| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत् ॥ १ ॥
विलोक्य दूषिताम् कृष्णाम् कृष्णः कृष्ण-अहिना विभुः । तस्याः विशुद्धिम् अन्विच्छन् सर्पम् तम् उदवासयत् ॥ १ ॥
vilokya dūṣitām kṛṣṇām kṛṣṇaḥ kṛṣṇa-ahinā vibhuḥ . tasyāḥ viśuddhim anvicchan sarpam tam udavāsayat .. 1 ..
श्रीराजोवाच ।
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् । स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम् ॥ २ ॥
कथम् अन्तर् जले अगाधे न्यगृह्णात् भगवान् अहिम् । स वै बहु-युग-आवासम् यथा आसीत् विप्र कथ्यताम् ॥ २ ॥
katham antar jale agādhe nyagṛhṇāt bhagavān ahim . sa vai bahu-yuga-āvāsam yathā āsīt vipra kathyatām .. 2 ..
ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः । गोपालोदारचरितं कस्तृप्येतामृतं जुषन् ॥ ३ ॥
ब्रह्मन् भगवतः तस्य भूम्नः स्वच्छन्द-वर्तिनः । गोपाल-उदार-चरितम् कः तृप्येत अमृतम् जुषन् ॥ ३ ॥
brahman bhagavataḥ tasya bhūmnaḥ svacchanda-vartinaḥ . gopāla-udāra-caritam kaḥ tṛpyeta amṛtam juṣan .. 3 ..
श्रीशुक उवाच ।
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः ॥ ४ ॥
कालिन्द्याम् कालियस्य आसीत् ह्रदः कश्चिद् विष-अग्निना । श्रप्यमाण-पयाः यस्मिन् पतन्ति उपरि गाः खगाः ॥ ४ ॥
kālindyām kāliyasya āsīt hradaḥ kaścid viṣa-agninā . śrapyamāṇa-payāḥ yasmin patanti upari gāḥ khagāḥ .. 4 ..
विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ ५ ॥
विप्रुष्मता मारुतेन अभिमर्शिताः । म्रियन्ते तीर-गाः यस्य प्राणिनः स्थिर-जङ्गमाः ॥ ५ ॥
vipruṣmatā mārutena abhimarśitāḥ . mriyante tīra-gāḥ yasya prāṇinaḥ sthira-jaṅgamāḥ .. 5 ..
( वसंततिलका )
तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः । कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम् आस्फोट्य गाढरशनो न्यपतद् विषोदे ॥ ६ ॥
तम् चण्डवेग-विष-वीर्यम् अवेक्ष्य तेन दुष्टाम् नदीम् च खल-संयमन-अवतारः । कृष्णः कदम्बम् अधिरुह्य ततस् अति तुङ्गम् आस्फोट्य गाढ-रशनः न्यपतत् विषोदे ॥ ६ ॥
tam caṇḍavega-viṣa-vīryam avekṣya tena duṣṭām nadīm ca khala-saṃyamana-avatāraḥ . kṛṣṇaḥ kadambam adhiruhya tatas ati tuṅgam āsphoṭya gāḍha-raśanaḥ nyapatat viṣode .. 6 ..
सर्पह्रदः पुरुषसारनिपातवेग संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः । पर्यक्प्लुतो विषकषायबिभीषणोर्मिः धावन् धनुःशतमनन्तबलस्य किं तत् ॥ ७ ॥
सर्प-ह्रदः पुरुष-सार-निपात-वेग संक्षोभित-उरग-विष-उच्छ्वसित-अम्बुराशिः । विष-कषाय-बिभीषण-ऊर्मिः धावन् धनुः-शतम् अनन्त-बलस्य किम् तत् ॥ ७ ॥
sarpa-hradaḥ puruṣa-sāra-nipāta-vega saṃkṣobhita-uraga-viṣa-ucchvasita-amburāśiḥ . viṣa-kaṣāya-bibhīṣaṇa-ūrmiḥ dhāvan dhanuḥ-śatam ananta-balasya kim tat .. 7 ..
तस्य ह्रदे विहरतो भुजदण्डघूर्ण वार्घोषमङ्ग वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत् तदमृष्यमाणः ॥ ८ ॥
तस्य ह्रदे विहरतः भुज-दण्ड-घूर्ण वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य । आश्रुत्य तत् स्व-सदन-अभिभवम् निरीक्ष्य चक्षुःश्रवाः समसरत् तद्-अमृष्यमाणः ॥ ८ ॥
tasya hrade viharataḥ bhuja-daṇḍa-ghūrṇa vār-ghoṣam aṅga vara-vāraṇa-vikramasya . āśrutya tat sva-sadana-abhibhavam nirīkṣya cakṣuḥśravāḥ samasarat tad-amṛṣyamāṇaḥ .. 8 ..
तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥
तम् प्रेक्षणीय-सुकुमार-घन-अवदातम् श्रीवत्स-पीत-वसनम् स्मित-सुन्दर-आस्यम् । क्रीडन्तम् अप्रतिभयम् कमल-उदर-अङ्घ्रिम् सन्दश्य मर्मसु रुषा भुजया चछाद ॥ ९ ॥
tam prekṣaṇīya-sukumāra-ghana-avadātam śrīvatsa-pīta-vasanam smita-sundara-āsyam . krīḍantam apratibhayam kamala-udara-aṅghrim sandaśya marmasu ruṣā bhujayā cachāda .. 9 ..
तं नागभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ १० ॥
तम् नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् आलोक्य तद्-प्रिय-सखाः पशुपाः भृश-आर्ताः । कृष्णे अर्पित-आत्म-सुहृद्-अर्थ-कलत्र-कामाः दुःख-अनुशोक-भय-मूढ-धियः निपेतुः ॥ १० ॥
tam nāga-bhoga-parivītam adṛṣṭa-ceṣṭam ālokya tad-priya-sakhāḥ paśupāḥ bhṛśa-ārtāḥ . kṛṣṇe arpita-ātma-suhṛd-artha-kalatra-kāmāḥ duḥkha-anuśoka-bhaya-mūḍha-dhiyaḥ nipetuḥ .. 10 ..
( अनुष्टुप् )
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे ॥ ११ ॥
गावः वृषाः वत्सतर्यः क्रन्दमानाः सु दुःखिताः । कृष्णे न्यस्त-ईक्षणाः भीताः रुदत्यः इव तस्थिरे ॥ ११ ॥
gāvaḥ vṛṣāḥ vatsataryaḥ krandamānāḥ su duḥkhitāḥ . kṛṣṇe nyasta-īkṣaṇāḥ bhītāḥ rudatyaḥ iva tasthire .. 11 ..
अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः । उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः ॥ १२ ॥
अथ व्रजे महा-उत्पाताः त्रिविधाः हि अति दारुणाः । उत्पेतुः भुवि दिव्य-आत्मन् याः आसन् अभय-शंसिनः ॥ १२ ॥
atha vraje mahā-utpātāḥ trividhāḥ hi ati dāruṇāḥ . utpetuḥ bhuvi divya-ātman yāḥ āsan abhaya-śaṃsinaḥ .. 12 ..
तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ १३ ॥
तान् आलक्ष्य भय-उद्विग्नाः गोपाः नन्द-पुरोगमाः । विना रामेण गाः कृष्णम् ज्ञात्वा चारयितुम् गतम् ॥ १३ ॥
tān ālakṣya bhaya-udvignāḥ gopāḥ nanda-purogamāḥ . vinā rāmeṇa gāḥ kṛṣṇam jñātvā cārayitum gatam .. 13 ..
तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः । तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः ॥ १४ ॥
तैः दुर्निमित्तैः निधनम् मत्वा प्राप्तम् अ तत् विदः । तत् प्राणाः तद्-मनस्काः ते दुःख-शोक-भय-आतुराः ॥ १४ ॥
taiḥ durnimittaiḥ nidhanam matvā prāptam a tat vidaḥ . tat prāṇāḥ tad-manaskāḥ te duḥkha-śoka-bhaya-āturāḥ .. 14 ..
आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः । निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ १५ ॥
आ बाल-वृद्ध-वनिताः सर्वे अङ्ग पशु-वृत्तयः । निर्जग्मुः गोकुलात् दीनाः कृष्ण-दर्शन-लालसाः ॥ १५ ॥
ā bāla-vṛddha-vanitāḥ sarve aṅga paśu-vṛttayaḥ . nirjagmuḥ gokulāt dīnāḥ kṛṣṇa-darśana-lālasāḥ .. 15 ..
तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ॥ २६॥
तान् तथा कातरान् वीक्ष्य भगवान् माधवः बलः । प्रहस्य किञ्चिद् ना उवाच प्रभाव-ज्ञः अनुजस्य सः ॥ २६॥
tān tathā kātarān vīkṣya bhagavān mādhavaḥ balaḥ . prahasya kiñcid nā uvāca prabhāva-jñaḥ anujasya saḥ .. 26..
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम् ॥ १७ ॥
ते अन्वेषमाणाः दयितम् कृष्णम् सूचितया पदैः । भगवत् लक्षणैः जग्मुः पदव्याः यमुना-तटम् ॥ १७ ॥
te anveṣamāṇāḥ dayitam kṛṣṇam sūcitayā padaiḥ . bhagavat lakṣaṇaiḥ jagmuḥ padavyāḥ yamunā-taṭam .. 17 ..
