| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
साधु पृष्टं महाभाग त्वया भागवतोत्तम । यन्नूतनयसीशस्य श्रृण्वन्नपि कथां मुहुः ॥ १ ॥
साधु पृष्टम् महाभाग त्वया भागवत-उत्तम । यत् नूतनयसि ईशस्य श्रृण्वन् अपि कथाम् मुहुर् ॥ १ ॥
sādhu pṛṣṭam mahābhāga tvayā bhāgavata-uttama . yat nūtanayasi īśasya śrṛṇvan api kathām muhur .. 1 ..
( मिश्र )
सतामयं सारभृतां निसर्गो यदर्थवाणी श्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्ता ॥ २ ॥
सताम् अयम् सार-भृताम् निसर्गः यद्-अर्थ-वाणी श्रुति-चेतसाम् अपि । प्रतिक्षणम् नव्य-वत् अच्युतस्य यत् स्त्रियाः विटानाम् इव साधु वार्ता ॥ २ ॥
satām ayam sāra-bhṛtām nisargaḥ yad-artha-vāṇī śruti-cetasām api . pratikṣaṇam navya-vat acyutasya yat striyāḥ viṭānām iva sādhu vārtā .. 2 ..
( अनुष्टुप् )
श्रृणुष्वावहितो राजन् अपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥
श्रृणुष्व अवहितः राजन् अपि गुह्यम् वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवः गुह्यम् अपि उत ॥ ३ ॥
śrṛṇuṣva avahitaḥ rājan api guhyam vadāmi te . brūyuḥ snigdhasya śiṣyasya guravaḥ guhyam api uta .. 3 ..
तथा अघवदनान्मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनमानीय भगवान् इदमब्रवीत् ॥ ४ ॥
तथा अघ-वदनात् मृत्योः रक्षित्वा वत्स-पालकान् । सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत् ॥ ४ ॥
tathā agha-vadanāt mṛtyoḥ rakṣitvā vatsa-pālakān . sarit-pulinam ānīya bhagavān idam abravīt .. 4 ..
( वंशस्था )
अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन् मृदुलाच्छबालुकम् । स्फुटत्सरोगन्ध हृतालिपत्रिक ध्वनिप्रतिध्वानलसद् द्रुमाकुलम् ॥ ५ ॥
अहो अति रम्यम् पुलिनम् वयस्याः स्व-केलि-सम्पद् मृदुल-अच्छ-बालुकम् । स्फुटत्-सरः-गन्ध हृत-आलिपत्रिक ध्वनि-प्रतिध्वान-लसत् द्रुम-आकुलम् ॥ ५ ॥
aho ati ramyam pulinam vayasyāḥ sva-keli-sampad mṛdula-accha-bālukam . sphuṭat-saraḥ-gandha hṛta-ālipatrika dhvani-pratidhvāna-lasat druma-ākulam .. 5 ..
( अनुष्टुप् )
अत्र भोक्तव्यमस्माभिः दिवारूढं क्षुधार्दिताः । वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥
अत्र भोक्तव्यम् अस्माभिः दिवा आरूढम् क्षुधा अर्दिताः । वत्साः समीपे अपः पीत्वा चरन्तु शनकैस् तृणम् ॥ ६ ॥
atra bhoktavyam asmābhiḥ divā ārūḍham kṣudhā arditāḥ . vatsāḥ samīpe apaḥ pītvā carantu śanakais tṛṇam .. 6 ..
तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७ ॥
तथा इति पाययित्वा अर्भाः वत्सान् आरुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समम् भगवता मुदा ॥ ७ ॥
tathā iti pāyayitvā arbhāḥ vatsān ārudhya śādvale . muktvā śikyāni bubhujuḥ samam bhagavatā mudā .. 7 ..
( मिश्र )
कृष्णस्य विष्वक् पुरुराजिमण्डलैः अभ्याननाः फुल्लदृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुः छदा यथाम्भोरुहकर्णिकायाः ॥ ८ ॥
कृष्णस्य पुरु-राजि-मण्डलैः अभ्याननाः फुल्ल-दृशः व्रज-अर्भकाः । सह उपविष्टाः विपिने विरेजुः छदाः यथा अम्भोरुह-कर्णिकायाः ॥ ८ ॥
kṛṣṇasya puru-rāji-maṇḍalaiḥ abhyānanāḥ phulla-dṛśaḥ vraja-arbhakāḥ . saha upaviṣṭāḥ vipine virejuḥ chadāḥ yathā ambhoruha-karṇikāyāḥ .. 8 ..
