| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच ।
अथ सर्वगुणोपेतः कालः परमशोभनः । यर्हि एव अजनजन्मर्क्षं शान्तर्क्ष-ग्रहतारकम् ॥ १ ॥
अथ सर्व-गुण-उपेतः कालः परम-शोभनः । यर्हि एव अजन-जन्म-ऋक्षम् शान्त-ऋक्ष-ग्रह-तारकम् ॥ १ ॥
atha sarva-guṇa-upetaḥ kālaḥ parama-śobhanaḥ . yarhi eva ajana-janma-ṛkṣam śānta-ṛkṣa-graha-tārakam .. 1 ..
दिशः प्रसेदुर्गगनं निर्मलोडुगणोदयम् । मही मंगलभूयिष्ठ पुरग्राम-व्रजाकरा ॥ २ ॥
दिशः प्रसेदुः गगनम् निर्मल-उडु-गण-उदयम् । मही ॥ २ ॥
diśaḥ praseduḥ gaganam nirmala-uḍu-gaṇa-udayam . mahī .. 2 ..
नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः । द्विजालिकुल सन्नाद स्तबका वनराजयः ॥ ३ ॥
नद्यः प्रसन्न-सलिलाः ह्रदाः जलरुह-श्रियः । द्विज-आलि-कुल-सन्नाद-स्तबकाः वन-राजयः ॥ ३ ॥
nadyaḥ prasanna-salilāḥ hradāḥ jalaruha-śriyaḥ . dvija-āli-kula-sannāda-stabakāḥ vana-rājayaḥ .. 3 ..
ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः । अग्नयश्च द्विजातीनां शान्तास्तत्र समिन्धत ॥ ४ ॥
ववौ वायुः सुख-स्पर्शः पुण्य-गन्ध-वहः शुचिः । अग्नयः च द्विजातीनाम् शान्ताः तत्र समिन्धत ॥ ४ ॥
vavau vāyuḥ sukha-sparśaḥ puṇya-gandha-vahaḥ śuciḥ . agnayaḥ ca dvijātīnām śāntāḥ tatra samindhata .. 4 ..
मनांस्यासन् प्रसन्नानि साधूनां असुरद्रुहाम् । जायमानेऽजने तस्मिन् नेदुर्दुन्दुभयो दिवि ॥ ५ ॥
मनांसि आसन् प्रसन्नानि साधूनाम् असुरद्रुहाम् । जायमाने अजने तस्मिन् नेदुः दुन्दुभयः दिवि ॥ ५ ॥
manāṃsi āsan prasannāni sādhūnām asuradruhām . jāyamāne ajane tasmin neduḥ dundubhayaḥ divi .. 5 ..
जगुः किन्नरगन्धर्वाः तुष्टुवुः सिद्धचारणाः । विद्याधर्यश्च ननृतुः अप्सरोभिः समं तदा ॥ ६ ॥
जगुः किन्नर-गन्धर्वाः तुष्टुवुः सिद्ध-चारणाः । विद्याधर्यः च ननृतुः अप्सरोभिः समम् तदा ॥ ६ ॥
jaguḥ kinnara-gandharvāḥ tuṣṭuvuḥ siddha-cāraṇāḥ . vidyādharyaḥ ca nanṛtuḥ apsarobhiḥ samam tadā .. 6 ..
मुमुचुर्मुनयो देवाः सुमनांसि मुदान्विताः । मन्दं मन्दं जलधरा जगर्जुः अनुसागरम् ॥ ७ ॥
मुमुचुः मुनयः देवाः सुमनांसि मुदा अन्विताः । मन्दम् मन्दम् जलधराः जगर्जुः अनु सागरम् ॥ ७ ॥
mumucuḥ munayaḥ devāḥ sumanāṃsi mudā anvitāḥ . mandam mandam jaladharāḥ jagarjuḥ anu sāgaram .. 7 ..
निशीथे तम उद्भूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशि इन्दुरिव पुष्कलः ॥ ८ ॥
निशीथे तमः उद्भूते जायमाने जनार्दने । देवक्याम् देव-रूपिण्याम् विष्णुः सर्व-गुहा-आशयः । आविरासीत् यथा प्राच्याम् दिशि इन्दुः इव पुष्कलः ॥ ८ ॥
niśīthe tamaḥ udbhūte jāyamāne janārdane . devakyām deva-rūpiṇyām viṣṇuḥ sarva-guhā-āśayaḥ . āvirāsīt yathā prācyām diśi induḥ iva puṣkalaḥ .. 8 ..
तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शंखगदार्युदायुधम् । श्रीवत्सलक्ष्मं गलशोभि कौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ ९ ॥
तम् अद्भुतम् बालकम् अम्बुज-ईक्षणम् चतुर्भुजम् शंख-गदा-अरि-उदायुधम् । श्रीवत्स-लक्ष्मम् गल-शोभि कौस्तुभम् पीत-अम्बरम् सान्द्र-पयोद-सौभगम् ॥ ९ ॥
tam adbhutam bālakam ambuja-īkṣaṇam caturbhujam śaṃkha-gadā-ari-udāyudham . śrīvatsa-lakṣmam gala-śobhi kaustubham pīta-ambaram sāndra-payoda-saubhagam .. 9 ..
महार्हवैदूर्यकिरीटकुण्डल त्विषा परिष्वक्त सहस्रकुन्तलम् । उद्दाम काञ्च्यङ्गद कङ्कणादिभिः विरोचमानं वसुदेव ऐक्षत ॥ १० ॥
महार्ह-वैडूर्य-किरीट-कुण्डल त्विषा परिष्वक्त सहस्र-कुन्तलम् । उद्दाम-काञ्चि-अङ्गद-कङ्कण-आदिभिः विरोचमानम् वसुदेवः ऐक्षत ॥ १० ॥
mahārha-vaiḍūrya-kirīṭa-kuṇḍala tviṣā pariṣvakta sahasra-kuntalam . uddāma-kāñci-aṅgada-kaṅkaṇa-ādibhiḥ virocamānam vasudevaḥ aikṣata .. 10 ..
स विस्मयोत्फुल्ल विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस्तदा । कृष्णावतारोत्सव संभ्रमोऽस्पृशन् मुदा द्विजेभ्योऽयुतमाप्लुतो गवाम् ॥ ११ ॥
स विस्मय-उत्फुल्ल-विलोचनः हरिम् सुतम् विलोक्य आनकदुन्दुभिः तदा । कृष्ण-अवतार-उत्सव संभ्रमः अस्पृशत् मुदा द्विजेभ्यः अयुतम् आप्लुतः गवाम् ॥ ११ ॥
sa vismaya-utphulla-vilocanaḥ harim sutam vilokya ānakadundubhiḥ tadā . kṛṣṇa-avatāra-utsava saṃbhramaḥ aspṛśat mudā dvijebhyaḥ ayutam āplutaḥ gavām .. 11 ..
अथैनमस्तौदवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः । स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ॥ १२ ॥
अथा एनम् अस्तौत् अवधार्य पूरुषम् परम् नत-अङ्गः कृत-धीः कृताञ्जलिः । स्व-रोचिषा भारत सूतिकागृहम् विरोचयन्तम् गत-भीः प्रभाव-विद् ॥ १२ ॥
athā enam astaut avadhārya pūruṣam param nata-aṅgaḥ kṛta-dhīḥ kṛtāñjaliḥ . sva-rociṣā bhārata sūtikāgṛham virocayantam gata-bhīḥ prabhāva-vid .. 12 ..
श्रीवसुदेव उवाच ।
विदितोऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः । केवलानुभवानन्द स्वरूपः सर्वबुद्धिदृक् ॥ १३ ॥
विदितः असि भवान् साक्षात् पुरुषः प्रकृतेः परः । सर्व ॥ १३ ॥
viditaḥ asi bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ . sarva .. 13 ..
स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् । तदनु त्वं ह्यप्रविष्टः प्रविष्ट इव भाव्यसे ॥ १४ ॥
सः एव स्व-प्रकृत्या इदम् सृष्ट्वा अग्रे त्रिगुण-आत्मकम् । तदनु त्वम् हि अप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १४ ॥
saḥ eva sva-prakṛtyā idam sṛṣṭvā agre triguṇa-ātmakam . tadanu tvam hi apraviṣṭaḥ praviṣṭaḥ iva bhāvyase .. 14 ..
यथा इमे अविकृता भावाः तथा ते विकृतैः सह । नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ १५ ॥
यथा इमे अविकृताः भावाः तथा ते विकृतैः सह । नाना वीर्याः पृथक् भूताः विराजम् जनयन्ति हि ॥ १५ ॥
yathā ime avikṛtāḥ bhāvāḥ tathā te vikṛtaiḥ saha . nānā vīryāḥ pṛthak bhūtāḥ virājam janayanti hi .. 15 ..
सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वात् न तेषां इह संभवः ॥ १६ ॥
सन्निपत्य समुत्पाद्य दृश्यन्ते अनुगताः इव । प्राक् एव विद्यमान-त्वात् न तेषाम् इह संभवः ॥ १६ ॥
sannipatya samutpādya dṛśyante anugatāḥ iva . prāk eva vidyamāna-tvāt na teṣām iha saṃbhavaḥ .. 16 ..
एवं भवान् बुद्ध्यनुमेयलक्षणैः ग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः । अनावृतत्वाद् बहिरन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ १७ ॥
एवम् भवान् बुद्धि-अनुमेय-लक्षणैः ग्राह्यैः गुणैः सन् अपि तद्-गुण-आग्रहः । अनावृत-त्वात् बहिस् अन्तरम् न ते सर्वस्य सर्व-आत्मनः आत्म-वस्तुनः ॥ १७ ॥
evam bhavān buddhi-anumeya-lakṣaṇaiḥ grāhyaiḥ guṇaiḥ san api tad-guṇa-āgrahaḥ . anāvṛta-tvāt bahis antaram na te sarvasya sarva-ātmanaḥ ātma-vastunaḥ .. 17 ..
य आत्मनो दृश्यगुणेषु सन्निति व्यवस्यते स्व-व्यतिरेकतोऽबुधः । विनानुवादं न च तन्मनीषितं सम्यग् यतस्त्यक्तमुपाददत् पुमान् ॥ १८ ॥
यः आत्मनः दृश्य-गुणेषु सन् इति व्यवस्यते स्व-व्यतिरेकतः अबुधः । विना अनुवादम् न च तत् मनीषितम् सम्यक् यतस् त्यक्तम् उपाददत् पुमान् ॥ १८ ॥
yaḥ ātmanaḥ dṛśya-guṇeṣu san iti vyavasyate sva-vyatirekataḥ abudhaḥ . vinā anuvādam na ca tat manīṣitam samyak yatas tyaktam upādadat pumān .. 18 ..
त्वत्तोऽस्य जन्मस्थिति संयमान् विभो वदन्ति अनीहात् अगुणाद् अविक्रियात् । त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वद् आश्रयत्वाद् उपचर्यते गुणैः ॥ १९ ॥
त्वत्तः अस्य जन्म-स्थिति संयमान् विभो वदन्ति अनीहात् अगुणात् अविक्रियात् । त्वयि ईश्वरे ब्रह्मणि नो विरुध्यते त्वत् आश्रय-त्वात् उपचर्यते गुणैः ॥ १९ ॥
tvattaḥ asya janma-sthiti saṃyamān vibho vadanti anīhāt aguṇāt avikriyāt . tvayi īśvare brahmaṇi no virudhyate tvat āśraya-tvāt upacaryate guṇaiḥ .. 19 ..
स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णमात्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ २० ॥
स त्वम् त्रि-लोक-स्थितये स्व-मायया बिभर्षि शुक्लम् खलु वर्णम् आत्मनः । सर्गाय रक्तम् रजसा उपबृंहितम् कृष्णम् च वर्णम् तमसा जन-अत्यये ॥ २० ॥
sa tvam tri-loka-sthitaye sva-māyayā bibharṣi śuklam khalu varṇam ātmanaḥ . sargāya raktam rajasā upabṛṃhitam kṛṣṇam ca varṇam tamasā jana-atyaye .. 20 ..
त्वमस्य लोकस्य विभो रिरक्षिषुः गृहेऽवतीर्णोऽसि ममाखिलेश्वर । राजन्य संज्ञासुरकोटि यूथपैः निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१ ॥
त्वम् अस्य लोकस्य विभोः रिरक्षिषुः गृहे अवतीर्णः असि मम अखिल-ईश्वर । राजन्य-संज्ञा-असुरकोटि-यूथपैः निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ २१ ॥
tvam asya lokasya vibhoḥ rirakṣiṣuḥ gṛhe avatīrṇaḥ asi mama akhila-īśvara . rājanya-saṃjñā-asurakoṭi-yūthapaiḥ nirvyūhyamānā nihaniṣyase camūḥ .. 21 ..
