| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १ ॥
हेमन्ते प्रथमे मासि नन्द-व्रज-कुमारिकाः । चेरुः हविष्यम् भुञ्जानाः कात्यायनी-अर्चन-व्रतम् ॥ १ ॥
hemante prathame māsi nanda-vraja-kumārikāḥ . ceruḥ haviṣyam bhuñjānāḥ kātyāyanī-arcana-vratam .. 1 ..
आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे । कृत्वा प्रतिकृतिं देवीं आनर्चुः नृप सैकतीम् ॥ २ ॥
आप्लुत्य अम्भसि कालिन्द्याः जल-अन्ते च उदिते अरुणे । कृत्वा प्रतिकृतिम् देवीम् आनर्चुः नृप सैकतीम् ॥ २ ॥
āplutya ambhasi kālindyāḥ jala-ante ca udite aruṇe . kṛtvā pratikṛtim devīm ānarcuḥ nṛpa saikatīm .. 2 ..
गन्धैर्माल्यैः सुरभिभिः बलिभिर्धूपदीपकैः । उच्चावचैश्चोपहारैः प्रवालफल तण्डुलैः ॥ ३ ॥
गन्धैः माल्यैः सुरभिभिः बलिभिः धूप-दीपकैः । उच्चावचैः च उपहारैः ॥ ३ ॥
gandhaiḥ mālyaiḥ surabhibhiḥ balibhiḥ dhūpa-dīpakaiḥ . uccāvacaiḥ ca upahāraiḥ .. 3 ..
कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ॥ ४ ॥
कात्यायनि महामाये महायोगिनि अधीश्वरि । नन्द-गोप-सुतम् देवि पतिम् मे कुरु ते नमः । इति मन्त्रम् जपन्त्यः ताः पूजाम् चक्रुः कुमारिकाः ॥ ४ ॥
kātyāyani mahāmāye mahāyogini adhīśvari . nanda-gopa-sutam devi patim me kuru te namaḥ . iti mantram japantyaḥ tāḥ pūjām cakruḥ kumārikāḥ .. 4 ..
एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः । भद्रकालीं समानर्चुः भूयान्नन्दसुतः पतिः ॥ ५ ॥
एवम् मासम् व्रतम् चेरुः कुमार्यः कृष्ण-चेतसः । भद्रकालीम् समानर्चुः भूयात् नन्द-सुतः पतिः ॥ ५ ॥
evam māsam vratam ceruḥ kumāryaḥ kṛṣṇa-cetasaḥ . bhadrakālīm samānarcuḥ bhūyāt nanda-sutaḥ patiḥ .. 5 ..
ऊषस्युत्थाय गोत्रैः स्वैरन्योन्या बद्धबाहवः । कृष्णं उच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६ ॥
ऊषसि उत्थाय गोत्रैः स्वैः अन्योन्याः बद्ध-बाहवः । कृष्णम् उच्चैस् जगुः यान्त्यः कालिन्द्याम् स्नातुम् अन्वहम् ॥ ६ ॥
ūṣasi utthāya gotraiḥ svaiḥ anyonyāḥ baddha-bāhavaḥ . kṛṣṇam uccais jaguḥ yāntyaḥ kālindyām snātum anvaham .. 6 ..
नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७ ॥
नद्याः कदाचिद् आगत्य तीरे निक्षिप्य पूर्ववत् । वासांसि कृष्णम् गायन्त्यः विजह्रुः सलिले मुदा ॥ ७ ॥
nadyāḥ kadācid āgatya tīre nikṣipya pūrvavat . vāsāṃsi kṛṣṇam gāyantyaḥ vijahruḥ salile mudā .. 7 ..
भगवान् तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः । वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८ ॥
भगवान् तत् अभिप्रेत्य कृष्णः योग-ईश्वर-ईश्वरः । वयस्यैः आवृतः तत्र गतः तद्-कर्म-सिद्धये ॥ ८ ॥
bhagavān tat abhipretya kṛṣṇaḥ yoga-īśvara-īśvaraḥ . vayasyaiḥ āvṛtaḥ tatra gataḥ tad-karma-siddhaye .. 8 ..
तासां वासांस्युपादाय नीपमारुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९ ॥
तासाम् वासांसि उपादाय नीपम् आरुह्य स त्वरः । हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ ९ ॥
tāsām vāsāṃsi upādāya nīpam āruhya sa tvaraḥ . hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha .. 9 ..
अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १० ॥
अत्रा आगत्य अबलाः कामम् स्वम् स्वम् वासः प्रगृह्यताम् । सत्यम् ब्रवाणि नः नर्म यत् यूयम् व्रत-कर्शिताः ॥ १० ॥
atrā āgatya abalāḥ kāmam svam svam vāsaḥ pragṛhyatām . satyam bravāṇi naḥ narma yat yūyam vrata-karśitāḥ .. 10 ..
न मयोदितपूर्वं वा अनृतं तदिमे विदुः । एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ॥ ११ ॥
न मया उदित-पूर्वम् वै अनृतम् तत् इमे विदुः । एकैकशस् प्रतीच्छध्वम् सह एव इति सुमध्यमाः ॥ ११ ॥
na mayā udita-pūrvam vai anṛtam tat ime viduḥ . ekaikaśas pratīcchadhvam saha eva iti sumadhyamāḥ .. 11 ..
तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२ ॥
तस्य तत् क्ष्वेलितम् दृष्ट्वा गोप्यः प्रेम-परिप्लुताः । व्रीडिताः प्रेक्ष्य च अन्योन्यम् जात-हासाः न निर्ययुः ॥ १२ ॥
tasya tat kṣvelitam dṛṣṭvā gopyaḥ prema-pariplutāḥ . vrīḍitāḥ prekṣya ca anyonyam jāta-hāsāḥ na niryayuḥ .. 12 ..
एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः । आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥
एवम् ब्रुवति गोविन्दे नर्मणा आक्षिप्त-चेतसः । आ कण्ठ-मग्नाः शीत-उदे वेपमानाः तम् अब्रुवन् ॥ १३ ॥
evam bruvati govinde narmaṇā ākṣipta-cetasaḥ . ā kaṇṭha-magnāḥ śīta-ude vepamānāḥ tam abruvan .. 13 ..
मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् । जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४ ॥
मानयम् भोः कृथाः त्वाम् तु नन्द-गोप-सुतम् प्रियम् । जानीमः अङ्ग व्रज-श्लाघ्यम् देहि वासांसि वेपिताः ॥ १४ ॥
mānayam bhoḥ kṛthāḥ tvām tu nanda-gopa-sutam priyam . jānīmaḥ aṅga vraja-ślāghyam dehi vāsāṃsi vepitāḥ .. 14 ..
श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥
श्यामसुन्दर ते दास्यः करवाम तव उदितम् । देहि वासांसि धर्म-ज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥
śyāmasundara te dāsyaḥ karavāma tava uditam . dehi vāsāṃsi dharma-jña no ced rājñe bruvāma he .. 15 ..
श्रीभगवानुवाच ।
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥
भवत्यः यदि मे दास्यः मया उक्तम् वा करिष्यथ । अत्र आगत्य स्व-वासांसि प्रतीच्छन्तु शुचि-स्मिताः ॥ १६ ॥
bhavatyaḥ yadi me dāsyaḥ mayā uktam vā kariṣyatha . atra āgatya sva-vāsāṃsi pratīcchantu śuci-smitāḥ .. 16 ..
ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७ ॥
ततस् जलाशयात् सर्वाः दारिकाः शीत-वेपिताः । पाणिभ्याम् योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः ॥ १७ ॥
tatas jalāśayāt sarvāḥ dārikāḥ śīta-vepitāḥ . pāṇibhyām yonim ācchādya protteruḥ śīta-karśitāḥ .. 17 ..
भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ १८ ॥
भगवान् आहताः वीक्ष्य शुद्ध भाव-प्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स स्मितम् ॥ १८ ॥
bhagavān āhatāḥ vīkṣya śuddha bhāva-prasāditaḥ . skandhe nidhāya vāsāṃsi prītaḥ provāca sa smitam .. 18 ..
( मिश्र )
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत् तदु देवहेलनम् । बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः
यूयम् विवस्त्राः यत् अपः धृत-व्रताः व्यगाहत एतत् तत् उ देव-हेलनम् । बद्ध्वा अञ्जलिम् मूर्ध्नि अपनुत्तये ॐ अहसः
yūyam vivastrāḥ yat apaḥ dhṛta-vratāḥ vyagāhata etat tat u deva-helanam . baddhvā añjalim mūrdhni apanuttaye oṃ ahasaḥ
( इंद्रवंशा )
इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् । तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग् यतः ॥ २० ॥
इति अच्युतेन अभिहितम् व्रजाबला मत्वा विवस्त्र-आप्लवनम् व्रत-च्युतिम् । तद्-पूर्ति-कामाः तद्-अशेष-कर्मणाम् साक्षात्कृतम् नेमुः अवद्यम् ऋच् यतस् ॥ २० ॥
iti acyutena abhihitam vrajābalā matvā vivastra-āplavanam vrata-cyutim . tad-pūrti-kāmāḥ tad-aśeṣa-karmaṇām sākṣātkṛtam nemuḥ avadyam ṛc yatas .. 20 ..
