| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकादाव्रजज् कृष्णं सुरभिः शक्र एव च ॥ १ ॥
गोवर्धने धृते शैले आसारात् रक्षिते व्रजे । गो लोकात् आव्रजत् कृष्णम् सुरभिः शक्रः एव च ॥ १ ॥
govardhane dhṛte śaile āsārāt rakṣite vraje . go lokāt āvrajat kṛṣṇam surabhiḥ śakraḥ eva ca .. 1 ..
विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः । पस्पर्श पादयोरेनं किरीटेनार्कवर्चसा ॥ २ ॥
विविक्ते उपसङ्गम्य कृत-हेलनः । पस्पर्श पादयोः एनम् किरीटेन अर्क-वर्चसा ॥ २ ॥
vivikte upasaṅgamya kṛta-helanaḥ . pasparśa pādayoḥ enam kirīṭena arka-varcasā .. 2 ..
दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ॥ ३ ॥
दृष्ट-श्रुत-अनुभावः अस्य कृष्णस्य अमित-तेजसः । नष्ट-त्रिलोक-ईश-मदः इदम् आह कृताञ्जलिः ॥ ३ ॥
dṛṣṭa-śruta-anubhāvaḥ asya kṛṣṇasya amita-tejasaḥ . naṣṭa-triloka-īśa-madaḥ idam āha kṛtāñjaliḥ .. 3 ..
इन्द्र उवाच - ( मिश्र )
विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ॥ ४ ॥
विशुद्ध-सत्त्वम् तव धाम शान्तम् तपः-मयम् ध्वस्त-रजः-तमस्कम् । माया-मयः अयम् गुण-सम्प्रवाहः न विद्यते ते ग्रहण-अनुबन्धः ॥ ४ ॥
viśuddha-sattvam tava dhāma śāntam tapaḥ-mayam dhvasta-rajaḥ-tamaskam . māyā-mayaḥ ayam guṇa-sampravāhaḥ na vidyate te grahaṇa-anubandhaḥ .. 4 ..
कुतो नु तद्धेतव ईश तत्कृता लोभादयो येऽबुधलिन्गभावाः । तथापि दण्डं भगवान्बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ ५ ॥
कुतस् नु तद्-हेतवः ईश तद्-कृताः लोभ-आदयः ये अबुध-लिन्ग-भावाः । तथा अपि दण्डम् भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ ५ ॥
kutas nu tad-hetavaḥ īśa tad-kṛtāḥ lobha-ādayaḥ ye abudha-linga-bhāvāḥ . tathā api daṇḍam bhagavān bibharti dharmasya guptyai khala-nigrahāya .. 5 ..
पिता गुरुस्त्वं जगतामधीशो दुरत्ययः काल उपात्तदण्डः । हिताय स्वेच्छातनुभिः समीहसे मानं विधुन्वन् जगदीशमानिनाम् ॥ ६ ॥
पिता गुरुः त्वम् जगताम् अधीशः दुरत्ययः कालः उपात्त-दण्डः । हिताय स्व-इच्छा-तनुभिः समीहसे मानम् विधुन्वन् जगदीश-मानिनाम् ॥ ६ ॥
pitā guruḥ tvam jagatām adhīśaḥ duratyayaḥ kālaḥ upātta-daṇḍaḥ . hitāya sva-icchā-tanubhiḥ samīhase mānam vidhunvan jagadīśa-māninām .. 6 ..
( इंद्रवंशा )
ये मद्विधाज्ञा जगदीशमानिनः त्वां वीक्ष्य कालेऽभयमाशु तन्मदम् । हित्वाऽऽर्यमार्गं प्रभजन्त्यपस्मया ईहा खलानामपि तेऽनुशासनम् ॥ ७ ॥
ये मद्विध-आज्ञाः जगदीश-मानिनः त्वाम् वीक्ष्य काले अभयम् आशु तद्-मदम् । हित्वा आर्य-मार्गम् प्रभजन्ति अपस्मयाः ईहा खलानाम् अपि ते अनुशासनम् ॥ ७ ॥
ye madvidha-ājñāḥ jagadīśa-māninaḥ tvām vīkṣya kāle abhayam āśu tad-madam . hitvā ārya-mārgam prabhajanti apasmayāḥ īhā khalānām api te anuśāsanam .. 7 ..
