| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच । ( अनुष्टुप् )
इत्थं शरत् स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद् वायुना वातं स गोगोपालकोऽच्युतः ॥ १ ॥
इत्थम् शरद् स्वच्छ-जलम् पद्म-आकर-सुगन्धिना । न्यविशत् वायुना वातम् स गो-गोपालकः अच्युतः ॥ १ ॥
ittham śarad svaccha-jalam padma-ākara-sugandhinā . nyaviśat vāyunā vātam sa go-gopālakaḥ acyutaḥ .. 1 ..
( पुष्पिताग्रा )
कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् । मधुपतिरवगाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥
कुसुमित-वन-राजि-शुष्मि-भृङ्ग द्विज-कुल-घुष्ट-सरः-सरित्-महीध्रम् । मधुपतिः अवगाह्य चारयन् गाः सह पशुपाल-बलः चुकूज वेणुम् ॥ २ ॥
kusumita-vana-rāji-śuṣmi-bhṛṅga dvija-kula-ghuṣṭa-saraḥ-sarit-mahīdhram . madhupatiḥ avagāhya cārayan gāḥ saha paśupāla-balaḥ cukūja veṇum .. 2 ..
( अनुष्टुप् )
तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् ॥ ३ ॥
तत् व्रज-स्त्रियः आश्रुत्य वेणु-गीतम् स्मर-उदयम् । काश्चिद् परोक्षम् कृष्णस्य स्व-सखीभ्यः अन्ववर्णयन् ॥ ३ ॥
tat vraja-striyaḥ āśrutya veṇu-gītam smara-udayam . kāścid parokṣam kṛṣṇasya sva-sakhībhyaḥ anvavarṇayan .. 3 ..
तद् वर्णयितुमारब्धाः स्मरन्त्यः कृष्णचेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥
तत् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् । ना अशकन् स्मर-वेगेन विक्षिप्त-मनसः नृप ॥ ४ ॥
tat varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam . nā aśakan smara-vegena vikṣipta-manasaḥ nṛpa .. 4 ..
( मंदाक्रांता )
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं । बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् ।
बर्ह-आपीडम् नट-वर-वपुः कर्णयोः कर्णिकारम् । बिभ्रत् वासः कनक-कपिशम् वैजयन्तीम् च मालाम् ।
barha-āpīḍam naṭa-vara-vapuḥ karṇayoḥ karṇikāram . bibhrat vāsaḥ kanaka-kapiśam vaijayantīm ca mālām .
रन्ध्रान् वेणोरधरसुधयापूरयन् गोपवृन्दैः । वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥ ५ ॥
रन्ध्रान् वेणोः अधर-सुधया अपूरयन् गोप-वृन्दैः । वृन्दारण्यम् स्व-पद-रमणम् प्राविशत् गीत-कीर्तिः ॥ ५ ॥
randhrān veṇoḥ adhara-sudhayā apūrayan gopa-vṛndaiḥ . vṛndāraṇyam sva-pada-ramaṇam prāviśat gīta-kīrtiḥ .. 5 ..
( अनुष्टुप् )
इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे ॥ ६ ॥
इति वेणु-रवम् राजन् सर्व-भूत-मनोहरम् । श्रुत्वा व्रज-स्त्रियः सर्वाः वर्णयन्त्यः अभिरेभिरे ॥ ६ ॥
iti veṇu-ravam rājan sarva-bhūta-manoharam . śrutvā vraja-striyaḥ sarvāḥ varṇayantyaḥ abhirebhire .. 6 ..
श्रीगोप्य ऊचुः । ( वसंततिलका )
अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननु विवेशयतोर्वयस्यैः । वक्त्रं व्रजेशसुतयोरनवेणुजुष्टं यैर्वा निपीतमनुरक्त-कटाक्षमोक्षम् ॥ ७ ॥
अक्षण्वताम् फलम् इदम् न परम् विदामः सख्यः पशून् अनु विवेशयतोः वयस्यैः । वक्त्रम् व्रज-ईश-सुतयोः अनवेणु-जुष्टम् यैः वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ ७ ॥
akṣaṇvatām phalam idam na param vidāmaḥ sakhyaḥ paśūn anu viveśayatoḥ vayasyaiḥ . vaktram vraja-īśa-sutayoḥ anaveṇu-juṣṭam yaiḥ vā nipītam anurakta-kaṭākṣa-mokṣam .. 7 ..
चूतप्रवालबर्हस्तबक् उत्पलाब्ज मालानुपृक्तपरिधान विचित्रवेशौ । मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्व च गायमानौ ॥ ८ ॥
चूत-प्रवाल-बर्ह-स्तबक्-उत्पल-अब्ज-माला-अनुपृक्त-परिधान-विचित्र-वेशौ । मध्ये विरेजतुः अलम् पशुपाल-गोष्ठ्याम् रङ्गे यथा नट-वरौ क्व च गायमानौ ॥ ८ ॥
cūta-pravāla-barha-stabak-utpala-abja-mālā-anupṛkta-paridhāna-vicitra-veśau . madhye virejatuḥ alam paśupāla-goṣṭhyām raṅge yathā naṭa-varau kva ca gāyamānau .. 8 ..