( अनुष्टुप् )
तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः । वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः ॥ २१ ॥
ताः तथा अवनताः दृष्ट्वा भगवान् देवकी-सुतः । वासांसि ताभ्यः प्रायच्छत् करुणः तेन तोषितः ॥ २१ ॥
tāḥ tathā avanatāḥ dṛṣṭvā bhagavān devakī-sutaḥ . vāsāṃsi tābhyaḥ prāyacchat karuṇaḥ tena toṣitaḥ .. 21 ..
( मिश्र )
दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ २२ ॥
दृढम् प्रलब्धाः त्रपया च हापिताः प्रस्तोभिताः क्रीडन-वत् च कारिताः । वस्त्राणि च एव अपहृतानि अथ अपि अमुम् ताः न अभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ २२ ॥
dṛḍham pralabdhāḥ trapayā ca hāpitāḥ prastobhitāḥ krīḍana-vat ca kāritāḥ . vastrāṇi ca eva apahṛtāni atha api amum tāḥ na abhyasūyan priya-saṅga-nirvṛtāḥ .. 22 ..
( अनुष्टुप् )
परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः । गृहीतचित्ता नो चेलुः तस्मिन् लज्जायितेक्षणाः ॥ २३ ॥
परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः । गृहीत-चित्ताः नो चेलुः तस्मिन् लज्जायित-ईक्षणाः ॥ २३ ॥
paridhāya sva-vāsāṃsi preṣṭha-saṅgama-sajjitāḥ . gṛhīta-cittāḥ no celuḥ tasmin lajjāyita-īkṣaṇāḥ .. 23 ..
तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया । धृतव्रतानां सङ्कल्पं आह दामोदरोऽबलाः ॥ २४ ॥
तासाम् विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया । धृतव्रतानाम् सङ्कल्पम् आह दामोदरः अबलाः ॥ २४ ॥
tāsām vijñāya bhagavān sva-pāda-sparśa-kāmyayā . dhṛtavratānām saṅkalpam āha dāmodaraḥ abalāḥ .. 24 ..
सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् । मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥
सङ्कल्पः विदितः साध्व्यः भवतीनाम् मद्-अर्चनम् । मया अनुमोदितः सः असौ सत्यः भवितुम् अर्हति ॥ २५ ॥
saṅkalpaḥ viditaḥ sādhvyaḥ bhavatīnām mad-arcanam . mayā anumoditaḥ saḥ asau satyaḥ bhavitum arhati .. 25 ..
न मय्यावेशितधियां कामः कामाय कल्पते । भर्जिता क्वथिता धाना प्रायो बीजाय नेशते ॥ २६ ॥
न मयि आवेशित-धियाम् कामः कामाय कल्पते । भर्जिता क्वथिता धाना प्रायस् बीजाय नेशते ॥ २६ ॥
na mayi āveśita-dhiyām kāmaḥ kāmāya kalpate . bharjitā kvathitā dhānā prāyas bījāya neśate .. 26 ..
याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७ ॥
यात-अबलाः व्रजम् सिद्धाः मया इमाः रंस्यथाः क्षपाः । यत् उद्दिश्य व्रतम् इदम् चेरुः आर्य-अर्चनम् सतीः ॥ २७ ॥
yāta-abalāḥ vrajam siddhāḥ mayā imāḥ raṃsyathāḥ kṣapāḥ . yat uddiśya vratam idam ceruḥ ārya-arcanam satīḥ .. 27 ..
श्रीशुक उवाच ।
इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः । ध्यायन्त्यस्तत् पदाम्भोजं कृच्छ्रात् निर्विविशुर्व्रजम् ॥ २८ ॥
इति आदिष्टाः भगवता लब्ध-कामाः कुमारिकाः । ध्यायन्त्यः तत् पद-अम्भोजम् कृच्छ्रात् निर्विविशुः व्रजम् ॥ २८ ॥
iti ādiṣṭāḥ bhagavatā labdha-kāmāḥ kumārikāḥ . dhyāyantyaḥ tat pada-ambhojam kṛcchrāt nirviviśuḥ vrajam .. 28 ..
