| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १ ॥
तयोः तत् अद्भुतम् कर्म दाव-अग्नेः मोक्षम् आत्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च ॥ १ ॥
tayoḥ tat adbhutam karma dāva-agneḥ mokṣam ātmanaḥ . gopāḥ strībhyaḥ samācakhyuḥ pralamba-vadham eva ca .. 1 ..
गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः । मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २ ॥
गोप-वृद्धाः च गोप्यः च तत् उपाकर्ण्य विस्मिताः । मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजम् गतौ ॥ २ ॥
gopa-vṛddhāḥ ca gopyaḥ ca tat upākarṇya vismitāḥ . menire deva-pravarau kṛṣṇa-rāmau vrajam gatau .. 2 ..
ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा । विद्योतमानपरिधिः विस्फूर्जित नभस्तला ॥ ३ ॥
ततस् प्रावर्तत प्रावृष् सर्व-सत्त्व-समुद्भवा । विद्योतमान-परिधिः विस्फूर्जित-नभस्तला ॥ ३ ॥
tatas prāvartata prāvṛṣ sarva-sattva-samudbhavā . vidyotamāna-paridhiḥ visphūrjita-nabhastalā .. 3 ..
सान्द्रनीलाम्बुदैर्व्योम सविद्युत् स्तनयित्नुभिः । अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४ ॥
सान्द्र-नील-अम्बुदैः व्योम स विद्युत् स्तनयित्नुभिः । अस्पष्ट-ज्योतिः आच्छन्नम् ब्रह्म इव स गुणम् बभौ ॥ ४ ॥
sāndra-nīla-ambudaiḥ vyoma sa vidyut stanayitnubhiḥ . aspaṣṭa-jyotiḥ ācchannam brahma iva sa guṇam babhau .. 4 ..
अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु । स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ५ ॥
अष्टौ मासान् निपीतम् यत् भूम्याः चोद-मयम् वसु । स्व-गोभिः मोक्तुम् आरेभे पर्जन्यः काले आगते ॥ ५ ॥
aṣṭau māsān nipītam yat bhūmyāḥ coda-mayam vasu . sva-gobhiḥ moktum ārebhe parjanyaḥ kāle āgate .. 5 ..
तडिद्वन्तो महामेघाः चण्ड श्वसन वेपिताः । प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥ ६ ॥
तडिद्वन्तः महा-मेघाः चण्ड-श्वसन-वेपिताः । प्रीणनम् जीवनम् हि अस्य मुमुचुः करुणाः इव ॥ ६ ॥
taḍidvantaḥ mahā-meghāḥ caṇḍa-śvasana-vepitāḥ . prīṇanam jīvanam hi asya mumucuḥ karuṇāḥ iva .. 6 ..
तपःकृशा देवमीढा आसीद् वर्षीयसी मही । यथैव काम्यतपसः तनुः सम्प्राप्य तत्फलम् ॥ ७ ॥
तपः-कृशा देवमीढा आसीत् वर्षीयसी मही । यथा एव काम्य-तपसः तनुः सम्प्राप्य तद्-फलम् ॥ ७ ॥
tapaḥ-kṛśā devamīḍhā āsīt varṣīyasī mahī . yathā eva kāmya-tapasaḥ tanuḥ samprāpya tad-phalam .. 7 ..
निशामुखेषु खद्योताः तमसा भान्ति न ग्रहाः । यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ८ ॥
निशा-मुखेषु खद्योताः तमसा भान्ति न ग्रहाः । यथा पापेन पाखण्डाः न हि वेदाः कलौ युगे ॥ ८ ॥
niśā-mukheṣu khadyotāḥ tamasā bhānti na grahāḥ . yathā pāpena pākhaṇḍāḥ na hi vedāḥ kalau yuge .. 8 ..
