| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
साधु पृष्टं महाभाग त्वया भागवतोत्तम । यन्नूतनयसीशस्य श्रृण्वन्नपि कथां मुहुः ॥ १ ॥
sādhu pṛṣṭaṃ mahābhāga tvayā bhāgavatottama . yannūtanayasīśasya śrṛṇvannapi kathāṃ muhuḥ .. 1 ..
( मिश्र )
सतामयं सारभृतां निसर्गो यदर्थवाणी श्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधु वार्ता ॥ २ ॥
satāmayaṃ sārabhṛtāṃ nisargo yadarthavāṇī śruticetasāmapi . pratikṣaṇaṃ navyavadacyutasya yat striyā viṭānāmiva sādhu vārtā .. 2 ..
( अनुष्टुप् )
श्रृणुष्वावहितो राजन् अपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥
śrṛṇuṣvāvahito rājan api guhyaṃ vadāmi te . brūyuḥ snigdhasya śiṣyasya guravo guhyamapyuta .. 3 ..
तथा अघवदनान्मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनमानीय भगवान् इदमब्रवीत् ॥ ४ ॥
tathā aghavadanānmṛtyo rakṣitvā vatsapālakān . saritpulinamānīya bhagavān idamabravīt .. 4 ..
( वंशस्था )
अहोऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन् मृदुलाच्छबालुकम् । स्फुटत्सरोगन्ध हृतालिपत्रिक ध्वनिप्रतिध्वानलसद् द्रुमाकुलम् ॥ ५ ॥
aho'tiramyaṃ pulinaṃ vayasyāḥ svakelisampan mṛdulācchabālukam . sphuṭatsarogandha hṛtālipatrika dhvanipratidhvānalasad drumākulam .. 5 ..
( अनुष्टुप् )
अत्र भोक्तव्यमस्माभिः दिवारूढं क्षुधार्दिताः । वत्साः समीपेऽपः पीत्वा चरन्तु शनकैस्तृणम् ॥ ६ ॥
atra bhoktavyamasmābhiḥ divārūḍhaṃ kṣudhārditāḥ . vatsāḥ samīpe'paḥ pītvā carantu śanakaistṛṇam .. 6 ..
तथेति पाययित्वार्भा वत्सानारुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७ ॥
tatheti pāyayitvārbhā vatsānārudhya śādvale . muktvā śikyāni bubhujuḥ samaṃ bhagavatā mudā .. 7 ..
( मिश्र )
कृष्णस्य विष्वक् पुरुराजिमण्डलैः अभ्याननाः फुल्लदृशो व्रजार्भकाः । सहोपविष्टा विपिने विरेजुः छदा यथाम्भोरुहकर्णिकायाः ॥ ८ ॥
kṛṣṇasya viṣvak pururājimaṇḍalaiḥ abhyānanāḥ phulladṛśo vrajārbhakāḥ . sahopaviṣṭā vipine virejuḥ chadā yathāmbhoruhakarṇikāyāḥ .. 8 ..
( अनुष्टुप् )
केचित् पुष्पैर्दलैः केचित् पल्लवैः अङ्कुरैः फलैः । शिग्भिः त्वग्भिः दृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९ ॥
kecit puṣpairdalaiḥ kecit pallavaiḥ aṅkuraiḥ phalaiḥ . śigbhiḥ tvagbhiḥ dṛṣadbhiśca bubhujuḥ kṛtabhājanāḥ .. 9 ..
सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश्च अभ्यवजह्रुः सहेश्वराः ॥ १० ॥
sarve mitho darśayantaḥ svasvabhojyaruciṃ pṛthak . hasanto hāsayantaśca abhyavajahruḥ saheśvarāḥ .. 10 ..
