| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीब्रह्मोवाच । ( वसंततिलका )
नौमीड्य तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ १ ॥
नौमि ईड्य ते अभ्र-वपुषे तडित्-अम्बराय गुञ्जा-अवतंस-परिपिच्छल-सत्-मुखाय । वन्य-स्रजे कवल-वेत्र-विषाण-वेणु लक्ष्म-श्रिये मृदु-पदे पशुप-अङ्गजाय ॥ १ ॥
naumi īḍya te abhra-vapuṣe taḍit-ambarāya guñjā-avataṃsa-paripicchala-sat-mukhāya . vanya-sraje kavala-vetra-viṣāṇa-veṇu lakṣma-śriye mṛdu-pade paśupa-aṅgajāya .. 1 ..
अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशे महि त्ववसितुं मनसाऽऽन्तरेण साक्षात्तवैव किमुतात्मसुखानुभूतेः ॥ २ ॥
अस्य अपि देव वपुषः मद्-अनुग्रहस्य स्व-इच्छा-मयस्य न तु भूत-मयस्य कः अपि । न ईशे तु अवसितुम् मनसा आ अन्तरेण साक्षात् तव एव किम् उत आत्म-सुख-अनुभूतेः ॥ २ ॥
asya api deva vapuṣaḥ mad-anugrahasya sva-icchā-mayasya na tu bhūta-mayasya kaḥ api . na īśe tu avasitum manasā ā antareṇa sākṣāt tava eva kim uta ātma-sukha-anubhūteḥ .. 2 ..
ज्ञाने प्रयासमुदपास्य नमन्त एव । जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिः । ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्याम् ॥ ३ ॥
ज्ञाने प्रयासम् उदपास्य नमन्ते एव । जीवन्ति सत्-मुखरिताम् भवदीय-वार्ताम् । स्थाने स्थिताः श्रुति-गताम् तनु-वाच्-मनोभिः । ये प्रायशस् अजित जितः अपि असि तैः त्रिलोक्याम् ॥ ३ ॥
jñāne prayāsam udapāsya namante eva . jīvanti sat-mukharitām bhavadīya-vārtām . sthāne sthitāḥ śruti-gatām tanu-vāc-manobhiḥ . ye prāyaśas ajita jitaḥ api asi taiḥ trilokyām .. 3 ..
( इंद्रवंशा )
श्रेयःसृतिं भक्तिमुदस्य ते विभो । क्लिश्यन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते । नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥
श्रेयः-सृतिम् भक्तिम् उदस्य ते विभो । क्लिश्यन्ति ये केवल-बोध-लब्धये । तेषाम् असौ क्लेशलः एव शिष्यते । न अन्यत् यथा स्थूल-तुष-अवघातिनाम् ॥ ४ ॥
śreyaḥ-sṛtim bhaktim udasya te vibho . kliśyanti ye kevala-bodha-labdhaye . teṣām asau kleśalaḥ eva śiṣyate . na anyat yathā sthūla-tuṣa-avaghātinām .. 4 ..
पुरेह भूमन् बहवोऽपि योगिनः त्वदर्पितेहा निजकर्मलब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५ ॥
पुरा इह भूमन् बहवः अपि योगिनः त्वद्-अर्पित-ईहाः निज-कर्म-लब्धया । विबुध्य भक्त्या एव कथा-उपनीतया प्रपेदिरे अञ्जस् अच्युत ते गतिम् पराम् ॥ ५ ॥
purā iha bhūman bahavaḥ api yoginaḥ tvad-arpita-īhāḥ nija-karma-labdhayā . vibudhya bhaktyā eva kathā-upanītayā prapedire añjas acyuta te gatim parām .. 5 ..
तथापि भूमन् महिमागुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभिः । अविक्रियात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ ६ ॥
तथा अपि भूमन् महिमा गुणस्य ते विबोद्धुम् अर्हति अमल-अन्तरात्मभिः । अविक्रियात् स्व-अनुभवात् अरूपतः हि अनन्य-बोध्य-आत्मतया न च अन्यथा ॥ ६ ॥
tathā api bhūman mahimā guṇasya te viboddhum arhati amala-antarātmabhiḥ . avikriyāt sva-anubhavāt arūpataḥ hi ananya-bodhya-ātmatayā na ca anyathā .. 6 ..
( मिश्र )
गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य । कालेन यैर्वा विमिताः सुकल्पैः भूपांशवः खे मिहिका द्युभासः ॥ ७ ॥
गुण-आत्मनः ते अपि गुणान् विमातुम् हित-अवतीर्णस्य के ईशिरे अस्य । कालेन यैः वा विमिताः सु कल्पैः भूपांशवः खे मिहिकाः दिव्-भासः ॥ ७ ॥
guṇa-ātmanaḥ te api guṇān vimātum hita-avatīrṇasya ke īśire asya . kālena yaiḥ vā vimitāḥ su kalpaiḥ bhūpāṃśavaḥ khe mihikāḥ div-bhāsaḥ .. 7 ..
तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर्विदधन्नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ ८ ॥
तत् ते अनुकम्पाम् सु समीक्षमाणः भुञ्जानः एव आत्म-कृतम् विपाकम् । हृद्-वाच्-वपुर्भिः विदधन् नमः ते जीवेत यः मुक्ति-पदे स दाय-भाज् ॥ ८ ॥
tat te anukampām su samīkṣamāṇaḥ bhuñjānaḥ eva ātma-kṛtam vipākam . hṛd-vāc-vapurbhiḥ vidadhan namaḥ te jīveta yaḥ mukti-pade sa dāya-bhāj .. 8 ..
पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि मायिमायिनि । मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ ९ ॥
पश्य ईश मे अनार्यम् अनन्ते आद्ये परात्मनि त्वयि अपि मायि-मायिनि । मायाम् वितत्य ईक्षितुम् आत्म-वैभवम् हि अहम् कियान् ऐच्छम् इव अर्चिः अग्नौ ॥ ९ ॥
paśya īśa me anāryam anante ādye parātmani tvayi api māyi-māyini . māyām vitatya īkṣitum ātma-vaibhavam hi aham kiyān aiccham iva arciḥ agnau .. 9 ..
( वंशस्था )
अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत् पृथगीशमानिनः । अजावलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥ १० ॥
अतस् क्षमस्व अच्युत मे रजः-भुवः हि अ जानतः त्वत् पृथक् ईश-मानिनः । एषः अनुकम्प्यः मयि नाथवान् इति ॥ १० ॥
atas kṣamasva acyuta me rajaḥ-bhuvaḥ hi a jānataḥ tvat pṛthak īśa-māninaḥ . eṣaḥ anukampyaḥ mayi nāthavān iti .. 10 ..
( वसंततिलका )
क्वाहं तमोमहदहंखचराग्निवार्भू । संवेष्टिताण्डघटसप्तवितस्तिकायः । क्वेदृग्विधाविगणिताण्डपराणुचर्या । वाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥
क्व अहम् तमः-महत्-अहंख-चर-अग्नि-वार्भू । संवेष्टित-अण्ड-घट-सप्त-वितस्ति-कायः । क्व ईदृग्विधा विगणित-अण्ड-पर-अणु-चर्या । वात-अध्व-रोम-विवरस्य च ते महि-त्वम् ॥ ११ ॥
kva aham tamaḥ-mahat-ahaṃkha-cara-agni-vārbhū . saṃveṣṭita-aṇḍa-ghaṭa-sapta-vitasti-kāyaḥ . kva īdṛgvidhā vigaṇita-aṇḍa-para-aṇu-caryā . vāta-adhva-roma-vivarasya ca te mahi-tvam .. 11 ..
( मिश्र )
उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे । किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥
उत्क्षेपणम् गर्भ-गतस्य पादयोः किम् कल्पते मातुः अधोक्षज-आगसे । किम् अस्ति-नास्ति-व्यपदेश-भूषितम् तव अस्ति कुक्षेः कियत् अपि अनन्तः ॥ १२ ॥
utkṣepaṇam garbha-gatasya pādayoḥ kim kalpate mātuḥ adhokṣaja-āgase . kim asti-nāsti-vyapadeśa-bhūṣitam tava asti kukṣeḥ kiyat api anantaḥ .. 12 ..
जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतोऽजस्त्विति वाङ् न वै मृषा किं त्वीश्वर त्वन्न विनिर्गतोऽस्मि ॥ १३ ॥
। विनिर्गतः अजः तु इति वाच् न वै मृषा किम् तु ईश्वर त्वत् न विनिर्गतः अस्मि ॥ १३ ॥
. vinirgataḥ ajaḥ tu iti vāc na vai mṛṣā kim tu īśvara tvat na vinirgataḥ asmi .. 13 ..
नारायणस्त्वं न हि सर्वदेहिनां आत्मास्यधीशाखिललोकसाक्षी । नारायणोऽङ्गं नरभूजलायनात् तच्चापि सत्यं न तवैव माया ॥ १४ ॥
नारायणः त्वम् न हि सर्व-देहिनाम् आत्मा असि अधीश अखिल-लोक-साक्षी । नारायणः अङ्गम् नर-भू-जलायनात् तत् च अपि सत्यम् न तव एव माया ॥ १४ ॥
nārāyaṇaḥ tvam na hi sarva-dehinām ātmā asi adhīśa akhila-loka-sākṣī . nārāyaṇaḥ aṅgam nara-bhū-jalāyanāt tat ca api satyam na tava eva māyā .. 14 ..
