| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥
इन्द्रः तदा आत्मनः पूजाम् विज्ञाय विहताम् नृप । गोपेभ्यः कृष्ण-नाथेभ्यः नन्द-आदिभ्यः चुकोप ह ॥ १ ॥
indraḥ tadā ātmanaḥ pūjām vijñāya vihatām nṛpa . gopebhyaḥ kṛṣṇa-nāthebhyaḥ nanda-ādibhyaḥ cukopa ha .. 1 ..
गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २ ॥
गणम् सांवर्तकम् नाम मेघानाम् च अन्त-कारिणाम् । इन्द्रः प्रचोदयत् क्रुद्धः वाक्यम् च आह ईशमानि उत ॥ २ ॥
gaṇam sāṃvartakam nāma meghānām ca anta-kāriṇām . indraḥ pracodayat kruddhaḥ vākyam ca āha īśamāni uta .. 2 ..
अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥
अहो श्रीमत् अमाहात्म्यम् गोपानाम् काननौकसाम् । कृष्णम् मर्त्यम् उपाश्रित्य ये चक्रुः देव-हेलनम् ॥ ३ ॥
aho śrīmat amāhātmyam gopānām kānanaukasām . kṛṣṇam martyam upāśritya ye cakruḥ deva-helanam .. 3 ..
यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥
यथा दृढैः कर्म-मयैः क्रतुभिः नाम-नौ-निभैः । विद्याम् आन्वीक्षिकीम् हित्वा तितीर्षन्ति भव-अर्णवम् ॥ ४ ॥
yathā dṛḍhaiḥ karma-mayaiḥ kratubhiḥ nāma-nau-nibhaiḥ . vidyām ānvīkṣikīm hitvā titīrṣanti bhava-arṇavam .. 4 ..
वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
वाचालम् बालिशम् स्तब्धम् अज्ञम् पण्डित-मानिनम् । कृष्णम् मर्त्यम् उपाश्रित्य गोपाः मे चक्रुः अप्रियम् ॥ ५ ॥
vācālam bāliśam stabdham ajñam paṇḍita-māninam . kṛṣṇam martyam upāśritya gopāḥ me cakruḥ apriyam .. 5 ..
एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥ ६ ॥
एषाम् श्रिया अवलिप्तानाम् कृष्णेन आध्मापित-आत्मनाम् । धुनुत श्रीमत् अ स्तम्भम् पशून् नयत सङ्क्षयम् ॥ ६ ॥
eṣām śriyā avaliptānām kṛṣṇena ādhmāpita-ātmanām . dhunuta śrīmat a stambham paśūn nayata saṅkṣayam .. 6 ..
अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् । मरुद्गणैर्महावेगैः नन्दगोष्ठजिघांसया ॥ ७ ॥
अहम् च ऐरावतम् नागम् आरुह्य अनुव्रजे व्रजम् । मरुत्-गणैः महा-वेगैः नन्द-गोष्ठ-जिघांसया ॥ ७ ॥
aham ca airāvatam nāgam āruhya anuvraje vrajam . marut-gaṇaiḥ mahā-vegaiḥ nanda-goṣṭha-jighāṃsayā .. 7 ..
श्रीशुक उवाच -
इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥
इत्थम् मघवता आज्ञप्ताः मेघाः निर्मुक्त-बन्धनाः । नन्द-गोकुलम् आसारैः पीडयामासुः ओजसा ॥ ८ ॥
ittham maghavatā ājñaptāḥ meghāḥ nirmukta-bandhanāḥ . nanda-gokulam āsāraiḥ pīḍayāmāsuḥ ojasā .. 8 ..
विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥
विद्योतमानाः विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैः मरुत्-गणैः नुन्नाः ववृषुः जल-शर्कराः ॥ ९ ॥
vidyotamānāḥ vidyudbhiḥ stanantaḥ stanayitnubhiḥ . tīvraiḥ marut-gaṇaiḥ nunnāḥ vavṛṣuḥ jala-śarkarāḥ .. 9 ..
स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः । जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम् ॥ १० ॥
स्थूणा-स्थूलाः वर्ष-धाराः मुञ्चत्सु अभ्रेषु अ भीक्ष्णशस् । जल-ओघैः प्लाव्यमाना भूः न अदृश्यत नत-उन्नतम् ॥ १० ॥
sthūṇā-sthūlāḥ varṣa-dhārāḥ muñcatsu abhreṣu a bhīkṣṇaśas . jala-oghaiḥ plāvyamānā bhūḥ na adṛśyata nata-unnatam .. 10 ..
अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥
अति आसार-अति वातेन पशवः जात-वेपनाः । गोपाः गोप्यः च शीत-आर्ताः गोविन्दम् शरणम् ययुः ॥ ११ ॥
ati āsāra-ati vātena paśavaḥ jāta-vepanāḥ . gopāḥ gopyaḥ ca śīta-ārtāḥ govindam śaraṇam yayuḥ .. 11 ..
शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः । वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥
शिरः सुतान् च कायेन प्रच्छाद्य आ सार-पीडिताः । वेपमानाः भगवतः पाद-मूलम् उपाययुः ॥ १२ ॥
śiraḥ sutān ca kāyena pracchādya ā sāra-pīḍitāḥ . vepamānāḥ bhagavataḥ pāda-mūlam upāyayuḥ .. 12 ..
कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो । त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥
कृष्ण कृष्ण महाभाग त्वद्-नाथम् गोकुलम् प्रभो । त्रातुम् अर्हसि देवान् नः कुपितात् भक्त-वत्सल ॥ १३ ॥
kṛṣṇa kṛṣṇa mahābhāga tvad-nātham gokulam prabho . trātum arhasi devān naḥ kupitāt bhakta-vatsala .. 13 ..
शिलावर्षानिपातेन हन्यमानमचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥
शिला-वर्षा-निपातेन हन्यमानम् अचेतनम् । निरीक्ष्य भगवान् मेने कुपित-इन्द्र-कृतम् हरिः ॥ १४ ॥
śilā-varṣā-nipātena hanyamānam acetanam . nirīkṣya bhagavān mene kupita-indra-kṛtam hariḥ .. 14 ..
अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् । स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति ॥ १५ ॥
अपर्त्तु अति उल्बणम् वर्षम् अति वातम् शिला-मयम् । स्व-यागे विहते अस्माभिः इन्द्रः नाशाय वर्षति ॥ १५ ॥
aparttu ati ulbaṇam varṣam ati vātam śilā-mayam . sva-yāge vihate asmābhiḥ indraḥ nāśāya varṣati .. 15 ..
तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये । लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः ॥ १६ ॥
तत्र प्रति विधिम् सम्यक् आत्म-योगेन साधये । लोकेश-मानिनाम् मौढ्यात् हनिष्ये श्री-मदम् तमः ॥ १६ ॥
tatra prati vidhim samyak ātma-yogena sādhaye . lokeśa-māninām mauḍhyāt haniṣye śrī-madam tamaḥ .. 16 ..
न हि सद्भावयुक्तानां सुराणामीशविस्मयः । मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते ॥ १७ ॥
न हि सद्भाव-युक्तानाम् सुराणाम् ईश-विस्मयः । मत्तः असताम् मान-भङ्गः प्रशमाय उपकल्पते ॥ १७ ॥
na hi sadbhāva-yuktānām surāṇām īśa-vismayaḥ . mattaḥ asatām māna-bhaṅgaḥ praśamāya upakalpate .. 17 ..
तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥
तस्मात् मद्-शरणम् गोष्ठम् मद्-नाथम् मद्-परिग्रहम् । गोपाये स्व-आत्म-योगेन सः अयम् मे व्रते आहितः ॥ १८ ॥
tasmāt mad-śaraṇam goṣṭham mad-nātham mad-parigraham . gopāye sva-ātma-yogena saḥ ayam me vrate āhitaḥ .. 18 ..
इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया कृष्णः छत्राकमिव बालकः ॥ १९ ॥
इति उक्त्वा एकेन हस्तेन कृत्वा गोवर्धन-अचलम् । दधार लीलया कृष्णः छत्राकम् इव बालकः ॥ १९ ॥
iti uktvā ekena hastena kṛtvā govardhana-acalam . dadhāra līlayā kṛṣṇaḥ chatrākam iva bālakaḥ .. 19 ..
अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥
अथा आह भगवान् गोपान् हे अम्ब तात व्रज-ओकसः । यथोपजोषम् विशत गिरि-गर्तम् स गो-धनाः ॥ २० ॥
athā āha bhagavān gopān he amba tāta vraja-okasaḥ . yathopajoṣam viśata giri-gartam sa go-dhanāḥ .. 20 ..
न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने । वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१ ॥
न त्रासः इह वः कार्यः मद्-हस्त-अद्रि-निपातने । वात-वर्ष-भयेन अलम् तत् त्राणम् विहितम् हि वः ॥ २१ ॥
na trāsaḥ iha vaḥ kāryaḥ mad-hasta-adri-nipātane . vāta-varṣa-bhayena alam tat trāṇam vihitam hi vaḥ .. 21 ..
तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः । यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२ ॥
तथा निर्विविशुः गर्तम् कृष्णा-आश्वासित-मानसः । यथावकाशम् स धनाः स व्रजाः स उपजीविनः ॥ २२ ॥
tathā nirviviśuḥ gartam kṛṣṇā-āśvāsita-mānasaḥ . yathāvakāśam sa dhanāḥ sa vrajāḥ sa upajīvinaḥ .. 22 ..
क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः । वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥
क्षुध्-तृष्-व्यथाम् सुख-अपेक्षाम् हित्वा तैः व्रज-वासिभिः । वीक्ष्यमाणः दधौ अद्रिम् सप्त-अहम् न अचलत् पदात् ॥ २३ ॥
kṣudh-tṛṣ-vyathām sukha-apekṣām hitvā taiḥ vraja-vāsibhiḥ . vīkṣyamāṇaḥ dadhau adrim sapta-aham na acalat padāt .. 23 ..
कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः । निःस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् संन्यवारयत् ॥ २४ ॥
कृष्ण-योग-अनुभावम् तम् निशम्य इन्द्रः अति विस्मितः । निःस्तम्भः भ्रष्ट-सङ्कल्पः स्वान् मेघान् संन्यवारयत् ॥ २४ ॥
kṛṣṇa-yoga-anubhāvam tam niśamya indraḥ ati vismitaḥ . niḥstambhaḥ bhraṣṭa-saṅkalpaḥ svān meghān saṃnyavārayat .. 24 ..
खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ ॥
खम् व्यभ्रम् उदित-आदित्यम् वात-वर्षम् च दारुणम् । निशम्य उपरतम् गोपान् गोवर्धन-धरः अब्रवीत् ॥ ॥
kham vyabhram udita-ādityam vāta-varṣam ca dāruṇam . niśamya uparatam gopān govardhana-dharaḥ abravīt .. ..
निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः । उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥
निर्यात त्यजत त्रासम् गोपाः स स्त्रीधन-अर्भकाः । उपारतम् वात-वर्षम् व्युद-प्रायाः च निम्नगाः ॥ २६ ॥
niryāta tyajata trāsam gopāḥ sa strīdhana-arbhakāḥ . upāratam vāta-varṣam vyuda-prāyāḥ ca nimnagāḥ .. 26 ..
ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् । शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥
ततस् ते निर्ययुः गोपाः स्वम् स्वम् आदाय गो-धनम् । शकट-ऊढा-उपकरणम् स्त्री-बाल-स्थविराः शनैस् ॥ २७ ॥
tatas te niryayuḥ gopāḥ svam svam ādāya go-dhanam . śakaṭa-ūḍhā-upakaraṇam strī-bāla-sthavirāḥ śanais .. 27 ..
भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः । पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥
भगवान् अपि तम् शैलम् स्व-स्थाने पूर्ववत् प्रभुः । पश्यताम् सर्व-भूतानाम् स्थापयामास लीलया ॥ २८ ॥
bhagavān api tam śailam sva-sthāne pūrvavat prabhuḥ . paśyatām sarva-bhūtānām sthāpayāmāsa līlayā .. 28 ..
( मिश्र )
तं प्रेमवेगान् निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्भिर्युयुजुः सदाशिषः ॥ २९ ॥
तम् प्रेम-वेगात् निभृताः व्रज-ओकसः यथा समीयुः परिरम्भण-आदिभिः । गोप्यः च स स्नेहम् अपूजयत् मुदा दधि-अक्षत-अद्भिः युयुजुः सत्-आशिषः ॥ २९ ॥
tam prema-vegāt nibhṛtāḥ vraja-okasaḥ yathā samīyuḥ parirambhaṇa-ādibhiḥ . gopyaḥ ca sa sneham apūjayat mudā dadhi-akṣata-adbhiḥ yuyujuḥ sat-āśiṣaḥ .. 29 ..
( अनुष्टुप् )
यशोदा रोहिणी नन्दो रामश्च बलिनां वरः । कृष्णमालिङ्ग्य युयुजुः आशिषः स्नेहकातराः ॥ ३० ॥
यशोदा रोहिणी नन्दः रामः च बलिनाम् वरः । कृष्णम् आलिङ्ग्य युयुजुः आशिषः स्नेह-कातराः ॥ ३० ॥
yaśodā rohiṇī nandaḥ rāmaḥ ca balinām varaḥ . kṛṣṇam āliṅgya yuyujuḥ āśiṣaḥ sneha-kātarāḥ .. 30 ..
दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१ ॥
दिवि देव-गणाः सिद्धाः साध्याः गन्धर्व-चारणाः । तुष्टुवुः मुमुचुः तुष्टाः पुष्प-वर्षाणि पार्थिव ॥ ३१ ॥
divi deva-gaṇāḥ siddhāḥ sādhyāḥ gandharva-cāraṇāḥ . tuṣṭuvuḥ mumucuḥ tuṣṭāḥ puṣpa-varṣāṇi pārthiva .. 31 ..
शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः । जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप ॥ ३२ ॥
शङ्ख-दुन्दुभयः नेदुः दिवि देव-प्रचोदिताः । जगुः गन्धर्व-पतयः तुंबुरु-प्रमुखाः नृप ॥ ३२ ॥
śaṅkha-dundubhayaḥ neduḥ divi deva-pracoditāḥ . jaguḥ gandharva-patayaḥ tuṃburu-pramukhāḥ nṛpa .. 32 ..
( मिश्र )
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥
ततस् अनुरक्तैः पशुपैः परिश्रितः राजन् स्व-गोष्ठम् स बलः अव्रजत् हरिः । तथाविधानि अस्य कृतानि गोपिकाः गायन्त्यः ईयुः मुदिताः हृदिस्पृशः ॥ ३३ ॥
tatas anuraktaiḥ paśupaiḥ pariśritaḥ rājan sva-goṣṭham sa balaḥ avrajat hariḥ . tathāvidhāni asya kṛtāni gopikāḥ gāyantyaḥ īyuḥ muditāḥ hṛdispṛśaḥ .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे पञ्चविंशः अध्यायः ॥ २५ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe pañcaviṃśaḥ adhyāyaḥ .. 25 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In