| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत् ॥ १ ॥
एकादश्याम् निराहारः समभ्यर्च्य जनार्दनम् । स्नातुम् नन्दः तु कालिन्द्याम् द्वादश्याम् जलम् आविशत् ॥ १ ॥
ekādaśyām nirāhāraḥ samabhyarcya janārdanam . snātum nandaḥ tu kālindyām dvādaśyām jalam āviśat .. 1 ..
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि ॥ २ ॥
तम् गृहीत्वा अनयत् भृत्यः वरुणस्य असुरः अन्तिकम् । अवज्ञाय आसुरीम् वेलाम् प्रविष्टम् उदकम् निशि ॥ २ ॥
tam gṛhītvā anayat bhṛtyaḥ varuṇasya asuraḥ antikam . avajñāya āsurīm velām praviṣṭam udakam niśi .. 2 ..
चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् । तदन्तिकं गतो राजन् स्वानामभयदो विभुः ॥ ३ ॥
चुक्रुशुः तम् अपश्यन्तः कृष्ण राम इति गोपकाः । भगवान् तत् उपश्रुत्य पितरम् वरुण-आहृतम् । तद्-अन्तिकम् गतः राजन् स्वानाम् अभय-दः विभुः ॥ ३ ॥
cukruśuḥ tam apaśyantaḥ kṛṣṇa rāma iti gopakāḥ . bhagavān tat upaśrutya pitaram varuṇa-āhṛtam . tad-antikam gataḥ rājan svānām abhaya-daḥ vibhuḥ .. 3 ..
प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया । महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः ॥ ४ ॥
प्राप्तम् वीक्ष्य हृषीकेशम् लोकपालः सपर्यया । महत्या पूजयित्वा आह तद्-दर्शन-महा-उत्सवः ॥ ४ ॥
prāptam vīkṣya hṛṣīkeśam lokapālaḥ saparyayā . mahatyā pūjayitvā āha tad-darśana-mahā-utsavaḥ .. 4 ..
श्रीवरुण उवाच -
अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो । त्वत्पादभाजो भगवन् अवापुः पारमध्वनः ॥ ५ ॥
अद्य मे निभृतः देहः अद्य एव अर्थः अधिगतः प्रभो । त्वद्-पाद-भाजः भगवन् अवापुः पारम् अध्वनः ॥ ५ ॥
adya me nibhṛtaḥ dehaḥ adya eva arthaḥ adhigataḥ prabho . tvad-pāda-bhājaḥ bhagavan avāpuḥ pāram adhvanaḥ .. 5 ..
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ ६ ॥
नमः तुभ्यम् भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥ ६ ॥
namaḥ tubhyam bhagavate brahmaṇe paramātmane . na yatra śrūyate māyā loka-sṛṣṭi-vikalpanā .. 6 ..
अजानता मामकेन मूढेनाकार्यवेदिना । आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति ॥ ७ ॥
अ जानता मामकेन मूढेन अकार्य-वेदिना । आनीतः अयम् तव पिता तत् भवान् क्षन्तुम् अर्हति ॥ ७ ॥
a jānatā māmakena mūḍhena akārya-vedinā . ānītaḥ ayam tava pitā tat bhavān kṣantum arhati .. 7 ..
ममाप्यनुग्रहं कृष्ण कर्तुं अर्हस्यशेषदृक् । गोविन्द नीयतामेष पिता ते पितृवत्सल ॥ ८ ॥
मम अपि अनुग्रहम् कृष्ण कर्तुम् अर्हसि अशेष-दृश् । गोविन्द नीयताम् एष पिता ते पितृ-वत्सल ॥ ८ ॥
mama api anugraham kṛṣṇa kartum arhasi aśeṣa-dṛś . govinda nīyatām eṣa pitā te pitṛ-vatsala .. 8 ..
