| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
हेमन्ते प्रथमे मासि नन्दव्रजकुमारिकाः । चेरुर्हविष्यं भुञ्जानाः कात्यायन्यर्चनव्रतम् ॥ १ ॥
hemante prathame māsi nandavrajakumārikāḥ . cerurhaviṣyaṃ bhuñjānāḥ kātyāyanyarcanavratam .. 1 ..
आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदितेऽरुणे । कृत्वा प्रतिकृतिं देवीं आनर्चुः नृप सैकतीम् ॥ २ ॥
āplutyāmbhasi kālindyā jalānte codite'ruṇe . kṛtvā pratikṛtiṃ devīṃ ānarcuḥ nṛpa saikatīm .. 2 ..
गन्धैर्माल्यैः सुरभिभिः बलिभिर्धूपदीपकैः । उच्चावचैश्चोपहारैः प्रवालफल तण्डुलैः ॥ ३ ॥
gandhairmālyaiḥ surabhibhiḥ balibhirdhūpadīpakaiḥ . uccāvacaiścopahāraiḥ pravālaphala taṇḍulaiḥ .. 3 ..
कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस्ताः पूजां चक्रुः कुमारिकाः ॥ ४ ॥
kātyāyani mahāmāye mahāyoginyadhīśvari . nandagopasutaṃ devi patiṃ me kuru te namaḥ . iti mantraṃ japantyastāḥ pūjāṃ cakruḥ kumārikāḥ .. 4 ..
एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः । भद्रकालीं समानर्चुः भूयान्नन्दसुतः पतिः ॥ ५ ॥
evaṃ māsaṃ vrataṃ ceruḥ kumāryaḥ kṛṣṇacetasaḥ . bhadrakālīṃ samānarcuḥ bhūyānnandasutaḥ patiḥ .. 5 ..
ऊषस्युत्थाय गोत्रैः स्वैरन्योन्या बद्धबाहवः । कृष्णं उच्चैर्जगुर्यान्त्यः कालिन्द्यां स्नातुमन्वहम् ॥ ६ ॥
ūṣasyutthāya gotraiḥ svairanyonyā baddhabāhavaḥ . kṛṣṇaṃ uccairjaguryāntyaḥ kālindyāṃ snātumanvaham .. 6 ..
नद्याः कदाचिदागत्य तीरे निक्षिप्य पूर्ववत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ ७ ॥
nadyāḥ kadācidāgatya tīre nikṣipya pūrvavat . vāsāṃsi kṛṣṇaṃ gāyantyo vijahruḥ salile mudā .. 7 ..
भगवान् तदभिप्रेत्य कृष्णो योगेश्वरेश्वरः । वयस्यैरावृतस्तत्र गतस्तत्कर्मसिद्धये ॥ ८ ॥
bhagavān tadabhipretya kṛṣṇo yogeśvareśvaraḥ . vayasyairāvṛtastatra gatastatkarmasiddhaye .. 8 ..
तासां वासांस्युपादाय नीपमारुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासमुवाच ह ॥ ९ ॥
tāsāṃ vāsāṃsyupādāya nīpamāruhya satvaraḥ . hasadbhiḥ prahasan bālaiḥ parihāsamuvāca ha .. 9 ..
अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद्यूयं व्रतकर्शिताः ॥ १० ॥
atrāgatyābalāḥ kāmaṃ svaṃ svaṃ vāsaḥ pragṛhyatām . satyaṃ bravāṇi no narma yadyūyaṃ vratakarśitāḥ .. 10 ..
न मयोदितपूर्वं वा अनृतं तदिमे विदुः । एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ॥ ११ ॥
na mayoditapūrvaṃ vā anṛtaṃ tadime viduḥ . ekaikaśaḥ pratīcchadhvaṃ sahaiveti sumadhyamāḥ .. 11 ..
तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ १२ ॥
tasya tat kṣvelitaṃ dṛṣṭvā gopyaḥ premapariplutāḥ . vrīḍitāḥ prekṣya cānyonyaṃ jātahāsā na niryayuḥ .. 12 ..
