| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच।
प्रलम्बबकचाणूर तृणावर्तमहाशनैः। मुष्टिकारिष्टद्विविद पूतनाकेशीधेनुकैः १।
प्रलम्ब-बक-चाणूर तृणावर्त-महा-अशनैः। मुष्टिक-अरिष्ट-द्विविद-पूतनाकेशी-धेनुकैः।
pralamba-baka-cāṇūra tṛṇāvarta-mahā-aśanaiḥ. muṣṭika-ariṣṭa-dvivida-pūtanākeśī-dhenukaiḥ.
अन्यैश्चासुरभूपालैर्बाणभौमादिभिर्युतः। यदूनां कदनं चक्रे बली मागधसंश्रयः २।
अन्यैः च असुर-भूपालैः बाण-भौम-आदिभिः युतः। यदूनाम् कदनम् चक्रे बली मागध-संश्रयः।
anyaiḥ ca asura-bhūpālaiḥ bāṇa-bhauma-ādibhiḥ yutaḥ. yadūnām kadanam cakre balī māgadha-saṃśrayaḥ.
ते पीडिता निविविशुः कुरुपञ्चालकेकयान्। शाल्वान्विदर्भान्निषधान्विदेहान्कोशलानपि ३।
ते पीडिताः निविविशुः कुरु-पञ्चाल-केकयान्। शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि।
te pīḍitāḥ niviviśuḥ kuru-pañcāla-kekayān. śālvān vidarbhān niṣadhān videhān kośalān api.
एके तमनुरुन्धाना ज्ञातयः पर्युपासते। हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ४।
एके तम् अनुरुन्धानाः ज्ञातयः पर्युपासते। हतेषु षट्सु बालेषु देवक्याः औग्रसेनिना।
eke tam anurundhānāḥ jñātayaḥ paryupāsate. hateṣu ṣaṭsu bāleṣu devakyāḥ augraseninā.
सप्तमो वैष्णवं धाम यमनन्तं प्रचक्षते। गर्भो बभूव देवक्या हर्षशोकविवर्धनः ५।
सप्तमः वैष्णवम् धाम यम् अनन्तम् प्रचक्षते। गर्भः बभूव देवक्याः हर्ष-शोक-विवर्धनः।
saptamaḥ vaiṣṇavam dhāma yam anantam pracakṣate. garbhaḥ babhūva devakyāḥ harṣa-śoka-vivardhanaḥ.
भगवानपि विश्वात्मा विदित्वा कंसजं भयम्। यदूनां निजनाथानां योगमायां समादिशत् ६।
भगवान् अपि विश्वात्मा विदित्वा कंस-जम् भयम्। यदूनाम् निज-नाथानाम् योग-मायाम् समादिशत्।
bhagavān api viśvātmā viditvā kaṃsa-jam bhayam. yadūnām nija-nāthānām yoga-māyām samādiśat.
गच्छ देवि व्रजं भद्रे गोपगोभिरलङ्कृतम्। रोहिणी वसुदेवस्य भार्यास्ते नन्दगोकुले। अन्याश्च कंससंविग्ना विवरेषु वसन्ति हि ७।
गच्छ देवि व्रजम् भद्रे गोप-गोभिः अलङ्कृतम्। रोहिणी वसुदेवस्य भार्या आस्ते नन्द-गोकुले। अन्याः च कंस-संविग्नाः विवरेषु वसन्ति हि।
gaccha devi vrajam bhadre gopa-gobhiḥ alaṅkṛtam. rohiṇī vasudevasya bhāryā āste nanda-gokule. anyāḥ ca kaṃsa-saṃvignāḥ vivareṣu vasanti hi.
देवक्या जठरे गर्भं शेषाख्यं धाम मामकम्। तत्सन्निकृष्य रोहिण्या उदरे सन्निवेशय ८।
देवक्याः जठरे गर्भम् शेष-आख्यम् धाम मामकम्। तत् सन्निकृष्य रोहिण्याः उदरे सन्निवेशय।
devakyāḥ jaṭhare garbham śeṣa-ākhyam dhāma māmakam. tat sannikṛṣya rohiṇyāḥ udare sanniveśaya.