अयं त्वसभ्यस्तव जन्म नौ गृहे श्रुत्वाग्रजांस्ते न्यवधीत् सुरेश्वर । स तेऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैव अभिसरत्युदायुधः ॥ २२ ॥
अयम् तु असभ्यः तव जन्म नौ गृहे श्रुत्वा अग्रजान् ते न्यवधीत् सुरेश्वर । स ते अवतारम् पुरुषैः समर्पितम् श्रुत्वा अधुना एव अभिसरति उदायुधः ॥ २२ ॥
ayam tu asabhyaḥ tava janma nau gṛhe śrutvā agrajān te nyavadhīt sureśvara . sa te avatāram puruṣaiḥ samarpitam śrutvā adhunā eva abhisarati udāyudhaḥ .. 22 ..
श्रीशुक उवाच ।
अथैनं आत्मजं वीक्ष्य महापुरुष लक्षणम् । देवकी तं उपाधावत् कंसाद् भीता सुचिस्मिता ॥ २३ ॥
अथा एनम् आत्मजम् वीक्ष्य महा-पुरुष लक्षणम् । देवकी तम् उपाधावत् कंसात् भीता सु चिस्मिता ॥ २३ ॥
athā enam ātmajam vīkṣya mahā-puruṣa lakṣaṇam . devakī tam upādhāvat kaṃsāt bhītā su cismitā .. 23 ..
श्रीदेवक्युवाच ।
रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीपः ॥ २४ ॥
रूपम् यत् तत् प्राहुः अव्यक्तम् आद्यम् ब्रह्म ज्योतिः निर्गुणम् निर्विकारम् । सत्ता-मात्रम् निर्विशेषम् निरीहम् स त्वम् साक्षात् विष्णुः अध्यात्म-दीपः ॥ २४ ॥
rūpam yat tat prāhuḥ avyaktam ādyam brahma jyotiḥ nirguṇam nirvikāram . sattā-mātram nirviśeṣam nirīham sa tvam sākṣāt viṣṇuḥ adhyātma-dīpaḥ .. 24 ..
नष्टे लोके द्विपरार्धावसाने महाभूतेषु आदिभूतं गतेषु । व्यक्ते अव्यक्तं कालवेगेन याते भवान् एकः शिष्यते शेषसंज्ञः ॥ २५ ॥
नष्टे लोके द्वि-परार्ध-अवसाने महाभूतेषु आदि-भूतम् गतेषु । व्यक्ते अव्यक्तम् काल-वेगेन याते भवान् एकः शिष्यते शेष-संज्ञः ॥ २५ ॥
naṣṭe loke dvi-parārdha-avasāne mahābhūteṣu ādi-bhūtam gateṣu . vyakte avyaktam kāla-vegena yāte bhavān ekaḥ śiṣyate śeṣa-saṃjñaḥ .. 25 ..
योऽयं कालस्तस्य तेऽव्यक्तबन्धो चेष्टां आहुः चेष्टते येन विश्वम् । निमेषादिः वत्सरान्तो महीयान् तं त्वेशानं क्षेमधाम प्रपद्ये ॥ २६ ॥
यः अयम् कालः तस्य ते अव्यक्त-बन्धो चेष्टाम् आहुः चेष्टते येन विश्वम् । निमेष-आदिः वत्सर-अन्तः महीयान् तम् त्वा ईशानम् क्षेम-धाम प्रपद्ये ॥ २६ ॥
yaḥ ayam kālaḥ tasya te avyakta-bandho ceṣṭām āhuḥ ceṣṭate yena viśvam . nimeṣa-ādiḥ vatsara-antaḥ mahīyān tam tvā īśānam kṣema-dhāma prapadye .. 26 ..
मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत्पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युरस्मादपैति ॥ २७ ॥
मर्त्यः मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयम् न अध्यगच्छत् । त्वद्-पाद-अब्जम् प्राप्य यदृच्छया अद्य स्वस्थः शेते मृत्युः अस्मात् अपैति ॥ २७ ॥
martyaḥ mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayam na adhyagacchat . tvad-pāda-abjam prāpya yadṛcchayā adya svasthaḥ śete mṛtyuḥ asmāt apaiti .. 27 ..