( मंदाक्रांता )
बिभ्रद् वेणुं जठरपटयोः श्रृङ्गवेत्रे च कक्षे । वामे पाणौ मसृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥ ११ ॥
bibhrad veṇuṃ jaṭharapaṭayoḥ śrṛṅgavetre ca kakṣe . vāme pāṇau masṛṇakavalaṃ tatphalānyaṅgulīṣu . tiṣṭhan madhye svaparisuhṛdo hāsayan narmabhiḥ svaiḥ svarge loke miṣati bubhuje yajñabhug bālakeliḥ .. 11 ..
( अनुष्टुप् )
भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु । वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥ १२ ॥
bhārataivaṃ vatsapeṣu bhuñjāneṣvacyutātmasu . vatsāstvantarvane dūraṃ viviśustṛṇalobhitāḥ .. 12 ..
तान् दृष्ट्वा भयसंत्रस्न् ऊचे कृष्णोऽस्य भीभयम् । मित्राण्याशान्मा विरमत् इहानेष्ये वत्सकानहम् ॥ १३ ॥
tān dṛṣṭvā bhayasaṃtrasn ūce kṛṣṇo'sya bhībhayam . mitrāṇyāśānmā viramat ihāneṣye vatsakānaham .. 13 ..
( शार्दूलविक्रीडित )
इत्युक्त्वाद्रिदरीकुञ्ज गह्वरेष्वात्मवत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ १४ ॥
ityuktvādridarīkuñja gahvareṣvātmavatsakān . vicinvan bhagavān kṛṣṇaḥ sapāṇikavalo yayau .. 14 ..
अम्भोजन्मजनिस्तदन्तरगतो मायार्भकस्येशितुः । द्रष्टुं मञ्जु महित्वमन्यदपि तद्वत्सानितो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात् खेऽवस्थितो यः पुरा । दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ १५ ॥
ambhojanmajanistadantaragato māyārbhakasyeśituḥ . draṣṭuṃ mañju mahitvamanyadapi tadvatsānito vatsapān . nītvānyatra kurūdvahāntaradadhāt khe'vasthito yaḥ purā . dṛṣṭvāghāsuramokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam .. 15 ..
( अनुष्टुप् )
ततो वत्सान् अदृष्ट्वैत्य पुलिनेऽपि च वत्सपान् । उभौ अपि वने कृष्णो विचिकाय समन्ततः ॥ १६ ॥
tato vatsān adṛṣṭvaitya puline'pi ca vatsapān . ubhau api vane kṛṣṇo vicikāya samantataḥ .. 16 ..
क्वाप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् । सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७ ॥
kvāpyadṛṣṭvāntarvipine vatsān pālāṃśca viśvavit . sarvaṃ vidhikṛtaṃ kṛṣṇaḥ sahasāvajagāma ha .. 17 ..
ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८ ॥
tataḥ kṛṣṇo mudaṃ kartuṃ tanmātṝṇāṃ ca kasya ca . ubhayāyitamātmānaṃ cakre viśvakṛdīśvaraḥ .. 18 ..
( शार्दूलविक्रीडित )
यावद् वत्सपवत्सकाल्पकवपुः र्यावत् कराङ्घ्र्यादिकं । यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् । यावत् शीलगुणाभिधाकृतिवयो यावद् विहारादिकं । सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो बभौ ॥ १९ ॥
yāvad vatsapavatsakālpakavapuḥ ryāvat karāṅghryādikaṃ . yāvad yaṣṭiviṣāṇaveṇudalaśig yāvad vibhūṣāmbaram . yāvat śīlaguṇābhidhākṛtivayo yāvad vihārādikaṃ . sarvaṃ viṣṇumayaṃ giro'ṅgavadajaḥ sarvasvarūpo babhau .. 19 ..
( अनुष्टुप् )
स्वयमात्मात्मगोवत्सान प्रतिवार्यात्मवत्सपैः । क्रीडन् आत्मविहारैश्च सर्वात्मा प्राविशद् व्रजम् ॥ २० ॥
svayamātmātmagovatsāna prativāryātmavatsapaiḥ . krīḍan ātmavihāraiśca sarvātmā prāviśad vrajam .. 20 ..
