| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह ॥ १ ॥
indrastadā''tmanaḥ pūjāṃ vijñāya vihatāṃ nṛpa . gopebhyaḥ kṛṣṇanāthebhyo nandādibhyaścukopa ha .. 1 ..
गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत ॥ २ ॥
gaṇaṃ sāṃvartakaṃ nāma meghānāṃ cāntakāriṇām . indraḥ pracodayat kruddho vākyaṃ cāheśamānyuta .. 2 ..
अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम् ॥ ३ ॥
aho śrīmadamāhātmyaṃ gopānāṃ kānanaukasām . kṛṣṇaṃ martyamupāśritya ye cakrurdevahelanam .. 3 ..
यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः । विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ ४ ॥
yathādṛḍhaiḥ karmamayaiḥ kratubhirnāmanaunibhaiḥ . vidyāṃ ānvīkṣikīṃ hitvā titīrṣanti bhavārṇavam .. 4 ..
वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् । कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम् ॥ ५ ॥
vācālaṃ bāliśaṃ stabdhaṃ ajñaṃ paṇḍitamāninam . kṛṣṇaṃ martyamupāśritya gopā me cakrurapriyam .. 5 ..
एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥ ६ ॥
eṣāṃ śriyāvaliptānāṃ kṛṣṇenādhmāpitātmanām . dhunuta śrīmadastambhaṃ paśūn nayata saṅkṣayam .. 6 ..
अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् । मरुद्गणैर्महावेगैः नन्दगोष्ठजिघांसया ॥ ७ ॥
ahaṃ cairāvataṃ nāgaṃ āruhyānuvraje vrajam . marudgaṇairmahāvegaiḥ nandagoṣṭhajighāṃsayā .. 7 ..
श्रीशुक उवाच -
इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलमासारैः पीडयामासुरोजसा ॥ ८ ॥
itthaṃ maghavatā''jñaptā meghā nirmuktabandhanāḥ . nandagokulamāsāraiḥ pīḍayāmāsurojasā .. 8 ..
विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः ॥ ९ ॥
vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ . tīvrairmarudgaṇairnunnā vavṛṣurjalaśarkarāḥ .. 9 ..
स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः । जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम् ॥ १० ॥
sthūṇāsthūlā varṣadhārā muñcatsvabhreṣva-bhīkṣṇaśaḥ . jalaughaiḥ plāvyamānā bhūḥ nādṛśyata natonnatam .. 10 ..
अत्यासारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः ॥ ११ ॥
atyāsārātivātena paśavo jātavepanāḥ . gopā gopyaśca śītārtā govindaṃ śaraṇaṃ yayuḥ .. 11 ..
शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः । वेपमाना भगवतः पादमूलमुपाययुः ॥ १२ ॥
śiraḥ sutāṃśca kāyena pracchādyā sārapīḍitāḥ . vepamānā bhagavataḥ pādamūlamupāyayuḥ .. 12 ..
कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो । त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल ॥ १३ ॥
kṛṣṇa kṛṣṇa mahābhāga tvannāthaṃ gokulaṃ prabho . trātumarhasi devānnaḥ kupitād bhaktavatsala .. 13 ..
शिलावर्षानिपातेन हन्यमानमचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ १४ ॥
śilāvarṣānipātena hanyamānamacetanam . nirīkṣya bhagavān mene kupitendrakṛtaṃ hariḥ .. 14 ..
अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् । स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति ॥ १५ ॥
aparttvatyulbaṇaṃ varṣaṃ ativātaṃ śilāmayam . svayāge vihate'smābhiḥ indro nāśāya varṣati .. 15 ..
तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये । लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः ॥ १६ ॥
tatra pratividhiṃ samyag ātmayogena sādhaye . lokeśamānināṃ mauḍhyād haniṣye śrīmadaṃ tamaḥ .. 16 ..
न हि सद्भावयुक्तानां सुराणामीशविस्मयः । मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते ॥ १७ ॥
na hi sadbhāvayuktānāṃ surāṇāmīśavismayaḥ . matto'satāṃ mānabhaṅgaḥ praśamāyopakalpate .. 17 ..
तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः ॥ १८ ॥
tasmāt maccharaṇaṃ goṣṭhaṃ mannāthaṃ matparigraham . gopāye svātmayogena so'yaṃ me vrata āhitaḥ .. 18 ..
इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया कृष्णः छत्राकमिव बालकः ॥ १९ ॥
ityuktvaikena hastena kṛtvā govardhanācalam . dadhāra līlayā kṛṣṇaḥ chatrākamiva bālakaḥ .. 19 ..
अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ २० ॥
athāha bhagavān gopān he'mba tāta vrajaukasaḥ . yathopajoṣaṃ viśata girigartaṃ sagodhanāḥ .. 20 ..
न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने । वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ २१ ॥
na trāsa iha vaḥ kāryo maddhastādrinipātane . vātavarṣabhayenālaṃ tattrāṇaṃ vihitaṃ hi vaḥ .. 21 ..
तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः । यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ २२ ॥
tathā nirviviśurgartaṃ kṛṣṇāśvāsitamānasaḥ . yathāvakāśaṃ sadhanāḥ savrajāḥ sopajīvinaḥ .. 22 ..
क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः । वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात् ॥ २३ ॥
kṣuttṛḍvyathāṃ sukhāpekṣāṃ hitvā tairvrajavāsibhiḥ . vīkṣyamāṇo dadhāvadriṃ saptāhaṃ nācalat padāt .. 23 ..
कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः । निःस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् संन्यवारयत् ॥ २४ ॥
kṛṣṇayogānubhāvaṃ taṃ niśamyendro'tivismitaḥ . niḥstambho bhraṣṭasaṅkalpaḥ svān meghān saṃnyavārayat .. 24 ..
खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ॥ ॥
khaṃ vyabhramuditādityaṃ vātavarṣaṃ ca dāruṇam . niśamyoparataṃ gopān govardhanadharo'bravīt .. ..
निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः । उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः ॥ २६ ॥
niryāta tyajata trāsaṃ gopāḥ sastrīdhanārbhakāḥ . upārataṃ vātavarṣaṃ vyudaprāyāśca nimnagāḥ .. 26 ..
ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् । शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ २७ ॥
tataste niryayurgopāḥ svaṃ svamādāya godhanam . śakaṭoḍhopakaraṇaṃ strībālasthavirāḥ śanaiḥ .. 27 ..
भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः । पश्यतां सर्वभूतानां स्थापयामास लीलया ॥ २८ ॥
bhagavānapi taṃ śailaṃ svasthāne pūrvavatprabhuḥ . paśyatāṃ sarvabhūtānāṃ sthāpayāmāsa līlayā .. 28 ..
( मिश्र )
तं प्रेमवेगान् निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः । गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्भिर्युयुजुः सदाशिषः ॥ २९ ॥
taṃ premavegān nibhṛtā vrajaukaso yathā samīyuḥ parirambhaṇādibhiḥ . gopyaśca sasnehamapūjayan mudā dadhyakṣatādbhiryuyujuḥ sadāśiṣaḥ .. 29 ..
( अनुष्टुप् )
यशोदा रोहिणी नन्दो रामश्च बलिनां वरः । कृष्णमालिङ्ग्य युयुजुः आशिषः स्नेहकातराः ॥ ३० ॥
yaśodā rohiṇī nando rāmaśca balināṃ varaḥ . kṛṣṇamāliṅgya yuyujuḥ āśiṣaḥ snehakātarāḥ .. 30 ..
दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः । तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव ॥ ३१ ॥
divi devagaṇāḥ siddhāḥ sādhyā gandharvacāraṇāḥ . tuṣṭuvurmumucustuṣṭāḥ puṣpavarṣāṇi pārthiva .. 31 ..
शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः । जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप ॥ ३२ ॥
śaṅkhadundubhayo nedurdivi devapracoditāḥ . jagurgandharvapatayaḥ tuṃburupramukhā nṛpa .. 32 ..
( मिश्र )
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ॥ ३३ ॥
tato'nuraktaiḥ paśupaiḥ pariśrito rājan svagoṣṭhaṃ sabalo'vrajaddhariḥ . tathāvidhānyasya kṛtāni gopikā gāyantya īyurmuditā hṛdispṛśaḥ .. 33 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe pañcaviṃśo'dhyāyaḥ .. 25 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In