स त्वं घोरात् उग्रसेनात्मजात् नः त्राहि त्रस्तान् भृत्यवित्रासहासि । रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ २८ ॥
स त्वम् घोरात् उग्रसेन-आत्मजात् नः त्राहि त्रस्तान् भृत्य-वित्रास-हा असि । रूपम् च इदम् पौरुषम् ध्यान-धिष्ण्यम् मा प्रत्यक्षम् मांस-दृशाम् कृषीष्ठाः ॥ २८ ॥
sa tvam ghorāt ugrasena-ātmajāt naḥ trāhi trastān bhṛtya-vitrāsa-hā asi . rūpam ca idam pauruṣam dhyāna-dhiṣṇyam mā pratyakṣam māṃsa-dṛśām kṛṣīṣṭhāḥ .. 28 ..
जन्म ते मय्यसौ पापो मा विद्यात् मधुसूदन । समुद्विजे भवद्धेतोः कंसाद् अहमधीरधीः ॥ २९ ॥
जन्म ते मयि असौ पापः मा विद्यात् मधुसूदन । समुद्विजे भवत्-हेतोः कंसात् अहम् अधीर-धीः ॥ २९ ॥
janma te mayi asau pāpaḥ mā vidyāt madhusūdana . samudvije bhavat-hetoḥ kaṃsāt aham adhīra-dhīḥ .. 29 ..
उपसंहर विश्वात्मन् अदो रूपं अलौकिकम् । शंखचक्रगदापद्म श्रिया जुष्टं चतुर्भुजम् ॥ ३० ॥
उपसंहर विश्वात्मन् अदः रूपम् अलौकिकम् । शंख-चक्र-गदा-पद्म श्रिया जुष्टम् चतुर्भुजम् ॥ ३० ॥
upasaṃhara viśvātman adaḥ rūpam alaukikam . śaṃkha-cakra-gadā-padma śriyā juṣṭam caturbhujam .. 30 ..
विश्वं यदेतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सोऽयं मम गर्भगो अभूद् अहो नृलोकस्य विडंबनं हि तत् ॥ ३१ ॥
विश्वम् यत् एतत् स्व-तनौ निशा-अन्ते यथावकाशम् पुरुषः परः भवान् । बिभर्ति सः अयम् मम गर्भ-गः अभूत् अहो नृ-लोकस्य विडंबनम् हि तत् ॥ ३१ ॥
viśvam yat etat sva-tanau niśā-ante yathāvakāśam puruṣaḥ paraḥ bhavān . bibharti saḥ ayam mama garbha-gaḥ abhūt aho nṛ-lokasya viḍaṃbanam hi tat .. 31 ..
श्रीभगवानुवाच ।
त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायंभुवे सति । तदायं सुतपा नाम प्रजापतिः अकल्मषः ॥ ३२ ॥
त्वम् एव पूर्व-सर्गे अभूः पृश्निः स्वायंभुवे सति । तदा अयम् सुतपाः नाम प्रजापतिः अकल्मषः ॥ ३२ ॥
tvam eva pūrva-sarge abhūḥ pṛśniḥ svāyaṃbhuve sati . tadā ayam sutapāḥ nāma prajāpatiḥ akalmaṣaḥ .. 32 ..
युवां वै ब्रह्मणाऽऽदिष्टौ प्रजासर्गे यदा ततः । सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ ३३ ॥
युवाम् वै ब्रह्मणा आदिष्टौ प्रजा-सर्गे यदा ततस् । सन् नियम्य इन्द्रिय-ग्रामम् तेपाथे परमम् तपः ॥ ३३ ॥
yuvām vai brahmaṇā ādiṣṭau prajā-sarge yadā tatas . san niyamya indriya-grāmam tepāthe paramam tapaḥ .. 33 ..
वर्षवाता-तप-हिम घर्मकालगुणाननु । सहमानौ श्वासरोध विनिर्धूत-मनोमलौ ॥ ३४ ॥
। सहमानौ श्वास-रोध-विनिर्धूत-मनः-मलौ ॥ ३४ ॥
. sahamānau śvāsa-rodha-vinirdhūta-manaḥ-malau .. 34 ..
शीर्णपर्णा-निलाहारौ उपशान्तेन चेतसा । मत्तः कामान् अभीप्सन्तौ मद् आराधनमीहतुः ॥ ३५ ॥
शीर्ण-पर्ण-अ निल-आहारौ उपशान्तेन चेतसा । मत्तः कामान् अभीप्सन्तौ मत् आराधनम् ईहतुः ॥ ३५ ॥
śīrṇa-parṇa-a nila-āhārau upaśāntena cetasā . mattaḥ kāmān abhīpsantau mat ārādhanam īhatuḥ .. 35 ..