( अनुष्टुप् )
केचित् पुष्पैर्दलैः केचित् पल्लवैः अङ्कुरैः फलैः । शिग्भिः त्वग्भिः दृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९ ॥
केचिद् पुष्पैः दलैः केचिद् पल्लवैः अङ्कुरैः फलैः । शिग्भिः त्वग्भिः दृषद्भिः च बुभुजुः कृत-भाजनाः ॥ ९ ॥
kecid puṣpaiḥ dalaiḥ kecid pallavaiḥ aṅkuraiḥ phalaiḥ . śigbhiḥ tvagbhiḥ dṛṣadbhiḥ ca bubhujuḥ kṛta-bhājanāḥ .. 9 ..
सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश्च अभ्यवजह्रुः सहेश्वराः ॥ १० ॥
सर्वे मिथस् दर्शयन्तः स्व-स्व-भोज्य-रुचिम् पृथक् । हसन्तः हासयन्तः च अभ्यवजह्रुः सह ईश्वराः ॥ १० ॥
sarve mithas darśayantaḥ sva-sva-bhojya-rucim pṛthak . hasantaḥ hāsayantaḥ ca abhyavajahruḥ saha īśvarāḥ .. 10 ..
( मंदाक्रांता )
बिभ्रद् वेणुं जठरपटयोः श्रृङ्गवेत्रे च कक्षे । वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥ ११ ॥
बिभ्रत् वेणुम् जठर-पटयोः श्रृङ्ग-वेत्रे च कक्षे । वामे पाणौ मसृण-कवलम् तद्-फलानि अङ्गुलीषु । तिष्ठन् मध्ये स्व-परिसुहृदः हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुज् बाल-केलिः ॥ ११ ॥
bibhrat veṇum jaṭhara-paṭayoḥ śrṛṅga-vetre ca kakṣe . vāme pāṇau masṛṇa-kavalam tad-phalāni aṅgulīṣu . tiṣṭhan madhye sva-parisuhṛdaḥ hāsayan narmabhiḥ svaiḥ svarge loke miṣati bubhuje yajñabhuj bāla-keliḥ .. 11 ..
( अनुष्टुप् )
भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु । वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२ ॥
भारत एवम् वत्सपेषु भुञ्जानेषु अच्युत-आत्मसु । वत्साः तु अन्तर् वने दूरम् विविशुः तृण-लोभिताः ॥ १२ ॥
bhārata evam vatsapeṣu bhuñjāneṣu acyuta-ātmasu . vatsāḥ tu antar vane dūram viviśuḥ tṛṇa-lobhitāḥ .. 12 ..
तान् दृष्ट्वा भयसंत्रस्न् ऊचे कृष्णोऽस्य भीभयम् । मित्राण्याशान्मा विरमत् इहानेष्ये वत्सकानहम् ॥ १३ ॥
तान् दृष्ट्वा भय-संत्रस्न् ऊचे कृष्णः अस्य भी-भयम् । मित्राणि आशात् मा विरमत् इह आनेष्ये वत्सकान् अहम् ॥ १३ ॥
tān dṛṣṭvā bhaya-saṃtrasn ūce kṛṣṇaḥ asya bhī-bhayam . mitrāṇi āśāt mā viramat iha āneṣye vatsakān aham .. 13 ..
( शार्दूलविक्रीडित )
इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४ ॥
इति उक्त्वा अद्रि-दरी-कुञ्ज गह्वरेषु आत्म-वत्सकान् । विचिन्वन् भगवान् कृष्णः स पाणि-कवलः ययौ ॥ १४ ॥
iti uktvā adri-darī-kuñja gahvareṣu ātma-vatsakān . vicinvan bhagavān kṛṣṇaḥ sa pāṇi-kavalaḥ yayau .. 14 ..
अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः । द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा । दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५ ॥
अम्भः-जन्म-जनिः तद्-अन्तर-गतः माया-अर्भकस्य ईशितुः । द्रष्टुम् मञ्जु महित्वम् अन्यत् अपि तद्वत् सान् इतस् वत्सपान् । नीत्वा अन्यत्र कुरु-उद्वह अन्तर् अदधात् खे अवस्थितः यः पुरा । दृष्ट्वा अघ-असुर-मोक्षणम् प्रभवतः प्राप्तः परम् विस्मयम् ॥ १५ ॥
ambhaḥ-janma-janiḥ tad-antara-gataḥ māyā-arbhakasya īśituḥ . draṣṭum mañju mahitvam anyat api tadvat sān itas vatsapān . nītvā anyatra kuru-udvaha antar adadhāt khe avasthitaḥ yaḥ purā . dṛṣṭvā agha-asura-mokṣaṇam prabhavataḥ prāptaḥ param vismayam .. 15 ..
