| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीगोप ऊचुः - ( अनुष्टुप् )
राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः ॥ १ ॥
rāma rāma mahābāho kṛṣṇa duṣṭanibarhaṇa . eṣā vai bādhate kṣut naḥ tacchāntiṃ kartumarhathaḥ .. 1 ..
श्रीशुक उवाच -
इति विज्ञापितो गोपैः भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत् ॥ २ ॥
iti vijñāpito gopaiḥ bhagavān devakīsutaḥ . bhaktāyā viprabhāryāyāḥ prasīdan idamabravīt .. 2 ..
प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रं आङ्गिरसं नाम ह्यासते स्वर्गकाम्यया ॥ ३ ॥
prayāta devayajanaṃ brāhmaṇā brahmavādinaḥ . satraṃ āṅgirasaṃ nāma hyāsate svargakāmyayā .. 3 ..
तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ ४ ॥
tatra gatvaudanaṃ gopā yācatāsmad visarjitāḥ . kīrtayanto bhagavata āryasya mama cābhidhām .. 4 ..
इत्यादिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ ५ ॥
ityādiṣṭā bhagavatā gatvā yācanta te tathā . kṛtāñjalipuṭā viprān daṇḍavat patitā bhuvi .. 5 ..
हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ ६ ॥
he bhūmidevāḥ śrṛṇuta kṛṣṇasyādeśakāriṇaḥ . prāptāñjānīta bhadraṃ vo gopān no rāmacoditān .. 6 ..
( मिश्र )
गाश्चारयतौ अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ ७ ॥
gāścārayatau avidūra odanaṃ rāmācyutau vo laṣato bubhukṣitau . tayordvijā odanamarthinoryadi śraddhā ca vo yacchata dharmavittamāḥ .. 7 ..
( अनुष्टुप् )
दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति ॥ ८ ॥
dīkṣāyāḥ paśusaṃsthāyāḥ sautrāmaṇyāśca sattamāḥ . anyatra dīkṣitasyāpi nānnamaśnan hi duṣyati .. 8 ..
इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ ९ ॥
iti te bhagavad yācñāṃ śṛṇvanto'pi na śuśruvuḥ . kṣudrāśā bhūrikarmāṇo bāliśā vṛddhamāninaḥ .. 9 ..
देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ १० ॥
deśaḥ kālaḥ pṛthag dravyaṃ maṃtrataṃtrartvijo'gnayaḥ . devatā yajamānaśca kraturdharmaśca yanmayaḥ .. 10 ..
तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् । मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ ११ ॥
taṃ brahma paramaṃ sākṣād bhagavantaṃ adhokṣajam . manuṣyadṛṣṭyā duṣprajñā martyātmāno na menire .. 11 ..
न ते यदोमिति प्रोचुः न नेति च परन्तप । गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ १२ ॥
na te yadomiti procuḥ na neti ca parantapa . gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇarāmayoḥ .. 12 ..
तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः । व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम् ॥ १३ ॥
tadupākarṇya bhagavān prahasya jagadīśvaraḥ . vyājahāra punargopān darśayam̐laukikīṃ gatim .. 13 ..
मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् । दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया ॥ १४ ॥
māṃ jñāpayata patnībhyaḥ sasaṅkarṣaṇamāgatam . dāsyanti kāmamannaṃ vaḥ snigdhā mayyuṣitā dhiyā .. 14 ..
गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः । नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् ॥ १५ ॥
gatvātha patnīśālāyāṃ dṛṣṭvāsīnāḥ svalaṅkṛtāḥ . natvā dvijasatīrgopāḥ praśritā idamabruvan .. 15 ..
नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः । इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥
namo vo viprapatnībhyo nibodhata vacāṃsi naḥ . ito'vidūre caratā kṛṣṇeneheṣitā vayam .. 16 ..
गाश्चारयन् स गोपालैः सरामो दूरमागतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥
gāścārayan sa gopālaiḥ sarāmo dūramāgataḥ . bubhukṣitasya tasyānnaṃ sānugasya pradīyatām .. 17 ..
श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः ॥ १८ ॥
śrutvācyutaṃ upāyātaṃ nityaṃ taddarśanotsukāḥ . tatkathākṣiptamanaso babhūvurjātasambhramāḥ .. 18 ..
चतुर्विधं बहुगुणं अन्नमादाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः ॥ १९ ॥
caturvidhaṃ bahuguṇaṃ annamādāya bhājanaiḥ . abhisasruḥ priyaṃ sarvāḥ samudramiva nimnagāḥ .. 19 ..
निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः । भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः ॥ २० ॥
niṣidhyamānāḥ patibhiḥ bhrātṛbhirbandhubhiḥ sutaiḥ . bhagavati uttamaśloke dīrghaśruta dhṛtāśayāḥ .. 20 ..
यमुनोपवनेऽशोक नवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ २१ ॥
yamunopavane'śoka navapallavamaṇḍite . vicarantaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ .. 21 ..
( वसंततिलका )
श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनव्रतांसे । विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालक कपोलमुखाब्जहासम् ॥ २२ ॥
śyāmaṃ hiraṇyaparidhiṃ vanamālyabarha dhātupravālanaṭaveṣamanavratāṃse . vinyastahastamitareṇa dhunānamabjaṃ karṇotpalālaka kapolamukhābjahāsam .. 22 ..
प्रायःश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र ॥ २३ ॥
prāyaḥśrutapriyatamodayakarṇapūraiḥ yasmin nimagnamanasaḥ taṃ athākṣiraṃdhraiḥ . antaḥ praveśya suciraṃ parirabhya tāpaṃ prājñaṃ yathābhimatayo vijahurnarendra .. 23 ..
( अनुष्टुप् )
तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया । विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ २४ ॥
tāstathā tyaktasarvāśāḥ prāptā ātmadidṛkṣayā . vijñāyākhiladṛgdraṣṭā prāha prahasitānanaḥ .. 24 ..
स्वागतं वो महाभागा आस्यतां करवाम किम् । यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः ॥ २५ ॥
svāgataṃ vo mahābhāgā āsyatāṃ karavāma kim . yanno didṛkṣayā prāptā upapannamidaṃ hi vaḥ .. 25 ..
नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा ॥ २६ ॥
nanvaddhā mayi kurvanti kuśalāḥ svārthadarśinaḥ . ahaitukyavyavahitāṃ bhaktimātmapriye yathā .. 26 ..
प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः । यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः ॥ २७ ॥
prāṇabuddhimanaḥsvātma dārāpatyadhanādayaḥ . yatsamparkāt priyā āsan tataḥ ko nvaparaḥ priyaḥ .. 27 ..
तद् यात देवयजनं पतयो वो द्विजातयः । स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः ॥ २८ ॥
tad yāta devayajanaṃ patayo vo dvijātayaḥ . svasatraṃ pārayiṣyanti yuṣmābhirgṛhamedhinaḥ .. 28 ..
श्रीपत्‍न्य ऊचुः । ( वसंततिलका )
मैवं विभोऽर्हति भवान्गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून् ॥ २९ ॥
maivaṃ vibho'rhati bhavāngadituṃ nṛśaṃsaṃ satyaṃ kuruṣva nigamaṃ tava pādamūlam . prāptā vayaṃ tulasidāma padāvasṛṣṭaṃ keśairnivoḍhumatilaṅghya samastabandhūn .. 29 ..
गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि ॥ ३० ॥
gṛhṇanti no na patayaḥ pitarau sutā vā na bhrātṛbandhusuhṛdaḥ kuta eva cānye . tasmād bhavatprapadayoḥ patitātmanāṃ no nānyā bhaved gatirarindama tad vidhehi .. 30 ..
श्रीभगवानुवाच - ( अनुष्टुप् )
पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः । लोकाश्च वो मयोपेता देवा अप्यनुमन्वते ॥ ३१ ॥
patayo nābhyasūyeran pitṛbhrātṛsutādayaḥ . lokāśca vo mayopetā devā apyanumanvate .. 31 ..
न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह । तन्मनो मयि युञ्जाना अचिरान् मामवाप्स्यथ ॥ ३२ ॥
na prītaye'nurāgāya hyaṅgasaṅgo nṛṇāmiha . tanmano mayi yuñjānā acirān māmavāpsyatha .. 32 ..
श्रीशुक उवाच -
इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः । ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् ॥ ३३ ॥
ityuktā dvijapatnyastā yajñavāṭaṃ punargatāḥ . te cānasūyavaḥ svābhiḥ strībhiḥ satramapārayan .. 33 ..
तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् । हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ ३४ ॥
tatraikā vidhṛtā bhartrā bhagavantaṃ yathāśrutam . hṛdopaguhya vijahau dehaṃ karmānubandhanam .. 34 ..
भगवानपि गोविन्दः तेनैवान्नेन गोपकान् । चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ ३५ ॥
bhagavānapi govindaḥ tenaivānnena gopakān . caturvidhenāśayitvā svayaṃ ca bubhuje prabhuḥ .. 35 ..