तत्तद् वत्सान् पृथङ्नीत्वा तत्तद्गोष्ठे निवेश्य सः । तत्तद् आत्माभवद् राजन् तत्तत्सद्म प्रविष्टवान् ॥ २१ ॥
tattad vatsān pṛthaṅnītvā tattadgoṣṭhe niveśya saḥ . tattad ātmābhavad rājan tattatsadma praviṣṭavān .. 21 ..
( मिश्र )
तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥
tanmātaro veṇuravatvarotthitā utthāpya dorbhiḥ parirabhya nirbharam . snehasnutastanyapayaḥsudhāsavaṃ matvā paraṃ brahma sutānapāyayan .. 22 ..
ततो नृपोन्मर्दनमज्जलेपन अलङ्कार रक्षा तिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥ २३ ॥
tato nṛponmardanamajjalepana alaṅkāra rakṣā tilakāśanādibhiḥ . saṃlālitaḥ svācaritaiḥ praharṣayan sāyaṃ gato yāmayamena mādhavaḥ .. 23 ..
गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् । स्वकान् स्वकान् वत्सतरानपाययन् मुहुर्लिहन्त्यः स्रवदौधसं पयः ॥ २४ ॥
gāvastato goṣṭhamupetya satvaraṃ huṅkāraghoṣaiḥ parihūtasaṅgatān . svakān svakān vatsatarānapāyayan muhurlihantyaḥ sravadaudhasaṃ payaḥ .. 24 ..
( अनुष्टुप् )
गोगोपीनां मातृतास्मिन् सर्वा स्नेहर्धिकां विना । पुरोवदास्वपि हरेः तोकता मायया विना ॥ २५ ॥
gogopīnāṃ mātṛtāsmin sarvā snehardhikāṃ vinā . purovadāsvapi hareḥ tokatā māyayā vinā .. 25 ..
व्रजौकसां स्वतोकेषु स्नेहवल्ल्याब्दमन्वहम् । शनैर्निःसीम ववृधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥
vrajaukasāṃ svatokeṣu snehavallyābdamanvaham . śanairniḥsīma vavṛdhe yathā kṛṣṇe tvapūrvavat .. 26 ..
इत्थं आत्माऽऽत्मनाऽऽत्मानं वत्सपालमिषेण सः । पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ २७ ॥
itthaṃ ātmā''tmanā''tmānaṃ vatsapālamiṣeṇa saḥ . pālayan vatsapo varṣaṃ cikrīḍe vanagoṣṭhayoḥ .. 27 ..
एकदा चारयन् वत्सान् सरामो वनमाविशत् । पञ्चषासु त्रियामासु हायनापूरणीष्वजः ॥ २८ ॥
ekadā cārayan vatsān sarāmo vanamāviśat . pañcaṣāsu triyāmāsu hāyanāpūraṇīṣvajaḥ .. 28 ..
ततो विदूराच्चरतो गावो वत्सानुपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥ २९ ॥
tato vidūrāccarato gāvo vatsānupavrajam . govardhanādriśirasi carantyo dadṛśustṛṇam .. 29 ..
( मिश्र )
दृष्ट्वाथ तत्स्नेहवशोऽस्मृतात्मा स गोव्रजोऽत्यात्मप दुर्गमार्गः । द्विपात्ककुद्ग्रीव उदास्यपुच्छो अगाद्धुङ्कृतैरास्रुपया जवेन ॥ ३० ॥
dṛṣṭvātha tatsnehavaśo'smṛtātmā sa govrajo'tyātmapa durgamārgaḥ . dvipātkakudgrīva udāsyapuccho agāddhuṅkṛtairāsrupayā javena .. 30 ..
