| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः । अनुगीयमानो न्यविशद्व्रजं गोकुलमण्डितम् १
अथ कृष्णः परिवृतः ज्ञातिभिः मुदित-आत्मभिः । अनुगीयमानः न्यविशत् व्रजम् गोकुल-मण्डितम्
atha kṛṣṇaḥ parivṛtaḥ jñātibhiḥ mudita-ātmabhiḥ . anugīyamānaḥ nyaviśat vrajam gokula-maṇḍitam
व्रजे विक्रीडतोरेवं गोपालच्छद्ममायया । ग्रीष्मो नामर्तुरभवन्नातिप्रेयाञ्छरीरिणाम् २
व्रजे विक्रीडतोः एवम् गोपाल-छद्म-मायया । ग्रीष्मः नाम ऋतुः अभवत् न अति प्रेयान् शरीरिणाम्
vraje vikrīḍatoḥ evam gopāla-chadma-māyayā . grīṣmaḥ nāma ṛtuḥ abhavat na ati preyān śarīriṇām
स च वृन्दावनगुणैर्वसन्त इव लक्षितः । यत्रास्ते भगवान्साक्षाद्रा मेण सह केशवः ३
स च वृन्दावन-गुणैः वसन्तः इव लक्षितः । यत्र आस्ते भगवान् साक्षात् रामेण सह केशवः
sa ca vṛndāvana-guṇaiḥ vasantaḥ iva lakṣitaḥ . yatra āste bhagavān sākṣāt rāmeṇa saha keśavaḥ
यत्र निर्झरनिर्ह्राद निवृत्तस्वनझिल्लिकम् । शश्वत्तच्छीकरर्जीष द्रुममण्डलमण्डितम् ४
यत्र निर्झर-निर्ह्राद निवृत्त-स्वन-झिल्लिकम् । शश्वत् तत् शीकर-र्जीष द्रुम-मण्डल-मण्डितम्
yatra nirjhara-nirhrāda nivṛtta-svana-jhillikam . śaśvat tat śīkara-rjīṣa druma-maṇḍala-maṇḍitam
सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा । न विद्यते यत्र वनौकसां दवो निदाघवह्न्यर्कभवोऽतिशाद्वले ५
सरित्-सरः-प्रस्रवण-ऊर्मि-वायुना कह्लार-कञ्ज-उत्पल-रेणु-हारिणा । न विद्यते यत्र वनौकसाम् दवः निदाघ-वह्नि-अर्क-भवः अति शाद्वले
sarit-saraḥ-prasravaṇa-ūrmi-vāyunā kahlāra-kañja-utpala-reṇu-hāriṇā . na vidyate yatra vanaukasām davaḥ nidāgha-vahni-arka-bhavaḥ ati śādvale
अगाधतोयह्रदिनीतटोर्मिभिर्द्रवत्पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ६
अगाध-तोय-ह्रदिनी-तट-ऊर्मिभिः द्रवत्-पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्ड-अंशु-कराः विष-उल्बणाः भुवः रसम् शाद्वलितम् च गृह्णते
agādha-toya-hradinī-taṭa-ūrmibhiḥ dravat-purīṣyāḥ pulinaiḥ samantataḥ . na yatra caṇḍa-aṃśu-karāḥ viṣa-ulbaṇāḥ bhuvaḥ rasam śādvalitam ca gṛhṇate
वनं कुसुमितं श्रीमन्नदच्चित्रमृगद्विजम् । गायन्मयूरभ्रमरं कूजत्कोकिलसारसम् ७
वनम् कुसुमितम् श्रीमत्-नदत्-चित्र-मृग-द्विजम् । गायत्-मयूर-भ्रमरम् कूजत्-कोकिल-सारसम्
vanam kusumitam śrīmat-nadat-citra-mṛga-dvijam . gāyat-mayūra-bhramaram kūjat-kokila-sārasam
क्रीडिष्यमाणस्तत्क्र्ष्णो भगवान्बलसंयुतः । वेणुं विरणयन्गोपैर्गोधनैः संवृतोऽविशत् ८
क्रीडिष्यमाणः तत् क्र्ष्णः भगवान् बल-संयुतः । वेणुम् विरणयन् गोपैः गो-धनैः संवृतः अविशत्
krīḍiṣyamāṇaḥ tat krṣṇaḥ bhagavān bala-saṃyutaḥ . veṇum viraṇayan gopaiḥ go-dhanaiḥ saṃvṛtaḥ aviśat
प्रवालबर्हस्तबक स्रग्धातुकृतभूषणाः । रामकृष्णादयो गोपा ननृतुर्युयुधुर्जगुः ९