अथ गोपैः परिवृतो भगवान् देवकीसुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ २९ ॥
अथ गोपैः परिवृतः भगवान् देवकी-सुतः । वृन्दावनात् गतः दूरम् चारयन् गाः सह अग्रजः ॥ २९ ॥
atha gopaiḥ parivṛtaḥ bhagavān devakī-sutaḥ . vṛndāvanāt gataḥ dūram cārayan gāḥ saha agrajaḥ .. 29 ..
निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३० ॥
निदघ अर्क-आतपे तिग्मे छायाभिः स्वाभिः आत्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रज-ओकसः ॥ ३० ॥
nidagha arka-ātape tigme chāyābhiḥ svābhiḥ ātmanaḥ . ātapatrāyitān vīkṣya drumān āha vraja-okasaḥ .. 30 ..
हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबल अर्जुन । विशाल-ऋषभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
he stoka-kṛṣṇa he aṃśo śrīdāman subala arjuna . viśāla-ṛṣabha tejasvin devaprastha varūthapa .. 31 ..
पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् । वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२ ॥
पश्यत एतान् महाभागान् परार्थ-एकान्त-जीवितान् । वात-वर्ष-आतप-हिमान् सहन्तः वारयन्ति नः ॥ ३२ ॥
paśyata etān mahābhāgān parārtha-ekānta-jīvitān . vāta-varṣa-ātapa-himān sahantaḥ vārayanti naḥ .. 32 ..
अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३ ॥
अहो एषाम् वरम् जन्म सर्व-प्राणि-उपजीवनम् । सु जनस्य इव येषाम् वै विमुखाः यान्ति न अर्थिनः ॥ ३३ ॥
aho eṣām varam janma sarva-prāṇi-upajīvanam . su janasya iva yeṣām vai vimukhāḥ yānti na arthinaḥ .. 33 ..
पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थि तोक्मैः कामान् वितन्वते ॥ ३४ ॥
पत्र-पुष्प-फल-छायाः मूल-वल्कल-दारुभिः । गन्ध-निर्यास-भस्म-अस्थि तोक्मैः कामान् वितन्वते ॥ ३४ ॥
patra-puṣpa-phala-chāyāḥ mūla-valkala-dārubhiḥ . gandha-niryāsa-bhasma-asthi tokmaiḥ kāmān vitanvate .. 34 ..
एतावत् जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ ३५ ॥
एतावत् जन्म-साफल्यम् देहिनाम् इह देहिषु । प्राणैः अर्थैः धिया वाचा श्रेयः एव आचरेत् सदा ॥ ३५ ॥
etāvat janma-sāphalyam dehinām iha dehiṣu . prāṇaiḥ arthaiḥ dhiyā vācā śreyaḥ eva ācaret sadā .. 35 ..
इति प्रवालस्तबक फलपुष्पदलोत्करैः । तरूणां नम्रशाखानां मध्यतो यमुनां गतः ॥ ३६ ॥
इति । तरूणाम् नम्र-शाखानाम् मध्यतस् यमुनाम् गतः ॥ ३६ ॥
iti . tarūṇām namra-śākhānām madhyatas yamunām gataḥ .. 36 ..
तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७ ॥
तत्र गाः पाययित्वा अपः सु मृष्टाः शीतलाः शिवाः । ततस् नृप स्वयम् गोपाः कामम् स्वादु पपुः जलम् ॥ ३७ ॥
tatra gāḥ pāyayitvā apaḥ su mṛṣṭāḥ śītalāḥ śivāḥ . tatas nṛpa svayam gopāḥ kāmam svādu papuḥ jalam .. 37 ..
तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्णरामौ उवुपागम्य क्षुधार्ता इदमब्रवन् ॥ ३८ ॥
तस्याः उपवने कामम् चारयन्तः पशून् नृप । कृष्ण-रामौ क्षुधा-आर्ताः इदम् अब्रवन् ॥ ३८ ॥
tasyāḥ upavane kāmam cārayantaḥ paśūn nṛpa . kṛṣṇa-rāmau kṣudhā-ārtāḥ idam abravan .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वाविंशोऽध्यायः ॥ २२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे द्वाविंशः अध्यायः ॥ २२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe dvāviṃśaḥ adhyāyaḥ .. 22 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In