एवं वां तप्यतोस्तीव्रं तपः परमदुष्करम् । दिव्यवर्षसहस्राणि द्वादशेयुः मदात्मनोः ॥ ३६ ॥
एवम् वाम् तप्यतोः तीव्रम् तपः परम-दुष्करम् । दिव्य-वर्ष-सहस्राणि द्वादश ईयुः मद्-आत्मनोः ॥ ३६ ॥
evam vām tapyatoḥ tīvram tapaḥ parama-duṣkaram . divya-varṣa-sahasrāṇi dvādaśa īyuḥ mad-ātmanoḥ .. 36 ..
तदा वां परितुष्टोऽहं अमुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ ३७ ॥
तदा वाम् परितुष्टः अहम् अमुना वपुषा अनघे । तपसा श्रद्धया नित्यम् भक्त्या च हृदि भावितः ॥ ३७ ॥
tadā vām parituṣṭaḥ aham amunā vapuṣā anaghe . tapasā śraddhayā nityam bhaktyā ca hṛdi bhāvitaḥ .. 37 ..
प्रादुरासं वरदराड् युवयोः कामदित्सया । व्रियतां वर इत्युक्ते मादृशो वां वृतः सुतः ॥ ३८ ॥
प्रादुरासम् वर-द-राज् युवयोः काम-दित्सया । व्रियताम् वरः इति उक्ते मादृशः वाम् वृतः सुतः ॥ ३८ ॥
prādurāsam vara-da-rāj yuvayoḥ kāma-ditsayā . vriyatām varaḥ iti ukte mādṛśaḥ vām vṛtaḥ sutaḥ .. 38 ..
अजुष्टग्राम्यविषयौ अनपत्यौ च दम्पती । न वव्राथेऽपवर्गं मे मोहितौ देवमायया ॥ ३९ ॥
अजुष्ट-ग्राम्य-विषयौ अनपत्यौ च दम्पती । न वव्राथे अपवर्गम् मे मोहितौ देव-मायया ॥ ३९ ॥
ajuṣṭa-grāmya-viṣayau anapatyau ca dampatī . na vavrāthe apavargam me mohitau deva-māyayā .. 39 ..
गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् । ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्तमनोरथौ ॥ ४० ॥
गते मयि युवाम् लब्ध्वा वरम् मद्-सदृशम् सुतम् । ग्राम्यान् भोगान् अभुञ्जाथाम् युवाम् प्राप्त-मनोरथौ ॥ ४० ॥
gate mayi yuvām labdhvā varam mad-sadṛśam sutam . grāmyān bhogān abhuñjāthām yuvām prāpta-manorathau .. 40 ..
अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् । अहं सुतो वामभवं पृश्निगर्भ इति श्रुतः ॥ ४१ ॥
अ दृष्ट्वा अन्यतमम् लोके शील-औदार्य-गुणैः समम् । अहम् सुतः वाम् अभवम् पृश्निगर्भः इति श्रुतः ॥ ४१ ॥
a dṛṣṭvā anyatamam loke śīla-audārya-guṇaiḥ samam . aham sutaḥ vām abhavam pṛśnigarbhaḥ iti śrutaḥ .. 41 ..
तयोर्वां पुनरेवाहं अदित्यामास कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच्च वामनः ॥ ४२ ॥
तयोः वाम् पुनर् एव अहम् अदित्याम् आस कश्यपात् । उपेन्द्रः इति विख्यातः वामन-त्वात् च वामनः ॥ ४२ ॥
tayoḥ vām punar eva aham adityām āsa kaśyapāt . upendraḥ iti vikhyātaḥ vāmana-tvāt ca vāmanaḥ .. 42 ..
तृतीयेऽस्मिन् भवेऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस्तयोरेव सत्यं मे व्याहृतं सति ॥ ४३ ॥
तृतीये अस्मिन् भवे अहम् वै तेन एव वपुषा अथ वाम् । जातः भूयस् तयोः एव सत्यम् मे व्याहृतम् सति ॥ ४३ ॥
tṛtīye asmin bhave aham vai tena eva vapuṣā atha vām . jātaḥ bhūyas tayoḥ eva satyam me vyāhṛtam sati .. 43 ..