( मिश्र )
स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस्तेऽविदुषः प्रभावम् । क्षन्तुं प्रभोऽथार्हसि मूढचेतसो मैवं पुनर्भून्मतिरीश मेऽसती ॥ ८ ॥
स त्वम् मम ऐश्वर्य-मद-प्लुतस्य कृत-आगसः ते अ विदुषः प्रभावम् । क्षन्तुम् प्रभो अथा अर्हसि मूढ-चेतसः मा एवम् पुनर् भूत् मतिः ईश मे असती ॥ ८ ॥
sa tvam mama aiśvarya-mada-plutasya kṛta-āgasaḥ te a viduṣaḥ prabhāvam . kṣantum prabho athā arhasi mūḍha-cetasaḥ mā evam punar bhūt matiḥ īśa me asatī .. 8 ..
तवावतारोऽयमधोक्षजेह भुवो भराणां उरुभारजन्मनाम् । चमूपतीनामभवाय देव भवाय युष्मत् चरणानुवर्तिनाम् ॥ ९ ॥
तव अवतारः अयम् अधोक्षज इह भुवः भराणाम् उरु-भार-जन्मनाम् । चमूपतीनाम् अभवाय देव भवाय युष्मत् चरण-अनुवर्तिनाम् ॥ ९ ॥
tava avatāraḥ ayam adhokṣaja iha bhuvaḥ bharāṇām uru-bhāra-janmanām . camūpatīnām abhavāya deva bhavāya yuṣmat caraṇa-anuvartinām .. 9 ..
( अनुष्टुप् )
नमस्तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ १० ॥
नमः तुभ्यम् भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वताम् पतये नमः ॥ १० ॥
namaḥ tubhyam bhagavate puruṣāya mahātmane . vāsudevāya kṛṣṇāya sātvatām pataye namaḥ .. 10 ..
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ ११ ॥
स्वच्छन्द-उपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये । सर्वस्मै सर्व-बीजाय सर्व-भूत-आत्मने नमः ॥ ११ ॥
svacchanda-upātta-dehāya viśuddha-jñāna-mūrtaye . sarvasmai sarva-bījāya sarva-bhūta-ātmane namaḥ .. 11 ..
मयेदं भगवन् गोष्ठ नाशायासारवायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ १२ ॥
मया इदम् भगवन् गोष्ठ नाशाय असार-वायुभिः । चेष्टितम् विहते यज्ञे मानिना तीव्र-मन्युना ॥ १२ ॥
mayā idam bhagavan goṣṭha nāśāya asāra-vāyubhiḥ . ceṣṭitam vihate yajñe māninā tīvra-manyunā .. 12 ..
त्वयेशानुगृहीतोऽस्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वरं गुरुमात्मानं त्वामहं शरणं गतः ॥ १३ ॥
त्वया ईश अनुगृहीतः अस्मि ध्वस्त-स्तम्भः वृथक् उद्यमः । ईश्वरम् गुरुम् आत्मानम् त्वाम् अहम् शरणम् गतः ॥ १३ ॥
tvayā īśa anugṛhītaḥ asmi dhvasta-stambhaḥ vṛthak udyamaḥ . īśvaram gurum ātmānam tvām aham śaraṇam gataḥ .. 13 ..
श्रीशुक उवाच -
एवं सङ्कीर्तितः कृष्णो मघोना भगवानमुम् । मेघगम्भीरया वाचा प्रहसन् इदमब्रवीत् ॥ १४ ॥
एवम् सङ्कीर्तितः कृष्णः मघोना भगवान् अमुम् । मेघ-गम्भीरया वाचा प्रहसन् इदम् अब्रवीत् ॥ १४ ॥
evam saṅkīrtitaḥ kṛṣṇaḥ maghonā bhagavān amum . megha-gambhīrayā vācā prahasan idam abravīt .. 14 ..
