| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीगोप ऊचुः - ( अनुष्टुप् )
राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः ॥ १ ॥
राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । एषा वै बाधते क्षुध् नः तत् शान्तिम् कर्तुम् अर्हथः ॥ १ ॥
rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa . eṣā vai bādhate kṣudh naḥ tat śāntim kartum arhathaḥ .. 1 ..
श्रीशुक उवाच -
इति विज्ञापितो गोपैः भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत् ॥ २ ॥
इति विज्ञापितः गोपैः भगवान् देवकीसुतः । भक्तायाः विप्र-भार्यायाः प्रसीदन् इदम् अब्रवीत् ॥ २ ॥
iti vijñāpitaḥ gopaiḥ bhagavān devakīsutaḥ . bhaktāyāḥ vipra-bhāryāyāḥ prasīdan idam abravīt .. 2 ..
प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रं आङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥
प्रयात देवयजनम् ब्राह्मणाः ब्रह्म-वादिनः । सत्रम् आङ्गिरसम् नाम हि आसते स्वर्ग-काम्यया ॥ ३ ॥
prayāta devayajanam brāhmaṇāḥ brahma-vādinaḥ . satram āṅgirasam nāma hi āsate svarga-kāmyayā .. 3 ..
तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥
तत्र गत्वा ओदनम् गोपाः याचत अस्मत् विसर्जिताः । कीर्तयन्तः भगवतः आर्यस्य मम च अभिधाम् ॥ ४ ॥
tatra gatvā odanam gopāḥ yācata asmat visarjitāḥ . kīrtayantaḥ bhagavataḥ āryasya mama ca abhidhām .. 4 ..
इत्यादिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ ५ ॥
इति आदिष्टाः भगवता गत्वा याचन्त ते तथा । कृत-अञ्जलि-पुटा विप्रान् दण्ड-वत् पतिता भुवि ॥ ५ ॥
iti ādiṣṭāḥ bhagavatā gatvā yācanta te tathā . kṛta-añjali-puṭā viprān daṇḍa-vat patitā bhuvi .. 5 ..
हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ ६ ॥
हे भूमिदेवाः श्रृणुत कृष्णस्य आदेश-कारिणः । प्राप्तान् जानीत भद्रम् वः गोपान् नः राम-चोदितान् ॥ ६ ॥
he bhūmidevāḥ śrṛṇuta kṛṣṇasya ādeśa-kāriṇaḥ . prāptān jānīta bhadram vaḥ gopān naḥ rāma-coditān .. 6 ..
( मिश्र )
गाश्चारयतौ अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७ ॥
गाः चारयतौ अविदूरे ओदनम् राम-अच्युतौ वः लषतः बुभुक्षितौ । तयोः द्विजाः ओदनम् अर्थिनोः यदि श्रद्धा च वः यच्छत धर्म-वित्तमाः ॥ ७ ॥
gāḥ cārayatau avidūre odanam rāma-acyutau vaḥ laṣataḥ bubhukṣitau . tayoḥ dvijāḥ odanam arthinoḥ yadi śraddhā ca vaḥ yacchata dharma-vittamāḥ .. 7 ..
( अनुष्टुप् )
दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥
दीक्षायाः पशु-संस्थायाः सौत्रामण्याः च सत्तमाः । अन्यत्र दीक्षितस्य अपि न अन्नम् अश्नन् हि दुष्यति ॥ ८ ॥
dīkṣāyāḥ paśu-saṃsthāyāḥ sautrāmaṇyāḥ ca sattamāḥ . anyatra dīkṣitasya api na annam aśnan hi duṣyati .. 8 ..
इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९ ॥
इति ते भगवत् याच्ञाम् शृण्वन्तः अपि न शुश्रुवुः । क्षुद्र-आशाः भूरि-कर्माणः बालिशाः वृद्ध-मानिनः ॥ ९ ॥
iti te bhagavat yācñām śṛṇvantaḥ api na śuśruvuḥ . kṣudra-āśāḥ bhūri-karmāṇaḥ bāliśāḥ vṛddha-māninaḥ .. 9 ..
देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १० ॥
देशः कालः पृथक् द्रव्यम् मंत्र-तंत्र-ऋत्विजः अग्नयः । देवता यजमानः च क्रतुः धर्मः च यद्-मयः ॥ १० ॥
deśaḥ kālaḥ pṛthak dravyam maṃtra-taṃtra-ṛtvijaḥ agnayaḥ . devatā yajamānaḥ ca kratuḥ dharmaḥ ca yad-mayaḥ .. 10 ..
तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् । मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥
तम् ब्रह्म परमम् साक्षात् भगवन्तम् अधोक्षजम् । मनुष्य-दृष्ट्या दुष्प्रज्ञाः मर्त्य-आत्मानः न मेनिरे ॥ ११ ॥
tam brahma paramam sākṣāt bhagavantam adhokṣajam . manuṣya-dṛṣṭyā duṣprajñāḥ martya-ātmānaḥ na menire .. 11 ..
न ते यदोमिति प्रोचुः न नेति च परन्तप । गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२ ॥
न ते यदा ऊम् इति प्रोचुः न न इति च परन्तप । गोपाः निराशाः प्रत्येत्य तथा ऊचुः कृष्ण-रामयोः ॥ १२ ॥
na te yadā ūm iti procuḥ na na iti ca parantapa . gopāḥ nirāśāḥ pratyetya tathā ūcuḥ kṛṣṇa-rāmayoḥ .. 12 ..
तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः । व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम् ॥ १३ ॥
तत् उपाकर्ण्य भगवान् प्रहस्य जगत्-ईश्वरः । व्याजहार पुनर् गोपान् दर्शयन् लौकिकीम् गतिम् ॥ १३ ॥
tat upākarṇya bhagavān prahasya jagat-īśvaraḥ . vyājahāra punar gopān darśayan laukikīm gatim .. 13 ..
मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् । दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४ ॥
माम् ज्ञापयत पत्नीभ्यः स सङ्कर्षणम् आगतम् । दास्यन्ति कामम् अन्नम् वः स्निग्धाः मयि उषिताः धिया ॥ १४ ॥
mām jñāpayata patnībhyaḥ sa saṅkarṣaṇam āgatam . dāsyanti kāmam annam vaḥ snigdhāḥ mayi uṣitāḥ dhiyā .. 14 ..
गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः । नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५ ॥
गत्वा अथ पत्नीशालायाम् दृष्ट्वा आसीनाः सु अलङ्कृताः । नत्वा द्विजसतीः गोपाः प्रश्रिताः इदम् अब्रुवन् ॥ १५ ॥
gatvā atha patnīśālāyām dṛṣṭvā āsīnāḥ su alaṅkṛtāḥ . natvā dvijasatīḥ gopāḥ praśritāḥ idam abruvan .. 15 ..
नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः । इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥
नमः वः विप्र-पत्नीभ्यः निबोधत वचांसि नः । इतस् अविदूरे चरता कृष्णेन इह इषिताः वयम् ॥ १६ ॥
namaḥ vaḥ vipra-patnībhyaḥ nibodhata vacāṃsi naḥ . itas avidūre caratā kṛṣṇena iha iṣitāḥ vayam .. 16 ..
गाश्चारयन् स गोपालैः सरामो दूरमागतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥
गाः चारयन् स गोपालैः सरामः दूरम् आगतः । बुभुक्षितस्य तस्य अन्नम् स अनुगस्य प्रदीयताम् ॥ १७ ॥
gāḥ cārayan sa gopālaiḥ sarāmaḥ dūram āgataḥ . bubhukṣitasya tasya annam sa anugasya pradīyatām .. 17 ..
श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८ ॥
श्रुत्वा अच्युतम् उपायातम् नित्यम् तद्-दर्शन-उत्सुकाः । तद्-कथा-क्षिप्त-मनसः बभूवुः जात-सम्भ्रमाः ॥ १८ ॥
śrutvā acyutam upāyātam nityam tad-darśana-utsukāḥ . tad-kathā-kṣipta-manasaḥ babhūvuḥ jāta-sambhramāḥ .. 18 ..