( इंद्रवज्रा )
तच्चेज्जलस्थं तव सज्जगद्वपुः किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥
तत् चेद् जल-स्थम् तव सत्-जगत्-वपुः किम् मे न दृष्टम् भगवन् तदा एव । किम् वा सु दृष्टम् हृदि मे तदा एव किम् नो सपदि एव पुनर् व्यदर्शि ॥ १५ ॥
tat ced jala-stham tava sat-jagat-vapuḥ kim me na dṛṣṭam bhagavan tadā eva . kim vā su dṛṣṭam hṛdi me tadā eva kim no sapadi eva punar vyadarśi .. 15 ..
अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥ १६ ॥
अत्रा एव माया-धमन-अवतारे हि अस्य प्रपञ्चस्य बहिस् स्फुटस्य । कृत्स्नस्य च अन्तर् जठरे जनन्या माया-त्वम् एव प्रकटीकृतम् ते ॥ १६ ॥
atrā eva māyā-dhamana-avatāre hi asya prapañcasya bahis sphuṭasya . kṛtsnasya ca antar jaṭhare jananyā māyā-tvam eva prakaṭīkṛtam te .. 16 ..
( अनुष्टुप् )
यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा । तत्त्वय्यपीह तत् सर्वं किमिदं मायया विना ॥ १७ ॥
यस्य कुक्षौ इदम् सर्वम् स आत्मम् भाति यथा तथा । तत् त्वयि अपि इह तत् सर्वम् किम् इदम् मायया विना ॥ १७ ॥
yasya kukṣau idam sarvam sa ātmam bhāti yathā tathā . tat tvayi api iha tat sarvam kim idam māyayā vinā .. 17 ..
( शार्दूलविक्रीडित )
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम् । एकोऽसि प्रथमं ततो व्रजसुहृद् वत्साः समस्ता अपि । तावन्तोऽसि चतुर्भुजास्तदखिलैः साकं मयोपासिताः । तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ १८ ॥
अद्या एव त्वत् ऋते अस्य किम् मम न ते माया-त्वम् आदर्शितम् । एकः असि प्रथमम् ततस् व्रज-सुहृद् वत्साः समस्ताः अपि । तावन्तः असि चतुर्-भुजाः तत् अखिलैः साकम् मया उपासिताः । तावन्ति एव जगन्ति अभूः तत् अमितम् ब्रह्म अद्वयम् शिष्यते ॥ १८ ॥
adyā eva tvat ṛte asya kim mama na te māyā-tvam ādarśitam . ekaḥ asi prathamam tatas vraja-suhṛd vatsāḥ samastāḥ api . tāvantaḥ asi catur-bhujāḥ tat akhilaiḥ sākam mayā upāsitāḥ . tāvanti eva jaganti abhūḥ tat amitam brahma advayam śiṣyate .. 18 ..
( उपेंद्रवज्रा )
अजानतां त्वत्पदवीमनात्मन् यात्माऽऽत्मना भासि वितत्य मायाम् । सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्रः ॥ १९ ॥
अ जानताम् त्वद्-पदवीम् अनात्मन् या आत्मा आत्मना भासि वितत्य मायाम् । सृष्टौ इव अहम् जगतः विधाने इव त्वम् एषः अन्ते इव त्रिनेत्रः ॥ १९ ॥
a jānatām tvad-padavīm anātman yā ātmā ātmanā bhāsi vitatya māyām . sṛṣṭau iva aham jagataḥ vidhāne iva tvam eṣaḥ ante iva trinetraḥ .. 19 ..
( मिश्र )
सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादःस्वपि तेऽजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ २० ॥
सुरेषु ऋषिषु ईश तथा एव नृषु अपि तिर्यक्षु यादःसु अपि ते अजनस्य । जन्म-असताम् दुर्मद-निग्रहाय प्रभो विधातर् सत्-अनुग्रहाय च ॥ २० ॥
sureṣu ṛṣiṣu īśa tathā eva nṛṣu api tiryakṣu yādaḥsu api te ajanasya . janma-asatām durmada-nigrahāya prabho vidhātar sat-anugrahāya ca .. 20 ..
को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवत-स्त्रिलोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥
कः वेत्ति भूमन् भगवन् परात्मन् योगेश्वर-ऊतीः भवतः त्रिलोक्याम् । क्व वा कथम् वा कति वा कदा इति विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥
kaḥ vetti bhūman bhagavan parātman yogeśvara-ūtīḥ bhavataḥ trilokyām . kva vā katham vā kati vā kadā iti vistārayan krīḍasi yogamāyām .. 21 ..