अथाहमंशभागेन देवक्याः पुत्रतां शुभे। प्राप्स्यामि त्वं यशोदायां नन्दपत्न्यां भविष्यसि ९।
अथ अहम् अंश-भागेन देवक्याः पुत्र-ताम् शुभे। प्राप्स्यामि त्वम् यशोदायाम् नन्द-पत्न्याम् भविष्यसि।
atha aham aṃśa-bhāgena devakyāḥ putra-tām śubhe. prāpsyāmi tvam yaśodāyām nanda-patnyām bhaviṣyasi.
अर्चिष्यन्ति मनुष्यास्त्वां सर्वकामवरेश्वरीम्। धूपोपहारबलिभिः सर्वकामवरप्रदाम् १०।
अर्चिष्यन्ति मनुष्याः त्वाम् सर्व-काम-वर-ईश्वरीम्। धूप-उपहार-बलिभिः सर्व-काम-वर-प्रदाम्।
arciṣyanti manuṣyāḥ tvām sarva-kāma-vara-īśvarīm. dhūpa-upahāra-balibhiḥ sarva-kāma-vara-pradām.
नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि। दुर्गेति भद्र कालीति विजया वैष्णवीति च ११।
नामधेयानि कुर्वन्ति स्थानानि च नराः भुवि। दुर्गा इति भद्र-काली इति विजया वैष्णवी इति च।
nāmadheyāni kurvanti sthānāni ca narāḥ bhuvi. durgā iti bhadra-kālī iti vijayā vaiṣṇavī iti ca.
कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च। माया नारायणीशानी शारदेत्यम्बिकेति च १२।
कुमुदा चण्डिका कृष्णा माधवी कन्यका इति च। माया नारायणी ईशानी शारदा इति अम्बिका इति च।
kumudā caṇḍikā kṛṣṇā mādhavī kanyakā iti ca. māyā nārāyaṇī īśānī śāradā iti ambikā iti ca.
गर्भसङ्कर्षणात्तं वै प्राहुः सङ्कर्षणं भुवि। रामेति लोकरमणाद्बलभद्रं बलोच्छ्रयात् १३।
गर्भ-सङ्कर्षणात् तम् वै प्राहुः सङ्कर्षणम् भुवि। राम इति लोक-रमणात् बलभद्रम् बल-उच्छ्रयात्।
garbha-saṅkarṣaṇāt tam vai prāhuḥ saṅkarṣaṇam bhuvi. rāma iti loka-ramaṇāt balabhadram bala-ucchrayāt.
सन्दिष्टैवं भगवता तथेत्योमिति तद्वचः। प्रतिगृह्य परिक्रम्य गां गता तत्तथाकरोत् १४।
सन्दिष्टा एवम् भगवता तथा इति ओम् इति तद्-वचः। प्रतिगृह्य परिक्रम्य गाम् गता तत् तथा करोत्।
sandiṣṭā evam bhagavatā tathā iti om iti tad-vacaḥ. pratigṛhya parikramya gām gatā tat tathā karot.
गर्भे प्रणीते देवक्या रोहिणीं योगनिद्र या। अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः १५।
गर्भे प्रणीते देवक्याः रोहिणीम् या। अहो विस्रंसितः गर्भः इति पौराः विचुक्रुशुः।
garbhe praṇīte devakyāḥ rohiṇīm yā. aho visraṃsitaḥ garbhaḥ iti paurāḥ vicukruśuḥ.
भगवानपि विश्वात्मा भक्तानामभयङ्करः। आविवेशांशभागेन मन आनकदुन्दुभेः १६।
भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः। आविवेश अंश-भागेन मनः आनकदुन्दुभेः।
bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ. āviveśa aṃśa-bhāgena manaḥ ānakadundubheḥ.
स बिभ्रत्पौरुषं धाम भ्राजमानो यथा रविः। दुरासदोऽतिदुर्धर्षो भूतानां सम्बभूव ह १७।
स बिभ्रत् पौरुषम् धाम भ्राजमानः यथा रविः। दुरासदः अति दुर्धर्षः भूतानाम् सम्बभूव ह।
sa bibhrat pauruṣam dhāma bhrājamānaḥ yathā raviḥ. durāsadaḥ ati durdharṣaḥ bhūtānām sambabhūva ha.
