| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥
भगवान् अपि ताः रात्रीः शरदा उत्फुल्ल-मल्लिकाः । वीक्ष्य रन्तुम् मनः चक्रे योग-मायाम् उपाश्रितः ॥ १ ॥
bhagavān api tāḥ rātrīḥ śaradā utphulla-mallikāḥ . vīkṣya rantum manaḥ cakre yoga-māyām upāśritaḥ .. 1 ..
( मिश्र )
तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः । स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥
तदा उडुराजः ककुभः करैः मुखम् प्राच्याः विलिम्पन् अरुणेन शन्तमैः । स चर्षणीनाम् उदगात् शुचः मृजन् प्रियः प्रियायाः इव दीर्घ-दर्शनः ॥ २ ॥
tadā uḍurājaḥ kakubhaḥ karaiḥ mukham prācyāḥ vilimpan aruṇena śantamaiḥ . sa carṣaṇīnām udagāt śucaḥ mṛjan priyaḥ priyāyāḥ iva dīrgha-darśanaḥ .. 2 ..
दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् । वनं च तत्कोमलगोभी रञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥
दृष्ट्वा कुमुद्वन्तम् अखण्ड-मण्डलम् रमा-आनन-आभम् नव-कुङ्कुम-अरुणम् । वनम् च तत् कोमल-गोभिः रञ्जितम् जगौ कलम् वाम-दृशाम् मनोहरम् ॥ ३ ॥
dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalam ramā-ānana-ābham nava-kuṅkuma-aruṇam . vanam ca tat komala-gobhiḥ rañjitam jagau kalam vāma-dṛśām manoharam .. 3 ..
निशम्य गीतां तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥
निशम्य गीताम् तत् अनङ्ग-वर्धनम् व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः । आजग्मुः अन्योन्यम् अलक्षित-उद्यमाः स यत्र कान्तः जव-लोल-कुण्डलाः ॥ ४ ॥
niśamya gītām tat anaṅga-vardhanam vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ . ājagmuḥ anyonyam alakṣita-udyamāḥ sa yatra kāntaḥ java-lola-kuṇḍalāḥ .. 4 ..
( अनुष्टुप् )
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयोऽधिश्रित्य संयावं अनुद्वास्यापरा ययुः ॥ ५ ॥
दुहन्त्यः अभिययुः काश्चिद् दोहम् हित्वा समुत्सुकाः । पयः अधिश्रित्य संयावम् अन् उद्वास्य अपराः ययुः ॥ ५ ॥
duhantyaḥ abhiyayuḥ kāścid doham hitvā samutsukāḥ . payaḥ adhiśritya saṃyāvam an udvāsya aparāḥ yayuḥ .. 5 ..
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥
परिवेषयन्त्यः तत् हित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्यः अपास्य भोजनम् ॥ ६ ॥
pariveṣayantyaḥ tat hitvā pāyayantyaḥ śiśūn payaḥ . śuśrūṣantyaḥ patīn kāścid aśnantyaḥ apāsya bhojanam .. 6 ..
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ ७ ॥
लिम्पन्त्यः प्रमृजन्त्यः अन्याः अञ्जन्त्यः काः च लोचने । व्यत्यस्त-वस्त्र-आभरणाः काश्चिद् कृष्ण-अन्तिकम् ययुः ॥ ७ ॥
limpantyaḥ pramṛjantyaḥ anyāḥ añjantyaḥ kāḥ ca locane . vyatyasta-vastra-ābharaṇāḥ kāścid kṛṣṇa-antikam yayuḥ .. 7 ..
ता वार्यमाणाः पतिभिः पितृभिः भ्रातृबन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥
ताः वार्यमाणाः पतिभिः पितृभिः भ्रातृ-बन्धुभिः । गोविन्द-अपहृत-आत्मानः न न्यवर्तन्त मोहिताः ॥ ८ ॥
tāḥ vāryamāṇāḥ patibhiḥ pitṛbhiḥ bhrātṛ-bandhubhiḥ . govinda-apahṛta-ātmānaḥ na nyavartanta mohitāḥ .. 8 ..
अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः ॥ ९ ॥
अन्तर्गृह-गताः काश्चिद् गोप्यः अलब्ध-विनिर्गमाः । कृष्णम् तद्-भावना-युक्ताः दध्युः मीलित-लोचनाः ॥ ९ ॥
antargṛha-gatāḥ kāścid gopyaḥ alabdha-vinirgamāḥ . kṛṣṇam tad-bhāvanā-yuktāḥ dadhyuḥ mīlita-locanāḥ .. 9 ..
दुःसहप्रेष्ठविरह तीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेष निर्वृत्या क्षीणमङ्गलाः ॥ १० ॥
दुःसह-प्रेष्ठ-विरह तीव्र-ताप-धुत-अशुभाः । ध्यान-प्राप्त-अच्युत-आश्लेष निर्वृत्या क्षीण-मङ्गलाः ॥ १० ॥
duḥsaha-preṣṭha-viraha tīvra-tāpa-dhuta-aśubhāḥ . dhyāna-prāpta-acyuta-āśleṣa nirvṛtyā kṣīṇa-maṅgalāḥ .. 10 ..
तमेव परमात्मानं जारबुद्ध्यापि सङ्गताः । जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥
तम् एव परमात्मानम् जार-बुद्ध्या अपि सङ्ग-ताः । जहुः गुण-मयम् देहम् सद्यस् प्रक्षीण-बन्धनाः ॥ ११ ॥
tam eva paramātmānam jāra-buddhyā api saṅga-tāḥ . jahuḥ guṇa-mayam deham sadyas prakṣīṇa-bandhanāḥ .. 11 ..
श्रीपरीक्षिदुवाच -
कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमः तासां गुणधियां कथम् ॥ १२ ॥
कृष्णम् विदुः परम् कान्तम् न तु ब्रह्म-तया मुने । गुण-प्रवाह-उपरमः तासाम् गुण-धियाम् कथम् ॥ १२ ॥
kṛṣṇam viduḥ param kāntam na tu brahma-tayā mune . guṇa-pravāha-uparamaḥ tāsām guṇa-dhiyām katham .. 12 ..
श्रीशुक उवाच -
उक्तं पुरस्ताद् एतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥
उक्तम् पुरस्तात् एतत् ते चैद्यः सिद्धिम् यथा गतः । द्विषन् अपि हृषीकेशम् किम् उत अधोक्षज-प्रियाः ॥ १३ ॥
uktam purastāt etat te caidyaḥ siddhim yathā gataḥ . dviṣan api hṛṣīkeśam kim uta adhokṣaja-priyāḥ .. 13 ..
नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥
नृणाम् निःश्रेयस-अर्थाय व्यक्तिः भगवतः नृप । अव्ययस्य अप्रमेयस्य निर्गुणस्य गुण-आत्मनः ॥ १४ ॥
nṛṇām niḥśreyasa-arthāya vyaktiḥ bhagavataḥ nṛpa . avyayasya aprameyasya nirguṇasya guṇa-ātmanaḥ .. 14 ..
कामं क्रोधं भयं स्नेहं ऐक्यं सौहृदमेव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥
कामम् क्रोधम् भयम् स्नेहम् ऐक्यम् सौहृदम् एव च । नित्यम् हरौ विदधतः यान्ति तद्-मय-ताम् हि ते ॥ १५ ॥
kāmam krodham bhayam sneham aikyam sauhṛdam eva ca . nityam harau vidadhataḥ yānti tad-maya-tām hi te .. 15 ..
न चैवं विस्मयः कार्यो भवता भगवत्यजे । योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ १६ ॥
न च एवम् विस्मयः कार्यः भवता भगवति अजे । योग-ईश्वर-ईश्वरे कृष्णे यतस् एतत् विमुच्यते ॥ १६ ॥
na ca evam vismayaḥ kāryaḥ bhavatā bhagavati aje . yoga-īśvara-īśvare kṛṣṇe yatas etat vimucyate .. 16 ..
ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः । अवदद् वदतां श्रेष्ठो वाचः पेशैर्विमोहयन् ॥ १७ ॥
ताः दृष्ट्वा अन्तिकम् आयाताः भगवान् व्रज-योषितः । अवदत् वदताम् श्रेष्ठः वाचः पेशैः विमोहयन् ॥ १७ ॥
tāḥ dṛṣṭvā antikam āyātāḥ bhagavān vraja-yoṣitaḥ . avadat vadatām śreṣṭhaḥ vācaḥ peśaiḥ vimohayan .. 17 ..
श्रीभगवानुवाच -
स्वागतं वो महाभागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ १८ ॥
स्वागतम् वः महाभागाः प्रियम् किम् करवाणि वः । व्रजस्य अनामयम् कच्चित् ब्रूत आगमन-कारणम् ॥ १८ ॥
svāgatam vaḥ mahābhāgāḥ priyam kim karavāṇi vaḥ . vrajasya anāmayam kaccit brūta āgamana-kāraṇam .. 18 ..
रजन्येषा घोररूपा घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ १९ ॥
रजनी एषा घोर-रूपा घोर-सत्त्व-निषेविता । प्रतियात व्रजम् न इह स्थेयम् स्त्रीभिः सुमध्यमाः ॥ १९ ॥
rajanī eṣā ghora-rūpā ghora-sattva-niṣevitā . pratiyāta vrajam na iha stheyam strībhiḥ sumadhyamāḥ .. 19 ..
मातरः पितरः पुत्रा भ्रातरः पतयश्च वः । विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ २० ॥
मातरः पितरः पुत्राः भ्रातरः पतयः च वः । विचिन्वन्ति हि अ पश्यन्तः मा कृढ्वम् बन्धु-साध्वसम् ॥ २० ॥
mātaraḥ pitaraḥ putrāḥ bhrātaraḥ patayaḥ ca vaḥ . vicinvanti hi a paśyantaḥ mā kṛḍhvam bandhu-sādhvasam .. 20 ..
दृष्टं वनं कुसुमितं राकेश कररञ्जितम् । यमुना अनिललीलैजत् तरुपल्लवशोभितम् ॥ २१ ॥
दृष्टम् वनम् कुसुमितम् राकेश कर-रञ्जितम् । यमुना तरु-पल्लव-शोभितम् ॥ २१ ॥
dṛṣṭam vanam kusumitam rākeśa kara-rañjitam . yamunā taru-pallava-śobhitam .. 21 ..
तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ २२ ॥
तत् यात मा चिरम् गोष्ठम् शुश्रूषध्वम् पतीन् सतीः । क्रन्दन्ति वत्साः बालाः च तान् पाययत दुह्यत ॥ २२ ॥
tat yāta mā ciram goṣṭham śuśrūṣadhvam patīn satīḥ . krandanti vatsāḥ bālāḥ ca tān pāyayata duhyata .. 22 ..
अथवा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥
अथवा मद्-अभिस्नेहात् भवत्यः यन्त्रित-आशयाः । आगताः हि उपपन्नम् वः प्रीयन्ते मयि जन्तवः ॥ २३ ॥
athavā mad-abhisnehāt bhavatyaḥ yantrita-āśayāḥ . āgatāḥ hi upapannam vaḥ prīyante mayi jantavaḥ .. 23 ..
भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । तद्बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ २४ ॥
भर्तुः शुश्रूषणम् स्त्रीणाम् परः धर्मः हि अमायया । तद्-बन्धूनाम् च कल्याणः प्रजानाम् च अनुपोषणम् ॥ २४ ॥
bhartuḥ śuśrūṣaṇam strīṇām paraḥ dharmaḥ hi amāyayā . tad-bandhūnām ca kalyāṇaḥ prajānām ca anupoṣaṇam .. 24 ..