श्रीभगवानुवाच -
मया तेऽकारि मघवन् मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ १५ ॥
मया ते अकारि मघवन् मख-भङ्गः अनुगृह्णता । मद्-अनुस्मृतये नित्यम् मत्तस्य इन्द्र-श्रिया भृशम् ॥ १५ ॥
mayā te akāri maghavan makha-bhaṅgaḥ anugṛhṇatā . mad-anusmṛtaye nityam mattasya indra-śriyā bhṛśam .. 15 ..
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ॥ १६ ॥
माम् ऐश्वर्य-श्री-मद-अन्धः दण्ड-पाणिम् न पश्यति । तम् भ्रंशयामि सम्पद्भ्यः यस्य च इच्छामि अनुग्रहम् ॥ १६ ॥
mām aiśvarya-śrī-mada-andhaḥ daṇḍa-pāṇim na paśyati . tam bhraṃśayāmi sampadbhyaḥ yasya ca icchāmi anugraham .. 16 ..
गम्यतां शक्र भद्रं वः क्रियतां मेऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर्वः स्तम्भवर्जितैः ॥ १७ ॥
गम्यताम् शक्र भद्रम् वः क्रियताम् मे अनुशासनम् । स्थीयताम् स्व-अधिकारेषु युक्तैः वः स्तम्भ-वर्जितैः ॥ १७ ॥
gamyatām śakra bhadram vaḥ kriyatām me anuśāsanam . sthīyatām sva-adhikāreṣu yuktaiḥ vaḥ stambha-varjitaiḥ .. 17 ..
अथाह सुरभिः कृष्णं अभिवन्द्य मनस्विनी । स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम् ॥ १८ ॥
अथ आह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी । स्व-सन्तानैः उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ १८ ॥
atha āha surabhiḥ kṛṣṇam abhivandya manasvinī . sva-santānaiḥ upāmantrya gopa-rūpiṇam īśvaram .. 18 ..
सुरभिरुवाच -
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव । भवता लोकनाथेन सनाथा वयमच्युत ॥ १९ ॥
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्व-सम्भव । भवता लोकनाथेन स नाथाः वयम् अच्युत ॥ १९ ॥
kṛṣṇa kṛṣṇa mahāyogin viśvātman viśva-sambhava . bhavatā lokanāthena sa nāthāḥ vayam acyuta .. 19 ..
त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते । भवाय भव गोविप्र देवानां ये च साधवः ॥ २० ॥
त्वम् नः परमकम् दैवम् त्वम् नः इन्द्रः जगत्पते । भवाय भव गो-विप्र देवानाम् ये च साधवः ॥ २० ॥
tvam naḥ paramakam daivam tvam naḥ indraḥ jagatpate . bhavāya bhava go-vipra devānām ye ca sādhavaḥ .. 20 ..
इन्द्रं नस्त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् । अवतीर्णोऽसि विश्वात्मम् भूमेर्भारापनुत्तये ॥ २१ ॥
इन्द्रम् नः त्वा अभिषेक्ष्यामः ब्रह्मणा चोदिताः वयम् । अवतीर्णः असि विश्वात्मम् भूमेः भार-अपनुत्तये ॥ २१ ॥
indram naḥ tvā abhiṣekṣyāmaḥ brahmaṇā coditāḥ vayam . avatīrṇaḥ asi viśvātmam bhūmeḥ bhāra-apanuttaye .. 21 ..
श्रीशुक उवाच -
एवं कृष्णमुपामन्त्र्य सुरभिः पयसात्मनः । जलैराकाशगङ्गाया ऐरावतकरोद्धृतैः ॥ २२ ॥
एवम् कृष्णम् उपामन्त्र्य सुरभिः पयसा आत्मनः । जलैः आकाशगङ्गायाः ऐरावत-कर-उद्धृतैः ॥ २२ ॥
evam kṛṣṇam upāmantrya surabhiḥ payasā ātmanaḥ . jalaiḥ ākāśagaṅgāyāḥ airāvata-kara-uddhṛtaiḥ .. 22 ..
इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ २३ ॥
इन्द्रः सुर-ऋषिभिः साकम् चोदितः देव-मातृभिः । अभ्यसिञ्चत दाशार्हम् गोविन्दः इति च अभ्यधात् ॥ २३ ॥
indraḥ sura-ṛṣibhiḥ sākam coditaḥ deva-mātṛbhiḥ . abhyasiñcata dāśārham govindaḥ iti ca abhyadhāt .. 23 ..
( मिश्र )
तत्रागतास्तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः । जगुर्यशो लोकमलापहं हरेः सुराङ्गनाः संननृतुर्मुदान्विताः ॥ २४ ॥
तत्र आगताः तुम्बुरु-नारद-आदयः गन्धर्व-विद्याधर-सिद्ध-चारणाः । जगुः यशः लोक-मल-अपहम् हरेः सुर-अङ्गनाः संननृतुः मुदा अन्विताः ॥ २४ ॥
tatra āgatāḥ tumburu-nārada-ādayaḥ gandharva-vidyādhara-siddha-cāraṇāḥ . jaguḥ yaśaḥ loka-mala-apaham hareḥ sura-aṅganāḥ saṃnanṛtuḥ mudā anvitāḥ .. 24 ..
तं तुष्टुवुर्देवनिकायकेतवो व्यवाकिरन् चाद्भुतपुष्पवृष्टिभिः । लोकाः परां निर्वृतिमाप्नुवंस्त्रयो गावस्तदा गामनयन् पयोद्रुताम् ॥ २५ ॥
तम् तुष्टुवुः देव-निकाय-केतवः व्यवाकिरन् च अद्भुत-पुष्प-वृष्टिभिः । लोकाः पराम् निर्वृतिम् आप्नुवन् त्रयः गावः तदा गाम् अनयन् पयः-द्रुताम् ॥ २५ ॥
tam tuṣṭuvuḥ deva-nikāya-ketavaḥ vyavākiran ca adbhuta-puṣpa-vṛṣṭibhiḥ . lokāḥ parām nirvṛtim āpnuvan trayaḥ gāvaḥ tadā gām anayan payaḥ-drutām .. 25 ..
( अनुष्टुप् )
नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः । अकृष्टपच्यौषधयो गिरयोऽबिभ्रदुन्मणीन् ॥ २६ ॥
नाना रस-ओघाः सरितः वृक्षाः आसन् मधु-स्रवाः । अ कृष्ट-पच्य-ओषधयः गिरयः अबिभ्रत् उन्मणीन् ॥ २६ ॥
nānā rasa-oghāḥ saritaḥ vṛkṣāḥ āsan madhu-sravāḥ . a kṛṣṭa-pacya-oṣadhayaḥ girayaḥ abibhrat unmaṇīn .. 26 ..
कृष्णेऽभिषिक्त एतानि सत्त्वानि कुरुनन्दन । निर्वैराण्यभवंस्तात क्रूराण्यपि निसर्गतः ॥ २७ ॥
कृष्णे अभिषिक्ते एतानि सत्त्वानि कुरु-नन्दन । निर्वैराणि अभवन् तात क्रूराणि अपि निसर्गतः ॥ २७ ॥
kṛṣṇe abhiṣikte etāni sattvāni kuru-nandana . nirvairāṇi abhavan tāta krūrāṇi api nisargataḥ .. 27 ..
इति गोगोकुलपतिं गोविन्दमभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर्दिवम् ॥ २८ ॥
इति गो गोकुल-पतिम् गोविन्दम् अभिषिच्य सः । अनुज्ञातः ययौ शक्रः वृतः देव-आदिभिः दिवम् ॥ २८ ॥
iti go gokula-patim govindam abhiṣicya saḥ . anujñātaḥ yayau śakraḥ vṛtaḥ deva-ādibhiḥ divam .. 28 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तविंशोऽध्यायः ॥ २७ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे सप्तविंशः अध्यायः ॥ २७ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe saptaviṃśaḥ adhyāyaḥ .. 27 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In