ततो जगन्मङ्गलमच्युतांशं समाहितं शूरसुतेन देवी। दधार सर्वात्मकमात्मभूतं काष्ठा यथानन्दकरं मनस्तः १८।
ततस् जगत्-मङ्गलम् अच्युत-अंशम् समाहितम् शूर-सुतेन देवी। दधार सर्व-आत्मकम् आत्म-भूतम् काष्ठा यथा आनन्द-करम् मनस्तः।
tatas jagat-maṅgalam acyuta-aṃśam samāhitam śūra-sutena devī. dadhāra sarva-ātmakam ātma-bhūtam kāṣṭhā yathā ānanda-karam manastaḥ.
सा देवकी सर्वजगन्निवास निवासभूता नितरां न रेजे। भोजेन्द्र गेहेऽग्निशिखेव रुद्धा सरस्वती ज्ञानखले यथा सती १९।
सा देवकी सर्व-जगत्-निवास निवास-भूता नितराम् न रेजे। भोज-इन्द्र गेहे अग्नि-शिखा इव रुद्धा सरस्वती ज्ञान-खले यथा सती।
sā devakī sarva-jagat-nivāsa nivāsa-bhūtā nitarām na reje. bhoja-indra gehe agni-śikhā iva ruddhā sarasvatī jñāna-khale yathā satī.
तां वीक्ष्य कंसः प्रभयाजितान्तरां। विरोचयन्तीं भवनं शुचिस्मिताम् । आहैष मे प्राणहरो हरिर्गुहां। ध्रुवं श्रितो यन्न पुरेयमीदृशी २०।
ताम् वीक्ष्य कंसः प्रभया अजित-अन्तराम्। विरोचयन्तीम् भवनम् शुचि-स्मिताम् । आह एष मे प्राण-हरः हरिः गुहाम्। ध्रुवम् श्रितः यत् न पुरा इयम् ईदृशी।
tām vīkṣya kaṃsaḥ prabhayā ajita-antarām. virocayantīm bhavanam śuci-smitām . āha eṣa me prāṇa-haraḥ hariḥ guhām. dhruvam śritaḥ yat na purā iyam īdṛśī.
किमद्य तस्मिन्करणीयमाशु मे यदर्थतन्त्रो न विहन्ति विक्रमम्। स्त्रियाः स्वसुर्गुरुमत्या वधोऽयं यशः श्रियं हन्त्यनुकालमायुः २१।
किम् अद्य तस्मिन् करणीयम् आशु मे यत् अर्थ-तन्त्रः न विहन्ति विक्रमम्। स्त्रियाः स्वसुः गुरु-मत्याः वधः अयम् यशः श्रियम् हन्ति अनुकालम् आयुः।
kim adya tasmin karaṇīyam āśu me yat artha-tantraḥ na vihanti vikramam. striyāḥ svasuḥ guru-matyāḥ vadhaḥ ayam yaśaḥ śriyam hanti anukālam āyuḥ.
स एष जीवन्खलु सम्परेतो वर्तेत योऽत्यन्तनृशंसितेन। देहे मृते तं मनुजाः शपन्ति गन्ता तमोऽन्धं तनुमानिनो ध्रुवम् २२।
सः एष जीवन् खलु सम्परेतः वर्तेत यः अत्यन्त-नृ-शंसितेन। देहे मृते तम् मनुजाः शपन्ति गन्ता तमः अन्धम् तनु-मानिनः ध्रुवम्।
saḥ eṣa jīvan khalu samparetaḥ varteta yaḥ atyanta-nṛ-śaṃsitena. dehe mṛte tam manujāḥ śapanti gantā tamaḥ andham tanu-māninaḥ dhruvam.
इति घोरतमाद्भावात्सन्निवृत्तः स्वयं प्रभुः। आस्ते प्रतीक्षंस्तज्जन्म हरेर्वैरानुबन्धकृत् २३।
इति घोरतमात् भावात् सन्निवृत्तः स्वयम् प्रभुः। आस्ते प्रतीक्षन् तद्-जन्म हरेः वैर-अनुबन्ध-कृत्।
iti ghoratamāt bhāvāt sannivṛttaḥ svayam prabhuḥ. āste pratīkṣan tad-janma hareḥ vaira-anubandha-kṛt.
