28 ..
( अनुष्टुप् )
तदा घनच्छदा देवा भयाद् हाहेति चुक्रुशुः । जहृषुर्ये च कंसाद्याः कौणपास्त्वघबान्धवाः ॥ २९ ॥
tadā ghanacchadā devā bhayād hāheti cukruśuḥ . jahṛṣurye ca kaṃsādyāḥ kauṇapāstvaghabāndhavāḥ .. 29 ..
तच्छ्रुत्वा भगवान् कृष्णस्तु अव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षोरात्मानं तरसा ववृधे गले ॥ ३० ॥
tacchrutvā bhagavān kṛṣṇastu avyayaḥ sārbhavatsakam . cūrṇīcikīrṣorātmānaṃ tarasā vavṛdhe gale .. 30 ..
( मिश्र )
ततोऽतिकायस्य निरुद्धमार्गिणो ह्युद्गीर्णदृष्टेः भ्रमतस्त्वितस्ततः । पूर्णोऽन्तरंगे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१ ॥
tato'tikāyasya niruddhamārgiṇo hyudgīrṇadṛṣṭeḥ bhramatastvitastataḥ . pūrṇo'ntaraṃge pavano niruddho mūrdhan viniṣpāṭya vinirgato bahiḥ .. 31 ..
तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनः वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥
tenaiva sarveṣu bahirgateṣu prāṇeṣu vatsān suhṛdaḥ paretān . dṛṣṭyā svayotthāpya tadanvitaḥ punaḥ vaktrān mukundo bhagavān viniryayau .. 32 ..
पीनाहिभोगोत्थितमद्भुतं महत् ज्योतिः स्वधाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खेऽवस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥
pīnāhibhogotthitamadbhutaṃ mahat jyotiḥ svadhāmnā jvalayad diśo daśa . pratīkṣya khe'vasthitamīśanirgamaṃ viveśa tasmin miṣatāṃ divaukasām .. 33 ..
ततोऽतिहृष्टाः स्वकृतोऽकृतार्हणं पुष्पैः सुगा अप्सरसश्च नर्तनैः । गीतैः सुरा वाद्यधराश्च वाद्यकैः स्तवैश्च विप्रा जयनिःस्वनैर्गणाः ॥ ३४ ॥
tato'tihṛṣṭāḥ svakṛto'kṛtārhaṇaṃ puṣpaiḥ sugā apsarasaśca nartanaiḥ . gītaiḥ surā vādyadharāśca vādyakaiḥ stavaiśca viprā jayaniḥsvanairgaṇāḥ .. 34 ..
तदद्भुतस्तोत्रसुवाद्यगीतिका जयादिनैकोत्सव मङ्गलस्वनान् । श्रुत्वा स्वधाम्नोऽन्त्यज आगतोऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ ३५ ॥
tadadbhutastotrasuvādyagītikā jayādinaikotsava maṅgalasvanān . śrutvā svadhāmno'ntyaja āgato'cirād dṛṣṭvā mahīśasya jagāma vismayam .. 35 ..
( अनुष्टुप् )
राजन् आजगरं चर्म शुष्कं वृन्दावनेऽद्भुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥
rājan ājagaraṃ carma śuṣkaṃ vṛndāvane'dbhutam . vrajaukasāṃ bahutithaṃ babhūvākrīḍagahvaram .. 36 ..
एतत्कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर्विस्मिता व्रजे ॥ ३७ ॥
etatkaumārajaṃ karma harerātmāhimokṣaṇam . mṛtyoḥ paugaṇḍake bālā dṛṣṭvocurvismitā vraje .. 37 ..
( मिश्र )
नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अघोऽपि यत्स्पर्शनधौतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥
naitad vicitraṃ manujārbhamāyinaḥ parāvarāṇāṃ paramasya vedhasaḥ . agho'pi yatsparśanadhautapātakaḥ prāpātmasāmyaṃ tvasatāṃ sudurlabham .. 38 ..
( वंशस्था )
सकृद्यदङ्गप्रतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्यभि व्युदस्तमायोऽन्तर्गतो हि किं पुनः ॥ ३९ ॥
sakṛdyadaṅgapratimāntarāhitā manomayī bhāgavatīṃ dadau gatim . sa eva nityātmasukhānubhūtyabhi vyudastamāyo'ntargato hi kiṃ punaḥ .. 39 ..
श्रीसूत उवाच । ( इंद्रवज्रा )
इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् । पप्रच्छ भूयोऽपि तदेव पुण्यं वैयासकिं यन्निगृहीतचेताः ॥ ४० ॥
itthaṃ dvijā yādavadevadattaḥ śrutvā svarātuścaritaṃ vicitram . papraccha bhūyo'pi tadeva puṇyaṃ vaiyāsakiṃ yannigṛhītacetāḥ .. 40 ..
श्रीराजोवाच । ( अनुष्टुप् )
ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् । यत्कौमारे हरिकृतं जगुः पौगण्डकेऽर्भकाः ॥ ४१ ॥
brahman kālāntarakṛtaṃ tatkālīnaṃ kathaṃ bhavet . yatkaumāre harikṛtaṃ jaguḥ paugaṇḍake'rbhakāḥ .. 41 ..
तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥
tad brūhi me mahāyogin paraṃ kautūhalaṃ guro . nūnametaddharereva māyā bhavati nānyathā .. 42 ..
वयं धन्यतमा लोके गुरोऽपि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ ४३ ॥
vayaṃ dhanyatamā loke guro'pi kṣatrabandhavaḥ . yat pibāmo muhustvattaḥ puṇyaṃ kṛṣṇakathāmṛtam .. 43 ..
श्रीसूत उवाच । ( इंद्रवंशा )
इत्थं स्म पृष्टः स तु बादरायणिः तत्स्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर्लब्धबहिर्दृशिः शनैः प्रत्याह तं भागवतोत्तमोत्तम ॥ ४४ ॥
itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇiḥ tatsmāritānantahṛtākhilendriyaḥ . kṛcchrāt punarlabdhabahirdṛśiḥ śanaiḥ pratyāha taṃ bhāgavatottamottama .. 44 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe dvādaśo'dhyāyaḥ .. 12 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In