चतुर्विधं बहुगुणं अन्नमादाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९ ॥
चतुर्विधम् बहुगुणम् अन्नम् आदाय भाजनैः । अभिसस्रुः प्रियम् सर्वाः समुद्रम् इव निम्नगाः ॥ १९ ॥
caturvidham bahuguṇam annam ādāya bhājanaiḥ . abhisasruḥ priyam sarvāḥ samudram iva nimnagāḥ .. 19 ..
निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः । भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥ २० ॥
निषिध्यमानाः पतिभिः भ्रातृभिः बन्धुभिः सुतैः । भगवति उत्तमश्लोके दीर्घश्रुत-धृताशयाः ॥ २० ॥
niṣidhyamānāḥ patibhiḥ bhrātṛbhiḥ bandhubhiḥ sutaiḥ . bhagavati uttamaśloke dīrghaśruta-dhṛtāśayāḥ .. 20 ..
यमुनोपवनेऽशोक नवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१ ॥
यमुना-उपवने अशोक नव-पल्लव-मण्डिते । विचरन्तम् वृतम् गोपैः स अग्रजम् ददृशुः स्त्रियः ॥ २१ ॥
yamunā-upavane aśoka nava-pallava-maṇḍite . vicarantam vṛtam gopaiḥ sa agrajam dadṛśuḥ striyaḥ .. 21 ..
( वसंततिलका )
श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालक कपोलमुखाब्जहासम् ॥ २२ ॥
श्यामम् हिरण्य-परिधिम् वनमाल्य-बर्ह धातु-प्रवाल-नट-वेष-मनव्रत-अंसे । विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् कर्ण-उत्पल-अलक कपोल-मुख-अब्ज-हासम् ॥ २२ ॥
śyāmam hiraṇya-paridhim vanamālya-barha dhātu-pravāla-naṭa-veṣa-manavrata-aṃse . vinyasta-hastam itareṇa dhunānam abjam karṇa-utpala-alaka kapola-mukha-abja-hāsam .. 22 ..
प्रायःश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥
प्रायस् श्रुत-प्रियतम-उदय-कर्णपूरैः यस्मिन् निमग्न-मनसः तम् अथ अक्षि-रंध्रैः । अन्तर् प्रवेश्य सु चिरम् परिरभ्य तापम् प्राज्ञम् यथा अभिमतयः विजहुः नरेन्द्र ॥ २३ ॥
prāyas śruta-priyatama-udaya-karṇapūraiḥ yasmin nimagna-manasaḥ tam atha akṣi-raṃdhraiḥ . antar praveśya su ciram parirabhya tāpam prājñam yathā abhimatayaḥ vijahuḥ narendra .. 23 ..
( अनुष्टुप् )
तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया । विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४ ॥
ताः तथा त्यक्त-सर्व-आशाः प्राप्ताः आत्म-दिदृक्षया । विज्ञाय अखिल-दृश् द्रष्टा प्राह प्रहसित-आननः ॥ २४ ॥
tāḥ tathā tyakta-sarva-āśāḥ prāptāḥ ātma-didṛkṣayā . vijñāya akhila-dṛś draṣṭā prāha prahasita-ānanaḥ .. 24 ..
स्वागतं वो महाभागा आस्यतां करवाम किम् । यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५ ॥
स्वागतम् वः महाभागाः आस्यताम् करवाम किम् । यत् नः दिदृक्षया प्राप्ताः उपपन्नम् इदम् हि वः ॥ २५ ॥
svāgatam vaḥ mahābhāgāḥ āsyatām karavāma kim . yat naḥ didṛkṣayā prāptāḥ upapannam idam hi vaḥ .. 25 ..
नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥
ननु अद्धा मयि कुर्वन्ति कुशलाः स्व-अर्थ-दर्शिनः । अहैतुकी अव्यवहिताम् भक्तिम् आत्म-प्रिये यथा ॥ २६ ॥
nanu addhā mayi kurvanti kuśalāḥ sva-artha-darśinaḥ . ahaitukī avyavahitām bhaktim ātma-priye yathā .. 26 ..
प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः । यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः ॥ २७ ॥
प्राण-बुद्धि-मनः-स्व-आत्म दार-अपत्य-धन-आदयः । यद्-सम्पर्कात् प्रियाः आसन् ततस् कः नु अपरः प्रियः ॥ २७ ॥
prāṇa-buddhi-manaḥ-sva-ātma dāra-apatya-dhana-ādayaḥ . yad-samparkāt priyāḥ āsan tatas kaḥ nu aparaḥ priyaḥ .. 27 ..