एवं लीलानरवपुः नृलोकमनुशीलयन् । रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः ॥ ३६ ॥
evaṃ līlānaravapuḥ nṛlokamanuśīlayan . reme gogopagopīnāṃ ramayanrūpavākkṛtaiḥ .. 36 ..
अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर्याच्ञां अहन्म नृविडम्बयोः ॥ ३७ ॥
athānusmṛtya viprāste anvatapyan kṛtāgasaḥ . yad viśveśvarayoryācñāṃ ahanma nṛviḍambayoḥ .. 37 ..
दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् । आत्मानं च तया हीनं अनुतप्ता व्यगर्हयन् ॥ ३८ ॥
dṛṣṭvā strīṇāṃ bhagavati kṛṣṇe bhaktimalaukikīm . ātmānaṃ ca tayā hīnaṃ anutaptā vyagarhayan .. 38 ..
धिग्जन्म नः त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम् । धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे ॥ ३९ ॥
dhigjanma naḥ trivṛt vidyāṃ dhig vrataṃ dhig bahujñatām . dhikkulaṃ dhik kriyādākṣyaṃ vimukhā ye tvadhokṣaje .. 39 ..
नूनं भगवतो माया योगिनामपि मोहिनी । यस् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ ४० ॥
nūnaṃ bhagavato māyā yogināmapi mohinī . yas vayaṃ guravo nṛṇāṃ svārthe muhyāmahe dvijāḥ .. 40 ..
अहो पश्यत नारीणां अपि कृष्णे जगद्गुरौ । दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ ४१ ॥
aho paśyata nārīṇāṃ api kṛṣṇe jagadgurau . durantabhāvaṃ yo'vidhyan mṛtyupāśān gṛhābhidhān .. 41 ..
नासां द्विजातिसंस्कारो न निवासो गुरावपि । न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ ४२ ॥
nāsāṃ dvijātisaṃskāro na nivāso gurāvapi . na tapo nātmamīmāṃsā na śaucaṃ na kriyāḥ śubhāḥ .. 42 ..
तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ॥ ४३ ॥
tathāpi hyuttamaḥśloke kṛṣṇe yogeśvareśvare . bhaktirdṛḍhā na cāsmākaṃ saṃskārādimatāmapi .. 43 ..
ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया । अहो नः स्मारयामास गोपवाक्यैः सतां गतिः ॥ ४४ ॥
nanu svārthavimūḍhānāṃ pramattānāṃ gṛhehayā . aho naḥ smārayāmāsa gopavākyaiḥ satāṃ gatiḥ .. 44 ..
अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः । ईशितव्यैः किमस्माभिः ईशस्यैतद् विडम्बनम् ॥ ४५ ॥
anyathā pūrṇakāmasya kaivalyādyaśiṣāṃ pateḥ . īśitavyaiḥ kimasmābhiḥ īśasyaitad viḍambanam .. 45 ..
हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् । स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ ४६ ॥
hitvānyān bhajate yaṃ śrīḥ pādasparśāśayā sakṛt . svātmadoṣāpavargeṇa tadyācñā janamohinī .. 46 ..
देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः । देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः ॥ ४७ ॥
deśaḥ kālaḥ pṛthagdravyaṃ maṃtrataṃtrartvijo'gnayaḥ . devatā yajamānaśca kraturdharmaśca yanmayaḥ .. 47 ..
स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः । जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे ॥ ४८ ॥
sa eṣa bhagavān sākṣād viṣṇuryogeśvareśvaraḥ . jāto yaduṣvityāśrṛṇma hyapi mūḍhā na vidmahe .. 48 ..
अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः । भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ ॥ ४९ ॥
aho vayaṃ dhanyatamā yeṣāṃ nastādṛśīḥ striyaḥ . bhaktyā yāsāṃ matirjātā asmākaṃ niścalā harau .. 49 ..
नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ ५० ॥
namastubhyaṃ bhagavate kṛṣṇāyākuṇṭhamedhase . yanmāyāmohitadhiyo bhramāmaḥ karmavartmasu .. 50 ..
स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम् ॥ ५१ ॥
sa vai na ādyaḥ puruṣaḥ svamāyāmohitātmanām . avijñatānubhāvānāṃ kṣantumarhatyatikramam .. 51 ..
इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन् ॥ ५२ ॥
iti svāghamanusmṛtya kṛṣṇe te kṛtahelanāḥ . didṛkṣavo'pyacyutayoḥ kaṃsādbhītā na cācalan .. 52 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोविंशोऽध्यायः ॥ २३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe trayoviṃśo'dhyāyaḥ .. 23 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In