| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीराजोवाच । ( अनुष्टुप् )
नागालयं रमणकं कस्मात् तत्याज कालियः । कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ १ ॥
नाग-आलयम् रमणकम् कस्मात् तत्याज कालियः । कृतम् किम् वा सुपर्णस्य तेन एकेन असमञ्जसम् ॥ १ ॥
nāga-ālayam ramaṇakam kasmāt tatyāja kāliyaḥ . kṛtam kim vā suparṇasya tena ekena asamañjasam .. 1 ..
श्रीशुक उवाच ।
उपहार्यैः सर्पजनैः मासि मासीह यो बलिः । वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ॥ २ ॥
उपहार्यैः सर्प-जनैः मासि मासि इह यः बलिः । वानस्पत्यः महा-बाहो नागानाम् प्राक् निरूपितः ॥ २ ॥
upahāryaiḥ sarpa-janaiḥ māsi māsi iha yaḥ baliḥ . vānaspatyaḥ mahā-bāho nāgānām prāk nirūpitaḥ .. 2 ..
स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ ३ ॥
स्वम् स्वम् भागम् प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथाय आत्मनः सर्वे सुपर्णाय महात्मने ॥ ३ ॥
svam svam bhāgam prayacchanti nāgāḥ parvaṇi parvaṇi . gopīthāya ātmanaḥ sarve suparṇāya mahātmane .. 3 ..
विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः । कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ ४ ॥
विष-वीर्य मद-आविष्टः काद्रवेयः तु कालियः । कदर्थीकृत्य गरुडम् स्वयम् तम् बुभुजे बलिम् ॥ ४ ॥
viṣa-vīrya mada-āviṣṭaḥ kādraveyaḥ tu kāliyaḥ . kadarthīkṛtya garuḍam svayam tam bubhuje balim .. 4 ..
तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः । विजिघांसुर्महावेगः कालियं समुपाद्रवत् ॥ ५ ॥
तत् श्रुत्वा कुपितः राजन् भगवान् भगवत्-प्रियः । विजिघांसुः महा-वेगः कालियम् समुपाद्रवत् ॥ ५ ॥
tat śrutvā kupitaḥ rājan bhagavān bhagavat-priyaḥ . vijighāṃsuḥ mahā-vegaḥ kāliyam samupādravat .. 5 ..
( मिश्र )
तमापतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः । दद्भिः सुपर्णं व्यदशद् ददायुधः कराल जिह्रोच्छ्वसितोग्र लोचनः ॥ ६ ॥
तम् आपतन्तम् तरसा विष-आयुधः प्रत्यभ्ययात् उच्छ्रित-न एक-मस्तकः । दद्भिः सुपर्णम् व्यदशत् ददायुधः कराल-जिह्र-उच्छ्वसित-उग्र-लोचनः ॥ ६ ॥
tam āpatantam tarasā viṣa-āyudhaḥ pratyabhyayāt ucchrita-na eka-mastakaḥ . dadbhiḥ suparṇam vyadaśat dadāyudhaḥ karāla-jihra-ucchvasita-ugra-locanaḥ .. 6 ..
तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः । पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रुसुतमुग्रविक्रमः ॥ ७ ॥
तम् तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्ड-वेगः मधुसूदन-आसनः । पक्षेण सव्येन हिरण्य-रोचिषा जघान कद्रु-सुतम् उग्र-विक्रमः ॥ ७ ॥
tam tārkṣyaputraḥ sa nirasya manyumān pracaṇḍa-vegaḥ madhusūdana-āsanaḥ . pakṣeṇa savyena hiraṇya-rociṣā jaghāna kadru-sutam ugra-vikramaḥ .. 7 ..
( अनुष्टुप् )
सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः । ह्रदं विवेश कालिन्द्याः तदगम्यं दुरासदम् ॥ ८ ॥
सुपर्ण-पक्ष-अभिहतः कालियः अतीव विह्वलः । ह्रदम् विवेश कालिन्द्याः तत् अगम्यम् दुरासदम् ॥ ८ ॥
suparṇa-pakṣa-abhihataḥ kāliyaḥ atīva vihvalaḥ . hradam viveśa kālindyāḥ tat agamyam durāsadam .. 8 ..
तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत् ॥ ९ ॥
तत्र एकदा जलचरम् गरुडः भक्ष्यम् ईप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितः अहरत् ॥ ९ ॥
tatra ekadā jalacaram garuḍaḥ bhakṣyam īpsitam . nivāritaḥ saubhariṇā prasahya kṣudhitaḥ aharat .. 9 ..
मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते । कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन् ॥ १० ॥
मीनान् सु दुःखितान् दृष्ट्वा दीनान् मीनपतौ हते । कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् ॥ १० ॥
mīnān su duḥkhitān dṛṣṭvā dīnān mīnapatau hate . kṛpayā saubhariḥ prāha tatratya-kṣemam ācaran .. 10 ..
अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम् ॥ ११ ॥
अत्र प्रविश्य गरुडः यदि मत्स्यान् स खादति । सद्यस् प्राणैः वियुज्येत सत्यम् एतत् ब्रवीमि अहम् ॥ ११ ॥
atra praviśya garuḍaḥ yadi matsyān sa khādati . sadyas prāṇaiḥ viyujyeta satyam etat bravīmi aham .. 11 ..
तं कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ १२ ॥
तम् कालियः परम् वेद न अन्यः कश्चन लेलिहः । अवात्सीत् गरुडात् भीतः कृष्णेन च विवासितः ॥ १२ ॥
tam kāliyaḥ param veda na anyaḥ kaścana lelihaḥ . avātsīt garuḍāt bhītaḥ kṛṣṇena ca vivāsitaḥ .. 12 ..
कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम् । महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ १३ ॥
कृष्णम् ह्रदात् विनिष्क्रान्तम् दिव्य-स्रज् गन्ध-वाससम् । महा-मणि-गण-आकीर्णम् जाम्बूनद-परिष्कृतम् ॥ १३ ॥
kṛṣṇam hradāt viniṣkrāntam divya-sraj gandha-vāsasam . mahā-maṇi-gaṇa-ākīrṇam jāmbūnada-pariṣkṛtam .. 13 ..
उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः । प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ १४ ॥
उपलभ्य उत्थिताः सर्वे लब्ध-प्राणाः इव असवः । प्रमोद-निभृत-आत्मानः गोपाः प्रीत्या अभिरेभिरे ॥ १४ ॥
upalabhya utthitāḥ sarve labdha-prāṇāḥ iva asavaḥ . pramoda-nibhṛta-ātmānaḥ gopāḥ prītyā abhirebhire .. 14 ..
यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव । कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथा ॥ १५ ॥
यशोदा रोहिणी नन्दः गोप्यः गोपाः च कौरव । कृष्णम् समेत्य लब्ध-ईहा आसन् लब्ध-मनोरथा ॥ १५ ॥
yaśodā rohiṇī nandaḥ gopyaḥ gopāḥ ca kaurava . kṛṣṇam sametya labdha-īhā āsan labdha-manorathā .. 15 ..
रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् । नगो गावो वृषा वत्सा लेभिरे परमां मुदम् ॥ १६ ॥
रामः च अच्युतम् आलिङ्ग्य जहास अस्य अनुभाव-विद् । नगः गावः वृषाः वत्साः लेभिरे परमाम् मुदम् ॥ १६ ॥
rāmaḥ ca acyutam āliṅgya jahāsa asya anubhāva-vid . nagaḥ gāvaḥ vṛṣāḥ vatsāḥ lebhire paramām mudam .. 16 ..
नन्दं विप्राः समागत्य गुरवः सकलत्रकाः । ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः ॥ १७ ॥
नन्दम् विप्राः समागत्य गुरवः स कलत्रकाः । ऊचुः ते कालिय-ग्रस्तः दिष्ट्या मुक्तः तव आत्मजः ॥ १७ ॥
nandam viprāḥ samāgatya guravaḥ sa kalatrakāḥ . ūcuḥ te kāliya-grastaḥ diṣṭyā muktaḥ tava ātmajaḥ .. 17 ..
देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे । नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत् ॥ १८ ॥
देहि दानम् द्विजातीनाम् कृष्ण-निर्मुक्ति-हेतवे । नन्दः प्रीत-मनाः राजन् गाः सुवर्णम् तदा आदिशत् ॥ १८ ॥
dehi dānam dvijātīnām kṛṣṇa-nirmukti-hetave . nandaḥ prīta-manāḥ rājan gāḥ suvarṇam tadā ādiśat .. 18 ..
यशोदापि महाभागा नष्टलब्धप्रजा सती । परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः ॥ १९ ॥
यशोदा अपि महाभागा नष्ट-लब्ध-प्रजा सती । परिष्वज्य अङ्कम् आरोप्य मुमोच अश्रु-कलाम् मुहुर् ॥ १९ ॥
yaśodā api mahābhāgā naṣṭa-labdha-prajā satī . pariṣvajya aṅkam āropya mumoca aśru-kalām muhur .. 19 ..
तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः । ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ २० ॥
ताम् रात्रिम् तत्र राज-इन्द्र क्षुध्-तृड्भ्याम् श्रम-कर्षिताः । ऊषुः व्रयौकसः गावः कालिन्द्याः उपकूलतः ॥ २० ॥
tām rātrim tatra rāja-indra kṣudh-tṛḍbhyām śrama-karṣitāḥ . ūṣuḥ vrayaukasaḥ gāvaḥ kālindyāḥ upakūlataḥ .. 20 ..
तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् । सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे ॥ २१ ॥
तदा शुचि-वन-उद्भूतः दाव-अग्निः सर्वतस् व्रजम् । सुप्तम् निशीथे आवृत्य प्रदग्धुम् उपचक्रमे ॥ २१ ॥
tadā śuci-vana-udbhūtaḥ dāva-agniḥ sarvatas vrajam . suptam niśīthe āvṛtya pradagdhum upacakrame .. 21 ..
तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः । कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम् ॥ २२ ॥
ततस् उत्थाय सम्भ्रान्ताः दह्यमानाः व्रज-ओकसः । कृष्णम् ययुः ते शरणम् माया-मनुजम् ईश्वरम् ॥ २२ ॥
tatas utthāya sambhrāntāḥ dahyamānāḥ vraja-okasaḥ . kṛṣṇam yayuḥ te śaraṇam māyā-manujam īśvaram .. 22 ..
कृष्ण कृष्ण महाभाग हे रामामितविक्रम । एष घोरतमो वह्निः तावकान् ग्रसते हि नः ॥ २३ ॥
कृष्ण कृष्ण महाभाग हे राम अमित-विक्रम । एष घोरतमः वह्निः तावकान् ग्रसते हि नः ॥ २३ ॥
kṛṣṇa kṛṣṇa mahābhāga he rāma amita-vikrama . eṣa ghoratamaḥ vahniḥ tāvakān grasate hi naḥ .. 23 ..
सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमः त्वच्चरणं संत्यक्तुं अकुतोभयम् ॥ २४ ॥
सु दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमः त्वद्-चरणम् संत्यक्तुम् अकुतोभयम् ॥ २४ ॥
su dustarān naḥ svān pāhi kālāgneḥ suhṛdaḥ prabho . na śaknumaḥ tvad-caraṇam saṃtyaktum akutobhayam .. 24 ..
इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः । तं अग्निं अपिबत् तीव्रं अनंतोऽनन्त शक्तिधृक् ॥ २५ ॥
इत्थम् स्व-जन-वैक्लव्यम् निरीक्ष्य जगत्-ईश्वरः । तम् अग्निम् अपिबत् तीव्रम् अनंतः अनन्त शक्तिधृक् ॥ २५ ॥
ittham sva-jana-vaiklavyam nirīkṣya jagat-īśvaraḥ . tam agnim apibat tīvram anaṃtaḥ ananta śaktidhṛk .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तदशोऽध्यायः ॥ १७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे सप्तदशः अध्यायः ॥ १७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe saptadaśaḥ adhyāyaḥ .. 17 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In