दुःशीलो दुर्भगो वृद्धो जडो रोग्यधनोऽपि वा । पतिः स्त्रीभिर्न हातव्यो लोकेप्सुभिरपातकी ॥ २५ ॥
दुःशीलः दुर्भगः वृद्धः जडः रोग्य-धनः अपि वा । पतिः स्त्रीभिः न हातव्यः लोक-ईप्सुभिः अपातकी ॥ २५ ॥
duḥśīlaḥ durbhagaḥ vṛddhaḥ jaḍaḥ rogya-dhanaḥ api vā . patiḥ strībhiḥ na hātavyaḥ loka-īpsubhiḥ apātakī .. 25 ..
अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र ह्यौपपत्यं कुलस्त्रियः ॥ २६ ॥
अस्वर्ग्यम् अयशस्यम् च फल्गु कृच्छ्रम् भय-आवहम् । जुगुप्सितम् च सर्वत्र हि औपपत्यम् कुलस्त्रियः ॥ २६ ॥
asvargyam ayaśasyam ca phalgu kṛcchram bhaya-āvaham . jugupsitam ca sarvatra hi aupapatyam kulastriyaḥ .. 26 ..
श्रवणाद् दर्शनाद् ध्यानाद् मयि भावोऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ २७ ॥
श्रवणात् दर्शनात् ध्यानात् मयि भावः अनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततस् गृहान् ॥ २७ ॥
śravaṇāt darśanāt dhyānāt mayi bhāvaḥ anukīrtanāt . na tathā sannikarṣeṇa pratiyāta tatas gṛhān .. 27 ..
श्रीशुक उवाच -
इति विप्रियमाकर्ण्य गोप्यो गोविन्दभाषितम् । विषण्णा भग्नसङ्कल्पाः चिन्तामापुर्दुरत्ययाम् ॥ २८ ॥
इति विप्रियम् आकर्ण्य गोप्यः गोविन्द-भाषितम् । विषण्णाः भग्न-सङ्कल्पाः चिन्ताम् आपुः दुरत्ययाम् ॥ २८ ॥
iti vipriyam ākarṇya gopyaḥ govinda-bhāṣitam . viṣaṇṇāḥ bhagna-saṅkalpāḥ cintām āpuḥ duratyayām .. 28 ..
( वसंततिलका )
कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन भुवः लिखन्त्यः । अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ ॥
कृत्वा मुखानि अव शुचः श्वसनेन शुष्यत्-बिम्ब-अधराणि चरणेन भुवः लिखन्त्यः । अस्रैः उपात्त-मषिभिः कुच-कुङ्कुमानि तस्थुः मृजन्त्यः उरु-दुःख-भराः स्म तूष्णीम् ॥ ॥
kṛtvā mukhāni ava śucaḥ śvasanena śuṣyat-bimba-adharāṇi caraṇena bhuvaḥ likhantyaḥ . asraiḥ upātta-maṣibhiḥ kuca-kuṅkumāni tasthuḥ mṛjantyaḥ uru-duḥkha-bharāḥ sma tūṣṇīm .. ..
प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ ३० ॥
प्रेष्ठम् प्रियेतरम् इव प्रतिभाषमाणम् कृष्णम् तद्-अर्थ-विनिवर्तित-सर्व-कामाः । नेत्रे विमृज्य रुदित-उपहते स्म किञ्चिद् संरम्भ-गद्गद-गिरः अब्रुवत अनुरक्ताः ॥ ३० ॥
preṣṭham priyetaram iva pratibhāṣamāṇam kṛṣṇam tad-artha-vinivartita-sarva-kāmāḥ . netre vimṛjya rudita-upahate sma kiñcid saṃrambha-gadgada-giraḥ abruvata anuraktāḥ .. 30 ..
श्रीगोप्य ऊचुः ।
मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथाऽऽदिपुरुषो भजते मुमुक्षून् ॥ ३१ ॥
मा एवम् विभो अर्हति भवान् गदितुम् नृशंसम् सन् त्यज्य सर्व-विषयान् तव पाद-मूलम् । भक्ताः भजस्व दुरवग्रह मा त्यज अस्मान् देवः यथा आदिपुरुषः भजते मुमुक्षून् ॥ ३१ ॥
mā evam vibho arhati bhavān gaditum nṛśaṃsam san tyajya sarva-viṣayān tava pāda-mūlam . bhaktāḥ bhajasva duravagraha mā tyaja asmān devaḥ yathā ādipuruṣaḥ bhajate mumukṣūn .. 31 ..