( अनुष्टुप् )
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभौ अपि वने कृष्णो विचिकाय समन्ततः ॥ १६ ॥
ततस् वत्सान् अ दृष्ट्वा एत्य पुलिने अपि च वत्सपान् । उभौ अपि वने कृष्णः विचिकाय समन्ततः ॥ १६ ॥
tatas vatsān a dṛṣṭvā etya puline api ca vatsapān . ubhau api vane kṛṣṇaḥ vicikāya samantataḥ .. 16 ..
क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् । सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७ ॥
क्वापि अ दृष्ट्वा अन्तर् विपिने वत्सान् पालान् च विश्व-विद् । सर्वम् विधि-कृतम् कृष्णः सहसा अवजगाम ह ॥ १७ ॥
kvāpi a dṛṣṭvā antar vipine vatsān pālān ca viśva-vid . sarvam vidhi-kṛtam kṛṣṇaḥ sahasā avajagāma ha .. 17 ..
ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८ ॥
ततस् कृष्णः मुदम् कर्तुम् तद्-मातॄणाम् च कस्य च । उभयायितम् आत्मानम् चक्रे विश्वकृत् ईश्वरः ॥ १८ ॥
tatas kṛṣṇaḥ mudam kartum tad-mātṝṇām ca kasya ca . ubhayāyitam ātmānam cakre viśvakṛt īśvaraḥ .. 18 ..
( शार्दूलविक्रीडित )
यावद् वत्सपवत्सकाल्पकवपुः र्यावत् कराङ्घ्र्यादिकं । यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् । यावत् शीलगुणाभिधाकृतिवयो यावद् विहारादिकं । सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ ॥ १९ ॥
यावत् कर-अङ्घ्रि-आदिकम् । यावत् यष्टि-विषाण-वेणु-दल-शिश् यावत् विभूषा-अम्बरम् । यावत् शील-गुण-अभिधा-आकृति-वयः यावत् विहार-आदिकम् । सर्वम् विष्णु-मयम् गिरः अङ्ग-वत् अजः सर्व-स्वरूपः बभौ ॥ १९ ॥
yāvat kara-aṅghri-ādikam . yāvat yaṣṭi-viṣāṇa-veṇu-dala-śiś yāvat vibhūṣā-ambaram . yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ yāvat vihāra-ādikam . sarvam viṣṇu-mayam giraḥ aṅga-vat ajaḥ sarva-svarūpaḥ babhau .. 19 ..
( अनुष्टुप् )
स्वयमात्मात्मगोवत्सान प्रतिवार्यात्मवत्सपैः । क्रीडन् आत्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥
प्रतिवार्य आत्म-वत्सपैः । क्रीडन् आत्म-विहारैः च सर्व-आत्मा प्राविशत् व्रजम् ॥ २० ॥
prativārya ātma-vatsapaiḥ . krīḍan ātma-vihāraiḥ ca sarva-ātmā prāviśat vrajam .. 20 ..
तत्तद् वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः । तत्तद् आत्माभवद् राजन् तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥
तत् तत् वत्सान् पृथक् नीत्वा तद्-तद्-गोष्ठे निवेश्य सः । तत् तत् आत्मा अभवत् राजन् तत् तत् सद्म प्रविष्टवान् ॥ २१ ॥
tat tat vatsān pṛthak nītvā tad-tad-goṣṭhe niveśya saḥ . tat tat ātmā abhavat rājan tat tat sadma praviṣṭavān .. 21 ..
( मिश्र )
तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥
तद्-मातरः वेणु-रव-त्वरा-उत्थिताः उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेह-स्नुत-स्तन्य-पयः-सुधा-आसवम् मत्वा परम् ब्रह्म सुतान् अपाययन् ॥ २२ ॥
tad-mātaraḥ veṇu-rava-tvarā-utthitāḥ utthāpya dorbhiḥ parirabhya nirbharam . sneha-snuta-stanya-payaḥ-sudhā-āsavam matvā param brahma sutān apāyayan .. 22 ..
