| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥
एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अ तद्-वीर्य-विदः प्रोचुः समभ्येत्य सु विस्मिताः ॥ १ ॥
evaṃvidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te . a tad-vīrya-vidaḥ procuḥ samabhyetya su vismitāḥ .. 1 ..
बालकस्य यदेतानि कर्माणि अति अद्भुतानि वै । कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २ ॥
बालकस्य यत् एतानि कर्माणि अति अद्भुतानि वै । कथम् अर्हति असौ जन्म ग्राम्येषु आत्म-जुगुप्सितम् ॥ २ ॥
bālakasya yat etāni karmāṇi ati adbhutāni vai . katham arhati asau janma grāmyeṣu ātma-jugupsitam .. 2 ..
यः सप्तहायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव ॥ ३ ॥
यः सप्त-हायनः बालः करेण एकेन लीलया । कथम् बिभ्रत् गिरि-वरम् पुष्करम् गज-राज् इव ॥ ३ ॥
yaḥ sapta-hāyanaḥ bālaḥ kareṇa ekena līlayā . katham bibhrat giri-varam puṣkaram gaja-rāj iva .. 3 ..
तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४ ॥
तोकेन आमीलित-अक्षेण पूतनायाः महा-ओजसः । पीतः स्तनः सह प्राणैः कालेन इव वयः-तनोः ॥ ४ ॥
tokena āmīlita-akṣeṇa pūtanāyāḥ mahā-ojasaḥ . pītaḥ stanaḥ saha prāṇaiḥ kālena iva vayaḥ-tanoḥ .. 4 ..
हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् । अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५ ॥
हिन्वतः अधस् शयानस्य मास्यस्य चरणौ उदक् । अनः अपतत् विपर्यस्तम् रुदतः प्रपद-आहतम् ॥ ५ ॥
hinvataḥ adhas śayānasya māsyasya caraṇau udak . anaḥ apatat viparyastam rudataḥ prapada-āhatam .. 5 ..
एकहायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस्तृणावर्त महन् कण्ठग्रहातुरम् ॥ ६ ॥
एक-हायनः आसीनः ह्रियमाणः विहायसा । दैत्येन यः तृण-आवर्त महन् कण्ठ-ग्रह-आतुरम् ॥ ६ ॥
eka-hāyanaḥ āsīnaḥ hriyamāṇaḥ vihāyasā . daityena yaḥ tṛṇa-āvarta mahan kaṇṭha-graha-āturam .. 6 ..
क्वचिद् हैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले । गच्छन् अर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७ ॥
क्वचिद् हैयङ्गव-स्तैन्ये मात्रा बद्धे उलूखले । गच्छन् अर्जुनयोः मध्ये बाहुभ्याम् तौ अपातयत् ॥ ७ ॥
kvacid haiyaṅgava-stainye mātrā baddhe ulūkhale . gacchan arjunayoḥ madhye bāhubhyām tau apātayat .. 7 ..
वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः । हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८ ॥
वने सञ्चारयन् वत्सान् सरामः बालकैः वृतः । हन्तु-कामम् बकम् दोर्भ्याम् मुखतः अरिम् अपाटयत् ॥ ८ ॥
vane sañcārayan vatsān sarāmaḥ bālakaiḥ vṛtaḥ . hantu-kāmam bakam dorbhyām mukhataḥ arim apāṭayat .. 8 ..
वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९ ॥
वत्सेषु वत्स-रूपेण प्रविशन्तम् जिघांसया । हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ ९ ॥
vatseṣu vatsa-rūpeṇa praviśantam jighāṃsayā . hatvā nyapātayat tena kapitthāni ca līlayā .. 9 ..
हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः । चक्रे तालवनं क्षेमं परिपक्व फलान्वितम् ॥ १० ॥
हत्वा रासभ-दैतेयम् तद्-बन्धून् च बल-अन्वितः । चक्रे ताल-वनम् क्षेमम् ॥ १० ॥
hatvā rāsabha-daiteyam tad-bandhūn ca bala-anvitaḥ . cakre tāla-vanam kṣemam .. 10 ..
प्रलम्बं घातयित्वोग्रं बलेन बलशालिना । अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११ ॥
प्रलम्बम् घातयित्वा उग्रम् बलेन बल-शालिना । अमोचयत् व्रज-पशून् गोपान् च अरण्य-वह्नितः ॥ ११ ॥
pralambam ghātayitvā ugram balena bala-śālinā . amocayat vraja-paśūn gopān ca araṇya-vahnitaḥ .. 11 ..
आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् । प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२ ॥
आशीविष-तमाहि-इन्द्रम् दमित्वा विमदम् ह्रदात् । प्रसह्य उद्वास्य यमुनाम् चक्रे असौ निर्विष-उदकाम् ॥ १२ ॥
āśīviṣa-tamāhi-indram damitvā vimadam hradāt . prasahya udvāsya yamunām cakre asau nirviṣa-udakām .. 12 ..
दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३ ॥
दुस्त्यजः च अनुरागः अस्मिन् सर्वेषाम् नः व्रजौकसाम् । नन्द ते तनये अस्मासु तस्य अपि औत्पत्तिकः कथम् ॥ १३ ॥
dustyajaḥ ca anurāgaḥ asmin sarveṣām naḥ vrajaukasām . nanda te tanaye asmāsu tasya api autpattikaḥ katham .. 13 ..
क्व सप्तहायनो बालः क्व महाद्रिविधारणम् । ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ १४ ॥
क्व सप्त-हायनः बालः क्व महा-अद्रि-विधारणम् । ततस् नः जायते शङ्का व्रजनाथ तव आत्मजे ॥ १४ ॥
kva sapta-hāyanaḥ bālaḥ kva mahā-adri-vidhāraṇam . tatas naḥ jāyate śaṅkā vrajanātha tava ātmaje .. 14 ..
