| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ १ ॥
evaṃvidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te . atadvīryavidaḥ procuḥ samabhyetya suvismitāḥ .. 1 ..
बालकस्य यदेतानि कर्माणि अति अद्भुतानि वै । कथमर्हत्यसौ जन्म ग्राम्येष्वात्मजुगुप्सितम् ॥ २ ॥
bālakasya yadetāni karmāṇi ati adbhutāni vai . kathamarhatyasau janma grāmyeṣvātmajugupsitam .. 2 ..
यः सप्तहायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरिवरं पुष्करं गजराडिव ॥ ३ ॥
yaḥ saptahāyano bālaḥ kareṇaikena līlayā . kathaṃ bibhrad girivaraṃ puṣkaraṃ gajarāḍiva .. 3 ..
तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस्तनोः ॥ ४ ॥
tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ . pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayastanoḥ .. 4 ..
हिन्वतोऽधः शयानस्य मास्यस्य चरणावुदक् । अनोऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ ५ ॥
hinvato'dhaḥ śayānasya māsyasya caraṇāvudak . ano'patad viparyastaṃ rudataḥ prapadāhatam .. 5 ..
एकहायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस्तृणावर्त महन् कण्ठग्रहातुरम् ॥ ६ ॥
ekahāyana āsīno hriyamāṇo vihāyasā . daityena yastṛṇāvarta mahan kaṇṭhagrahāturam .. 6 ..
क्वचिद् हैयङ्गवस्तैन्ये मात्रा बद्ध उलूखले । गच्छन् अर्जुनयोर्मध्ये बाहुभ्यां तावपातयत् ॥ ७ ॥
kvacid haiyaṅgavastainye mātrā baddha ulūkhale . gacchan arjunayormadhye bāhubhyāṃ tāvapātayat .. 7 ..
वने सञ्चारयन् वत्सान् सरामो बालकैर्वृतः । हन्तुकामं बकं दोर्भ्यां मुखतोऽरिमपाटयत् ॥ ८ ॥
vane sañcārayan vatsān sarāmo bālakairvṛtaḥ . hantukāmaṃ bakaṃ dorbhyāṃ mukhato'rimapāṭayat .. 8 ..
वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत्तेन कपित्थानि च लीलया ॥ ९ ॥
vatseṣu vatsarūpeṇa praviśantaṃ jighāṃsayā . hatvā nyapātayattena kapitthāni ca līlayā .. 9 ..
हत्वा रासभदैतेयं तद्बन्धूंश्च बलान्वितः । चक्रे तालवनं क्षेमं परिपक्व फलान्वितम् ॥ १० ॥
hatvā rāsabhadaiteyaṃ tadbandhūṃśca balānvitaḥ . cakre tālavanaṃ kṣemaṃ paripakva phalānvitam .. 10 ..
प्रलम्बं घातयित्वोग्रं बलेन बलशालिना । अमोचयद् व्रजपशून् गोपांश्चारण्यवह्नितः ॥ ११ ॥
pralambaṃ ghātayitvograṃ balena balaśālinā . amocayad vrajapaśūn gopāṃścāraṇyavahnitaḥ .. 11 ..
आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् । प्रसह्योद्वास्य यमुनां चक्रेऽसौ निर्विषोदकाम् ॥ १२ ॥
āśīviṣatamāhīndraṃ damitvā vimadaṃ hradāt . prasahyodvāsya yamunāṃ cakre'sau nirviṣodakām .. 12 ..
दुस्त्यजश्चानुरागोऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनयेऽस्मासु तस्याप्यौत्पत्तिकः कथम् ॥ १३ ॥
dustyajaścānurāgo'smin sarveṣāṃ no vrajaukasām . nanda te tanaye'smāsu tasyāpyautpattikaḥ katham .. 13 ..
क्व सप्तहायनो बालः क्व महाद्रिविधारणम् । ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ १४ ॥
kva saptahāyano bālaḥ kva mahādrividhāraṇam . tato no jāyate śaṅkā vrajanātha tavātmaje .. 14 ..