श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ ९ ॥
श्रुत्वा पर्जन्य-निनदम् मण्डुकाः व्यसृजन् गिरः । तूष्णीम् शयानाः प्राक् यद्वत् ब्राह्मणाः नियम-अत्यये ॥ ९ ॥
śrutvā parjanya-ninadam maṇḍukāḥ vyasṛjan giraḥ . tūṣṇīm śayānāḥ prāk yadvat brāhmaṇāḥ niyama-atyaye .. 9 ..
आसन् उत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः । पुंसो यथास्वतंत्रस्य देहद्रविण सम्पदः ॥ १० ॥
आसन् उत्पथ-वाहिन्यः क्षुद्र-नद्यः अनुशुष्यतीः । पुंसः यथा स्वतंत्रस्य देह-द्रविण-सम्पदः ॥ १० ॥
āsan utpatha-vāhinyaḥ kṣudra-nadyaḥ anuśuṣyatīḥ . puṃsaḥ yathā svataṃtrasya deha-draviṇa-sampadaḥ .. 10 ..
हरिता हरिभिः शष्पैः इन्द्रगोपैश्च लोहिता । उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११ ॥
हरिता हरिभिः शष्पैः इन्द्रगोपैः च लोहिता । उच्छिलीन्ध्र-कृत-छाया नृणाम् श्रीः इव भूः अभूत् ॥ ११ ॥
haritā haribhiḥ śaṣpaiḥ indragopaiḥ ca lohitā . ucchilīndhra-kṛta-chāyā nṛṇām śrīḥ iva bhūḥ abhūt .. 11 ..
क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः । मानिनां उनुतापं वै दैवाधीनं अजानताम् ॥ १२ ॥
क्षेत्राणि शष्य-सम्पद्भिः कर्षकाणाम् मुदम् ददुः । मानिनाम् उनु तापम् वै दैव-अधीनम् अ जानताम् ॥ १२ ॥
kṣetrāṇi śaṣya-sampadbhiḥ karṣakāṇām mudam daduḥ . māninām unu tāpam vai daiva-adhīnam a jānatām .. 12 ..
जलस्थलौकसः सर्वे नववारिनिषेवया । अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ १३ ॥
जल-स्थल-ओकसः सर्वे नव-वारि-निषेवया । अबिभ्रन् रुचिरम् रूपम् यथा हरि-निषेवया ॥ १३ ॥
jala-sthala-okasaḥ sarve nava-vāri-niṣevayā . abibhran ruciram rūpam yathā hari-niṣevayā .. 13 ..
सरिद्भी सङ्गतः सिन्धुः चुक्षोभ श्वसनोर्मिमान् । अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा ॥ १४ ॥
सरिद्भी सङ्गतः सिन्धुः चुक्षोभ श्वसन-ऊर्मिमान् । अपक्व-योगिनः चित्तम् काम-अक्तम् गुण-युज् यथा ॥ १४ ॥
saridbhī saṅgataḥ sindhuḥ cukṣobha śvasana-ūrmimān . apakva-yoginaḥ cittam kāma-aktam guṇa-yuj yathā .. 14 ..
गिरयो वर्षधाराभिः हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः ॥ १५ ॥
गिरयः वर्ष-धाराभिः हन्यमानाः न विव्यथुः । अभिभूयमानाः व्यसनैः यथा अधोक्षज-चेतसः ॥ १५ ॥
girayaḥ varṣa-dhārābhiḥ hanyamānāḥ na vivyathuḥ . abhibhūyamānāḥ vyasanaiḥ yathā adhokṣaja-cetasaḥ .. 15 ..
मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना ह्यसंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव ॥ १६ ॥
मार्गाः बभूवुः सन्दिग्धाः तृणैः छन्नाः हि अ संस्कृताः । न अभ्यस्यमानाः श्रुतयः द्विजैः काल-हताः इव ॥ १६ ॥
mārgāḥ babhūvuḥ sandigdhāḥ tṛṇaiḥ channāḥ hi a saṃskṛtāḥ . na abhyasyamānāḥ śrutayaḥ dvijaiḥ kāla-hatāḥ iva .. 16 ..
लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १७ ॥
लोक-बन्धुषु मेघेषु विद्युतः चल-सौहृदाः । स्थैर्यम् न चक्रुः कामिन्यः पुरुषेषु गुणिषु इव ॥ १७ ॥
loka-bandhuṣu megheṣu vidyutaḥ cala-sauhṛdāḥ . sthairyam na cakruḥ kāminyaḥ puruṣeṣu guṇiṣu iva .. 17 ..
धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् । व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा ॥ १८ ॥
धनुः-वियति माहेन्द्रम् निर्गुणम् च गुणिनी अभात् । व्यक्ते गुण-व्यतिकरे अगुणवान् पुरुषः यथा ॥ १८ ॥
dhanuḥ-viyati māhendram nirguṇam ca guṇinī abhāt . vyakte guṇa-vyatikare aguṇavān puruṣaḥ yathā .. 18 ..
न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः । अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ १९ ॥
न रराज उडुपः छन्नः स्व-ज्योत्स्ना-राजितैः घनैः । अहंमत्या भासितया स्व-भासा पुरुषः यथा ॥ १९ ॥
na rarāja uḍupaḥ channaḥ sva-jyotsnā-rājitaiḥ ghanaiḥ . ahaṃmatyā bhāsitayā sva-bhāsā puruṣaḥ yathā .. 19 ..
मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः । गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥ २० ॥
मेघ-आगम-उत्सवाः हृष्टाः प्रत्यनन्दन् शिखण्डिनः । गृहेषु तप्ताः निर्विण्णाः यथा अच्युत-जनागमे ॥ २० ॥
megha-āgama-utsavāḥ hṛṣṭāḥ pratyanandan śikhaṇḍinaḥ . gṛheṣu taptāḥ nirviṇṇāḥ yathā acyuta-janāgame .. 20 ..
पीत्वापः पादपाः पद्भिः आसन्नानात्ममूर्तयः । प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१ ॥
पीत्वा अपः पादपाः पद्भिः आसन्न-अनात्म-मूर्तयः । प्राक् क्षामाः तपसा श्रान्ताः यथा काम-अनुसेवया ॥ २१ ॥
pītvā apaḥ pādapāḥ padbhiḥ āsanna-anātma-mūrtayaḥ . prāk kṣāmāḥ tapasā śrāntāḥ yathā kāma-anusevayā .. 21 ..
सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः । गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २२ ॥
सरःसु अशान्त-रोधःसु न्यूषुः अङ्ग अपि सारसाः । गृहेषु अशान्त-कृत्येषु ग्राम्याः इव दुराशयाः ॥ २२ ॥
saraḥsu aśānta-rodhaḥsu nyūṣuḥ aṅga api sārasāḥ . gṛheṣu aśānta-kṛtyeṣu grāmyāḥ iva durāśayāḥ .. 22 ..
जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे । पाषण्डिनामसद्वादैः वेदमार्गाः कलौ यथा ॥ २३ ॥
जल-ओघैः निरभिद्यन्त सेतवः वर्षति ईश्वरे । पाषण्डि-नाम-सद्वादैः वेद-मार्गाः कलौ यथा ॥ २३ ॥
jala-oghaiḥ nirabhidyanta setavaḥ varṣati īśvare . pāṣaṇḍi-nāma-sadvādaiḥ veda-mārgāḥ kalau yathā .. 23 ..
व्यमुञ्चन् वान्वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः । यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः ॥ २४ ॥
व्यमुञ्चन् वान् वायुभिः नुन्नाः भूतेभ्यः अथ अमृतम् घनाः । यथा आशिषः विश्पतयः काले काले द्विज-ईरिताः ॥ २४ ॥
vyamuñcan vān vāyubhiḥ nunnāḥ bhūtebhyaḥ atha amṛtam ghanāḥ . yathā āśiṣaḥ viśpatayaḥ kāle kāle dvija-īritāḥ .. 24 ..