( अनुष्टुप् )
समेत्य गावोऽधो वत्सान् वत्सवत्योऽप्यपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ ३१ ॥
sametya gāvo'dho vatsān vatsavatyo'pyapāyayan . gilantya iva cāṅgāni lihantyaḥ svaudhasaṃ payaḥ .. 31 ..
गोपाः तद् रोधनायास मौघ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतोऽभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२ ॥
gopāḥ tad rodhanāyāsa maughyalajjorumanyunā . durgādhvakṛcchrato'bhyetya govatsairdadṛśuḥ sutān .. 32 ..
( मिश्र )
तदीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैरवापुः परमां मुदं ते ॥ ३३ ॥
tadīkṣaṇotpremarasāplutāśayā jātānurāgā gatamanyavo'rbhakān . uduhya dorbhiḥ parirabhya mūrdhani ghrāṇairavāpuḥ paramāṃ mudaṃ te .. 33 ..
( अनुष्टुप् )
ततः प्रवयसो गोपाः तोकाश्लेषसुनिर्वृताः । कृच्छ्रात् शनैरपगताः तदनुस्मृत्युदश्रवः ॥ ३४ ॥
tataḥ pravayaso gopāḥ tokāśleṣasunirvṛtāḥ . kṛcchrāt śanairapagatāḥ tadanusmṛtyudaśravaḥ .. 34 ..
व्रजस्य रामः प्रेमर्धेः वीक्ष्यौत्कण्ठ्यमनुक्षणम् । मुक्तस्तनेष्वपत्येषु अहेतुविद् अचिन्तयत् ॥ ३५ ॥
vrajasya rāmaḥ premardheḥ vīkṣyautkaṇṭhyamanukṣaṇam . muktastaneṣvapatyeṣu ahetuvid acintayat .. 35 ..
किमेतद् अद्भुतमिव वासुदेवेऽखिलात्मनि । व्रजस्य सात्मनस्तोकेषु अपूर्वं प्रेम वर्धते ॥ ३६ ॥
kimetad adbhutamiva vāsudeve'khilātmani . vrajasya sātmanastokeṣu apūrvaṃ prema vardhate .. 36 ..
केयं वा कुत आयाता दैवी वा नार्युतासुरी । प्रायो मायास्तु मे भर्तुः नान्या मेऽपि विमोहिनी ॥ ३७ ॥
keyaṃ vā kuta āyātā daivī vā nāryutāsurī . prāyo māyāstu me bhartuḥ nānyā me'pi vimohinī .. 37 ..
इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि । सर्वानाचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८ ॥
iti sañcintya dāśārho vatsān savayasānapi . sarvānācaṣṭa vaikuṇṭhaṃ cakṣuṣā vayunena saḥ .. 38 ..
( मिश्र )
नैते सुरेशा ऋषयो न चैते त्वमेव भासीश भिदाश्रयेऽपि । सर्वं पृथक्त्वं निगमात् कथं वदे- त्युक्तेन वृत्तं प्रभुणा बलोऽवैत् ॥ ३९ ॥
naite sureśā ṛṣayo na caite tvameva bhāsīśa bhidāśraye'pi . sarvaṃ pṛthaktvaṃ nigamāt kathaṃ vade- tyuktena vṛttaṃ prabhuṇā balo'vait .. 39 ..
( अनुष्टुप् )
तावदेत्यात्मभूरात्म-मानेन त्रुट्यनेहसा । पुरोवदाब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ ४० ॥
tāvadetyātmabhūrātma-mānena truṭyanehasā . purovadābdaṃ krīḍantaṃ dadṛśe sakalaṃ harim .. 40 ..
यावन्तो गोकुले बालाः सवत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनरुत्थिताः ॥ ४१ ॥
yāvanto gokule bālāḥ savatsāḥ sarva eva hi . māyāśaye śayānā me nādyāpi punarutthitāḥ .. 41 ..