गोप्यः किमाचरदयं कुशलं स्म वेणुः दामोदराधरसुधामपि गोपिकानाम् । भुङ्क्ते स्वयं यदवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचोऽश्रु मुमुचुस्तरवो यथाऽऽर्याः ॥ ९ ॥
गोप्यः किम् आचरत् अयम् कुशलम् स्म वेणुः दामोदर-अधर-सुधाम् अपि गोपिकानाम् । भुङ्क्ते स्वयम् यत् अवशिष्ट-रसम् ह्रदिन्यः हृष्यत्-त्वचः अश्रु मुमुचुः तरवः यथा आर्याः ॥ ९ ॥
gopyaḥ kim ācarat ayam kuśalam sma veṇuḥ dāmodara-adhara-sudhām api gopikānām . bhuṅkte svayam yat avaśiṣṭa-rasam hradinyaḥ hṛṣyat-tvacaḥ aśru mumucuḥ taravaḥ yathā āryāḥ .. 9 ..
वृन्दावनं सखि भुवो वितनोति कीर्तिं यद् देवकीसुतपदाम्बु जलब्धलक्ष्मि । गोविन्दवेणुमनु मत्तमयूरनृत्यं प्रेक्ष्याद्रिसान्ववरतान्यसमस्तसत्त्वम् ॥ १० ॥
वृन्दावनम् सखि भुवः वितनोति कीर्तिम् यत् देवकी-सुत-पद-अम्बु जल-ब्ध-लक्ष्मि । गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यम् प्रेक्ष्य अद्रि-सानु-अवरत-अन्य-समस्त-सत्त्वम् ॥ १० ॥
vṛndāvanam sakhi bhuvaḥ vitanoti kīrtim yat devakī-suta-pada-ambu jala-bdha-lakṣmi . govinda-veṇum anu matta-mayūra-nṛtyam prekṣya adri-sānu-avarata-anya-samasta-sattvam .. 10 ..
धन्याः स्म मूढमतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्त विचित्रवेशम् । आकर्ण्य वेणुरणितं सहकृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११ ॥
धन्याः स्म मूढ-मतयः अपि हरिण्यः एताः याः नन्द-नन्दनम् उपात्त विचित्र-वेशम् । आकर्ण्य वेणु-रणितम् सह कृष्ण-साराः पूजाम् प्रणय-अवलोकैः ॥ ११ ॥
dhanyāḥ sma mūḍha-matayaḥ api hariṇyaḥ etāḥ yāḥ nanda-nandanam upātta vicitra-veśam . ākarṇya veṇu-raṇitam saha kṛṣṇa-sārāḥ pūjām praṇaya-avalokaiḥ .. 11 ..
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्वणितवेणु विविक्तगीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत् प्रसूनकबरा मुमुहुर्विनीव्यः ॥ १२ ॥
कृष्णम् निरीक्ष्य वनिता-उत्सव-रूप-शीलम् श्रुत्वा च तत् क्वणित-वेणु विविक्त-गीतम् । देव्यः विमान-गतयः स्मर-नुन्न-साराः भ्रश्यत् प्रसून-कबराः मुमुहुः विनीव्यः ॥ १२ ॥
kṛṣṇam nirīkṣya vanitā-utsava-rūpa-śīlam śrutvā ca tat kvaṇita-veṇu vivikta-gītam . devyaḥ vimāna-gatayaḥ smara-nunna-sārāḥ bhraśyat prasūna-kabarāḥ mumuhuḥ vinīvyaḥ .. 12 ..
गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्नुतस्तनपयःकवलाः स्म तस्थुः गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ १३ ॥
गावः च कृष्ण-मुख-निर्गत-वेणु-गीत-पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः । शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुः गोविन्दम् आत्मनि दृशा अश्रु-कलाः स्पृशन्त्यः ॥ १३ ॥
gāvaḥ ca kṛṣṇa-mukha-nirgata-veṇu-gīta-pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ . śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthuḥ govindam ātmani dṛśā aśru-kalāḥ spṛśantyaḥ .. 13 ..
प्रायो बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् श्रृण्वत्यमीलितदृशो विगतान्यवाचः ॥ १४ ॥
प्रायस् बत अम्ब विहगाः मुनयः वने अस्मिन् कृष्ण-ईक्षितम् तत् उदितम् कल-वेणु-गीतम् । आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान् श्रृण्वति अमीलित-दृशः विगत-अन्य-वाचः ॥ १४ ॥
prāyas bata amba vihagāḥ munayaḥ vane asmin kṛṣṇa-īkṣitam tat uditam kala-veṇu-gītam . āruhya ye druma-bhujān rucira-pravālān śrṛṇvati amīlita-dṛśaḥ vigata-anya-vācaḥ .. 14 ..