। राम-कृष्ण-आदयः गोपाः ननृतुः युयुधुः जगुः
. rāma-kṛṣṇa-ādayaḥ gopāḥ nanṛtuḥ yuyudhuḥ jaguḥ
कृष्णस्य नृत्यतः केचिज्जगुः केचिदवादयन् । वेणुपाणितलैः शृङ्गैः प्रशशंसुरथापरे १०
कृष्णस्य नृत्यतः केचिद् जगुः केचिद् अवादयन् । वेणु-पाणि-तलैः शृङ्गैः प्रशशंसुः अथ अपरे
kṛṣṇasya nṛtyataḥ kecid jaguḥ kecid avādayan . veṇu-pāṇi-talaiḥ śṛṅgaiḥ praśaśaṃsuḥ atha apare
गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ । ईडिरे कृष्णरामौ च नटा इव नटं नृप ११
गोप-जाति-प्रतिच्छन्नाः देवाः गोपाल-रूपिणौ । ईडिरे कृष्ण-रामौ च नटाः इव नटम् नृप
gopa-jāti-praticchannāḥ devāḥ gopāla-rūpiṇau . īḍire kṛṣṇa-rāmau ca naṭāḥ iva naṭam nṛpa
भ्रमणैर्लङ्घनैः क्षेपैरास्फोटनविकर्षणैः । चिक्रीडतुर्नियुद्धेन काकपक्षधरौ क्वचित् १२
भ्रमणैः लङ्घनैः क्षेपैः आस्फोटन-विकर्षणैः । चिक्रीडतुः नियुद्धेन काकपक्ष-धरौ क्वचिद्
bhramaṇaiḥ laṅghanaiḥ kṣepaiḥ āsphoṭana-vikarṣaṇaiḥ . cikrīḍatuḥ niyuddhena kākapakṣa-dharau kvacid
क्वचिन्नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर्महाराज साधु साध्विति वादिनौ १३
क्वचिद् नृत्यत्सु च अन्येषु गायकौ वादकौ स्वयम् । शशंसतुः महा-राज साधु साधु इति वादिनौ
kvacid nṛtyatsu ca anyeṣu gāyakau vādakau svayam . śaśaṃsatuḥ mahā-rāja sādhu sādhu iti vādinau
क्वचिद्बिल्वैः क्वचित्कुम्भैः क्वचामलकमुष्टिभिः । अस्पृश्यनेत्रबन्धाद्यैः क्वचिन्मृगखगेहया १४
क्वचिद् बिल्वैः क्वचिद् कुम्भैः क्व च आमलक-मुष्टिभिः । अस्पृश्य-नेत्र-बन्ध-आद्यैः क्वचिद् मृग-ख-गेहया
kvacid bilvaiḥ kvacid kumbhaiḥ kva ca āmalaka-muṣṭibhiḥ . aspṛśya-netra-bandha-ādyaiḥ kvacid mṛga-kha-gehayā
क्वचिच्च दर्दुरप्लावैर्विविधैरुपहासकैः । कदाचित्स्यन्दोलिकया कर्हिचिन्नृपचेष्टया १५
क्वचिद् च दर्दुर-प्लावैः विविधैः उपहासकैः । कदाचिद् स्यन्दोलिकया कर्हिचित् नृप-चेष्टया
kvacid ca dardura-plāvaiḥ vividhaiḥ upahāsakaiḥ . kadācid syandolikayā karhicit nṛpa-ceṣṭayā
एवं तौ लोकसिद्धाभिः क्रीडाभिश्चेरतुर्वने । नद्यद्रि द्रोणिकुञ्जेषु काननेषु सरःसु च १६
एवम् तौ लोक-सिद्धाभिः क्रीडाभिः चेरतुः वने । नदी-अद्रि द्रोणि-कुञ्जेषु काननेषु सरःसु च
evam tau loka-siddhābhiḥ krīḍābhiḥ ceratuḥ vane . nadī-adri droṇi-kuñjeṣu kānaneṣu saraḥsu ca
पशूंश्चारयतोर्गोपैस्तद्वने रामकृष्णयोः । गोपरूपी प्रलम्बोऽगादसुरस्तज्जिहीर्षया १७
पशून् चारयतोः गोपैः तत् वने राम-कृष्णयोः । गोप-रूपी प्रलम्बः अगात् असुरः तद्-जिहीर्षया
paśūn cārayatoḥ gopaiḥ tat vane rāma-kṛṣṇayoḥ . gopa-rūpī pralambaḥ agāt asuraḥ tad-jihīrṣayā
तं विद्वानपि दाशार्हो भगवान्सर्वदर्शनः । अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् १८