( वसंततिलका )
तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवावभाति ॥ २२ ॥
तस्मात् इदम् जगत् अशेषम् असत्-स्वरूपम् स्वप्न-आभम् अस्त-धिषणम् पुरु-दुःख-दुःखम् । त्वयि एव नित्य-सुख-बोध-तनौ अनन्ते मायातः उद्यत् अपि यत् सत् इव अवभाति ॥ २२ ॥
tasmāt idam jagat aśeṣam asat-svarūpam svapna-ābham asta-dhiṣaṇam puru-duḥkha-duḥkham . tvayi eva nitya-sukha-bodha-tanau anante māyātaḥ udyat api yat sat iva avabhāti .. 22 ..
( मिश्र )
एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त आद्यः । नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितोऽमृतः ॥ २३ ॥
एकः त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयम् ज्योतिः अनन्तः आद्यः । ॥ २३ ॥
ekaḥ tvam ātmā puruṣaḥ purāṇaḥ satyaḥ svayam jyotiḥ anantaḥ ādyaḥ . .. 23 ..
( इंद्रवंशा )
एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते । गुर्वर्कलब्धोपनिषत् सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥
एवंविधम् त्वाम् सकल-आत्मनाम् अपि स्वात्मानम् आत्म-आत्मतया विचक्षते । गुरु-अर्क-लब्ध-उपनिषद् सुचक्षुषा ये ते तरन्ति इव भव-अनृत-अम्बुधिम् ॥ २४ ॥
evaṃvidham tvām sakala-ātmanām api svātmānam ātma-ātmatayā vicakṣate . guru-arka-labdha-upaniṣad sucakṣuṣā ye te taranti iva bhava-anṛta-ambudhim .. 24 ..
आत्मानमेवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥ २५ ॥
आत्मानम् एव आत्म-तया अ विजानताम् तेन एव जातम् निखिलम् प्रपञ्चितम् । ज्ञानेन भूयः अपि च तत् प्रलीयते रज्ज्वाम् अहेः भोग-भव-अभवौ यथा ॥ २५ ॥
ātmānam eva ātma-tayā a vijānatām tena eva jātam nikhilam prapañcitam . jñānena bhūyaḥ api ca tat pralīyate rajjvām aheḥ bhoga-bhava-abhavau yathā .. 25 ..
( मिश्र )
अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् । अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥ २६ ॥
अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ द्वौ नाम न अन्यौ स्तः ऋत-ज्ञ-भावात् । अजस्र-चिति आत्मनि केवले परे विचार्यमाणे तरणा-विवाहनी ॥ २६ ॥
ajñāna-saṃjñau bhava-bandha-mokṣau dvau nāma na anyau staḥ ṛta-jña-bhāvāt . ajasra-citi ātmani kevale pare vicāryamāṇe taraṇā-vivāhanī .. 26 ..
( अनुष्टुप् )
त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताज्ञता ॥ २७ ॥
त्वाम् आत्मानम् परम् मत्वा परमात्मानम् एव च । आत्मा पुनर् बहिस् मृग्य अहो अज्ञ-जन-ता-अज्ञ-ता ॥ २७ ॥
tvām ātmānam param matvā paramātmānam eva ca . ātmā punar bahis mṛgya aho ajña-jana-tā-ajña-tā .. 27 ..
( मिश्र )
अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति सन्तः । असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति सन्तः ॥ २८ ॥
अन्तर्भवे अनन्त भवन्तम् एव हि अ तत् त्यजन्तः मृगयन्ति सन्तः । असन्तम् अपि अन्ति अहिम् अन्तरेण सन्तम् गुणम् तम् किमु यन्ति सन्तः ॥ २८ ॥
antarbhave ananta bhavantam eva hi a tat tyajantaḥ mṛgayanti santaḥ . asantam api anti ahim antareṇa santam guṇam tam kimu yanti santaḥ .. 28 ..
अथापि ते देव पदाम्बुजद्वय प्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन् महिम्नो न चान्य एकोऽपि चिरं विचिन्वन् ॥ २९ ॥
अथ अपि ते देव पद-अम्बुज-द्वय प्रसाद-लेश-अनुगृहीतः एव हि । जानाति तत्त्वम् भगवत् महिम्नः न च अन्यः एकः अपि चिरम् विचिन्वन् ॥ २९ ॥
atha api te deva pada-ambuja-dvaya prasāda-leśa-anugṛhītaḥ eva hi . jānāti tattvam bhagavat mahimnaḥ na ca anyaḥ ekaḥ api ciram vicinvan .. 29 ..
तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥ ३० ॥
तत् अस्तु मे नाथ स भूरि-भागः भवे अत्र वा अन्यत्र तु वा तिरश्चाम् । येन अहम् एकः अपि भवत्-जनानाम् भूत्वा निषेवे तव पाद-पल्लवम् ॥ ३० ॥
tat astu me nātha sa bhūri-bhāgaḥ bhave atra vā anyatra tu vā tiraścām . yena aham ekaḥ api bhavat-janānām bhūtvā niṣeve tava pāda-pallavam .. 30 ..
अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽद्यापि न चालमध्वराः ॥ ३१ ॥
अहो अति धन्याः व्रज-गोरमण्यः स्तन्य-अमृतम् पीतम् अतीव ते मुदा । यासाम् विभो वत्सतर-आत्मज-आत्मना यद्-तृप्तये अद्य अपि न च अलम् अध्वराः ॥ ३१ ॥
aho ati dhanyāḥ vraja-goramaṇyaḥ stanya-amṛtam pītam atīva te mudā . yāsām vibho vatsatara-ātmaja-ātmanā yad-tṛptaye adya api na ca alam adhvarāḥ .. 31 ..
( अनुष्टुप् )
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ ३२ ॥
अहो भाग्यम् अहो भाग्यम् नन्द-गोप-व्रज-ओकसाम् । यत् मित्रम् परम-आनन्दम् पूर्णम् ब्रह्म सनातनम् ॥ ३२ ॥
aho bhāgyam aho bhāgyam nanda-gopa-vraja-okasām . yat mitram parama-ānandam pūrṇam brahma sanātanam .. 32 ..
( वसंततिलका )
एषां तु भाग्यमहिमाच्युत तावदास्ताम् । एकादशैव हि वयं बत भूरिभागाः । एतद्धृषीकचषकैरसकृत् पिबामः शर्वादयोऽङ्घ्र्युदजमध्वमृतासवं ते ॥ ३३ ॥
एषाम् तु भाग्य-महिमा अच्युत तावत् आस्ताम् । एकादश एव हि वयम् बत भूरि-भागाः । एतत् हृषीक-चषकैः असकृत् पिबामः शर्व-आदयः अङ्घ्रि-उदज-मधु-अमृत-आसवम् ते ॥ ३३ ॥
eṣām tu bhāgya-mahimā acyuta tāvat āstām . ekādaśa eva hi vayam bata bhūri-bhāgāḥ . etat hṛṣīka-caṣakaiḥ asakṛt pibāmaḥ śarva-ādayaḥ aṅghri-udaja-madhu-amṛta-āsavam te .. 33 ..
तद्भूरिभाग्यमिह जन्म किमप्यटव्यां । यद्गोकुलेऽपि कतमाङ्घ्रिरजोऽभिषेकम् । यज्जीवितं तु निखिलं भगवान् मुकुन्दः त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥ ३४ ॥
तत् भूरि-भाग्यम् इह जन्म किम् अपि अटव्याम् । यत् गोकुले अपि कतम-अङ्घ्रि-रजः-अभिषेकम् । यत् जीवितम् तु निखिलम् भगवान् मुकुन्दः तु अद्य अपि यत् पद-रजः श्रुति-मृग्यम् एव ॥ ३४ ॥
tat bhūri-bhāgyam iha janma kim api aṭavyām . yat gokule api katama-aṅghri-rajaḥ-abhiṣekam . yat jīvitam tu nikhilam bhagavān mukundaḥ tu adya api yat pada-rajaḥ śruti-mṛgyam eva .. 34 ..
( शार्दूलविक्रीडित )
एषां घोषनिवासिनामुत भवान् किं देव रातेति नः चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन्मुह्यति । सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता यद्धामार्थसुहृत् प्रियात्मतनय प्राणाशयास्त्वत्कृते ॥ ३५ ॥
एषाम् घोष-निवासिनाम् उत भवान् किम् देव रात-इति नः चेतः विश्व-फलात् फलम् त्वद्-अपरम् कुत्र अपि अयत् मुह्यति । स द्वेषात् इव पूतना अपि स कुला त्वाम् एव देवा-पिता यत् धाम अर्थ-सुहृद् प्रिय-आत्म-तनय प्राण-आशयाः त्वद्-कृते ॥ ३५ ॥
eṣām ghoṣa-nivāsinām uta bhavān kim deva rāta-iti naḥ cetaḥ viśva-phalāt phalam tvad-aparam kutra api ayat muhyati . sa dveṣāt iva pūtanā api sa kulā tvām eva devā-pitā yat dhāma artha-suhṛd priya-ātma-tanaya prāṇa-āśayāḥ tvad-kṛte .. 35 ..
( अनुष्टुप् )
तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् । तावन्मोहोऽङ्घ्रिनिगडो यावत् कृष्ण न ते जनाः ॥ ३६ ॥
तावत् राग-आदयः स्तेनाः तावत् कारागृहम् गृहम् । तावत् मोहः अङ्घ्रि-निगडः यावत् कृष्ण न ते जनाः ॥ ३६ ॥
tāvat rāga-ādayaḥ stenāḥ tāvat kārāgṛham gṛham . tāvat mohaḥ aṅghri-nigaḍaḥ yāvat kṛṣṇa na te janāḥ .. 36 ..