आसीनः संविशंस्तिष्ठन्भुञ्जानः पर्यटन्महीम्। चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् २४।
आसीनः संविशन् तिष्ठन् भुञ्जानः पर्यटन् महीम्। चिन्तयानः हृषीकेशम् अपश्यत् तद्-मयम् जगत्।
āsīnaḥ saṃviśan tiṣṭhan bhuñjānaḥ paryaṭan mahīm. cintayānaḥ hṛṣīkeśam apaśyat tad-mayam jagat.
ब्रह्मा भवश्च तत्रैत्य मुनिभिर्नारदादिभिः। देवैः सानुचरैः साकं गीर्भिर्वृषणमैडयन् २५।
ब्रह्मा भवः च तत्र एत्य मुनिभिः नारद-आदिभिः। देवैः स अनुचरैः साकम् गीर्भिः वृषणम् ऐडयन्।
brahmā bhavaḥ ca tatra etya munibhiḥ nārada-ādibhiḥ. devaiḥ sa anucaraiḥ sākam gīrbhiḥ vṛṣaṇam aiḍayan.
सत्यव्रतं सत्यपरं त्रिसत्यं। सत्यस्य योनिं निहितं च सत्ये। सत्यस्य सत्यमृतसत्यनेत्रं। सत्यात्मकं त्वां शरणं प्रपन्नाः २६।
सत्य-व्रतम् सत्य-परम् त्रि-सत्यम्। सत्यस्य योनिम् निहितम् च सत्ये। सत्यस्य सत्यम् ऋत-सत्य-नेत्रम्। सत्य-आत्मकम् त्वाम् शरणम् प्रपन्नाः।
satya-vratam satya-param tri-satyam. satyasya yonim nihitam ca satye. satyasya satyam ṛta-satya-netram. satya-ātmakam tvām śaraṇam prapannāḥ.
एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरसः पञ्चविधः षडात्मा। सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्षः २७।
एक-अयनः असौ द्वि-फलः त्रि-मूलः चतूरसः पञ्चविधः षष्-आत्मा। सप्त-त्वच् अष्ट-विटपः नव-अक्षः दश-छदी द्वि-खगः हि आदि-वृक्षः।
eka-ayanaḥ asau dvi-phalaḥ tri-mūlaḥ catūrasaḥ pañcavidhaḥ ṣaṣ-ātmā. sapta-tvac aṣṭa-viṭapaḥ nava-akṣaḥ daśa-chadī dvi-khagaḥ hi ādi-vṛkṣaḥ.
त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश्च। त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये २८।
त्वम् एकः एव अस्य सतः प्रसूतिः त्वम् सन्निधानम् त्वम् अनुग्रहः च। त्वद्-मायया संवृत-चेतसः त्वाम् पश्यन्ति नाना न विपश्चितः ये।
tvam ekaḥ eva asya sataḥ prasūtiḥ tvam sannidhānam tvam anugrahaḥ ca. tvad-māyayā saṃvṛta-cetasaḥ tvām paśyanti nānā na vipaścitaḥ ye.
बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य। सत्त्वोपपन्नानि सुखावहानि सतामभद्रा णि मुहुः खलानाम् २९।
बिभर्षि रूपाणि अवबोधः आत्मा क्षेमाय लोकस्य चराचरस्य। सत्त्व-उपपन्नानि सुख-आवहानि सताम् अभद्रा मुहुर् खलानाम्।
bibharṣi rūpāṇi avabodhaḥ ātmā kṣemāya lokasya carācarasya. sattva-upapannāni sukha-āvahāni satām abhadrā muhur khalānām.
त्वय्यम्बुजाक्षाखिलसत्त्वधाम्नि समाधिनावेशितचेतसैके। त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्सपदं भवाब्धिम् ३०।
त्वयि अम्बुज-अक्ष अखिल-सत्त्व-धाम्नि समाधिना आवेशित-चेतसा एके। त्वद्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गो-वत्स-पदम् भव-अब्धिम्।
tvayi ambuja-akṣa akhila-sattva-dhāmni samādhinā āveśita-cetasā eke. tvad-pāda-potena mahat-kṛtena kurvanti go-vatsa-padam bhava-abdhim.