ततो नृपोन्मर्दनमज्जलेपन अलङ्कार रक्षा तिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥ २३ ॥
ततस् नृप-उन्मर्दन-मज्ज-लेपन-अलङ्कार-रक्षा तिलक-अशन-आदिभिः । संलालितः सु आचरितैः प्रहर्षयन् सायम् गतः याम् अयमेन माधवः ॥ २३ ॥
tatas nṛpa-unmardana-majja-lepana-alaṅkāra-rakṣā tilaka-aśana-ādibhiḥ . saṃlālitaḥ su ācaritaiḥ praharṣayan sāyam gataḥ yām ayamena mādhavaḥ .. 23 ..
गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् । स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४ ॥
गावः ततस् गोष्ठम् उपेत्य स त्वरम् हुङ्कार-घोषैः परिहूत-सङ्गतान् । स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर् लिहन्त्यः स्रवत्-औधसम् पयः ॥ २४ ॥
gāvaḥ tatas goṣṭham upetya sa tvaram huṅkāra-ghoṣaiḥ parihūta-saṅgatān . svakān svakān vatsatarān apāyayan muhur lihantyaḥ sravat-audhasam payaḥ .. 24 ..
( अनुष्टुप् )
गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना । पुरोवदास्वपि हरेः तोकता मायया विना ॥ २५ ॥
गो गोपीनाम् मातृ-ता अस्मिन् सर्वा स्नेह-ऋधिकाम् विना । पुरोवदासु अपि हरेः तोक-ता मायया विना ॥ २५ ॥
go gopīnām mātṛ-tā asmin sarvā sneha-ṛdhikām vinā . purovadāsu api hareḥ toka-tā māyayā vinā .. 25 ..
व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् । शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥
व्रजौकसाम् स्व-तोकेषु स्नेहवल्ल्या अब्दम् अन्वहम् । शनैस् निःसीम ववृधे यथा कृष्णे तु अपूर्ववत् ॥ २६ ॥
vrajaukasām sva-tokeṣu snehavallyā abdam anvaham . śanais niḥsīma vavṛdhe yathā kṛṣṇe tu apūrvavat .. 26 ..
इत्थं आत्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः । पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७ ॥
इत्थम् आत्मा आत्मना आत्मानम् वत्सपाल-मिषेण सः । पालयन् वत्सपः वर्षम् चिक्रीडे वन-गोष्ठयोः ॥ २७ ॥
ittham ātmā ātmanā ātmānam vatsapāla-miṣeṇa saḥ . pālayan vatsapaḥ varṣam cikrīḍe vana-goṣṭhayoḥ .. 27 ..
एकदा चारयन् वत्सान् सरामो वनमाविशत् । पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८ ॥
एकदा चारयन् वत्सान् सरामः वनम् आविशत् । पञ्चषासु त्रियामासु हायनापूरणीषु अजः ॥ २८ ॥
ekadā cārayan vatsān sarāmaḥ vanam āviśat . pañcaṣāsu triyāmāsu hāyanāpūraṇīṣu ajaḥ .. 28 ..
ततो विदूराच्चरतो गावो वत्सानुपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९ ॥
ततस् विदूरात् चरतः गावः वत्सान् उपव्रजम् । गोवर्धन-अद्रि-शिरसि चरन्त्यः ददृशुः तृणम् ॥ २९ ॥
tatas vidūrāt carataḥ gāvaḥ vatsān upavrajam . govardhana-adri-śirasi carantyaḥ dadṛśuḥ tṛṇam .. 29 ..
( मिश्र )
दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मप दुर्गमार्गः । द्विपात्ककुद्ग्रीव उदास्यपुच्छो अगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३० ॥
दृष्ट्वा अथ तद्-स्नेह-वशः अस्मृत-आत्मा स गोव्रजः अत्यात्मप दुर्ग-मार्गः । द्विपाद् ककुद्-ग्रीवः उदास्य-पुच्छः अगात् हुङ्कृतैः आस्रुपया जवेन ॥ ३० ॥
dṛṣṭvā atha tad-sneha-vaśaḥ asmṛta-ātmā sa govrajaḥ atyātmapa durga-mārgaḥ . dvipād kakud-grīvaḥ udāsya-pucchaḥ agāt huṅkṛtaiḥ āsrupayā javena .. 30 ..