प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले । प्रपन्नजनतानन्द सन्दोहं प्रथितुं प्रभो ॥ ३७ ॥
प्रपञ्चम् निष्प्रपञ्चः अपि विडम्बयसि भू-तले । प्रपन्न-जनता-आनन्द सन्दोहम् प्रथितुम् प्रभो ॥ ३७ ॥
prapañcam niṣprapañcaḥ api viḍambayasi bhū-tale . prapanna-janatā-ānanda sandoham prathitum prabho .. 37 ..
जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचरः ॥ ३८ ॥
जानन्तः एव जानन्तु किम् बहु-उक्त्या न मे प्रभो । मनसः वपुषः वाचः वैभवम् तव गोचरः ॥ ३८ ॥
jānantaḥ eva jānantu kim bahu-uktyā na me prabho . manasaḥ vapuṣaḥ vācaḥ vaibhavam tava gocaraḥ .. 38 ..
अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् । त्वमेव जगतां नाथो जगद् एतत् तवार्पितम् ॥ ३९ ॥
अनुजानीहि माम् कृष्ण सर्वम् त्वम् वेत्सि सर्व-दृश् । त्वम् एव जगताम् नाथः जगत् एतत् तव अर्पितम् ॥ ३९ ॥
anujānīhi mām kṛṣṇa sarvam tvam vetsi sarva-dṛś . tvam eva jagatām nāthaḥ jagat etat tava arpitam .. 39 ..
( वसंततिलका )
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् । उद्धर्मशार्वरहर क्षितिराक्षसध्रुग् आकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४० ॥
श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् क्ष्मा-निर्जर-द्विज-पशु-उदधि-वृद्धि-कारिन् । उद्धर्म-शार्वर-हर क्षिति-राक्षस-द्रुह् आ कल्प-मार्कम् अर्हन् भगवन् नमः ते ॥ ४० ॥
śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin kṣmā-nirjara-dvija-paśu-udadhi-vṛddhi-kārin . uddharma-śārvara-hara kṣiti-rākṣasa-druh ā kalpa-mārkam arhan bhagavan namaḥ te .. 40 ..
श्रीशुक उवाच ।
इत्यभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ ४१ ॥
इति अभिष्टूय भूमानम् त्रिस् परिक्रम्य पादयोः । नत्वा अभीष्टम् जगद्धाता स्व-धाम प्रत्यपद्यत ॥ ४१ ॥
iti abhiṣṭūya bhūmānam tris parikramya pādayoḥ . natvā abhīṣṭam jagaddhātā sva-dhāma pratyapadyata .. 41 ..
ततोऽनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् । वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥
ततस् अनुज्ञाप्य भगवान् स्व-भुवम् प्राच्-अवस्थितान् । वत्सान् पुलिनम् आनिन्ये यथापूर्व-सखम् स्वकम् ॥ ४२ ॥
tatas anujñāpya bhagavān sva-bhuvam prāc-avasthitān . vatsān pulinam āninye yathāpūrva-sakham svakam .. 42 ..
एकस्मिन्नपि यातेऽब्दे प्राणेशं चान्तराऽऽत्मनः । कृष्णमायाहता राजन् क्षणार्धं मेनिरेऽर्भकाः ॥ ४३ ॥
एकस्मिन् अपि याते अब्दे प्राण-ईशम् च अन्तरा आत्मनः । कृष्ण-माया-हताः राजन् क्षण-अर्धम् मेनिरे अर्भकाः ॥ ४३ ॥
ekasmin api yāte abde prāṇa-īśam ca antarā ātmanaḥ . kṛṣṇa-māyā-hatāḥ rājan kṣaṇa-ardham menire arbhakāḥ .. 43 ..
किं किं न विस्मरन्तीह मायामोहितचेतसः । यन्मोहितं जगत्सर्वं अभीक्ष्णं विस्मृतात्मकम् ॥ ४४ ॥
किम् किम् न विस्मरन्ति इह माया-मोहित-चेतसः । यत् मोहितम् जगत् सर्वम् अभीक्ष्णम् विस्मृत-आत्मकम् ॥ ४४ ॥
kim kim na vismaranti iha māyā-mohita-cetasaḥ . yat mohitam jagat sarvam abhīkṣṇam vismṛta-ātmakam .. 44 ..
ऊचुश्च सुहृदः कृष्णं स्वागतं तेऽतिरंहसा । नैकोऽप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५ ॥
ऊचुः च सुहृदः कृष्णम् स्वागतम् ते अति रंहसा । न एकः अपि अभोजि कवलः एहि इतस् साधु भुज्यताम् ॥ ४५ ॥
ūcuḥ ca suhṛdaḥ kṛṣṇam svāgatam te ati raṃhasā . na ekaḥ api abhoji kavalaḥ ehi itas sādhu bhujyatām .. 45 ..