श्रीनन्द उवाच -
श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके । एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५ ॥
श्रूयताम् मे वचः गोपाः व्येतु शङ्का च वः अर्भके । एनम् कुमारम् उद्दिश्य गर्गः मे यत् उवाच ह ॥ १५ ॥
śrūyatām me vacaḥ gopāḥ vyetu śaṅkā ca vaḥ arbhake . enam kumāram uddiśya gargaḥ me yat uvāca ha .. 15 ..
वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६ ॥
वर्णाः त्रयः किल अस्य आसन् गृह्णतः अनुयुगम् तनूः । शुक्लः रक्तः तथा पीतः इदानीम् कृष्ण-ताम् गतः ॥ १६ ॥
varṇāḥ trayaḥ kila asya āsan gṛhṇataḥ anuyugam tanūḥ . śuklaḥ raktaḥ tathā pītaḥ idānīm kṛṣṇa-tām gataḥ .. 16 ..
प्रागयं वसुदेवस्य क्वचित् जातः तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥
प्राक् अयम् वसुदेवस्य क्वचिद् जातः तव आत्मजः । वासुदेवः इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥
prāk ayam vasudevasya kvacid jātaḥ tava ātmajaḥ . vāsudevaḥ iti śrīmān abhijñāḥ sampracakṣate .. 17 ..
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण कर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८ ॥
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण-कर्म-अनुरूपाणि तानि अहम् वेद नः जनाः ॥ १८ ॥
bahūni santi nāmāni rūpāṇi ca sutasya te . guṇa-karma-anurūpāṇi tāni aham veda naḥ janāḥ .. 18 ..
एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९ ॥
एष वः श्रेयः आधास्यत् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ १९ ॥
eṣa vaḥ śreyaḥ ādhāsyat gopa-gokula-nandanaḥ . anena sarva-durgāṇi yūyam añjas tariṣyatha .. 19 ..
पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः ॥ २० ॥
पुरा अनेन व्रज-पते साधवः दस्यु-पीडिताः । अराजके रक्ष्यमाणाः जिग्युः दस्यून् समेधिताः ॥ २० ॥
purā anena vraja-pate sādhavaḥ dasyu-pīḍitāḥ . arājake rakṣyamāṇāḥ jigyuḥ dasyūn samedhitāḥ .. 20 ..
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१ ॥
ये एतस्मिन् महाभागाः प्रीतिम् कुर्वन्ति मानवाः । न अरयः अभिभवन्ति एतान् विष्णु-पक्षान् इव असुराः ॥ २१ ॥
ye etasmin mahābhāgāḥ prītim kurvanti mānavāḥ . na arayaḥ abhibhavanti etān viṣṇu-pakṣān iva asurāḥ .. 21 ..
तस्मान् नन्द कुमारोऽयं नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ २२ ॥
तस्मात् नन्द कुमारः अयम् नारायण-समः गुणैः । श्रिया कीर्त्या अनुभावेन तद्-कर्मसु न विस्मयः ॥ २२ ॥
tasmāt nanda kumāraḥ ayam nārāyaṇa-samaḥ guṇaiḥ . śriyā kīrtyā anubhāvena tad-karmasu na vismayaḥ .. 22 ..
इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते । मन्ये नारायणस्यांशं कृष्णं अक्लिष्टकारिणम् ॥ २३ ॥
इति अद्धा माम् समादिश्य गर्गे च स्व-गृहम् गते । मन्ये नारायणस्य अंशम् कृष्णम् अक्लिष्ट-कारिणम् ॥ २३ ॥
iti addhā mām samādiśya garge ca sva-gṛham gate . manye nārāyaṇasya aṃśam kṛṣṇam akliṣṭa-kāriṇam .. 23 ..
इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः । दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः । मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४ ॥
इति नन्द-वचः श्रुत्वा गर्ग-गीतम् व्रज-ओकसः । दृष्ट-श्रुत-अनुभावाः ते कृष्णस्य अमित-तेजसः । मुदिताः कृष्णम् च गत-विस्मयाः ॥ २४ ॥
iti nanda-vacaḥ śrutvā garga-gītam vraja-okasaḥ . dṛṣṭa-śruta-anubhāvāḥ te kṛṣṇasya amita-tejasaḥ . muditāḥ kṛṣṇam ca gata-vismayāḥ .. 24 ..
( शार्दूलविक्रीडित )
देवे वर्षति यज्ञविप्लवरुषा वज्रास्मवर्षानिलैः । सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् । उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा । बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् प्रीयान्न इन्द्रो गवाम् ॥ २५ ॥
देवे वर्षति यज्ञ-विप्लव-रुषा वज्र-अस्म-वर्ष-अनिलैः । सीदत्-पाल-पशुः त्रि आत्म-शरणम् दृष्ट्वा अनुकम्पी उत्स्मयन् । उत्पाट्य एक-करेण शैलम् अबलः लीला-उच्छिलीन्ध्रम् यथा । बिभ्रत् गोष्ठम् अपात् महा-इन्द्रम् अद-भिद् प्रीयात् नः इन्द्रः गवाम् ॥ २५ ॥
deve varṣati yajña-viplava-ruṣā vajra-asma-varṣa-anilaiḥ . sīdat-pāla-paśuḥ tri ātma-śaraṇam dṛṣṭvā anukampī utsmayan . utpāṭya eka-kareṇa śailam abalaḥ līlā-ucchilīndhram yathā . bibhrat goṣṭham apāt mahā-indram ada-bhid prīyāt naḥ indraḥ gavām .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः ॥ २६ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे षड्विंशः अध्यायः ॥ २६ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ṣaḍviṃśaḥ adhyāyaḥ .. 26 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In