इत एतेऽत्र कुत्रत्या मन्माया मोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥
ita ete'tra kutratyā manmāyā mohitetare . tāvanta eva tatrābdaṃ krīḍanto viṣṇunā samam .. 42 ..
एवमेतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥
evameteṣu bhedeṣu ciraṃ dhyātvā sa ātmabhūḥ . satyāḥ ke katare neti jñātuṃ neṣṭe kathañcana .. 43 ..
एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजोऽपि स्वयमेव विमोहितः ॥ ४४ ॥
evaṃ sammohayan viṣṇuṃ vimohaṃ viśvamohanam . svayaiva māyayājo'pi svayameva vimohitaḥ .. 44 ..
तम्यां तमोवन्नैहारं खद्योतार्चिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५ ॥
tamyāṃ tamovannaihāraṃ khadyotārcirivāhani . mahatītaramāyaiśyaṃ nihantyātmani yuñjataḥ .. 45 ..
तावत्सर्वे वत्सपालाः पश्यतोऽजस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६ ॥
tāvatsarve vatsapālāḥ paśyato'jasya tatkṣaṇāt . vyadṛśyanta ghanaśyāmāḥ pītakauśeyavāsasaḥ .. 46 ..
चतुर्भुजाः शङ्खचक्र गदाराजीवपाणयः । किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ ४७ ॥
caturbhujāḥ śaṅkhacakra gadārājīvapāṇayaḥ . kirīṭinaḥ kuṇḍalino hāriṇo vanamālinaḥ .. 47 ..
श्रीवत्साङ्गददोरत्न कम्बुकङ्कणपाणयः । नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥ ४८ ॥
śrīvatsāṅgadadoratna kambukaṅkaṇapāṇayaḥ . nūpuraiḥ kaṭakairbhātāḥ kaṭisūtrāṅgulīyakaiḥ .. 48 ..
आङ्घ्रिमस्तकमापूर्णाः तुलसीनवदामभिः । कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ॥ ४९ ॥
āṅghrimastakamāpūrṇāḥ tulasīnavadāmabhiḥ . komalaiḥ sarvagātreṣu bhūripuṇyavadarpitaiḥ .. 49 ..
चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः । स्वकार्थानामिव रजः सत्त्वाभ्यां स्रष्टृपालकाः ॥ ५० ॥
candrikāviśadasmeraiḥ sāruṇāpāṅgavīkṣitaiḥ . svakārthānāmiva rajaḥ sattvābhyāṃ sraṣṭṛpālakāḥ .. 50 ..
आत्मादिस्तम्बपर्यन्तैः मूर्तिमद्भिः चराचरैः । नृत्यगीताद्यनेकार्हैः पृथक् पृथक् उपासिताः ॥ ५१ ॥
ātmādistambaparyantaiḥ mūrtimadbhiḥ carācaraiḥ . nṛtyagītādyanekārhaiḥ pṛthak pṛthak upāsitāḥ .. 51 ..
अणिमाद्यैर्महिमभिः अजाद्याभिर्विभूतिभिः । चतुर्विंशतिभिस्तत्त्वैः परीता महदादिभिः ॥ ५२ ॥
aṇimādyairmahimabhiḥ ajādyābhirvibhūtibhiḥ . caturviṃśatibhistattvaiḥ parītā mahadādibhiḥ .. 52 ..
कालस्वभावसंस्कार कामकर्मगुणादिभिः । स्वमहिध्वस्तमहिभिः मूर्तिमद्भिः उपासिताः ॥ ५३ ॥
kālasvabhāvasaṃskāra kāmakarmaguṇādibhiḥ . svamahidhvastamahibhiḥ mūrtimadbhiḥ upāsitāḥ .. 53 ..
सत्यज्ञानानन्तानन्द मात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषद्दृशाम् ॥ ५४ ॥
satyajñānānantānanda mātraikarasamūrtayaḥ . aspṛṣṭabhūrimāhātmyā api hyupaniṣaddṛśām .. 54 ..