तम् विद्वान् अपि दाशार्हः भगवान् सर्व-दर्शनः । अन्वमोदत तद्-सख्यम् वधम् तस्य विचिन्तयन्
tam vidvān api dāśārhaḥ bhagavān sarva-darśanaḥ . anvamodata tad-sakhyam vadham tasya vicintayan
तत्रोपाहूय गोपालान्कृष्णः प्राह विहारवित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् १९
तत्र उपाहूय गोपालान् कृष्णः प्राह विहार-विद् । हे गोपाः विहरिष्यामः द्वन्द्वीभूय यथायथम्
tatra upāhūya gopālān kṛṣṇaḥ prāha vihāra-vid . he gopāḥ vihariṣyāmaḥ dvandvībhūya yathāyatham
तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ । कृष्णसङ्घट्टिनः केचिदासन्रामस्य चापरे २०
तत्र चक्रुः परिवृढौ गोपाः राम-जनार्दनौ । कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य च अपरे
tatra cakruḥ parivṛḍhau gopāḥ rāma-janārdanau . kṛṣṇa-saṅghaṭṭinaḥ kecid āsan rāmasya ca apare
आचेरुर्विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः २१
आचेरुः विविधाः क्रीडाः वाह्य-वाहक-लक्षणाः । यत्र आरोहन्ति जेतारः वहन्ति च पराजिताः
āceruḥ vividhāḥ krīḍāḥ vāhya-vāhaka-lakṣaṇāḥ . yatra ārohanti jetāraḥ vahanti ca parājitāḥ
वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् । भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः २२
वहन्तः वाह्यमानाः च चारयन्तः च गो-धनम् । भाण्डीरकम् नाम वटम् जग्मुः कृष्ण-पुरोगमाः
vahantaḥ vāhyamānāḥ ca cārayantaḥ ca go-dhanam . bhāṇḍīrakam nāma vaṭam jagmuḥ kṛṣṇa-purogamāḥ
रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः । क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप २३
राम-सङ्घट्टिनः यर्हि श्रीदाम-वृषभ-आदयः । क्रीडायाम् जयिनः तान् तान् ऊहुः कृष्ण-आदयः नृप
rāma-saṅghaṭṭinaḥ yarhi śrīdāma-vṛṣabha-ādayaḥ . krīḍāyām jayinaḥ tān tān ūhuḥ kṛṣṇa-ādayaḥ nṛpa
उवाह कृष्णो भगवान्श्रीदामानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् २४
उवाह कृष्णः भगवान् श्रीदामानम् पराजितः । वृषभम् भद्रसेनः तु प्रलम्बः रोहिणी-सुतम्
uvāha kṛṣṇaḥ bhagavān śrīdāmānam parājitaḥ . vṛṣabham bhadrasenaḥ tu pralambaḥ rohiṇī-sutam
अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः । वहन् द्रुततरं प्रागादवरोहणतः परम् २५
अविषह्यम् मन्यमानः कृष्णम् दानव-पुङ्गवः । वहन् द्रुततरम् प्रागात् अवरोहणतः परम्
aviṣahyam manyamānaḥ kṛṣṇam dānava-puṅgavaḥ . vahan drutataram prāgāt avarohaṇataḥ param
तमुद्वहन्धरणिधरेन्द्र गौरवं महासुरो विगतरयो निजं वपुः । स आस्थितः पुरटपरिच्छदो बभौ तडिद्द्युमानुडुपतिवाडिवाम्बुदः २६
तम् उद्वहन् धरणिधर-इन्द्र गौरवम् महा-असुरः विगत-रयः निजम् वपुः । सः आस्थितः पुरट-परिच्छदः बभौ तडित्-द्युमान् उडुपति-वाडिव-अम्बुदः