श्रीनन्द उवाच -
श्रूयतां मे वचो गोपा व्येतु शङ्का च वोऽर्भके । एनं कुमारमुद्दिश्य गर्गो मे यदुवाच ह ॥ १५ ॥
śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo'rbhake . enaṃ kumāramuddiśya gargo me yaduvāca ha .. 15 ..
वर्णास्त्रयः किलास्यासन् गृह्णतोऽनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥ १६ ॥
varṇāstrayaḥ kilāsyāsan gṛhṇato'nuyugaṃ tanūḥ . śuklo raktastathā pīta idānīṃ kṛṣṇatāṃ gataḥ .. 16 ..
प्रागयं वसुदेवस्य क्वचित् जातः तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ १७ ॥
prāgayaṃ vasudevasya kvacit jātaḥ tavātmajaḥ . vāsudeva iti śrīmān abhijñāḥ sampracakṣate .. 17 ..
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण कर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १८ ॥
bahūni santi nāmāni rūpāṇi ca sutasya te . guṇa karmānurūpāṇi tānyahaṃ veda no janāḥ .. 18 ..
एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १९ ॥
eṣa vaḥ śreya ādhāsyad gopagokulanandanaḥ . anena sarvadurgāṇi yūyamañjastariṣyatha .. 19 ..
पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर्दस्यून्समेधिताः ॥ २० ॥
purānena vrajapate sādhavo dasyupīḍitāḥ . arājake rakṣyamāṇā jigyurdasyūnsamedhitāḥ .. 20 ..
य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोऽभिभवन्त्येतान् विष्णुपक्षानिवासुराः ॥ २१ ॥
ya etasmin mahābhāgāḥ prītiṃ kurvanti mānavāḥ . nārayo'bhibhavantyetān viṣṇupakṣānivāsurāḥ .. 21 ..
तस्मान् नन्द कुमारोऽयं नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ २२ ॥
tasmān nanda kumāro'yaṃ nārāyaṇasamo guṇaiḥ . śriyā kīrtyānubhāvena tatkarmasu na vismayaḥ .. 22 ..
इत्यद्धा मां समादिश्य गर्गे च स्वगृहं गते । मन्ये नारायणस्यांशं कृष्णं अक्लिष्टकारिणम् ॥ २३ ॥
ityaddhā māṃ samādiśya garge ca svagṛhaṃ gate . manye nārāyaṇasyāṃśaṃ kṛṣṇaṃ akliṣṭakāriṇam .. 23 ..
इति नन्दवचः श्रुत्वा गर्गगीतं व्रजौकसः । दृष्टश्रुतानुभावास्ते कृष्णस्यामिततेजसः । मुदिता नन्दमानर्चुः कृष्णं च गतविस्मयाः ॥ २४ ॥
iti nandavacaḥ śrutvā gargagītaṃ vrajaukasaḥ . dṛṣṭaśrutānubhāvāste kṛṣṇasyāmitatejasaḥ . muditā nandamānarcuḥ kṛṣṇaṃ ca gatavismayāḥ .. 24 ..
( शार्दूलविक्रीडित )
देवे वर्षति यज्ञविप्लवरुषा वज्रास्मवर्षानिलैः । सीदत्पालपशुस्त्रि आत्मशरणं दृष्ट्वानुकम्प्युत्स्मयन् । उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा । बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् प्रीयान्न इन्द्रो गवाम् ॥ २५ ॥
deve varṣati yajñaviplavaruṣā vajrāsmavarṣānilaiḥ . sīdatpālapaśustri ātmaśaraṇaṃ dṛṣṭvānukampyutsmayan . utpāṭyaikakareṇa śailamabalo līlocchilīndhraṃ yathā . bibhrad goṣṭhamapānmahendramadabhit prīyānna indro gavām .. 25 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षड्विंशोऽध्यायः ॥ २६ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe ṣaḍviṃśo'dhyāyaḥ .. 26 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In