श्रीशुक उवाच -
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः । आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ॥ ९ ॥
एवम् प्रसादितः कृष्णः भगवान् ईश्वर-ईश्वरः । आदाय आगात् स्व-पितरम् बन्धूनाम् च अवहत् मुदम् ॥ ९ ॥
evam prasāditaḥ kṛṣṇaḥ bhagavān īśvara-īśvaraḥ . ādāya āgāt sva-pitaram bandhūnām ca avahat mudam .. 9 ..
नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत् ॥ १० ॥
नन्दः तु अतीन्द्रियम् दृष्ट्वा लोकपाल-महोदयम् । कृष्णे च सन्नतिम् तेषाम् ज्ञातिभ्यः विस्मितः अब्रवीत् ॥ १० ॥
nandaḥ tu atīndriyam dṛṣṭvā lokapāla-mahodayam . kṛṣṇe ca sannatim teṣām jñātibhyaḥ vismitaḥ abravīt .. 10 ..
ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् । अपि नः स्वगतिं सूक्ष्मां उपाधास्यदधीश्वरः ॥ ११ ॥
ते च औत्सुक्य-धियः राजन् मत्वा गोपाः तम् ईश्वरम् । अपि नः स्वगतिम् सूक्ष्माम् उपाधास्यत् अधि ईश्वरः ॥ ११ ॥
te ca autsukya-dhiyaḥ rājan matvā gopāḥ tam īśvaram . api naḥ svagatim sūkṣmām upādhāsyat adhi īśvaraḥ .. 11 ..
इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत् ॥ १२ ॥
इति स्वानाम् स भगवान् विज्ञाय अखिल-दृश् स्वयम् । सङ्कल्प-सिद्धये तेषाम् कृपया एतत् अचिन्तयत् ॥ १२ ॥
iti svānām sa bhagavān vijñāya akhila-dṛś svayam . saṅkalpa-siddhaye teṣām kṛpayā etat acintayat .. 12 ..
जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ १३ ॥
जनः वै लोके एतस्मिन् अविद्या-काम-कर्मभिः । उच्चावचासु गतिषु न वेद स्वाम् गतिम् भ्रमन् ॥ १३ ॥
janaḥ vai loke etasmin avidyā-kāma-karmabhiḥ . uccāvacāsu gatiṣu na veda svām gatim bhraman .. 13 ..
इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ १४ ॥
इति सञ्चिन्त्य भगवान् महा-कारुणिकः हरिः । दर्शयामास लोकम् स्वम् गोपानाम् तमसः परम् ॥ १४ ॥
iti sañcintya bhagavān mahā-kāruṇikaḥ hariḥ . darśayāmāsa lokam svam gopānām tamasaḥ param .. 14 ..
सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ १५ ॥
सत्यम् ज्ञानम् अनन्तम् यत् ब्रह्म ज्योतिः सनातनम् । यत् हि पश्यन्ति मुनयः गुण-अपाये समाहिताः ॥ १५ ॥
satyam jñānam anantam yat brahma jyotiḥ sanātanam . yat hi paśyanti munayaḥ guṇa-apāye samāhitāḥ .. 15 ..
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥ १६ ॥
ते तु ब्रह्मह्रदम् नीताः मग्नाः कृष्णेन च उद्धृताः । ददृशुः ब्रह्मणः लोकम् यत्र अक्रूरः अध्यगात् पुरा ॥ १६ ॥
te tu brahmahradam nītāḥ magnāḥ kṛṣṇena ca uddhṛtāḥ . dadṛśuḥ brahmaṇaḥ lokam yatra akrūraḥ adhyagāt purā .. 16 ..
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः । कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ १७ ॥
नन्द-आदयः तु तम् दृष्ट्वा परम-आनन्द-निवृताः । कृष्णम् च तत्र छन्दोभिः स्तूयमानम् सु विस्मिताः ॥ १७ ॥
nanda-ādayaḥ tu tam dṛṣṭvā parama-ānanda-nivṛtāḥ . kṛṣṇam ca tatra chandobhiḥ stūyamānam su vismitāḥ .. 17 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः ॥ २८ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे अष्टाविंशः अध्यायः ॥ २८ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe aṣṭāviṃśaḥ adhyāyaḥ .. 28 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In