यत्पत्यपत्यसुहृदां अनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुरात्मा ॥ ३२ ॥
यत् पति-अपत्य-सुहृदाम् अनुवृत्तिः अङ्ग स्त्रीणाम् स्वधर्मः इति धर्म-विदा त्वया उक्तम् । अस्तु एवम् एतत् उपदेश-पदे त्वयि ईशे प्रेष्ठः भवान् तनुभृताम् किल बन्धुः आत्मा ॥ ३२ ॥
yat pati-apatya-suhṛdām anuvṛttiḥ aṅga strīṇām svadharmaḥ iti dharma-vidā tvayā uktam . astu evam etat upadeśa-pade tvayi īśe preṣṭhaḥ bhavān tanubhṛtām kila bandhuḥ ātmā .. 32 ..
कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् । तन्नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां धृतां त्वयि चिरादरविन्दनेत्र ॥ ३३ ॥
कुर्वन्ति हि त्वयि रतिम् कुशलाः स्वे आत्मन् नित्य-प्रिये पति-सुत-आदिभिः आर्ति-दैः किम् । तत् नः प्रसीद परमेश्वर मा स्म छिन्द्याः आशाम् धृताम् त्वयि चिरात् अरविन्द-नेत्र ॥ ३३ ॥
kurvanti hi tvayi ratim kuśalāḥ sve ātman nitya-priye pati-suta-ādibhiḥ ārti-daiḥ kim . tat naḥ prasīda parameśvara mā sma chindyāḥ āśām dhṛtām tvayi cirāt aravinda-netra .. 33 ..
चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये । पादौ पदं न चलतस्तव पादमूलाद् यामः कथं व्रजमथो करवाम किं वा ॥ ३४ ॥
चित्तम् सुखेन भवता अपहृतम् गृहेषु यत् निर्विशति उत करौ अपि गृह्य-कृत्ये । पादौ पदम् न चलतः तव पाद-मूलात् यामः कथम् व्रजम् अथो करवाम किम् वा ॥ ३४ ॥
cittam sukhena bhavatā apahṛtam gṛheṣu yat nirviśati uta karau api gṛhya-kṛtye . pādau padam na calataḥ tava pāda-mūlāt yāmaḥ katham vrajam atho karavāma kim vā .. 34 ..
सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद् वयं विरहजाग्नि उपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥ ३५ ॥
सिञ्च अङ्ग नः त्वद्-अधर-अमृत-पूरकेण हास-अवलोक-कल-गीत-ज-हृच्छय-अग्निम् । नो चेद् वयम् विरह-ज-अग्नि उपयुक्त-देहाः ध्यानेन याम पदयोः पदवीम् सखे ते ॥ ३५ ॥
siñca aṅga naḥ tvad-adhara-amṛta-pūrakeṇa hāsa-avaloka-kala-gīta-ja-hṛcchaya-agnim . no ced vayam viraha-ja-agni upayukta-dehāḥ dhyānena yāma padayoḥ padavīm sakhe te .. 35 ..
यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुं त्वयाभिरमिता बत पारयामः ॥ ३६ ॥
यर्हि अम्बुज-अक्ष तव पाद-तलम् रमायाः दत्त-क्षणम् क्वचिद् अरण्य-जन-प्रियस्य । अस्प्राक्ष्म तद्-प्रभृति न अन्य-समक्षम् अङ्ग स्थातुम् त्वया अभिरमिताः बत पारयामः ॥ ३६ ॥
yarhi ambuja-akṣa tava pāda-talam ramāyāḥ datta-kṣaṇam kvacid araṇya-jana-priyasya . asprākṣma tad-prabhṛti na anya-samakṣam aṅga sthātum tvayā abhiramitāḥ bata pārayāmaḥ .. 36 ..