( अनुष्टुप् )
समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ ३१ ॥
समेत्य गावः अधस् वत्सान् वत्सवत्यः अपि अपाययन् । गिलन्त्यः इव च अङ्गानि लिहन्त्यः स्वौधसम् पयः ॥ ३१ ॥
sametya gāvaḥ adhas vatsān vatsavatyaḥ api apāyayan . gilantyaḥ iva ca aṅgāni lihantyaḥ svaudhasam payaḥ .. 31 ..
गोपाः तद् रोधनायास मौघ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२ ॥
गोपाः तत् रोधन-आयास मौघ्य-लज्जा-उरु-मन्युना । दुर्ग-अध्व-कृच्छ्रतः अभ्येत्य गो-वत्सैः ददृशुः सुतान् ॥ ३२ ॥
gopāḥ tat rodhana-āyāsa maughya-lajjā-uru-manyunā . durga-adhva-kṛcchrataḥ abhyetya go-vatsaiḥ dadṛśuḥ sutān .. 32 ..
( मिश्र )
तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते ॥ ३३ ॥
तद्-ईक्षण-उत्प्रेम-रस-आप्लुत-आशयाः जात-अनुरागाः गत-मन्यवः अर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैः अवापुः परमाम् मुदम् ते ॥ ३३ ॥
tad-īkṣaṇa-utprema-rasa-āpluta-āśayāḥ jāta-anurāgāḥ gata-manyavaḥ arbhakān . uduhya dorbhiḥ parirabhya mūrdhani ghrāṇaiḥ avāpuḥ paramām mudam te .. 33 ..
( अनुष्टुप् )
ततः प्रवयसो गोपाः तोकाश्लेषसुनिर्वृताः । कृच्छ्रात् शनैरपगताः तदनुस्मृत्युदश्रवः ॥ ३४ ॥
ततस् प्रवयसः गोपाः तोक-आश्लेष-सु निर्वृताः । कृच्छ्रात् शनैस् अपगताः तद्-अनुस्मृति-उदश्रवः ॥ ३४ ॥
tatas pravayasaḥ gopāḥ toka-āśleṣa-su nirvṛtāḥ . kṛcchrāt śanais apagatāḥ tad-anusmṛti-udaśravaḥ .. 34 ..
व्रजस्य रामः प्रेमर्धेः वीक्ष्यौत्कण्ठ्यमनुक्षणम् । मुक्तस्तनेष्वपत्येषु अहेतुविद् अचिन्तयत् ॥ ३५ ॥
व्रजस्य रामः प्रेम-ऋधेः वीक्ष्य औत्कण्ठ्यम् अनु क्षणम् । मुक्त-स्तनेषु अपत्येषु अहेतु-विद् अचिन्तयत् ॥ ३५ ॥
vrajasya rāmaḥ prema-ṛdheḥ vīkṣya autkaṇṭhyam anu kṣaṇam . mukta-staneṣu apatyeṣu ahetu-vid acintayat .. 35 ..
किमेतद् अद्भुतमिव वासुदेवेऽखिलात्मनि । व्रजस्य सात्मनस्तोकेषु अपूर्वं प्रेम वर्धते ॥ ३६ ॥
किम् एतत् अद्भुतम् इव वासुदेवे अखिलात्मनि । व्रजस्य सात्मनः तोकेषु अपूर्वम् प्रेम वर्धते ॥ ३६ ॥
kim etat adbhutam iva vāsudeve akhilātmani . vrajasya sātmanaḥ tokeṣu apūrvam prema vardhate .. 36 ..
केयं वा कुत आयाता दैवी वा नार्युतासुरी । प्रायो मायास्तु मे भर्तुः नान्या मेऽपि विमोहिनी ॥ ३७ ॥
का इयम् वा कुतस् आयाता दैवी वा नारी उत आसुरी । प्रायस् माया अस्तु मे भर्तुः ना अन्या मे अपि विमोहिनी ॥ ३७ ॥
kā iyam vā kutas āyātā daivī vā nārī uta āsurī . prāyas māyā astu me bhartuḥ nā anyā me api vimohinī .. 37 ..
इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि । सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८ ॥
इति सञ्चिन्त्य दाशार्हः वत्सान् सवयसान् अपि । सर्वान् आचष्ट वैकुण्ठम् चक्षुषा वयुनेन सः ॥ ३८ ॥
iti sañcintya dāśārhaḥ vatsān savayasān api . sarvān ācaṣṭa vaikuṇṭham cakṣuṣā vayunena saḥ .. 38 ..