एवं ब्रुवति गोविन्दे नर्मणाऽऽक्षिप्तचेतसः । आकण्ठमग्नाः शीतोदे वेपमानास्तमब्रुवन् ॥ १३ ॥
evaṃ bruvati govinde narmaṇā''kṣiptacetasaḥ . ākaṇṭhamagnāḥ śītode vepamānāstamabruvan .. 13 ..
मानयं भोः कृथास्त्वां तु नन्दगोपसुतं प्रियम् । जानीमोऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ १४ ॥
mānayaṃ bhoḥ kṛthāstvāṃ tu nandagopasutaṃ priyam . jānīmo'ṅga vrajaślāghyaṃ dehi vāsāṃsi vepitāḥ .. 14 ..
श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ १५ ॥
śyāmasundara te dāsyaḥ karavāma tavoditam . dehi vāsāṃsi dharmajña no ced rājñe bruvāma he .. 15 ..
श्रीभगवानुवाच ।
भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्ववासांसि प्रतीच्छन्तु शुचिस्मिताः ॥ १६ ॥
bhavatyo yadi me dāsyo mayoktaṃ vā kariṣyatha . atrāgatya svavāsāṃsi pratīcchantu śucismitāḥ .. 16 ..
ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः । पाणिभ्यां योनिमाच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ १७ ॥
tato jalāśayāt sarvā dārikāḥ śītavepitāḥ . pāṇibhyāṃ yonimācchādya protteruḥ śītakarśitāḥ .. 17 ..
भगवानाहता वीक्ष्य शुद्ध भावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ १८ ॥
bhagavānāhatā vīkṣya śuddha bhāvaprasāditaḥ . skandhe nidhāya vāsāṃsi prītaḥ provāca sasmitam .. 18 ..
( मिश्र )
यूयं विवस्त्रा यदपो धृतव्रता व्यगाहतैतत् तदु देवहेलनम् । बद्ध्वाञ्जलिं मूर्ध्न्यपनुत्तयेंऽहसः
yūyaṃ vivastrā yadapo dhṛtavratā vyagāhataitat tadu devahelanam . baddhvāñjaliṃ mūrdhnyapanuttayeṃ'hasaḥ
( इंद्रवंशा )
इत्यच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् । तत्पूर्तिकामास्तदशेषकर्मणां साक्षात्कृतं नेमुरवद्यमृग् यतः ॥ २० ॥
ityacyutenābhihitaṃ vrajābalā matvā vivastrāplavanaṃ vratacyutim . tatpūrtikāmāstadaśeṣakarmaṇāṃ sākṣātkṛtaṃ nemuravadyamṛg yataḥ .. 20 ..
( अनुष्टुप् )
तास्तथावनता दृष्ट्वा भगवान् देवकीसुतः । वासांसि ताभ्यः प्रायच्छत् करुणस्तेन तोषितः ॥ २१ ॥
tāstathāvanatā dṛṣṭvā bhagavān devakīsutaḥ . vāsāṃsi tābhyaḥ prāyacchat karuṇastena toṣitaḥ .. 21 ..
( मिश्र )
दृढं प्रलब्धास्त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच्च कारिताः । वस्त्राणि चैवापहृतान्यथाप्यमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ २२ ॥
dṛḍhaṃ pralabdhāstrapayā ca hāpitāḥ prastobhitāḥ krīḍanavacca kāritāḥ . vastrāṇi caivāpahṛtānyathāpyamuṃ tā nābhyasūyan priyasaṅganirvṛtāḥ .. 22 ..
( अनुष्टुप् )
परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः । गृहीतचित्ता नो चेलुः तस्मिन् लज्जायितेक्षणाः ॥ २३ ॥
paridhāya svavāsāṃsi preṣṭhasaṅgamasajjitāḥ . gṛhītacittā no celuḥ tasmin lajjāyitekṣaṇāḥ .. 23 ..
तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया । धृतव्रतानां सङ्कल्पं आह दामोदरोऽबलाः ॥ २४ ॥
tāsāṃ vijñāya bhagavān svapādasparśakāmyayā . dhṛtavratānāṃ saṅkalpaṃ āha dāmodaro'balāḥ .. 24 ..
सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम् । मयानुमोदितः सोऽसौ सत्यो भवितुमर्हति ॥ २५ ॥
saṅkalpo viditaḥ sādhvyo bhavatīnāṃ madarcanam . mayānumoditaḥ so'sau satyo bhavitumarhati .. 25 ..
न मय्यावेशितधियां कामः कामाय कल्पते । भर्जिता क्वथिता धाना प्रायो बीजाय नेशते ॥ २६ ॥
na mayyāveśitadhiyāṃ kāmaḥ kāmāya kalpate . bharjitā kvathitā dhānā prāyo bījāya neśate .. 26 ..
याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यदुद्दिश्य व्रतमिदं चेरुरार्यार्चनं सतीः ॥ २७ ॥
yātābalā vrajaṃ siddhā mayemā raṃsyathā kṣapāḥ . yaduddiśya vratamidaṃ cerurāryārcanaṃ satīḥ .. 27 ..
श्रीशुक उवाच ।
इत्यादिष्टा भगवता लब्धकामाः कुमारिकाः । ध्यायन्त्यस्तत् पदाम्भोजं कृच्छ्रात् निर्विविशुर्व्रजम् ॥ २८ ॥
ityādiṣṭā bhagavatā labdhakāmāḥ kumārikāḥ . dhyāyantyastat padāmbhojaṃ kṛcchrāt nirviviśurvrajam .. 28 ..
अथ गोपैः परिवृतो भगवान् देवकीसुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ २९ ॥
atha gopaiḥ parivṛto bhagavān devakīsutaḥ . vṛndāvanād gato dūraṃ cārayan gāḥ sahāgrajaḥ .. 29 ..
निदघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः । आतपत्रायितान् वीक्ष्य द्रुमानाह व्रजौकसः ॥ ३० ॥
nidaghārkātape tigme chāyābhiḥ svābhirātmanaḥ . ātapatrāyitān vīkṣya drumānāha vrajaukasaḥ .. 30 ..
हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशालर्षभ तेजस्विन् देवप्रस्थ वरूथप ॥ ३१ ॥
he stokakṛṣṇa he aṃśo śrīdāman subalārjuna . viśālarṣabha tejasvin devaprastha varūthapa .. 31 ..
पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् । वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ ३२ ॥
paśyataitān mahābhāgān parārthaikāntajīvitān . vātavarṣātapahimān sahanto vārayanti naḥ .. 32 ..
अहो एषां वरं जन्म सर्व प्राण्युपजीवनम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ ३३ ॥
aho eṣāṃ varaṃ janma sarva prāṇyupajīvanam . sujanasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ .. 33 ..
पत्रपुष्पफलच्छाया मूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थि तोक्मैः कामान् वितन्वते ॥ ३४ ॥
patrapuṣpaphalacchāyā mūlavalkaladārubhiḥ . gandhaniryāsabhasmāsthi tokmaiḥ kāmān vitanvate .. 34 ..
एतावत् जन्मसाफल्यं देहिनामिह देहिषु । प्राणैरर्थैर्धिया वाचा श्रेय एवाचरेत् सदा ॥ ३५ ॥
etāvat janmasāphalyaṃ dehināmiha dehiṣu . prāṇairarthairdhiyā vācā śreya evācaret sadā .. 35 ..
इति प्रवालस्तबक फलपुष्पदलोत्करैः । तरूणां नम्रशाखानां मध्यतो यमुनां गतः ॥ ३६ ॥
iti pravālastabaka phalapuṣpadalotkaraiḥ . tarūṇāṃ namraśākhānāṃ madhyato yamunāṃ gataḥ .. 36 ..
तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर्जलम् ॥ ३७ ॥
tatra gāḥ pāyayitvāpaḥ sumṛṣṭāḥ śītalāḥ śivāḥ . tato nṛpa svayaṃ gopāḥ kāmaṃ svādu papurjalam .. 37 ..
तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्णरामौ उवुपागम्य क्षुधार्ता इदमब्रवन् ॥ ३८ ॥
tasyā upavane kāmaṃ cārayantaḥ paśūn nṛpa . kṛṣṇarāmau uvupāgamya kṣudhārtā idamabravan .. 38 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe dvāviṃśo'dhyāyaḥ .. 22 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In