श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् । यस्याः स्ववीक्षण कृतेऽन्यसुरप्रयासः तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ ३७ ॥
श्रीः यद्-पद-अम्बुज-रजः चकमे तुलस्या लब्ध्वा अपि वक्षसि पदम् किल भृत्य-जुष्टम् । यस्याः स्व-वीक्षण कृते अन्य-सुर-प्रयासः तद्वत् वयम् च तव पाद-रजः प्रपन्नाः ॥ ३७ ॥
śrīḥ yad-pada-ambuja-rajaḥ cakame tulasyā labdhvā api vakṣasi padam kila bhṛtya-juṣṭam . yasyāḥ sva-vīkṣaṇa kṛte anya-sura-prayāsaḥ tadvat vayam ca tava pāda-rajaḥ prapannāḥ .. 37 ..
तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः । त्वत्सुन्दरस्मित निरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ ३८ ॥
तत् नः प्रसीद वृजिन-अर्दन ते अन्घ्रि-मूलम् प्राप्ताः विसृज्य वसतीः त्वद्-उपासन-आशाः । त्वद्-सुन्दर-स्मित निरीक्षण-तीव्र-काम तप्त-आत्मनाम् पुरुष-भूषण देहि दास्यम् ॥ ३८ ॥
tat naḥ prasīda vṛjina-ardana te anghri-mūlam prāptāḥ visṛjya vasatīḥ tvad-upāsana-āśāḥ . tvad-sundara-smita nirīkṣaṇa-tīvra-kāma tapta-ātmanām puruṣa-bhūṣaṇa dehi dāsyam .. 38 ..
वीक्ष्यालकावृतमुखं तव कुण्डलश्री गण्डस्थलाधरसुधं हसितावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमणं च भवाम दास्यः ॥ ३९ ॥
वीक्ष्य अलक-आवृत-मुखम् तव कुण्डल-श्री गण्ड-स्थल-अधर-सुधम् हसित-अवलोकम् । दत्त-अभयम् च भुज-दण्ड-युगम् विलोक्य वक्षः श्रिया एक-रमणम् च भवाम दास्यः ॥ ३९ ॥
vīkṣya alaka-āvṛta-mukham tava kuṇḍala-śrī gaṇḍa-sthala-adhara-sudham hasita-avalokam . datta-abhayam ca bhuja-daṇḍa-yugam vilokya vakṣaḥ śriyā eka-ramaṇam ca bhavāma dāsyaḥ .. 39 ..
का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन सम्मोहितार्यचरितान्न चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ ४० ॥
का स्त्री अङ्ग ते कल-पद-आयत-मूर्च्छितेन सम्मोहित-आर्य-चरितात् न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदम् च निरीक्ष्य रूपम् यत् गो-द्विज-द्रुम-मृगाः पुलकानि अबिभ्रन् ॥ ४० ॥
kā strī aṅga te kala-pada-āyata-mūrcchitena sammohita-ārya-caritāt na calet trilokyām . trailokya-saubhagam idam ca nirīkṣya rūpam yat go-dvija-druma-mṛgāḥ pulakāni abibhran .. 40 ..
व्यक्तं भवान् व्रजभयार्तिहरोऽभिजातो देवो यथाऽऽदिपुरुषः सुरलोकगोप्ता । तन्नो निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥ ४१ ॥
व्यक्तम् भवान् व्रज-भय-आर्ति-हरः अभिजातः देवः यथा आदिपुरुषः सुर-लोक-गोप्ता । तत् नः निधेहि कर-पङ्कजम् आर्त-बन्धो तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् ॥ ४१ ॥
vyaktam bhavān vraja-bhaya-ārti-haraḥ abhijātaḥ devaḥ yathā ādipuruṣaḥ sura-loka-goptā . tat naḥ nidhehi kara-paṅkajam ārta-bandho tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām .. 41 ..