स्वयं समुत्तीर्य सुदुस्तरं द्युमन्। भवार्णवं भीममदभ्रसौहृदाः। भवत्पदाम्भोरुहनावमत्र ते। निधाय याताः सदनुग्रहो भवान् ३१।
स्वयम् समुत्तीर्य सुदुस्तरम् द्युमन्। भव-अर्णवम् भीमम् अदभ्र-सौहृदाः। भवत्-पद-अम्भोरुह-नावम् अत्र ते। निधाय याताः सत्-अनुग्रहः भवान्।
svayam samuttīrya sudustaram dyuman. bhava-arṇavam bhīmam adabhra-sauhṛdāḥ. bhavat-pada-ambhoruha-nāvam atra te. nidhāya yātāḥ sat-anugrahaḥ bhavān.
येऽन्येऽरविन्दाक्ष विमुक्तमानिनस्। त्वय्यस्तभावादविशुद्धबुद्धयः। आरुह्य कृच्छ्रेण परं पदं ततः। पतन्त्यधोऽनादृतयुष्मदङ्घ्रयः ३२।
ये अन्ये अरविन्द-अक्ष विमुक्त-मानिनः। त्वयि अस्तभावात् अविशुद्ध-बुद्धयः। आरुह्य कृच्छ्रेण परम् पदम् ततस्। पतन्ति अधस् अन् आदृत-युष्मद्-अङ्घ्रयः।
ye anye aravinda-akṣa vimukta-māninaḥ. tvayi astabhāvāt aviśuddha-buddhayaḥ. āruhya kṛcchreṇa param padam tatas. patanti adhas an ādṛta-yuṣmad-aṅghrayaḥ.
तथा न ते माधव तावकाः क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदाः। त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ३३।
तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः। त्वया अभिगुप्ताः विचरन्ति निर्भयाः प्रभो।
tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ. tvayā abhiguptāḥ vicaranti nirbhayāḥ prabho.
सत्त्वं विशुद्धं श्रयते भवान्स्थितौ। शरीरिणां श्रेयौपायनं वपुः । वेदक्रियायोगतपःसमाधिभिस्। तवार्हणं येन जनः समीहते ३४।
सत्त्वम् विशुद्धम् श्रयते भवान् स्थितौ। शरीरिणाम् श्रेयः-उपायनम् वपुः । वेद-क्रिया-योग-तपः-समाधिभिः। तव अर्हणम् येन जनः समीहते।
sattvam viśuddham śrayate bhavān sthitau. śarīriṇām śreyaḥ-upāyanam vapuḥ . veda-kriyā-yoga-tapaḥ-samādhibhiḥ. tava arhaṇam yena janaḥ samīhate.
सत्त्वं न चेद्धातरिदं निजं भवेद्। विज्ञानमज्ञानभिदापमार्जनम्। गुणप्रकाशैरनुमीयते भवान्। प्रकाशते यस्य च येन वा गुणः ३५।
सत्त्वम् न चेद् धातर् इदम् निजम् भवेत्। विज्ञानम् अज्ञान-भिदा-अपमार्जनम्। गुण-प्रकाशैः अनुमीयते भवान्। प्रकाशते यस्य च येन वा गुणः।
sattvam na ced dhātar idam nijam bhavet. vijñānam ajñāna-bhidā-apamārjanam. guṇa-prakāśaiḥ anumīyate bhavān. prakāśate yasya ca yena vā guṇaḥ.
न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिणः। मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्यथापि हि ३६।
न नाम-रूपे गुण-जन्म-कर्मभिः निरूपितव्ये तव तस्य साक्षिणः। मनः-वचोभ्याम् अनुमेय-वर्त्मनः देव क्रियायाम् प्रतियन्ति अथ अपि हि।
na nāma-rūpe guṇa-janma-karmabhiḥ nirūpitavye tava tasya sākṣiṇaḥ. manaḥ-vacobhyām anumeya-vartmanaḥ deva kriyāyām pratiyanti atha api hi.
शृण्वन्गृणन्संस्मरयंश्च चिन्तयन्। नामानि रूपाणि च मङ्गलानि ते। क्रियासु यस्त्वच्चरणारविन्दयोर्। आविष्टचेता न भवाय कल्पते ३७।
शृण्वन् गृणन् संस्मरयन् च चिन्तयन्। नामानि रूपाणि च मङ्गलानि ते। क्रियासु यः त्वद्-चरण-अरविन्दयोः। आविष्ट-चेताः न भवाय कल्पते।
śṛṇvan gṛṇan saṃsmarayan ca cintayan. nāmāni rūpāṇi ca maṅgalāni te. kriyāsu yaḥ tvad-caraṇa-aravindayoḥ. āviṣṭa-cetāḥ na bhavāya kalpate.
