| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च ॥ १ ॥
tayostadadbhutaṃ karma dāvāgnermokṣamātmanaḥ . gopāḥ strībhyaḥ samācakhyuḥ pralambavadhameva ca .. 1 ..
गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः । मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ २ ॥
gopavṛddhāśca gopyaśca tadupākarṇya vismitāḥ . menire devapravarau kṛṣṇarāmau vrajaṃ gatau .. 2 ..
ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा । विद्योतमानपरिधिः विस्फूर्जित नभस्तला ॥ ३ ॥
tataḥ prāvartata prāvṛṭ sarvasattvasamudbhavā . vidyotamānaparidhiḥ visphūrjita nabhastalā .. 3 ..
सान्द्रनीलाम्बुदैर्व्योम सविद्युत् स्तनयित्नुभिः । अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव सगुणं बभौ ॥ ४ ॥
sāndranīlāmbudairvyoma savidyut stanayitnubhiḥ . aspaṣṭajyotiḥ ācchannaṃ brahmeva saguṇaṃ babhau .. 4 ..
अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु । स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते ॥ ५ ॥
aṣṭau māsān nipītaṃ yad bhūmyāścodamayaṃ vasu . svagobhirmoktumārebhe parjanyaḥ kāla āgate .. 5 ..
तडिद्वन्तो महामेघाः चण्ड श्वसन वेपिताः । प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव ॥ ६ ॥
taḍidvanto mahāmeghāḥ caṇḍa śvasana vepitāḥ . prīṇanaṃ jīvanaṃ hyasya mumucuḥ karuṇā iva .. 6 ..
तपःकृशा देवमीढा आसीद् वर्षीयसी मही । यथैव काम्यतपसः तनुः सम्प्राप्य तत्फलम् ॥ ७ ॥
tapaḥkṛśā devamīḍhā āsīd varṣīyasī mahī . yathaiva kāmyatapasaḥ tanuḥ samprāpya tatphalam .. 7 ..
निशामुखेषु खद्योताः तमसा भान्ति न ग्रहाः । यथा पापेन पाखण्डा न हि वेदाः कलौ युगे ॥ ८ ॥
niśāmukheṣu khadyotāḥ tamasā bhānti na grahāḥ . yathā pāpena pākhaṇḍā na hi vedāḥ kalau yuge .. 8 ..
श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ ९ ॥
śrutvā parjanyaninadaṃ maṇḍukāḥ vyasṛjan giraḥ . tūṣṇīṃ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye .. 9 ..
आसन् उत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः । पुंसो यथास्वतंत्रस्य देहद्रविण सम्पदः ॥ १० ॥
āsan utpathavāhinyaḥ kṣudranadyo'nuśuṣyatīḥ . puṃso yathāsvataṃtrasya dehadraviṇa sampadaḥ .. 10 ..
हरिता हरिभिः शष्पैः इन्द्रगोपैश्च लोहिता । उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत् ॥ ११ ॥
haritā haribhiḥ śaṣpaiḥ indragopaiśca lohitā . ucchilīndhrakṛtacchāyā nṛṇāṃ śrīriva bhūrabhūt .. 11 ..
क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः । मानिनां उनुतापं वै दैवाधीनं अजानताम् ॥ १२ ॥
kṣetrāṇi śaṣyasampadbhiḥ karṣakāṇāṃ mudaṃ daduḥ . mānināṃ unutāpaṃ vai daivādhīnaṃ ajānatām .. 12 ..
जलस्थलौकसः सर्वे नववारिनिषेवया । अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ १३ ॥
jalasthalaukasaḥ sarve navavāriniṣevayā . abibhran ruciraṃ rūpaṃ yathā hariniṣevayā .. 13 ..
सरिद्भी सङ्गतः सिन्धुः चुक्षोभ श्वसनोर्मिमान् । अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा ॥ १४ ॥
saridbhī saṅgataḥ sindhuḥ cukṣobha śvasanormimān . apakvayoginaścittaṃ kāmāktaṃ guṇayug yathā .. 14 ..
गिरयो वर्षधाराभिः हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः ॥ १५ ॥
girayo varṣadhārābhiḥ hanyamānā na vivyathuḥ . abhibhūyamānā vyasanaiḥ yathā adhokṣajacetasaḥ .. 15 ..
मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना ह्यसंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव ॥ १६ ॥
mārgā babhūvuḥ sandigdhāḥ tṛṇaiśchannā hyasaṃskṛtāḥ . nābhyasyamānāḥ śrutayo dvijaiḥ kālahatā iva .. 16 ..
लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव ॥ १७ ॥
lokabandhuṣu megheṣu vidyutaścalasauhṛdāḥ . sthairyaṃ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣviva .. 17 ..
धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् । व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा ॥ १८ ॥
dhanurviyati māhendraṃ nirguṇaṃ ca guṇinyabhāt . vyakte guṇavyatikare aguṇavān puruṣo yathā .. 18 ..
न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः । अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ १९ ॥
na rarājoḍupaśchannaḥ svajyotsnārājitairghanaiḥ . ahaṃmatyā bhāsitayā svabhāsā puruṣo yathā .. 19 ..
मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः । गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे ॥ २० ॥
meghāgamotsavā hṛṣṭāḥ pratyanandan śikhaṇḍinaḥ . gṛheṣu taptā nirviṇṇā yathācyutajanāgame .. 20 ..
पीत्वापः पादपाः पद्भिः आसन्नानात्ममूर्तयः । प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया ॥ २१ ॥
pītvāpaḥ pādapāḥ padbhiḥ āsannānātmamūrtayaḥ . prāk kṣāmāstapasā śrāntā yathā kāmānusevayā .. 21 ..
सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः । गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ २२ ॥
saraḥsvaśāntarodhaḥsu nyūṣuraṅgāpi sārasāḥ . gṛheṣvaśāntakṛtyeṣu grāmyā iva durāśayāḥ .. 22 ..
जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे । पाषण्डिनामसद्वादैः वेदमार्गाः कलौ यथा ॥ २३ ॥
jalaughairnirabhidyanta setavo varṣatīśvare . pāṣaṇḍināmasadvādaiḥ vedamārgāḥ kalau yathā .. 23 ..
व्यमुञ्चन् वान्वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः । यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः ॥ २४ ॥
vyamuñcan vānvāyubhirnunnā bhūtebhyo'thāmṛtaṃ ghanāḥ . yathā''śiṣo viśpatayaḥ kāle kāle dvijeritāḥ .. 24 ..
एवं वनं तद् वर्षिष्ठं पक्वखर्जुर जम्बुमत् । गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः ॥ २५ ॥
evaṃ vanaṃ tad varṣiṣṭhaṃ pakvakharjura jambumat . gogopālairvṛto rantuṃ sabalaḥ prāviśad hariḥ .. 25 ..
धेनवो मन्दगामिन्य ऊधोभारेण भूयसा । ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः ॥ २६ ॥
dhenavo mandagāminya ūdhobhāreṇa bhūyasā . yayurbhagavatā''hūtā drutaṃ prītyā snutastanīḥ .. 26 ..
वनौकसः प्रमुदिता वनराजीर्मधुच्युतः । जलधारा गिरेर्नादाद् आसन्ना ददृशे गुहाः ॥ २७ ॥
vanaukasaḥ pramuditā vanarājīrmadhucyutaḥ . jaladhārā girernādād āsannā dadṛśe guhāḥ .. 27 ..
क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ २८ ॥
kvacid vanaspatikroḍe guhāyāṃ cābhivarṣati . nirviśya bhagavān reme kandamūlaphalāśanaḥ .. 28 ..
दध्योदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः ॥ २९ ॥
dadhyodanaṃ samānītaṃ śilāyāṃ salilāntike . sambhojanīyairbubhuje gopaiḥ saṅkarṣaṇānvitaḥ .. 29 ..
शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषा वत्सतरान् गाश्च स्वोधोभरश्रमाः ॥ ३० ॥
śādvalopari saṃviśya carvato mīlitekṣaṇān . tṛptān vṛṣā vatsatarān gāśca svodhobharaśramāḥ .. 30 ..
प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् । भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम् ॥ ३१ ॥
prāvṛṭśriyaṃ ca tāṃ vīkṣya sarvabhūtamudāvahām . bhagavān pūjayāṃcakre ātmaśaktyupabṛṃhitām .. 31 ..
एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला ॥ ३२ ॥
evaṃ nivasatostasmin rāmakeśavayorvraje . śarat samabhavad vyabhrā svacchāmbvaparuṣānilā .. 32 ..
शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया ॥ ३३ ॥
śaradā nīrajotpattyā nīrāṇi prakṛtiṃ yayuḥ . bhraṣṭānāmiva cetāṃsi punaryoganiṣevayā .. 33 ..
व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां मलम् । शरत् जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम् ॥ ३४ ॥
vyomno'bbhraṃ bhūtaśābalyaṃ bhuvaḥ paṅkamapāṃ malam . śarat jahārāśramiṇāṃ kṛṣṇe bhaktiryathāśubham .. 34 ..
सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ ३५ ॥
sarvasvaṃ jaladā hitvā virejuḥ śubhravarcasaḥ . yathā tyaktaiṣaṇāḥ śāntā munayo muktakilbiṣāḥ .. 35 ..
गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ ३६ ॥
girayo mumucustoyaṃ kvacinna mumucuḥ śivam . yathā jñānāmṛtaṃ kāle jñānino dadate na vā .. 36 ..
नैवाविदन् क्षीयमाणं जलं गाधजलेचराः । यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ ३७ ॥
naivāvidan kṣīyamāṇaṃ jalaṃ gādhajalecarāḥ . yathā''yuranvahaṃ kṣayyaṃ narā mūḍhāḥ kuṭumbinaḥ .. 37 ..
गाधवारिचरास्तापं अविन्दन् शरदर्कजम् । यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः ॥ ३८ ॥
gādhavāricarāstāpaṃ avindan śaradarkajam . yathā daridraḥ kṛpaṇaḥ kuṭumbyavijitendriyaḥ .. 38 ..
शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः । यथाहंममतां धीराः शरीरादिष्वनात्मसु ॥ ३९ ॥
śanaiḥ śanairjahuḥ paṅkaṃ sthalānyāmaṃ ca vīrudhaḥ . yathāhaṃmamatāṃ dhīrāḥ śarīrādiṣvanātmasu .. 39 ..
निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे । आत्मनि उपरते सम्यङ् मुनिर्व्युपरतागमः ॥ ४० ॥
niścalāmburabhūt tūṣṇīṃ samudraḥ śaradāgame . ātmani uparate samyaṅ munirvyuparatāgamaḥ .. 40 ..
केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः । यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः ॥ ४१ ॥
kedārebhyastvapo'gṛhṇan karṣakā dṛḍhasetubhiḥ . yathā prāṇaiḥ sravajjñānaṃ tannirodhena yoginaḥ .. 41 ..
शरदर्कांशुजांस्तापान् भूतानां उडुपोऽहरत् । देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ ४२ ॥
śaradarkāṃśujāṃstāpān bhūtānāṃ uḍupo'harat . dehābhimānajaṃ bodho mukundo vrajayoṣitām .. 42 ..
खमशोभत निर्मेघं शरद् विमलतारकम् । सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ ४३ ॥
khamaśobhata nirmeghaṃ śarad vimalatārakam . sattvayuktaṃ yathā cittaṃ śabdabrahmārthadarśanam .. 43 ..
अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ ४४ ॥
akhaṇḍamaṇḍalo vyomni rarājoḍugaṇaiḥ śaśī . yathā yadupatiḥ kṛṣṇo vṛṣṇicakrāvṛto bhuvi .. 44 ..
आश्लिष्य समशीतोष्णं प्रसून वनमारुतम् । जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः ॥ ४५ ॥
āśliṣya samaśītoṣṇaṃ prasūna vanamārutam . janāstāpaṃ jahurgopyo na kṛṣṇahṛtacetasaḥ .. 45 ..
गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव ॥ ४६ ॥
gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan . anvīyamānāḥ svavṛṣaiḥ phalairīśakriyā iva .. 46 ..
उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ ४७ ॥
udahṛṣyan vārijāni sūryotthāne kumud vinā . rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa .. 47 ..
पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः । बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः ॥ ४८ ॥
puragrāmeṣvāgrayaṇaiḥ indriyaiśca mahotsavaiḥ . babhau bhūḥ pakvasasyāḍhyā kalābhyāṃ nitarāṃ hareḥ .. 48 ..
वणिङ्मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ ४९ ॥
vaṇiṅmuni nṛpasnātā nirgamyārthān prapedire . varṣaruddhā yathā siddhāḥ svapiṇḍān kāla āgate .. 49 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विंशोऽध्यायः ॥ २० ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe viṃśo'dhyāyaḥ .. 20 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In