नद्यस्तदा तदुपधार्य मुकुन्दगीतम् आवर्तलक्षित मनोभवभग्नवेगाः । आलिङ्गनस्थगितमूर्मिभुजैर्मुरारेः गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५ ॥
नद्यः तदा तत् उपधार्य मुकुन्द-गीतम् आवर्त-लक्षित मनोभव-भग्न-वेगाः । आलिङ्गन-स्थगितम् ऊर्मि-भुजैः मुरारेः गृह्णन्ति पाद-युगलम् कमल-उपहाराः ॥ १५ ॥
nadyaḥ tadā tat upadhārya mukunda-gītam āvarta-lakṣita manobhava-bhagna-vegāḥ . āliṅgana-sthagitam ūrmi-bhujaiḥ murāreḥ gṛhṇanti pāda-yugalam kamala-upahārāḥ .. 15 ..
दृष्ट्वाऽऽतपे व्रजपशून् सह रामगोपैः सञ्चारयन्तमनु वेणुमुदीरयन्तम् । प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ १६ ॥
दृष्ट्वा आतपे व्रज-पशून् सह रामगोपैः सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् । प्रेम-प्रवृद्धः उदितः कुसुम-आवलीभिः सख्युः व्यधात् स्व-वपुषा अम्बुदः आतपत्रम् ॥ १६ ॥
dṛṣṭvā ātape vraja-paśūn saha rāmagopaiḥ sañcārayantam anu veṇum udīrayantam . prema-pravṛddhaḥ uditaḥ kusuma-āvalībhiḥ sakhyuḥ vyadhāt sva-vapuṣā ambudaḥ ātapatram .. 16 ..
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् ॥ १७ ॥
पूर्णाः पुलिन्द्यः उरुगाय-पद-अब्ज-राग श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन । तद्-दर्शन-स्मर-रुजः तृण-रूषितेन लिम्पन्त्यः आनन-कुचेषु जहुः तद्-आधिम् ॥ १७ ॥
pūrṇāḥ pulindyaḥ urugāya-pada-abja-rāga śrī-kuṅkumena dayitā-stana-maṇḍitena . tad-darśana-smara-rujaḥ tṛṇa-rūṣitena limpantyaḥ ānana-kuceṣu jahuḥ tad-ādhim .. 17 ..
हन्तायमद्रिरबला हरिदासवर्यो यद् रामकृष्णचरणस्परशप्रमोदः । मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवस कन्दरकन्दमूलैः ॥ १८ ॥
हन्त अयम् अद्रिः अबलाः हरि-दास-वर्यः यत् रामकृष्ण-चरण-स्परश-प्रमोदः । मानम् तनोति सह गो-गणयोः तयोः यत् कन्दर-कन्द-मूलैः ॥ १८ ॥
hanta ayam adriḥ abalāḥ hari-dāsa-varyaḥ yat rāmakṛṣṇa-caraṇa-sparaśa-pramodaḥ . mānam tanoti saha go-gaṇayoḥ tayoḥ yat kandara-kanda-mūlaiḥ .. 18 ..
गा गोपकैरनुवनं नयतोरुदार वेणुस्वनैः कलपदैस्तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस्तरुणां निर्योगपाशकृत लक्षणयोर्विचित्रम् ॥ १९ ॥
गाः गोपकैः अनु वनम् नयतोः उदार वेणु-स्वनैः कल-पदैः तनुभृत्सु सख्यः । अस्पन्दनम् गतिमताम् पुलकः तरुणाम् निर्योग-पाश-कृत लक्षणयोः विचित्रम् ॥ १९ ॥
gāḥ gopakaiḥ anu vanam nayatoḥ udāra veṇu-svanaiḥ kala-padaiḥ tanubhṛtsu sakhyaḥ . aspandanam gatimatām pulakaḥ taruṇām niryoga-pāśa-kṛta lakṣaṇayoḥ vicitram .. 19 ..
( अनुष्टुप् )
एवंविधा भगवतो या वृन्दावनचारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २० ॥
एवंविधाः भगवतः याः वृन्दावन-चारिणः । वर्णयन्त्यः मिथस् गोप्यः क्रीडाः तद्-मय-ताम् ययुः ॥ २० ॥
evaṃvidhāḥ bhagavataḥ yāḥ vṛndāvana-cāriṇaḥ . varṇayantyaḥ mithas gopyaḥ krīḍāḥ tad-maya-tām yayuḥ .. 20 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकविंशोऽध्यायः ॥ २१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे एकविंशः अध्यायः ॥ २१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ekaviṃśaḥ adhyāyaḥ .. 21 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In