एवं वनं तद् वर्षिष्ठं पक्वखर्जुर जम्बुमत् । गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः ॥ २५ ॥
एवम् वनम् तत् वर्षिष्ठम् पक्व-खर्जुर जम्बुमत् । गो गोपालैः वृतः रन्तुम् स बलः प्राविशत् हरिः ॥ २५ ॥
evam vanam tat varṣiṣṭham pakva-kharjura jambumat . go gopālaiḥ vṛtaḥ rantum sa balaḥ prāviśat hariḥ .. 25 ..
धेनवो मन्दगामिन्य ऊधोभारेण भूयसा । ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २६ ॥
धेनवः मन्द-गामिन्यः ऊधः-भारेण भूयसा । ययुः भगवता आहूताः द्रुतम् प्रीत्या स्नुत-स्तनीः ॥ २६ ॥
dhenavaḥ manda-gāminyaḥ ūdhaḥ-bhāreṇa bhūyasā . yayuḥ bhagavatā āhūtāḥ drutam prītyā snuta-stanīḥ .. 26 ..
वनौकसः प्रमुदिता वनराजीर्मधुच्युतः । जलधारा गिरेर्नादाद् आसन्ना ददृशे गुहाः ॥ २७ ॥
वनौकसः प्रमुदिताः वन-राजीः मधु-च्युतः । जल-धाराः गिरेः नादात् आसन्नाः ददृशे गुहाः ॥ २७ ॥
vanaukasaḥ pramuditāḥ vana-rājīḥ madhu-cyutaḥ . jala-dhārāḥ gireḥ nādāt āsannāḥ dadṛśe guhāḥ .. 27 ..
क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ २८ ॥
क्वचिद् वनस्पति-क्रोडे गुहायाम् च अभिवर्षति । निर्विश्य भगवान् रेमे कन्द-मूल-फल-अशनः ॥ २८ ॥
kvacid vanaspati-kroḍe guhāyām ca abhivarṣati . nirviśya bhagavān reme kanda-mūla-phala-aśanaḥ .. 28 ..
दध्योदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ॥ २९ ॥
दध्योदनम् समानीतम् शिलायाम् सलिल-अन्तिके । सम्भोजनीयैः बुभुजे गोपैः सङ्कर्षण-अन्वितः ॥ २९ ॥
dadhyodanam samānītam śilāyām salila-antike . sambhojanīyaiḥ bubhuje gopaiḥ saṅkarṣaṇa-anvitaḥ .. 29 ..
शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषा वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ ३० ॥
शाद्वल-उपरि संविश्य चर्वतः मीलित-ईक्षणान् । तृप्तान् वृषाः वत्सतरान् गाः च स्वः ओधः-भर-श्रमाः ॥ ३० ॥
śādvala-upari saṃviśya carvataḥ mīlita-īkṣaṇān . tṛptān vṛṣāḥ vatsatarān gāḥ ca svaḥ odhaḥ-bhara-śramāḥ .. 30 ..
प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् । भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१ ॥
प्रावृष्-श्रियम् च ताम् वीक्ष्य सर्व-भूत-मुदावहाम् । भगवान् पूजयांचक्रे आत्म-शक्ति-उपबृंहिताम् ॥ ३१ ॥
prāvṛṣ-śriyam ca tām vīkṣya sarva-bhūta-mudāvahām . bhagavān pūjayāṃcakre ātma-śakti-upabṛṃhitām .. 31 ..
एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२ ॥
एवम् निवसतोः तस्मिन् राम-केशवयोः व्रजे । शरद् समभवत् व्यभ्रा सु अच्छ-अम्बु-अपरुष-अनिला ॥ ३२ ॥
evam nivasatoḥ tasmin rāma-keśavayoḥ vraje . śarad samabhavat vyabhrā su accha-ambu-aparuṣa-anilā .. 32 ..
शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३ ॥
शरदा नीरज-उत्पत्त्या नीराणि प्रकृतिम् ययुः । भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया ॥ ३३ ॥
śaradā nīraja-utpattyā nīrāṇi prakṛtim yayuḥ . bhraṣṭānām iva cetāṃsi punar yoga-niṣevayā .. 33 ..