tam udvahan dharaṇidhara-indra gauravam mahā-asuraḥ vigata-rayaḥ nijam vapuḥ . saḥ āsthitaḥ puraṭa-paricchadaḥ babhau taḍit-dyumān uḍupati-vāḍiva-ambudaḥ
निरीक्ष्य तद्वपुरलमम्बरे चरत् प्रदीप्तदृग्भ्रुकुटितटोग्रदंष्ट्रकम् । ज्वलच्छिखं कटककिरीटकुण्डल त्विषाद्भुतं हलधर ईषदत्रसत् २७
निरीक्ष्य तद्-वपुः अलम् अम्बरे चरत् प्रदीप्त-दृश्-भ्रुकुटि-तट-उग्र-दंष्ट्रकम् । ज्वलत्-शिखम् कटक-किरीट-कुण्डल त्विषा-अद्भुतम् हलधरः ईषत् अत्रसत्
nirīkṣya tad-vapuḥ alam ambare carat pradīpta-dṛś-bhrukuṭi-taṭa-ugra-daṃṣṭrakam . jvalat-śikham kaṭaka-kirīṭa-kuṇḍala tviṣā-adbhutam haladharaḥ īṣat atrasat
अथागतस्मृतिरभयो रिपुं बलो विहाय सार्थमिव हरन्तमात्मनः । रुषाहनच्छिरसि दृढेन मुष्टिना सुराधिपो गिरिमिव वज्ररंहसा २८
अथ आगत-स्मृतिः अभयः रिपुम् बलः विहाय सार्थम् इव हरन्तम् आत्मनः । रुषा अहनत् शिरसि दृढेन मुष्टिना सुराधिपः गिरिम् इव वज्र-रंहसा
atha āgata-smṛtiḥ abhayaḥ ripum balaḥ vihāya sārtham iva harantam ātmanaḥ . ruṣā ahanat śirasi dṛḍhena muṣṭinā surādhipaḥ girim iva vajra-raṃhasā
स आहतः सपदि विशीर्णमस्तको मुखाद्वमन्रुधिरमपस्मृतोऽसुरः । महारवं व्यसुरपतत्समीरयन्गिरिर्यथा मघवत आयुधाहतः २९
सः आहतः सपदि विशीर्ण-मस्तकः मुखात् वमन् रुधिरम् अपस्मृतः असुरः । महा-रवम् व्यसुः अपतत् समीरयन् गिरिः यथा मघवतः आयुध-आहतः
saḥ āhataḥ sapadi viśīrṇa-mastakaḥ mukhāt vaman rudhiram apasmṛtaḥ asuraḥ . mahā-ravam vyasuḥ apatat samīrayan giriḥ yathā maghavataḥ āyudha-āhataḥ
दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना । गोपाः सुविस्मिता आसन्साधु साध्विति वादिनः ३०
दृष्ट्वा प्रलम्बम् निहतम् बलेन बल-शालिना । गोपाः सु विस्मिताः आसन् साधु साधु इति वादिनः
dṛṣṭvā pralambam nihatam balena bala-śālinā . gopāḥ su vismitāḥ āsan sādhu sādhu iti vādinaḥ
आशिषोऽभिगृणन्तस्तं प्रशशंसुस्तदर्हणम् । प्रेत्यागतमिवालिङ्ग्य प्रेमविह्वलचेतसः ३१
आशिषः अभिगृणन्तः तम् प्रशशंसुः तद्-अर्हणम् । प्रेत्य आगतम् इव आलिङ्ग्य प्रेम-विह्वल-चेतसः
āśiṣaḥ abhigṛṇantaḥ tam praśaśaṃsuḥ tad-arhaṇam . pretya āgatam iva āliṅgya prema-vihvala-cetasaḥ
पापे प्रलम्बे निहते देवाः परमनिर्वृताः । अभ्यवर्षन्बलं माल्यैः शशंसुः साधु साध्विति ३२
पापे प्रलम्बे निहते देवाः परम-निर्वृताः । अभ्यवर्षन् बलम् माल्यैः शशंसुः साधु साधु इति
pāpe pralambe nihate devāḥ parama-nirvṛtāḥ . abhyavarṣan balam mālyaiḥ śaśaṃsuḥ sādhu sādhu iti
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे प्रलम्बवधो नामाष्टादशोऽध्यायः
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे प्रलम्बवधः नाम अष्टादशः अध्यायः
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe pralambavadhaḥ nāma aṣṭādaśaḥ adhyāyaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In