दिष्ट्या हरेऽस्या भवतः पदो भुवो। भारोऽपनीतस्तव जन्मनेशितुः। दिष्ट्याङ्कितां त्वत्पदकैः सुशोभनैर्। द्र क्ष्याम गां द्यां च तवानुकम्पिताम् ३८।
दिष्ट्या हरे अस्याः भवतः पदः। भारः अपनीतः तव जन्मना ईशितुः। दिष्ट्या अङ्किताम् त्वद्-पदकैः सु शोभनैः। द्र गाम् द्याम् च तव अनुकम्पिताम्।
diṣṭyā hare asyāḥ bhavataḥ padaḥ. bhāraḥ apanītaḥ tava janmanā īśituḥ. diṣṭyā aṅkitām tvad-padakaiḥ su śobhanaiḥ. dra gām dyām ca tava anukampitām.
न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे। भवो निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि ३९।
न ते अभवस्य ईश भवस्य कारणम् विना विनोदम् बत तर्कयामहे। भवः निरोधः स्थितिः अपि अविद्यया कृताः यतस् त्वयि अभय-आश्रय-आत्मनि।
na te abhavasya īśa bhavasya kāraṇam vinā vinodam bata tarkayāmahe. bhavaḥ nirodhaḥ sthitiḥ api avidyayā kṛtāḥ yatas tvayi abhaya-āśraya-ātmani.
मत्स्याश्वकच्छपनृसिंहवराहहंस। राजन्यविप्रविबुधेषु कृतावतारः। त्वं पासि नस्त्रिभुवनं च यथाधुनेश। भारं भुवो हर यदूत्तम वन्दनं ते ४०।
मत्स्य-अश्व-कच्छप-नृसिंह-वराह-हंस। राजन्य-विप्र-विबुधेषु कृत-अवतारः। त्वम् पासि नः त्रिभुवनम् च यथा अधुना ईश। भारम् भुवः हर यदु-उत्तम वन्दनम् ते।
matsya-aśva-kacchapa-nṛsiṃha-varāha-haṃsa. rājanya-vipra-vibudheṣu kṛta-avatāraḥ. tvam pāsi naḥ tribhuvanam ca yathā adhunā īśa. bhāram bhuvaḥ hara yadu-uttama vandanam te.
दिष्ट्याम्ब ते कुक्षिगतः परः पुमान्। अंशेन साक्षाद्भगवान्भवाय नः। माभूद्भयं भोजपतेर्मुमूर्षोर्। गोप्ता यदूनां भविता तवात्मजः ४१।
दिष्ट्या अम्ब ते कुक्षि-गतः परः पुमान्। अंशेन साक्षात् भगवान् भवाय नः। मा अभूत् भयम् भोज-पतेः मुमूर्षोः। गोप्ता यदूनाम् भविता तव आत्मजः।
diṣṭyā amba te kukṣi-gataḥ paraḥ pumān. aṃśena sākṣāt bhagavān bhavāya naḥ. mā abhūt bhayam bhoja-pateḥ mumūrṣoḥ. goptā yadūnām bhavitā tava ātmajaḥ.
श्रीशुक उवाच।
इत्यभिष्टूय पुरुषं यद्रू पमनिदं यथा। ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर्दिवम् ४२।
इति अभिष्टूय पुरुषम् यथा। ब्रह्म-ईशानौ पुरोधाय देवाः प्रतिययुः दिवम्।
iti abhiṣṭūya puruṣam yathā. brahma-īśānau purodhāya devāḥ pratiyayuḥ divam.
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे गर्भगतिविष्णोर्ब्रह्मादिकृतस्तुतिर्नाम द्वितीयोऽध्यायः।
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे गर्भगतिविष्णोर्ब्रह्मादिकृतस्तुतिः नाम द्वितीयः अध्यायः।
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe garbhagativiṣṇorbrahmādikṛtastutiḥ nāma dvitīyaḥ adhyāyaḥ.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In