व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां मलम् । शरत् जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४ ॥
व्योम्नः अब्भ्रम् भूतशाबल्यम् भुवः पङ्कम् अपाम् मलम् । शरद् जहार आश्रमिणाम् कृष्णे भक्तिः यथाशुभम् ॥ ३४ ॥
vyomnaḥ abbhram bhūtaśābalyam bhuvaḥ paṅkam apām malam . śarad jahāra āśramiṇām kṛṣṇe bhaktiḥ yathāśubham .. 34 ..
सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ ३५ ॥
सर्व-स्वम् जलदाः हित्वा विरेजुः शुभ्र-वर्चसः । यथा त्यक्त-एषणाः शान्ताः मुनयः मुक्त-किल्बिषाः ॥ ३५ ॥
sarva-svam jaladāḥ hitvā virejuḥ śubhra-varcasaḥ . yathā tyakta-eṣaṇāḥ śāntāḥ munayaḥ mukta-kilbiṣāḥ .. 35 ..
गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६ ॥
गिरयः मुमुचुः तोयम् क्वचिद् न मुमुचुः शिवम् । यथा ज्ञान-अमृतम् काले ज्ञानिनः ददते न वा ॥ ३६ ॥
girayaḥ mumucuḥ toyam kvacid na mumucuḥ śivam . yathā jñāna-amṛtam kāle jñāninaḥ dadate na vā .. 36 ..
नैवाविदन् क्षीयमाणं जलं गाधजलेचराः । यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३७ ॥
न एव अविदन् क्षीयमाणम् जलम् गाध-जलेचराः । यथा आयुः अन्वहम् क्षय्यम् नराः मूढाः कुटुम्बिनः ॥ ३७ ॥
na eva avidan kṣīyamāṇam jalam gādha-jalecarāḥ . yathā āyuḥ anvaham kṣayyam narāḥ mūḍhāḥ kuṭumbinaḥ .. 37 ..
गाधवारिचरास्तापं अविन्दन् शरदर्कजम् । यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३८ ॥
गाध-वारि-चराः तापम् अविन्दन् शरद्-अर्क-जम् । यथा दरिद्रः कृपणः कुटुम्बी अविजित-इन्द्रियः ॥ ३८ ॥
gādha-vāri-carāḥ tāpam avindan śarad-arka-jam . yathā daridraḥ kṛpaṇaḥ kuṭumbī avijita-indriyaḥ .. 38 ..
शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः । यथाहंममतां धीराः शरीरादिष्वनात्मसु ॥ ३९ ॥
शनैस् शनैस् जहुः पङ्कम् स्थलानि आमम् च वीरुधः । यथा अहम् ममताम् धीराः शरीर-आदिषु अनात्मसु ॥ ३९ ॥
śanais śanais jahuḥ paṅkam sthalāni āmam ca vīrudhaḥ . yathā aham mamatām dhīrāḥ śarīra-ādiṣu anātmasu .. 39 ..
निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे । आत्मनि उपरते सम्यङ् मुनिर्व्युपरतागमः ॥ ४० ॥
निश्चल-अम्बुः अभूत् तूष्णीम् समुद्रः शरद्-आगमे । आत्मनि उपरते सम्यक् मुनिः व्युपरत-आगमः ॥ ४० ॥
niścala-ambuḥ abhūt tūṣṇīm samudraḥ śarad-āgame . ātmani uparate samyak muniḥ vyuparata-āgamaḥ .. 40 ..
केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः । यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥ ४१ ॥
केदारेभ्यः तु अपः अगृह्णन् कर्षकाः दृढ-सेतुभिः । यथा प्राणैः स्रवत्-ज्ञानम् तद्-निरोधेन योगिनः ॥ ४१ ॥
kedārebhyaḥ tu apaḥ agṛhṇan karṣakāḥ dṛḍha-setubhiḥ . yathā prāṇaiḥ sravat-jñānam tad-nirodhena yoginaḥ .. 41 ..