( इंद्रवंशा )
ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः ॥ १८ ॥
ते तत्र तत्र अब्ज-यव-अङ्कुश-अशनि ध्वज-उपपन्नानि पदानि विश्पतेः । मार्गे गवामन्य-पद-अन्तर-अन्तरे निरीक्षमाणाः ययुः अङ्ग स त्वराः ॥ १८ ॥
te tatra tatra abja-yava-aṅkuśa-aśani dhvaja-upapannāni padāni viśpateḥ . mārge gavāmanya-pada-antara-antare nirīkṣamāṇāḥ yayuḥ aṅga sa tvarāḥ .. 18 ..
( वसंततिलका )
अन्तर्ह्रदे भुजगभोगपरीतमारात् । कृष्णं निरीहमुपलभ्य जलाशयान्ते । गोपांश्च मूढधिषणान् परितः पशूंश्च संक्रन्दतः परमकश्मलमापुरार्ताः ॥ १९ ॥
अन्तर् ह्रदे भुजग-भोग-परीतम् आरात् । कृष्णम् निरीहम् उपलभ्य जलाशय-अन्ते । गोपान् च मूढ-धिषणान् परितस् पशून् च संक्रन्दतः परम-कश्मलम् आपुः आर्ताः ॥ १९ ॥
antar hrade bhujaga-bhoga-parītam ārāt . kṛṣṇam nirīham upalabhya jalāśaya-ante . gopān ca mūḍha-dhiṣaṇān paritas paśūn ca saṃkrandataḥ parama-kaśmalam āpuḥ ārtāḥ .. 19 ..
गोप्योऽनुरक्तमनसो भगवत्यनन्ते । तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम् ॥ २० ॥
गोप्यः अनुरक्त-मनसः भगवति अनन्ते । तद्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः । ग्रस्ते अहिना प्रियतमे भृश-दुःख-तप्ताः शून्यम् प्रिय-व्यतिहृतम् ददृशुः त्रिलोकम् ॥ २० ॥
gopyaḥ anurakta-manasaḥ bhagavati anante . tad-sauhṛda-smita-viloka-giraḥ smarantyaḥ . graste ahinā priyatame bhṛśa-duḥkha-taptāḥ śūnyam priya-vyatihṛtam dadṛśuḥ trilokam .. 20 ..
ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः । तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः ॥ २१ ॥
ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टाम् तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः । ताः ताः व्रज-प्रिय-कथाः कथयन्त्यः आसन् कृष्ण-आनने अर्पित-दृशः मृतक-प्रतीकाः ॥ २१ ॥
tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭām tulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥ . tāḥ tāḥ vraja-priya-kathāḥ kathayantyaḥ āsan kṛṣṇa-ānane arpita-dṛśaḥ mṛtaka-pratīkāḥ .. 21 ..
( अनुष्टुप् )
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ २२ ॥
कृष्ण-प्राणान् निर्विशतः नन्द-आदीन् वीक्ष्य तम् ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्ण-अनुभाव-विद् ॥ २२ ॥
kṛṣṇa-prāṇān nirviśataḥ nanda-ādīn vīkṣya tam hradam . pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇa-anubhāva-vid .. 22 ..
( वसंततिलका )
इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः । आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात् ॥ २३ ॥
इत्थम् स्व-गोकुलम् अनन्यगतिम् निरीक्ष्य स स्त्री-कुमारम् अति दुःखितम् आत्म-हेतोः । आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः स्थित्वा मुहूर्तम् उदतिष्ठत् उरङ्ग-बन्धात् ॥ २३ ॥
ittham sva-gokulam ananyagatim nirīkṣya sa strī-kumāram ati duḥkhitam ātma-hetoḥ . ājñāya martya-padavīm anuvartamānaḥ sthitvā muhūrtam udatiṣṭhat uraṅga-bandhāt .. 23 ..
तत्प्रथ्यमानवपुषा व्यथितात्मभोगः त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्गः । तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः ॥ २४ ॥
तद्-प्रथ्यमान-वपुषा व्यथित-आत्म-भोगः त्यक्त्वा उन्नमय्य कुपितः स्व-फणान् भुजङ्गः । तस्थौ श्वसन् श्वसन-रन्ध्र-विष-अम्बरीष स्तब्ध-ईक्षण-उल्मुक-मुखः हरिम् ईक्षमाणः ॥ २४ ॥
tad-prathyamāna-vapuṣā vyathita-ātma-bhogaḥ tyaktvā unnamayya kupitaḥ sva-phaṇān bhujaṅgaḥ . tasthau śvasan śvasana-randhra-viṣa-ambarīṣa stabdha-īkṣaṇa-ulmuka-mukhaḥ harim īkṣamāṇaḥ .. 24 ..
तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् । क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः ॥ २५ ॥
तम् जिह्वया द्वि-शिखया परिलेलिहानम् द्वे सृक्किणी हि अति कराल-विष-अग्नि-दृष्टिम् । क्रीडन् अमुम् परिससार यथा खग-इन्द्रः बभ्राम सः अपि अवसरम् प्रसमीक्षमाणः ॥ २५ ॥
tam jihvayā dvi-śikhayā parilelihānam dve sṛkkiṇī hi ati karāla-viṣa-agni-dṛṣṭim . krīḍan amum parisasāra yathā khaga-indraḥ babhrāma saḥ api avasaram prasamīkṣamāṇaḥ .. 25 ..
एवं परिभ्रमहतौजसमुन्नतांसम् आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः । तन्मूर्धरत्ननिकरस्पर्शातिताम्र पादाम्बुजोऽखिलकलादिगुरुर्ननर्त ॥ २६ ॥
एवम् परिभ्रम-हत-ओजसम् उन्नत-अंसम् आनम्य तद्-पृथु-शिरःसु अधिरूढः आद्यः । तद्-मूर्ध-रत्न-निकर-स्पर्श-अति ताम्र पाद-अम्बुजः अखिल-कला-आदि-गुरुः ननर्त ॥ २६ ॥
evam paribhrama-hata-ojasam unnata-aṃsam ānamya tad-pṛthu-śiraḥsu adhirūḍhaḥ ādyaḥ . tad-mūrdha-ratna-nikara-sparśa-ati tāmra pāda-ambujaḥ akhila-kalā-ādi-guruḥ nanarta .. 26 ..
तं नर्तुमुद्यतमवेक्ष्य तदा तदीय गन्धर्वसिद्धमुनिचारणदेववध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीत पुष्पोपहारनुतिभिः सहसोपसेदुः ॥ २७ ॥
तम् न ऋतुम् उद्यतम् अवेक्ष्य तदा तदीय-गन्धर्व-सिद्ध-मुनि-चारण-देव-वध्वः । प्रीत्या मृदङ्ग-पणव-आनक-वाद्य-गीत-पुष्प-उपहार-नुतिभिः सहसा उपसेदुः ॥ २७ ॥
tam na ṛtum udyatam avekṣya tadā tadīya-gandharva-siddha-muni-cāraṇa-deva-vadhvaḥ . prītyā mṛdaṅga-paṇava-ānaka-vādya-gīta-puṣpa-upahāra-nutibhiḥ sahasā upaseduḥ .. 27 ..
यद् यद् शिरो न नमतेऽङ्ग शतैकशीर्ष्णः तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् नस्तो वमन् परमकश्मलमाप नागः ॥ २८ ॥
यत् यत् शिरः न नमते अङ्ग शत-एक-शीर्ष्णः तत् तत् ममर्द खर-दण्ड-धरः अङ्घ्रि-पातैः । क्षीण-आयुषः भ्रमतः उल्बणम् आस्यतः असृज् नस्तस् वमन् परम-कश्मलम् आप नागः ॥ २८ ॥
yat yat śiraḥ na namate aṅga śata-eka-śīrṣṇaḥ tat tat mamarda khara-daṇḍa-dharaḥ aṅghri-pātaiḥ . kṣīṇa-āyuṣaḥ bhramataḥ ulbaṇam āsyataḥ asṛj nastas vaman parama-kaśmalam āpa nāgaḥ .. 28 ..
तस्याक्षिभिर्गरलमुद्वमतः शिरःसु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन् पदानुनमयन् दमयां बभूव पुष्पैः प्रपूजित इवेह पुमान्पुराणः ॥ २९ ॥
तस्य अक्षिभिः गरलम् उद्वमतः शिरःसु यत् यत् समुन्नमति निःश्वसतः रुषा उच्चैस् । नृत्यन् पदा अनुनमयन् बभूव पुष्पैः प्रपूजितः इव इह पुमान् पुराणः ॥ २९ ॥
tasya akṣibhiḥ garalam udvamataḥ śiraḥsu yat yat samunnamati niḥśvasataḥ ruṣā uccais . nṛtyan padā anunamayan babhūva puṣpaiḥ prapūjitaḥ iva iha pumān purāṇaḥ .. 29 ..
तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम ॥ ३० ॥
तद्-चित्र-ताण्डव-विरुग्ण-फण-आतपत्रः रक्तम् मुखैः उरु वमन् नृप भग्न-गात्रः । स्मृत्वा चराचर-गुरुम् पुरुषम् पुराणम् नारायणम् तम् अरणम् मनसा जगाम ॥ ३० ॥
tad-citra-tāṇḍava-virugṇa-phaṇa-ātapatraḥ raktam mukhaiḥ uru vaman nṛpa bhagna-gātraḥ . smṛtvā carācara-gurum puruṣam purāṇam nārāyaṇam tam araṇam manasā jagāma .. 30 ..
कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् । दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसन भूषणकेशबन्धाः ॥ ३१ ॥
कृष्णस्य गर्भ-जगतः अति भर-अवसन्नम् पार्ष्णि-प्रहार-परिरुग्ण-फण-आतपत्रम् । दृष्ट्वा अहिम् आद्यम् उपसेदुः अमुष्य पत्न्यः आर्ताः श्लथत्-वसन-भूषण-केशबन्धाः ॥ ३१ ॥
kṛṣṇasya garbha-jagataḥ ati bhara-avasannam pārṣṇi-prahāra-parirugṇa-phaṇa-ātapatram . dṛṣṭvā ahim ādyam upaseduḥ amuṣya patnyaḥ ārtāḥ ślathat-vasana-bhūṣaṇa-keśabandhāḥ .. 31 ..
तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ ३२ ॥
ताः तम् सु विग्न-मनसः अथ पुरस्कृत-अर्भाः कायम् निधाय भुवि भूतपतिम् प्रणेमुः । साध्व्यः कृत-अञ्जलि-पुटाः शमलस्य भर्तुः मोक्ष-ईप्सवः शरण-दम् शरणम् प्रपन्नाः ॥ ३२ ॥
tāḥ tam su vigna-manasaḥ atha puraskṛta-arbhāḥ kāyam nidhāya bhuvi bhūtapatim praṇemuḥ . sādhvyaḥ kṛta-añjali-puṭāḥ śamalasya bhartuḥ mokṣa-īpsavaḥ śaraṇa-dam śaraṇam prapannāḥ .. 32 ..
नागपत्‍न्य ऊचुः । ( इंद्रवज्रा )
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन् तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टेः धत्से दमं फलमेवानुशंसन् ॥ ३३ ॥
न्याय्यः हि दण्डः कृत-किल्बिषे अस्मिन् तव अवतारः खल-निग्रहाय । रिपोः सुतानाम् अपि तुल्य-दृष्टेः धत्से दमम् फलम् एव अनुशंसन् ॥ ३३ ॥
nyāyyaḥ hi daṇḍaḥ kṛta-kilbiṣe asmin tava avatāraḥ khala-nigrahāya . ripoḥ sutānām api tulya-dṛṣṭeḥ dhatse damam phalam eva anuśaṃsan .. 33 ..
( वंशस्था )
अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः ॥ ३४ ॥
अनुग्रहः अयम् भवतः कृतः हि नः दण्डः असताम् ते खलु कल्मष-अपहः । यत् दन्दशूक-त्वम् अमुष्य देहिनः क्रोधः अपि ते अनुग्रहः एव सम्मतः ॥ ३४ ॥
anugrahaḥ ayam bhavataḥ kṛtaḥ hi naḥ daṇḍaḥ asatām te khalu kalmaṣa-apahaḥ . yat dandaśūka-tvam amuṣya dehinaḥ krodhaḥ api te anugrahaḥ eva sammataḥ .. 34 ..
( उपेंद्रवज्रा )
तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन । धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः ॥ ३५ ॥
तपः सु तप्तम् किम् अनेन पूर्वम् निरस्त-मानेन च मानदेन । धर्मः अथ वा सर्व-जन-अनुकम्पया यतस् भवान् तुष्यति सर्व-जीवः ॥ ३५ ॥
tapaḥ su taptam kim anena pūrvam nirasta-mānena ca mānadena . dharmaḥ atha vā sarva-jana-anukampayā yatas bhavān tuṣyati sarva-jīvaḥ .. 35 ..
( मिश्र )
कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणु स्पर्शाधिकारः । यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता ॥ ३६ ॥
कस्य अनुभावः अस्य न देव विद्महे तव अङ्घ्रि-रेणु स्पर्श-अधिकारः । यद्-वाञ्छया श्रीः ललना अचरत् तपः विहाय कामान् सु चिरम् धृत-व्रता ॥ ३६ ॥
kasya anubhāvaḥ asya na deva vidmahe tava aṅghri-reṇu sparśa-adhikāraḥ . yad-vāñchayā śrīḥ lalanā acarat tapaḥ vihāya kāmān su ciram dhṛta-vratā .. 36 ..
न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ ३७ ॥
न नाक-पृष्ठम् न च सार्वभौमम् न पारमेष्ठ्यम् न रस-आधिपत्यम् । न योग-सिद्धीः अपुनर्भवम् वा वाञ्छन्ति यद्-पाद-रजः-प्रपन्नाः ॥ ३७ ॥
na nāka-pṛṣṭham na ca sārvabhaumam na pārameṣṭhyam na rasa-ādhipatyam . na yoga-siddhīḥ apunarbhavam vā vāñchanti yad-pāda-rajaḥ-prapannāḥ .. 37 ..