ततो हसन् हृषीकेशोऽभ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ ४६ ॥
ततस् हसन् हृषीकेशः अभ्यवहृत्य सह अर्भकैः । दर्शयन् चर्म अजगरम् न्यवर्तत वनात् व्रजम् ॥ ४६ ॥
tatas hasan hṛṣīkeśaḥ abhyavahṛtya saha arbhakaiḥ . darśayan carma ajagaram nyavartata vanāt vrajam .. 46 ..
( वसंततिलका )
बर्हप्रसून नवधातुविचित्रिताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः । वत्सान् गृणन्ननुगगीत पवित्रकीर्तिः गोपीदृगुत्सवदृशिः प्रविवेश गोष्ठम् ॥ ४७ ॥
बर्ह-प्रसून नव-धातु-विचित्रित-अङ्गः प्रोद्दाम-वेणु-दल-शृङ्ग-रव-उत्सव-आढ्यः । वत्सान् पवित्र-कीर्तिः गोपी-दृश् उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ ४७ ॥
barha-prasūna nava-dhātu-vicitrita-aṅgaḥ proddāma-veṇu-dala-śṛṅga-rava-utsava-āḍhyaḥ . vatsān pavitra-kīrtiḥ gopī-dṛś utsava-dṛśiḥ praviveśa goṣṭham .. 47 ..
( अनुष्टुप् )
अद्यानेन महाव्यालो यशोदानन्दसूनुना । हतोऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ ४८ ॥
अद्य अनेन महा-व्यालः यशोद-आनन्द-सूनुना । हतः अविता वयम् च अस्मात् इति बालाः व्रजे जगुः ॥ ४८ ॥
adya anena mahā-vyālaḥ yaśoda-ānanda-sūnunā . hataḥ avitā vayam ca asmāt iti bālāḥ vraje jaguḥ .. 48 ..
श्रीराजोवाच ।
ब्रह्मन् परोद्भवे कृष्णे इयान्प्रेमा कथं भवेत् । योऽभूतपूर्वस्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ ४९ ॥
ब्रह्मन् पर-उद्भवे कृष्णे इयान् प्रेमा कथम् भवेत् । यः अभूत-पूर्व-स्तोकेषु स्व-उद्भवेषु अपि कथ्यताम् ॥ ४९ ॥
brahman para-udbhave kṛṣṇe iyān premā katham bhavet . yaḥ abhūta-pūrva-stokeṣu sva-udbhaveṣu api kathyatām .. 49 ..
श्रीशुक उवाच ।
सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः । इतरेऽपत्यवित्ताद्याः तद्वल्लभतयैव हि ॥ ५० ॥
सर्वेषाम् अपि भूतानाम् नृप स्वात्मा एव वल्लभः । इतरे अपत्य-वित्त-आद्याः तद्-वल्लभ-तया एव हि ॥ ५० ॥
sarveṣām api bhūtānām nṛpa svātmā eva vallabhaḥ . itare apatya-vitta-ādyāḥ tad-vallabha-tayā eva hi .. 50 ..
तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालम्बि पुत्रवित्तगृहादिषु ॥ ५१ ॥
तत् राज-इन्द्र यथा स्नेहः स्व-स्वक-आत्मनि देहिनाम् । न तथा ममता-आलम्बि पुत्र-वित्त-गृह-आदिषु ॥ ५१ ॥
tat rāja-indra yathā snehaḥ sva-svaka-ātmani dehinām . na tathā mamatā-ālambi putra-vitta-gṛha-ādiṣu .. 51 ..
देहात्मवादिनां पुंसां अपि राजन्यसत्तम । यथा देहः प्रियतमः तथा न ह्यनु ये च तम् ॥ ५२ ॥
देह-आत्म-वादिनाम् पुंसाम् अपि राजन्य-सत्तम । यथा देहः प्रियतमः तथा न हि अनु ये च तम् ॥ ५२ ॥
deha-ātma-vādinām puṃsām api rājanya-sattama . yathā dehaḥ priyatamaḥ tathā na hi anu ye ca tam .. 52 ..
देहोऽपि ममताभाक् चेत् तर्ह्यसौ नात्मवत् प्रियः । यज्जीर्यत्यपि देहेऽस्मिन् जीविताशा बलीयसी ॥ ५३ ॥
देहः अपि ममता-भाज् चेद् तर्हि असौ न आत्म-वत् प्रियः । यत् जीर्यति अपि देहे अस्मिन् जीवित-आशा बलीयसी ॥ ५३ ॥
dehaḥ api mamatā-bhāj ced tarhi asau na ātma-vat priyaḥ . yat jīryati api dehe asmin jīvita-āśā balīyasī .. 53 ..
तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् । तदर्थमेव सकलं जगद् एतत् चराचरम् ॥ ५४ ॥
तस्मात् प्रियतमः स्वात्मा सर्वेषाम् अपि देहिनाम् । तद्-अर्थम् एव सकलम् जगत् एतत् चराचरम् ॥ ५४ ॥
tasmāt priyatamaḥ svātmā sarveṣām api dehinām . tad-artham eva sakalam jagat etat carācaram .. 54 ..
कृष्णमेनमवेहि त्वं आत्मानं अखिलात्मनाम् । जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ ५५ ॥
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिल-आत्मनाम् । जगत्-हिताय सः अपि अत्र देही इव आभाति मायया ॥ ५५ ॥
kṛṣṇam enam avehi tvam ātmānam akhila-ātmanām . jagat-hitāya saḥ api atra dehī iva ābhāti māyayā .. 55 ..
वस्तुतो जानतामत्र कृष्णं स्थास्नु चरिष्णु च । भगवद् रूपमखिलं नान्यद् वस्त्विह किञ्चन ॥ ५६ ॥
वस्तुतस् जानताम् अत्र कृष्णम् स्थास्नु चरिष्णु च । भगवत् रूपम् अखिलम् न अन्यत् वस्तु इह किञ्चन ॥ ५६ ॥
vastutas jānatām atra kṛṣṇam sthāsnu cariṣṇu ca . bhagavat rūpam akhilam na anyat vastu iha kiñcana .. 56 ..
सर्वेषामपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान्कृष्णः किं अतद्वस्तु रूप्यताम् ॥ ५७ ॥
सर्वेषाम् अपि वस्तूनाम् भाव-अर्थः भवति स्थितः । तस्य अपि भगवान् कृष्णः किम् अ तद्-वस्तु रूप्यताम् ॥ ५७ ॥
sarveṣām api vastūnām bhāva-arthaḥ bhavati sthitaḥ . tasya api bhagavān kṛṣṇaḥ kim a tad-vastu rūpyatām .. 57 ..
( मिश्र )
समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः । भवाम्बुधिर्वत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ ५८ ॥
समाश्रिताः ये पद-पल्लव-प्लवम् महत् पदम् पुण्य-यशः मुरारेः । भव-अम्बुधिः वत्स-पदम् परम् पदम् पदम् पदम् यत् विपदाम् न तेषाम् ॥ ५८ ॥
samāśritāḥ ye pada-pallava-plavam mahat padam puṇya-yaśaḥ murāreḥ . bhava-ambudhiḥ vatsa-padam param padam padam padam yat vipadām na teṣām .. 58 ..
( अनुष्टुप् )
एतत्ते सर्वमाख्यातं यत् पृष्टोऽहमिह त्वया । यत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ ५९ ॥
एतत् ते सर्वम् आख्यातम् यत् पृष्टः अहम् इह त्वया । यत् कौमारे हरि-कृतम् पौगण्डे परिकीर्तितम् ॥ ५९ ॥
etat te sarvam ākhyātam yat pṛṣṭaḥ aham iha tvayā . yat kaumāre hari-kṛtam paugaṇḍe parikīrtitam .. 59 ..
( मिश्र )
एतत्सुहृद्भिश्चरितं मुरारेः अघार्दनं शाद्वलजेमनं च । व्यक्तेतरद् रूपमजोर्वभिष्टवं शृण्वन् गृणन्नेति नरोऽखिलार्थान् ॥ ६० ॥
एतत् सुहृद्भिः चरितम् मुरारेः अघ-अर्दनम् शाद्वल-जेमनम् च । व्यक्त-इतरत् रूपम् अज-ऊरु-अभिष्टवम् शृण्वन् गृणन् एति नरः अखिल-अर्थान् ॥ ६० ॥
etat suhṛdbhiḥ caritam murāreḥ agha-ardanam śādvala-jemanam ca . vyakta-itarat rūpam aja-ūru-abhiṣṭavam śṛṇvan gṛṇan eti naraḥ akhila-arthān .. 60 ..
( अनुष्टुप् )
एवं विहारैः कौमारैः कौमारं जहतुर्व्रजे । निलायनैः सेतुबन्धैः मर्कटोत्प्लवनादिभिः ॥ ६१ ॥
एवम् विहारैः कौमारैः कौमारम् जहतुः व्रजे । निलायनैः सेतु-बन्धैः मर्कट-उत्प्लवन-आदिभिः ॥ ६१ ॥
evam vihāraiḥ kaumāraiḥ kaumāram jahatuḥ vraje . nilāyanaiḥ setu-bandhaiḥ markaṭa-utplavana-ādibhiḥ .. 61 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे चतुर्दशः अध्यायः ॥ १४ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe caturdaśaḥ adhyāyaḥ .. 14 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In