( मिश्र )
नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि । सर्वं पृथक्त्वं निगमात् कथं वदे- त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥
न एते सुर-ईशाः ऋषयः न च एते त्वम् एव भासि ईश भिदा-आश्रये अपि । सर्वम् पृथक्त्वम् निगमात् कथम् वदे इति उक्तेन वृत्तम् प्रभुणा बलः अवैत् ॥ ३९ ॥
na ete sura-īśāḥ ṛṣayaḥ na ca ete tvam eva bhāsi īśa bhidā-āśraye api . sarvam pṛthaktvam nigamāt katham vade iti uktena vṛttam prabhuṇā balaḥ avait .. 39 ..
( अनुष्टुप् )
तावदेत्यात्मभूरात्म-मानेन त्रुट्यनेहसा । पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४० ॥
तावत् एति आत्मभूः आत्म-मानेन त्रुटि-अनेहसा । पुरोवदा अब्दम् क्रीडन्तम् ददृशे सकलम् हरिम् ॥ ४० ॥
tāvat eti ātmabhūḥ ātma-mānena truṭi-anehasā . purovadā abdam krīḍantam dadṛśe sakalam harim .. 40 ..
यावन्तो गोकुले बालाः सवत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१ ॥
यावन्तः गोकुले बालाः स वत्साः सर्वे एव हि । माया-आशये शयानाः मे न अद्य अपि पुनर् उत्थिताः ॥ ४१ ॥
yāvantaḥ gokule bālāḥ sa vatsāḥ sarve eva hi . māyā-āśaye śayānāḥ me na adya api punar utthitāḥ .. 41 ..
इत एतेऽत्र कुत्रत्या मन्माया मोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥
इतस् एते अत्र कुत्रत्याः मद्-मायाः मोहित-इतरे । तावन्तः एव तत्र अब्दम् क्रीडन्तः विष्णुना समम् ॥ ४२ ॥
itas ete atra kutratyāḥ mad-māyāḥ mohita-itare . tāvantaḥ eva tatra abdam krīḍantaḥ viṣṇunā samam .. 42 ..
एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥
एवम् एतेषु भेदेषु चिरम् ध्यात्वा सः आत्मभूः । सत्याः के कतरे न इति ज्ञातुम् न ईष्टे कथञ्चन ॥ ४३ ॥
evam eteṣu bhedeṣu ciram dhyātvā saḥ ātmabhūḥ . satyāḥ ke katare na iti jñātum na īṣṭe kathañcana .. 43 ..
एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४ ॥
एवम् सम्मोहयन् विष्णुम् विमोहम् विश्व-मोहनम् । स्वया एव मायया अजः अपि स्वयम् एव विमोहितः ॥ ४४ ॥
evam sammohayan viṣṇum vimoham viśva-mohanam . svayā eva māyayā ajaḥ api svayam eva vimohitaḥ .. 44 ..
तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५ ॥
तम्याम् तमः-वत् नैहारम् खद्योत-अर्चिः इव अहनि । निहन्ति आत्मनि युञ्जतः ॥ ४५ ॥
tamyām tamaḥ-vat naihāram khadyota-arciḥ iva ahani . nihanti ātmani yuñjataḥ .. 45 ..
तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६ ॥
तावत् सर्वे वत्स-पालाः पश्यतः अजस्य तद्-क्षणात् । व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ ४६ ॥
tāvat sarve vatsa-pālāḥ paśyataḥ ajasya tad-kṣaṇāt . vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ .. 46 ..
चतुर्भुजाः शङ्खचक्र गदाराजीवपाणयः । किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७ ॥
चतुर्-भुजाः शङ्ख-चक्र-गदा-राजीव-पाणयः । किरीटिनः कुण्डलिनः हारिणः वनमालिनः ॥ ४७ ॥
catur-bhujāḥ śaṅkha-cakra-gadā-rājīva-pāṇayaḥ . kirīṭinaḥ kuṇḍalinaḥ hāriṇaḥ vanamālinaḥ .. 47 ..
श्रीवत्साङ्गददोरत्न कम्बुकङ्कणपाणयः । नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥ ४८ ॥
श्रीवत्स-अङ्गद-दोस्-रत्न-कम्बु-कङ्कण-पाणयः । नूपुरैः कटकैः भाताः कटिसूत्र-अङ्गुलीयकैः ॥ ४८ ॥
śrīvatsa-aṅgada-dos-ratna-kambu-kaṅkaṇa-pāṇayaḥ . nūpuraiḥ kaṭakaiḥ bhātāḥ kaṭisūtra-aṅgulīyakaiḥ .. 48 ..