तद् यात देवयजनं पतयो वो द्विजातयः । स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८ ॥
तत् यात देवयजनम् पतयः वः द्विजातयः । स्व-सत्रम् पारयिष्यन्ति युष्माभिः गृहमेधिनः ॥ २८ ॥
tat yāta devayajanam patayaḥ vaḥ dvijātayaḥ . sva-satram pārayiṣyanti yuṣmābhiḥ gṛhamedhinaḥ .. 28 ..
श्रीपत्‍न्य ऊचुः । ( वसंततिलका )
मैवं विभोऽर्हति भवान्गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ॥ २९ ॥
मा एवम् विभो अर्हति भवान् गदितुम् नृशंसम् सत्यम् कुरुष्व निगमम् तव पाद-मूलम् । प्राप्ताः वयम् तुलसि-दाम पद-अवसृष्टम् केशैः निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ २९ ॥
mā evam vibho arhati bhavān gaditum nṛśaṃsam satyam kuruṣva nigamam tava pāda-mūlam . prāptāḥ vayam tulasi-dāma pada-avasṛṣṭam keśaiḥ nivoḍhum atilaṅghya samasta-bandhūn .. 29 ..
गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥
गृह्णन्ति नः न पतयः पितरौ सुताः वा न भ्रातृ-बन्धु-सुहृदः कुतस् एव च अन्ये । तस्मात् भवत्-प्रपदयोः पतित-आत्मनाम् नः ना अन्या भवेत् गतिः अरिन्दम तत् विधेहि ॥ ३० ॥
gṛhṇanti naḥ na patayaḥ pitarau sutāḥ vā na bhrātṛ-bandhu-suhṛdaḥ kutas eva ca anye . tasmāt bhavat-prapadayoḥ patita-ātmanām naḥ nā anyā bhavet gatiḥ arindama tat vidhehi .. 30 ..
श्रीभगवानुवाच - ( अनुष्टुप् )
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः । लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥
पतयः न अभ्यसूयेरन् पितृ-भ्रातृ-सुत-आदयः । लोकाः च वः मया उपेताः देवाः अपि अनुमन्वते ॥ ३१ ॥
patayaḥ na abhyasūyeran pitṛ-bhrātṛ-suta-ādayaḥ . lokāḥ ca vaḥ mayā upetāḥ devāḥ api anumanvate .. 31 ..
न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह । तन्मनो मयि युञ्जाना अचिरान् मामवाप्स्यथ ॥ ३२ ॥
न प्रीतये अनुरागाय हि अङ्ग-सङ्गः नृणाम् इह । तत् मनः मयि युञ्जानाः अचिरात् माम् अवाप्स्यथ ॥ ३२ ॥
na prītaye anurāgāya hi aṅga-saṅgaḥ nṛṇām iha . tat manaḥ mayi yuñjānāḥ acirāt mām avāpsyatha .. 32 ..
श्रीशुक उवाच -
इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः । ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३ ॥
इति उक्ताः द्विज-पत्न्यः ताः यज्ञ-वाटम् पुनर् गताः । ते च अनसूयवः स्वाभिः स्त्रीभिः सत्रम् अपारयन् ॥ ३३ ॥
iti uktāḥ dvija-patnyaḥ tāḥ yajña-vāṭam punar gatāḥ . te ca anasūyavaḥ svābhiḥ strībhiḥ satram apārayan .. 33 ..
तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् । हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४ ॥
तत्र एका विधृता भर्त्रा भगवन्तम् यथाश्रुतम् । हृदा उपगुह्य विजहौ देहम् कर्म-अनुबन्धनम् ॥ ३४ ॥
tatra ekā vidhṛtā bhartrā bhagavantam yathāśrutam . hṛdā upaguhya vijahau deham karma-anubandhanam .. 34 ..