एवं सकृद् ददर्शाजः परब्रह्मात्मनोऽखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥
evaṃ sakṛd dadarśājaḥ parabrahmātmano'khilān . yasya bhāsā sarvamidaṃ vibhāti sacarācaram .. 55 ..
ततोऽतिकुतुकोद्वृत्त स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥
tato'tikutukodvṛtta stimitaikādaśendriyaḥ . taddhāmnābhūdajastūṣṇīṃ pūrdevyantīva putrikā .. 56 ..
( शिखरिणी )
इतीरेशेऽतर्क्ये निजमहिमनि स्वप्रमितिके । परत्राजातोऽतन् निरसनमुखब्रह्मकमितौ । अनीशेऽपि द्रष्टुं किमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमोऽजाजवनिकाम् ॥ ५७ ॥
itīreśe'tarkye nijamahimani svapramitike . paratrājāto'tan nirasanamukhabrahmakamitau . anīśe'pi draṣṭuṃ kimidamiti vā muhyati sati cachādājo jñātvā sapadi paramo'jājavanikām .. 57 ..
( अनुष्टुप् )
ततोऽर्वाक्प्रतिलब्धाक्षः कः परेतवदुत्थितः । कृच्छ्राद् उन्मील्य वै दृष्टीः आचष्टेदं सहात्मना ॥ ५८ ॥
tato'rvākpratilabdhākṣaḥ kaḥ paretavadutthitaḥ . kṛcchrād unmīlya vai dṛṣṭīḥ ācaṣṭedaṃ sahātmanā .. 58 ..
सपद्येवाभितः पश्यन् दिशोऽपश्यत् पुरःस्थितम् । वृन्दावनं जनाजीव्य द्रुमाकीर्णं समाप्रियम् ॥ ५९ ॥
sapadyevābhitaḥ paśyan diśo'paśyat puraḥsthitam . vṛndāvanaṃ janājīvya drumākīrṇaṃ samāpriyam .. 59 ..
यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावास द्रुतरुट्तर्षकादिकम् ॥ ६० ॥
yatra naisargadurvairāḥ sahāsan nṛmṛgādayaḥ . mitrāṇīvājitāvāsa drutaruṭtarṣakādikam .. 60 ..
( वसंततिलका )
तत्रोद्वहत्पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परमनन्त-मगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्यचष्ट ॥ ६१ ॥
tatrodvahatpaśupavaṃśaśiśutvanāṭyaṃ brahmādvayaṃ paramananta-magādhabodham . vatsān sakhīniva purā parito vicinvad ekaṃ sapāṇikavalaṃ parameṣṭhyacaṣṭa .. 61 ..
दृष्ट्वा त्वरेण निजधोरणतोऽवतीर्य पृथ्व्यां वपुः कनकदण्डमिवाभिपात्य । स्पृष्ट्वा चतुर्मुकुट कोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैः अकृताभिषेकम् ॥ ६२ ॥
dṛṣṭvā tvareṇa nijadhoraṇato'vatīrya pṛthvyāṃ vapuḥ kanakadaṇḍamivābhipātya . spṛṣṭvā caturmukuṭa koṭibhiraṅghriyugmaṃ natvā mudaśrusujalaiḥ akṛtābhiṣekam .. 62 ..
( अनुष्टुप् )
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ ६३ ॥
utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan . āste mahitvaṃ prāgdṛṣṭaṃ smṛtvā smṛtvā punaḥ punaḥ .. 63 ..
( वंशस्था )
शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान्समाहितः सवेपथुर्गद्गदयैलतेलया ॥ ६४ ॥
śanairathotthāya vimṛjya locane mukundamudvīkṣya vinamrakandharaḥ . kṛtāñjaliḥ praśrayavānsamāhitaḥ savepathurgadgadayailatelayā .. 64 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe trayodaśo'dhyāyaḥ .. 13 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In