आङ्घ्रिमस्तकमापूर्णाः तुलसीनवदामभिः । कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ॥ ४९ ॥
आ अङ्घ्रि-मस्तकम् आपूर्णाः तुलसी-नव-दामभिः । कोमलैः सर्व-गात्रेषु भूरि-पुण्यवत्-अर्पितैः ॥ ४९ ॥
ā aṅghri-mastakam āpūrṇāḥ tulasī-nava-dāmabhiḥ . komalaiḥ sarva-gātreṣu bhūri-puṇyavat-arpitaiḥ .. 49 ..
चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः । स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः ॥ ५० ॥
चन्द्रिका-विशद-स्मेरैः स अरुण-अपाङ्ग-वीक्षितैः । स्वक-अर्थानाम् इव रजः सत्त्वाभ्याम् स्रष्टृ-पालकाः ॥ ५० ॥
candrikā-viśada-smeraiḥ sa aruṇa-apāṅga-vīkṣitaiḥ . svaka-arthānām iva rajaḥ sattvābhyām sraṣṭṛ-pālakāḥ .. 50 ..
आत्मादिस्तम्बपर्यन्तैः मूर्तिमद्भिः चराचरैः । नृत्यगीताद्यनेकार्हैः पृथक् पृथक् उपासिताः ॥ ५१ ॥
आत्म-आदि-स्तम्ब-पर्यन्तैः मूर्तिमद्भिः चराचरैः । नृत्य-गीत-आदि-अनेक-अर्हैः पृथक् पृथक् उपासिताः ॥ ५१ ॥
ātma-ādi-stamba-paryantaiḥ mūrtimadbhiḥ carācaraiḥ . nṛtya-gīta-ādi-aneka-arhaiḥ pṛthak pṛthak upāsitāḥ .. 51 ..
अणिमाद्यैर्महिमभिः अजाद्याभिर्विभूतिभिः । चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२ ॥
अणिम-आद्यैः महिमभिः अज-आद्याभिः विभूतिभिः । चतुर्विंशतिभिः तत्त्वैः परीताः महत्-आदिभिः ॥ ५२ ॥
aṇima-ādyaiḥ mahimabhiḥ aja-ādyābhiḥ vibhūtibhiḥ . caturviṃśatibhiḥ tattvaiḥ parītāḥ mahat-ādibhiḥ .. 52 ..
कालस्वभावसंस्कार कामकर्मगुणादिभिः । स्वमहिध्वस्तमहिभिः मूर्तिमद्भिः उपासिताः ॥ ५३ ॥
काल-स्वभाव-संस्कार-काम-कर्म-गुण-आदिभिः । स्व-महि-ध्वस्त-महिभिः मूर्तिमद्भिः उपासिताः ॥ ५३ ॥
kāla-svabhāva-saṃskāra-kāma-karma-guṇa-ādibhiḥ . sva-mahi-dhvasta-mahibhiḥ mūrtimadbhiḥ upāsitāḥ .. 53 ..
सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥ ५४ ॥
। अ स्पृष्ट-भूरि-माहात्म्याः अपि हि उपनिषद्-दृशाम् ॥ ५४ ॥
. a spṛṣṭa-bhūri-māhātmyāḥ api hi upaniṣad-dṛśām .. 54 ..
एवं सकृद् ददर्शाजः परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥
एवम् सकृत् ददर्श अजः पर-ब्रह्म-आत्मनः अखिलान् । यस्य भासा सर्वम् इदम् विभाति सचराचरम् ॥ ५५ ॥
evam sakṛt dadarśa ajaḥ para-brahma-ātmanaḥ akhilān . yasya bhāsā sarvam idam vibhāti sacarācaram .. 55 ..
ततोऽतिकुतुकोद्वृत्त स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥
ततस् अति कुतुक-उद्वृत्त स्तिमित-एकादश-इन्द्रियः । तद्-धाम्ना अभूत् अजः तूष्णीम् पूः देव्यन्ती इव पुत्रिका ॥ ५६ ॥
tatas ati kutuka-udvṛtta stimita-ekādaśa-indriyaḥ . tad-dhāmnā abhūt ajaḥ tūṣṇīm pūḥ devyantī iva putrikā .. 56 ..