भगवानपि गोविन्दः तेनैवान्नेन गोपकान् । चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५ ॥
भगवान् अपि गोविन्दः तेन एव अन्नेन गोपकान् । चतुर्विधेन आशयित्वा स्वयम् च बुभुजे प्रभुः ॥ ३५ ॥
bhagavān api govindaḥ tena eva annena gopakān . caturvidhena āśayitvā svayam ca bubhuje prabhuḥ .. 35 ..
एवं लीलानरवपुः नृलोकमनुशीलयन् । रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः ॥ ३६ ॥
एवम् लीला-नर-वपुः नृ-लोकम् अनुशीलयन् । रेमे गो गोप-गोपीनाम् रमयन् रूप-वाच्-कृतैः ॥ ३६ ॥
evam līlā-nara-vapuḥ nṛ-lokam anuśīlayan . reme go gopa-gopīnām ramayan rūpa-vāc-kṛtaiḥ .. 36 ..
अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर्याच्ञां अहन्म नृविडम्बयोः ॥ ३७ ॥
अथ अनुस्मृत्य विप्राः ते अन्वतप्यन् कृत-आगसः । यत् विश्व-ईश्वरयोः याच्ञाम् अहन्म नृ-विडम्बयोः ॥ ३७ ॥
atha anusmṛtya viprāḥ te anvatapyan kṛta-āgasaḥ . yat viśva-īśvarayoḥ yācñām ahanma nṛ-viḍambayoḥ .. 37 ..
दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् । आत्मानं च तया हीनं अनुतप्ता व्यगर्हयन् ॥ ३८ ॥
दृष्ट्वा स्त्रीणाम् भगवति कृष्णे भक्तिम् अलौकिकीम् । आत्मानम् च तया हीनम् अनुतप्ताः व्यगर्हयन् ॥ ३८ ॥
dṛṣṭvā strīṇām bhagavati kṛṣṇe bhaktim alaukikīm . ātmānam ca tayā hīnam anutaptāḥ vyagarhayan .. 38 ..
धिग्जन्म नः त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम् । धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९ ॥
धिक् जन्म नः त्रिवृत् विद्याम् धिक् व्रतम् धिक् बहु-ज्ञ-ताम् । धिक् कुलम् धिक् क्रिया-दाक्ष्यम् विमुखाः ये तु अधोक्षजे ॥ ३९ ॥
dhik janma naḥ trivṛt vidyām dhik vratam dhik bahu-jña-tām . dhik kulam dhik kriyā-dākṣyam vimukhāḥ ye tu adhokṣaje .. 39 ..
नूनं भगवतो माया योगिनामपि मोहिनी । यस् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४० ॥
नूनम् भगवतः माया योगिनाम् अपि मोहिनी । वयम् गुरवः नृणाम् स्व-अर्थे मुह्यामहे द्विजाः ॥ ४० ॥
nūnam bhagavataḥ māyā yoginām api mohinī . vayam guravaḥ nṛṇām sva-arthe muhyāmahe dvijāḥ .. 40 ..
अहो पश्यत नारीणां अपि कृष्णे जगद्गुरौ । दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१ ॥
अहो पश्यत नारीणाम् अपि कृष्णे जगद्गुरौ । दुरन्त-भावम् यः अविध्यत् मृत्यु-पाशान् गृह-अभिधान् ॥ ४१ ॥
aho paśyata nārīṇām api kṛṣṇe jagadgurau . duranta-bhāvam yaḥ avidhyat mṛtyu-pāśān gṛha-abhidhān .. 41 ..
नासां द्विजातिसंस्कारो न निवासो गुरावपि । न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२ ॥
न आसाम् द्विजाति-संस्कारः न निवासः गुरौ अपि । न तपः न आत्म-मीमांसा न शौचम् न क्रियाः शुभाः ॥ ४२ ॥
na āsām dvijāti-saṃskāraḥ na nivāsaḥ gurau api . na tapaḥ na ātma-mīmāṃsā na śaucam na kriyāḥ śubhāḥ .. 42 ..
तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३ ॥
तथा अपि हि उत्तमःश्लोके कृष्णे योगेश्वर-ईश्वरे । भक्तिः दृढा न च अस्माकम् संस्कार-आदिमताम् अपि ॥ ४३ ॥
tathā api hi uttamaḥśloke kṛṣṇe yogeśvara-īśvare . bhaktiḥ dṛḍhā na ca asmākam saṃskāra-ādimatām api .. 43 ..
ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया । अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४ ॥
ननु स्व-अर्थ-विमूढानाम् प्रमत्तानाम् गृहेहया । अहो नः स्मारयामास गोप-वाक्यैः सताम् गतिः ॥ ४४ ॥
nanu sva-artha-vimūḍhānām pramattānām gṛhehayā . aho naḥ smārayāmāsa gopa-vākyaiḥ satām gatiḥ .. 44 ..
अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः । ईशितव्यैः किमस्माभिः ईशस्यैतद् विडम्बनम् ॥ ४५ ॥
अन्यथा पूर्ण-कामस्य कैवल्यात् यशिषाम् पतेः । ईशितव्यैः किम् अस्माभिः ईशस्य एतत् विडम्बनम् ॥ ४५ ॥
anyathā pūrṇa-kāmasya kaivalyāt yaśiṣām pateḥ . īśitavyaiḥ kim asmābhiḥ īśasya etat viḍambanam .. 45 ..
हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् । स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६ ॥
हित्वा अन्यान् भजते यम् श्रीः पाद-स्पर्श-आशया सकृत् । स्व-आत्म-दोष-अपवर्गेण तद्-याच्ञा जन-मोहिनी ॥ ४६ ॥
hitvā anyān bhajate yam śrīḥ pāda-sparśa-āśayā sakṛt . sva-ātma-doṣa-apavargeṇa tad-yācñā jana-mohinī .. 46 ..
देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७ ॥
देशः कालः पृथक् द्रव्यम् मंत्र-तंत्र-ऋत्विजः अग्नयः । देवता यजमानः च क्रतुः धर्मः च यद्-मयः ॥ ४७ ॥
deśaḥ kālaḥ pṛthak dravyam maṃtra-taṃtra-ṛtvijaḥ agnayaḥ . devatā yajamānaḥ ca kratuḥ dharmaḥ ca yad-mayaḥ .. 47 ..
स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः । जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे ॥ ४८ ॥
सः एष भगवान् साक्षात् विष्णुः योग-ईश्वर-ईश्वरः । जातः यदुषु इति आश्रृण्म हि अपि मूढाः न विद्महे ॥ ४८ ॥
saḥ eṣa bhagavān sākṣāt viṣṇuḥ yoga-īśvara-īśvaraḥ . jātaḥ yaduṣu iti āśrṛṇma hi api mūḍhāḥ na vidmahe .. 48 ..
अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः । भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९ ॥
अहो वयम् धन्यतमाः येषाम् नः तादृशीः स्त्रियः । भक्त्या यासाम् मतिः जाता अस्माकम् निश्चला हरौ ॥ ४९ ॥
aho vayam dhanyatamāḥ yeṣām naḥ tādṛśīḥ striyaḥ . bhaktyā yāsām matiḥ jātā asmākam niścalā harau .. 49 ..
नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५० ॥
नमः तुभ्यम् भगवते कृष्णाय अकुण्ठ-मेधसे । यत् माया-मोहित-धियः भ्रमामः कर्म-वर्त्मसु ॥ ५० ॥
namaḥ tubhyam bhagavate kṛṣṇāya akuṇṭha-medhase . yat māyā-mohita-dhiyaḥ bhramāmaḥ karma-vartmasu .. 50 ..
स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥
स वै नः आद्यः पुरुषः स्व-माया-मोहित-आत्मनाम् । अविज्ञ-ता-अनुभावानाम् क्षन्तुम् अर्हति अतिक्रमम् ॥ ५१ ॥
sa vai naḥ ādyaḥ puruṣaḥ sva-māyā-mohita-ātmanām . avijña-tā-anubhāvānām kṣantum arhati atikramam .. 51 ..
इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन् ॥ ५२ ॥
इति स्व-अघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः । दिदृक्षवः अपि अच्युतयोः कंसात् भीताः न च अचलन् ॥ ५२ ॥
iti sva-agham anusmṛtya kṛṣṇe te kṛta-helanāḥ . didṛkṣavaḥ api acyutayoḥ kaṃsāt bhītāḥ na ca acalan .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe trayoviṃśaḥ adhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In