तदेष नाथाप दुरापमन्यैः तमोजनिः क्रोधवशोऽप्यहीशः । संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद् विभवः समक्षः ॥ ३८ ॥
तत् एष नाथ अप दुरापम् अन्यैः तमः-जनिः क्रोध-वशः अपि अहि-ईशः । संसार-चक्रे भ्रमतः शरीरिणः यत् इच्छतः स्यात् विभवः समक्षः ॥ ३८ ॥
tat eṣa nātha apa durāpam anyaiḥ tamaḥ-janiḥ krodha-vaśaḥ api ahi-īśaḥ . saṃsāra-cakre bhramataḥ śarīriṇaḥ yat icchataḥ syāt vibhavaḥ samakṣaḥ .. 38 ..
( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ ३९ ॥
नमः तुभ्यम् भगवते पुरुषाय महात्मने । भूत-आवासाय भूताय परस्मै परमात्मने ॥ ३९ ॥
namaḥ tubhyam bhagavate puruṣāya mahātmane . bhūta-āvāsāya bhūtāya parasmai paramātmane .. 39 ..
ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये । अगुणायाविकाराय नमस्तेऽप्राकृताय च ॥ ४० ॥
ज्ञान-विज्ञान-निधये ब्रह्मणे अनन्त-शक्तये । अगुणाय अविकाराय नमः ते अप्राकृताय च ॥ ४० ॥
jñāna-vijñāna-nidhaye brahmaṇe ananta-śaktaye . aguṇāya avikārāya namaḥ te aprākṛtāya ca .. 40 ..
कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ ४१ ॥
कालाय कालनाभाय काल-अवयव-साक्षिणे । विश्वाय तद्-उपद्रष्ट्रे तद्-कर्त्रे विश्व-हेतवे ॥ ४१ ॥
kālāya kālanābhāya kāla-avayava-sākṣiṇe . viśvāya tad-upadraṣṭre tad-kartre viśva-hetave .. 41 ..
भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ ४२ ॥
भूत-मात्र-इन्द्रिय-प्राण मनः-बुद्धि-आशय-आत्मने । त्रिगुणेन अभिमानेन गूढ-स्व-आत्म-अनुभूतये ॥ ४२ ॥
bhūta-mātra-indriya-prāṇa manaḥ-buddhi-āśaya-ātmane . triguṇena abhimānena gūḍha-sva-ātma-anubhūtaye .. 42 ..
नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचक शक्तये ॥ ४३ ॥
नमः अनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नाना वाद-अनुरोधाय वाच्य-वाचक-शक्तये ॥ ४३ ॥
namaḥ anantāya sūkṣmāya kūṭasthāya vipaścite . nānā vāda-anurodhāya vācya-vācaka-śaktaye .. 43 ..
नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ ४४ ॥
नमः प्रमाण-मूलाय कवये शास्त्र-योनये । प्रवृत्ताय निवृत्ताय निगमाय नमः नमः ॥ ४४ ॥
namaḥ pramāṇa-mūlāya kavaye śāstra-yonaye . pravṛttāya nivṛttāya nigamāya namaḥ namaḥ .. 44 ..
नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ४५ ॥
नमः कृष्णाय रामाय वसुदेव-सुताय च । प्रद्युम्नाय अनिरुद्धाय सात्वताम् पतये नमः ॥ ४५ ॥
namaḥ kṛṣṇāya rāmāya vasudeva-sutāya ca . pradyumnāya aniruddhāya sātvatām pataye namaḥ .. 45 ..
नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे ॥ ४६ ॥
नमः गुण-प्रदीपाय गुण-आत्म-छादनाय च । गुण-वृत्ति-उपलक्ष्याय गुण-द्रष्टे स्व-संविदे ॥ ४६ ॥
namaḥ guṇa-pradīpāya guṇa-ātma-chādanāya ca . guṇa-vṛtti-upalakṣyāya guṇa-draṣṭe sva-saṃvide .. 46 ..
अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने ॥ ४७ ॥
अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये । हृषीकेश नमः ते अस्तु मुनये मौन-शीलिने ॥ ४७ ॥
avyākṛta-vihārāya sarva-vyākṛta-siddhaye . hṛṣīkeśa namaḥ te astu munaye mauna-śīline .. 47 ..
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे ॥ ४८ ॥
परावर-गति-ज्ञाय सर्व-अध्यक्षाय ते नमः । अविश्वाय च विश्वाय तत् द्रष्टे अस्य च हेतवे ॥ ४८ ॥
parāvara-gati-jñāya sarva-adhyakṣāya te namaḥ . aviśvāya ca viśvāya tat draṣṭe asya ca hetave .. 48 ..
( मिश्र )
त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृत कालशक्तिधृक् । तत्तत् स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ॥ ४९ ॥
त्वम् हि अस्य जन्म-स्थिति-संयमान् प्रभो गुणैः अनीहः अकृत काल-शक्ति-धृक् । तत् तत् स्वभावान् प्रतिबोधयन् सतः समीक्षया अमोघ-विहारः ईहसे ॥ ४९ ॥
tvam hi asya janma-sthiti-saṃyamān prabho guṇaiḥ anīhaḥ akṛta kāla-śakti-dhṛk . tat tat svabhāvān pratibodhayan sataḥ samīkṣayā amogha-vihāraḥ īhase .. 49 ..