श्रीशुक उवाच - ( अनुष्टुप् )
इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीः आत्मारामोऽप्यरीरमत् ॥ ४२ ॥
इति विक्लवितम् तासाम् श्रुत्वा योग-ईश्वर-ईश्वरः । प्रहस्य स दयम् गोपीः आत्म-आरामः अपि अरीरमत् ॥ ४२ ॥
iti viklavitam tāsām śrutvā yoga-īśvara-īśvaraḥ . prahasya sa dayam gopīḥ ātma-ārāmaḥ api arīramat .. 42 ..
( मिश्र )
ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः । उदारहासद्विजकुन्ददीधतिः व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥ ४३ ॥
ताभिः समेताभिः उदार-चेष्टितः प्रिय-ईक्षण-उत्फुल्ल-मुखीभिः अच्युतः । उदार-हास-द्विज-कुन्द-दीधतिः व्यरोचत एण-अङ्कः इव उडुभिः वृतः ॥ ४३ ॥
tābhiḥ sametābhiḥ udāra-ceṣṭitaḥ priya-īkṣaṇa-utphulla-mukhībhiḥ acyutaḥ . udāra-hāsa-dvija-kunda-dīdhatiḥ vyarocata eṇa-aṅkaḥ iva uḍubhiḥ vṛtaḥ .. 43 ..
( अनुष्टुप् )
उपगीयमान उद्गायन् वनिताशतयूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ ४४ ॥
उपगीयमानः उद्गायन् वनिता-शत-यूथपः । मालाम् बिभ्रत् वैजयन्तीम् व्यचरत् मण्डयन् वनम् ॥ ४४ ॥
upagīyamānaḥ udgāyan vanitā-śata-yūthapaḥ . mālām bibhrat vaijayantīm vyacarat maṇḍayan vanam .. 44 ..
नद्याः पुलिनमाविश्य गोपीभिर्हिमवालुकम् । रेमे तत्तरलानन्द कुमुदामोदवायुना ॥ ४५ ॥
नद्याः पुलिनम् आविश्य गोपीभिः हिम-वालुकम् । रेमे तद्-तरल-आनन्द कुमुद-आमोद-वायुना ॥ ४५ ॥
nadyāḥ pulinam āviśya gopībhiḥ hima-vālukam . reme tad-tarala-ānanda kumuda-āmoda-vāyunā .. 45 ..
( वसंततिलका )
बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः । क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां उत्तम्भयन् रतिपतिं रमयाञ्चकार ॥ ४६ ॥
बाहु-प्रसार-परिरम्भ-करालक-ऊरु नीवी-स्तन-आलभन-नर्म-नख-अग्र-पातैः । क्ष्वेल्या अवलोक-हसितैः व्रज-सुन्दरीणाम् उत्तम्भयन् रतिपतिम् रमयाञ्चकार ॥ ४६ ॥
bāhu-prasāra-parirambha-karālaka-ūru nīvī-stana-ālabhana-narma-nakha-agra-pātaiḥ . kṣvelyā avaloka-hasitaiḥ vraja-sundarīṇām uttambhayan ratipatim ramayāñcakāra .. 46 ..
( अनुष्टुप् )
एवं भगवतः कृष्णात् लब्धमाना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ ४७ ॥
एवम् भगवतः कृष्णात् लब्ध-मानाः महात्मनः । आत्मानम् मेनिरे स्त्रीणाम् मानिन्यः अभ्यधिकम् भुवि ॥ ४७ ॥
evam bhagavataḥ kṛṣṇāt labdha-mānāḥ mahātmanaḥ . ātmānam menire strīṇām māninyaḥ abhyadhikam bhuvi .. 47 ..
तासां तत् सौभगमदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ ४८ ॥
तासाम् तत् सौभग-मदम् वीक्ष्य मानम् च केशवः । प्रशमाय प्रसादाय तत्र एव अन्तरधीयत ॥ ४८ ॥
tāsām tat saubhaga-madam vīkṣya mānam ca keśavaḥ . praśamāya prasādāya tatra eva antaradhīyata .. 48 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः ॥ २९ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे एकोन्त्रिंशः अध्यायः ॥ २९ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe ekontriṃśaḥ adhyāyaḥ .. 29 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In