( शिखरिणी )
इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके । परत्राजातोऽतन् निरसनमुखब्रह्मकमितौ । अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥
इति इरा-ईशे अतर्क्ये निज-महिमनि स्व-प्रमितिके । निरसन-मुख-ब्रह्मक-मितौ । अनीशे अपि द्रष्टुम् किम् इदम् इति वा मुह्यति सति चछाद अजः ज्ञात्वा सपदि परमः अजाज-वनिकाम् ॥ ५७ ॥
iti irā-īśe atarkye nija-mahimani sva-pramitike . nirasana-mukha-brahmaka-mitau . anīśe api draṣṭum kim idam iti vā muhyati sati cachāda ajaḥ jñātvā sapadi paramaḥ ajāja-vanikām .. 57 ..
( अनुष्टुप् )
ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः । कृच्छ्राद् उन्मील्य वै दृष्टीः आचष्टेदं सहात्मना ॥ ५८ ॥
ततस् अर्वाक् प्रतिलब्ध-अक्षः कः परेत-वत् उत्थितः । कृच्छ्रात् उन्मील्य वै दृष्टीः आचष्ट इदम् सह आत्मना ॥ ५८ ॥
tatas arvāk pratilabdha-akṣaḥ kaḥ pareta-vat utthitaḥ . kṛcchrāt unmīlya vai dṛṣṭīḥ ācaṣṭa idam saha ātmanā .. 58 ..
सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम् । वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥
सपदि एव अभितस् पश्यन् दिशः अपश्यत् पुरस् स्थितम् । वृन्दावनम् जन-आजीव्य द्रुम-आकीर्णम् ॥ ५९ ॥
sapadi eva abhitas paśyan diśaḥ apaśyat puras sthitam . vṛndāvanam jana-ājīvya druma-ākīrṇam .. 59 ..
यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ ६० ॥
यत्र नैसर्ग-दुर्वैराः सह आसन् नृ-मृग-आदयः । द्रुत-रुष्-तर्षक-आदिकम् ॥ ६० ॥
yatra naisarga-durvairāḥ saha āsan nṛ-mṛga-ādayaḥ . druta-ruṣ-tarṣaka-ādikam .. 60 ..
( वसंततिलका )
तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्त-मगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥
तत्र उद्वहत्-पशुप-वंश-शिशु-त्व-नाट्यम् ब्रह्म अद्वयम् परम् अनन्तम् अगाध-बोधम् । वत्सान् सखीन् इव पुरा परितस् विचिन्वत् एकम् स पाणि-कवलम् परमेष्ठी अचष्ट ॥ ६१ ॥
tatra udvahat-paśupa-vaṃśa-śiśu-tva-nāṭyam brahma advayam param anantam agādha-bodham . vatsān sakhīn iva purā paritas vicinvat ekam sa pāṇi-kavalam parameṣṭhī acaṣṭa .. 61 ..
दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैः अकृताभिषेकम् ॥ ६२ ॥
दृष्ट्वा त्वरेण निज-धोरणतः अवतीर्य पृथ्व्याम् वपुः कनक-दण्डम् इव अभिपात्य । स्पृष्ट्वा चतुर्मुकुट कोटिभिः अङ्घ्रि-युग्मम् नत्वा मुद्-अश्रु-सु जलैः अ कृत-अभिषेकम् ॥ ६२ ॥
dṛṣṭvā tvareṇa nija-dhoraṇataḥ avatīrya pṛthvyām vapuḥ kanaka-daṇḍam iva abhipātya . spṛṣṭvā caturmukuṭa koṭibhiḥ aṅghri-yugmam natvā mud-aśru-su jalaiḥ a kṛta-abhiṣekam .. 62 ..
( अनुष्टुप् )
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३ ॥
उत्थाय उत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महि-त्वम् प्राक् दृष्टम् स्मृत्वा स्मृत्वा पुनर् पुनर् ॥ ६३ ॥
utthāya utthāya kṛṣṇasya cirasya pādayoḥ patan . āste mahi-tvam prāk dṛṣṭam smṛtvā smṛtvā punar punar .. 63 ..
( वंशस्था )
शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान्समाहितः सवेपथुर्गद्गदयैलतेलया ॥ ६४ ॥
शनैस् अथा उत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः । कृताञ्जलिः प्रश्रयवान् समाहितः स वेपथुः गद्गदया एलतेलया ॥ ६४ ॥
śanais athā utthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ . kṛtāñjaliḥ praśrayavān samāhitaḥ sa vepathuḥ gadgadayā elatelayā .. 64 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे त्रयोदशः अध्यायः ॥ १३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe trayodaśaḥ adhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In