ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८ ॥
PADACHEDA
ते तत्र तत्र अब्ज-यव-अङ्कुश-अशनि ध्वज-उपपन्नानि पदानि विश्पतेः । मार्गे गवामन्य-पद-अन्तर-अन्तरे निरीक्षमाणाः ययुः अङ्ग स त्वराः ॥ १८ ॥
TRANSLITERATION
te tatra tatra abja-yava-aṅkuśa-aśani dhvaja-upapannāni padāni viśpateḥ . mārge gavāmanya-pada-antara-antare nirīkṣamāṇāḥ yayuḥ aṅga sa tvarāḥ .. 18 ..
तम् जिह्वया द्वि-शिखया परिलेलिहानम् द्वे सृक्किणी हि अति कराल-विष-अग्नि-दृष्टिम् । क्रीडन् अमुम् परिससार यथा खग-इन्द्रः बभ्राम सः अपि अवसरम् प्रसमीक्षमाणः ॥ २५ ॥
TRANSLITERATION
tam jihvayā dvi-śikhayā parilelihānam dve sṛkkiṇī hi ati karāla-viṣa-agni-dṛṣṭim . krīḍan amum parisasāra yathā khaga-indraḥ babhrāma saḥ api avasaram prasamīkṣamāṇaḥ .. 25 ..
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
PADACHEDA
अनुग्रहः अयम् भवतः कृतः हि नः दण्डः असताम् ते खलु कल्मष-अपहः । यत् दन्दशूक-त्वम् अमुष्य देहिनः क्रोधः अपि ते अनुग्रहः एव सम्मतः ॥ ३४ ॥
TRANSLITERATION
anugrahaḥ ayam bhavataḥ kṛtaḥ hi naḥ daṇḍaḥ asatām te khalu kalmaṣa-apahaḥ . yat dandaśūka-tvam amuṣya dehinaḥ krodhaḥ api te anugrahaḥ eva sammataḥ .. 34 ..
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥
PADACHEDA
तस्य एव ते अमूः तनवः त्रिलोक्याम् शान्ताः अ शान्ताः उत मूढ-योनयः । शान्ताः प्रियाः ते हि अधुना अवितुम् सताम् स्थातुः च ते धर्म-परीप्सया ईहतः ॥ ५० ॥
TRANSLITERATION
tasya eva te amūḥ tanavaḥ trilokyām śāntāḥ a śāntāḥ uta mūḍha-yonayaḥ . śāntāḥ priyāḥ te hi adhunā avitum satām sthātuḥ ca te dharma-parīpsayā īhataḥ .. 50 ..
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥
PADACHEDA
इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः । न अत्र स्थेयम् त्वया सर्प समुद्रम् याहि मा चिरम् । स्व-ज्ञाति-अपत्य-दार-आढ्यः गो-नृभिः भुज्यताम् नदी ॥ ६० ॥
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.