शरदर्कांशुजांस्तापान् भूतानां उडुपोऽहरत् । देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२ ॥
शरद्-अर्क-अंशु-जान् तापान् भूतानाम् उडुपः अहरत् । देह-अभिमान-जम् बोधः मुकुन्दः व्रज-योषिताम् ॥ ४२ ॥
śarad-arka-aṃśu-jān tāpān bhūtānām uḍupaḥ aharat . deha-abhimāna-jam bodhaḥ mukundaḥ vraja-yoṣitām .. 42 ..
खमशोभत निर्मेघं शरद् विमलतारकम् । सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३ ॥
खम् अशोभत निर्मेघम् शरद् विमल-तारकम् । सत्त्व-युक्तम् यथा चित्तम् शब्द-ब्रह्म-अर्थ-दर्शनम् ॥ ४३ ॥
kham aśobhata nirmegham śarad vimala-tārakam . sattva-yuktam yathā cittam śabda-brahma-artha-darśanam .. 43 ..
अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४ ॥
अखण्ड-मण्डलः व्योम्नि रराज उडु-गणैः शशी । यथा यदुपतिः कृष्णः वृष्णि-चक्र-आवृतः भुवि ॥ ४४ ॥
akhaṇḍa-maṇḍalaḥ vyomni rarāja uḍu-gaṇaiḥ śaśī . yathā yadupatiḥ kṛṣṇaḥ vṛṣṇi-cakra-āvṛtaḥ bhuvi .. 44 ..
आश्लिष्य समशीतोष्णं प्रसून वनमारुतम् । जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ ४५ ॥
आश्लिष्य सम-शीत-उष्णम् प्रसून वन-मारुतम् । जनाः तापम् जहुः गोप्यः न कृष्ण-हृत-चेतसः ॥ ४५ ॥
āśliṣya sama-śīta-uṣṇam prasūna vana-mārutam . janāḥ tāpam jahuḥ gopyaḥ na kṛṣṇa-hṛta-cetasaḥ .. 45 ..
गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥ ४६ ॥
गावः मृगाः खगाः नार्यः पुष्पिण्यः शरदा अभवन् । अन्वीयमानाः स्व-वृषैः फलैः ईश-क्रियाः इव ॥ ४६ ॥
gāvaḥ mṛgāḥ khagāḥ nāryaḥ puṣpiṇyaḥ śaradā abhavan . anvīyamānāḥ sva-vṛṣaiḥ phalaiḥ īśa-kriyāḥ iva .. 46 ..
उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७ ॥
उदहृष्यन् वारि-जानि सूर्य-उत्थाने कुमुद् विना । राज्ञा तु निर्भयाः लोकाः यथा दस्यून् विना नृप ॥ ४७ ॥
udahṛṣyan vāri-jāni sūrya-utthāne kumud vinā . rājñā tu nirbhayāḥ lokāḥ yathā dasyūn vinā nṛpa .. 47 ..
पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः । बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥ ४८ ॥
पुर-ग्रामेषु आग्रयणैः इन्द्रियैः च महा-उत्सवैः । बभौ भूः पक्व-सस्य-आढ्या कलाभ्याम् नितराम् हरेः ॥ ४८ ॥
pura-grāmeṣu āgrayaṇaiḥ indriyaiḥ ca mahā-utsavaiḥ . babhau bhūḥ pakva-sasya-āḍhyā kalābhyām nitarām hareḥ .. 48 ..
वणिङ्मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४९ ॥
वणिज्-मुनि नृप-स्नाताः निर्गम्य अर्थान् प्रपेदिरे । वर्ष-रुद्धाः यथा सिद्धाः स्व-पिण्डान् काले आगते ॥ ४९ ॥
vaṇij-muni nṛpa-snātāḥ nirgamya arthān prapedire . varṣa-ruddhāḥ yathā siddhāḥ sva-piṇḍān kāle āgate .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विंशोऽध्यायः ॥ २० ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे विंशः अध्यायः ॥ २० ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe viṃśaḥ adhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In