( इंद्रवंशा )
तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः ॥ ५० ॥
तस्य एव ते अमूः तनवः त्रिलोक्याम् शान्ताः अ शान्ताः उत मूढ-योनयः । शान्ताः प्रियाः ते हि अधुना अवितुम् सताम् स्थातुः च ते धर्म-परीप्सया ईहतः ॥ ५० ॥
tasya eva te amūḥ tanavaḥ trilokyām śāntāḥ a śāntāḥ uta mūḍha-yonayaḥ . śāntāḥ priyāḥ te hi adhunā avitum satām sthātuḥ ca te dharma-parīpsayā īhataḥ .. 50 ..
( अनुष्टुप् )
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः ॥ ५१ ॥
अपराधः सकृत् भर्त्रा सोढव्यः स्व-प्रजा-कृतः । क्षन्तुम् अर्हसि शान्त-आत्मम् मूढस्य त्वाम् अ जानतः ॥ ५१ ॥
aparādhaḥ sakṛt bhartrā soḍhavyaḥ sva-prajā-kṛtaḥ . kṣantum arhasi śānta-ātmam mūḍhasya tvām a jānataḥ .. 51 ..
अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः । स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ ५२ ॥
अनुगृह्णीष्व भगवन् प्राणान् त्यजति पन्नगः । स्त्रीणाम् नः साधु-शोच्यानाम् पतिः प्राणः प्रदीयताम् ॥ ५२ ॥
anugṛhṇīṣva bhagavan prāṇān tyajati pannagaḥ . strīṇām naḥ sādhu-śocyānām patiḥ prāṇaḥ pradīyatām .. 52 ..
विधेहि ते किङ्करीणां अनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ ५३ ॥
विधेहि ते किङ्करीणाम् अनुष्ठेयम् तव आज्ञया । यद्-श्रद्धया अनुतिष्ठन् वै मुच्यते सर्वतस् भयात् ॥ ५३ ॥
vidhehi te kiṅkarīṇām anuṣṭheyam tava ājñayā . yad-śraddhayā anutiṣṭhan vai mucyate sarvatas bhayāt .. 53 ..
श्रीशुक उवाच ।
इत्थं स नागपत्नीभिः भगवान् समभिष्टुतः । मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥ ५४ ॥
इत्थम् स नाग-पत्नीभिः भगवान् समभिष्टुतः । मूर्च्छितम् भग्न-शिरसम् विससर्ज अङ्घ्रि-कुट्टनैः ॥ ५४ ॥
ittham sa nāga-patnībhiḥ bhagavān samabhiṣṭutaḥ . mūrcchitam bhagna-śirasam visasarja aṅghri-kuṭṭanaiḥ .. 54 ..
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ ५५ ॥
प्रतिलब्ध-इन्द्रिय-प्राणः कालियः शनकैस् हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णम् प्राह कृताञ्जलिः ॥ ५५ ॥
pratilabdha-indriya-prāṇaḥ kāliyaḥ śanakais harim . kṛcchrāt samucchvasan dīnaḥ kṛṣṇam prāha kṛtāñjaliḥ .. 55 ..
कालिय उवाच ।
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः ॥ ५६ ॥
वयम् खलाः सह उत्पत्त्या तमसा दीर्घ-मन्यवः । स्वभावः दुस्त्यजः नाथ लोकानाम् यत् असत्-ग्रहः ॥ ५६ ॥
vayam khalāḥ saha utpattyā tamasā dīrgha-manyavaḥ . svabhāvaḥ dustyajaḥ nātha lokānām yat asat-grahaḥ .. 56 ..
त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् । नानास्वभाववीर्यौजो योनिबीजाशयाकृति ॥ ५७ ॥
त्वया सृष्टम् इदम् विश्वम् धातर् गुण-विसर्जनम् । नाना स्वभाव-वीर्य-ओजः योनि-बीज-आशय-आकृति ॥ ५७ ॥
tvayā sṛṣṭam idam viśvam dhātar guṇa-visarjanam . nānā svabhāva-vīrya-ojaḥ yoni-bīja-āśaya-ākṛti .. 57 ..
वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः । कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ ५८ ॥
वयम् च तत्र भगवन् सर्पाः जाति-उरु-मन्यवः । कथम् त्यजामः त्वद्-मायाम् दुस्त्यजाम् मोहिताः स्वयम् ॥ ५८ ॥
vayam ca tatra bhagavan sarpāḥ jāti-uru-manyavaḥ . katham tyajāmaḥ tvad-māyām dustyajām mohitāḥ svayam .. 58 ..
भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ ५९ ॥
भवान् हि कारणम् तत्र सर्वज्ञः जगत्-ईश्वरः । अनुग्रहम् निग्रहम् वा मन्यसे तत् विधेहि नः ॥ ५९ ॥
bhavān hi kāraṇam tatra sarvajñaḥ jagat-īśvaraḥ . anugraham nigraham vā manyase tat vidhehi naḥ .. 59 ..
श्रीशुक उवाच ।
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी ॥ ६० ॥
इति आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः । न अत्र स्थेयम् त्वया सर्प समुद्रम् याहि मा चिरम् । स्व-ज्ञाति-अपत्य-दार-आढ्यः गो-नृभिः भुज्यताम् नदी ॥ ६० ॥
iti ākarṇya vacaḥ prāha bhagavān kārya-mānuṣaḥ . na atra stheyam tvayā sarpa samudram yāhi mā ciram . sva-jñāti-apatya-dāra-āḍhyaḥ go-nṛbhiḥ bhujyatām nadī .. 60 ..
य एतत् संस्मरेन् मर्त्यः तुभ्यं मदनुशासनम् । कीर्तयन् उभयोः सन्ध्योः न युष्मद् भयमाप्नुयात् ॥ ६१ ॥
यः एतत् संस्मरेत् मर्त्यः तुभ्यम् मद्-अनुशासनम् । कीर्तयन् उभयोः सन्ध्योः न युष्मत् भयम् आप्नुयात् ॥ ६१ ॥
yaḥ etat saṃsmaret martyaḥ tubhyam mad-anuśāsanam . kīrtayan ubhayoḥ sandhyoḥ na yuṣmat bhayam āpnuyāt .. 61 ..
योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः । उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥ ६२ ॥
यः अस्मिन् स्नात्वा मद-आक्रीडे देव-आदीन् तर्पयेत् जलैः । उपोष्य माम् स्मरन् अर्चेत् सर्व-पापैः प्रमुच्यते ॥ ६२ ॥
yaḥ asmin snātvā mada-ākrīḍe deva-ādīn tarpayet jalaiḥ . upoṣya mām smaran arcet sarva-pāpaiḥ pramucyate .. 62 ..
द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः । यद् भयात्स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम् ॥ ६३ ॥
द्वीपम् रमणकम् हित्वा ह्रदम् एतम् उपाश्रितः । यत् भयात् स सुपर्णः त्वाम् न अद्यात् मद्-पाद लाञ्छितम् ॥ ६३ ॥
dvīpam ramaṇakam hitvā hradam etam upāśritaḥ . yat bhayāt sa suparṇaḥ tvām na adyāt mad-pāda lāñchitam .. 63 ..
श्रीऋषिरुवाच ।
एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा । तं पूजयामास मुदा नागपत्न्यश्च सादरम् ॥ ६४ ॥
एवम् उक्तः भगवता कृष्णेन अद्भुत-कर्मणा । तम् पूजयामास मुदा नाग-पत्न्यः च सादरम् ॥ ६४ ॥
evam uktaḥ bhagavatā kṛṣṇena adbhuta-karmaṇā . tam pūjayāmāsa mudā nāga-patnyaḥ ca sādaram .. 64 ..
दिव्याम्बरस्रङ् मणिभिः परार्ध्यैरपि भूषणैः । दिव्यगन्धानुलेपैश्च महत्योत्पलमालया ॥ ६५ ॥
दिव्य-अम्बर-स्रज् मणिभिः परार्ध्यैः अपि भूषणैः । दिव्य-गन्ध-अनुलेपैः च महत्या उत्पल-मालया ॥ ६५ ॥
divya-ambara-sraj maṇibhiḥ parārdhyaiḥ api bhūṣaṇaiḥ . divya-gandha-anulepaiḥ ca mahatyā utpala-mālayā .. 65 ..
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ ६६ ॥
पूजयित्वा जगन्नाथम् प्रसाद्य गरुडध्वजम् । ततस् प्रीतः अभ्यनुज्ञातः परिक्रम्य अभिवन्द्य तम् ॥ ६६ ॥
pūjayitvā jagannātham prasādya garuḍadhvajam . tatas prītaḥ abhyanujñātaḥ parikramya abhivandya tam .. 66 ..
सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ॥ ६७ ॥
स कलत्र-सुहृद्-पुत्रः द्वीपम् अब्धेः जगाम ह । तदा एव स अमृत-जला यमुना निर्विषा अभवत् । अनुग्रहात् भगवतः क्रीडा-मानुष-रूपिणः ॥ ६७ ॥
sa kalatra-suhṛd-putraḥ dvīpam abdheḥ jagāma ha . tadā eva sa amṛta-jalā yamunā nirviṣā abhavat . anugrahāt bhagavataḥ krīḍā-mānuṣa-rūpiṇaḥ .. 67 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षोडशोऽध्यायः ॥ १६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे षोडशः अध्यायः ॥ १६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ṣoḍaśaḥ adhyāyaḥ .. 16 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In