एतद् वां दर्शितं रूपं प्राग्जन्म स्मरणाय मे । नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ ४४ ॥
एतत् वाम् दर्शितम् रूपम् प्राच्-जन्म स्मरणाय मे । न अन्यथा मद्-भवम् ज्ञानम् मर्त्य-लिङ्गेन जायते ॥ ४४ ॥
etat vām darśitam rūpam prāc-janma smaraṇāya me . na anyathā mad-bhavam jñānam martya-liṅgena jāyate .. 44 ..
युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ ४५ ॥
युवाम् माम् पुत्र-भावेन ब्रह्म-भावेन च असकृत् । चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिम् पराम् ॥ ४५ ॥
yuvām mām putra-bhāvena brahma-bhāvena ca asakṛt . cintayantau kṛta-snehau yāsyethe mad-gatim parām .. 45 ..
श्रीशुक उवाच ।
इत्युक्त्वासीत् हरिः तूष्णीं भगवान् आत्ममायया । पित्रोः संपश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ ४६ ॥
इति उक्त्वा आसीत् हरिः तूष्णीम् भगवान् आत्म-मायया । पित्रोः संपश्यतोः सद्यस् बभूव प्राकृतः शिशुः ॥ ४६ ॥
iti uktvā āsīt hariḥ tūṣṇīm bhagavān ātma-māyayā . pitroḥ saṃpaśyatoḥ sadyas babhūva prākṛtaḥ śiśuḥ .. 46 ..
ततश्च शौरिः भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् । यदा बहिर्गन्तुमियेष तर्ह्यजा या योगमायाजनि नन्दजायया ॥ ४७ ॥
ततस् च शौरिः भगवत्-प्रचोदितः सुतम् समादाय स सूतिकागृहात् । यदा बहिस् गन्तुम् इयेष तर्हि अजा या योगमाया अजनि नन्द-जायया ॥ ४७ ॥
tatas ca śauriḥ bhagavat-pracoditaḥ sutam samādāya sa sūtikāgṛhāt . yadā bahis gantum iyeṣa tarhi ajā yā yogamāyā ajani nanda-jāyayā .. 47 ..
तया हृतप्रत्यय सर्ववृत्तिषु द्वाःस्थेषु पौरेष्वपि शायितेष्वथ । द्वारस्तु सर्वाः पिहिता दुरत्यया बृहत् कपाटायस कीलश्रृंखलैः ॥ ४८ ॥
तया हृत-प्रत्यय सर्व-वृत्तिषु द्वाःस्थेषु पौरेषु अपि शायितेषु अथ । द्वारः तु सर्वाः पिहिताः दुरत्ययाः बृहत्-कपाट-आयस-कील-श्रृंखलैः ॥ ४८ ॥
tayā hṛta-pratyaya sarva-vṛttiṣu dvāḥstheṣu paureṣu api śāyiteṣu atha . dvāraḥ tu sarvāḥ pihitāḥ duratyayāḥ bṛhat-kapāṭa-āyasa-kīla-śrṛṃkhalaiḥ .. 48 ..
ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद् वारि निवारयन् फणैः ॥ ४९ ॥
ताः कृष्ण-वाहे वसुदेवे आगते स्वयम् व्यवर्यन्त यथा तमः रवेः । ववर्ष पर्जन्यः उपांशु-गर्जितः शेषः अन्वगात् वारि निवारयन् फणैः ॥ ४९ ॥
tāḥ kṛṣṇa-vāhe vasudeve āgate svayam vyavaryanta yathā tamaḥ raveḥ . vavarṣa parjanyaḥ upāṃśu-garjitaḥ śeṣaḥ anvagāt vāri nivārayan phaṇaiḥ .. 49 ..
मघोनि वर्षत्यसकृत् यमानुजा गंभीर तोयौघ जवोर्मि फेनिला । भयानकावर्त शताकुला नदी मार्गं ददौ सिन्धुरिव श्रियः पतेः ॥ ५० ॥
मघोनि वर्षति असकृत् यमानुजा गंभीर-तोय-ओघ-जव-ऊर्मि-फेनिला । भयानक-आवर्त शत-आकुला नदी मार्गम् ददौ सिन्धुः इव श्रियः पतेः ॥ ५० ॥
maghoni varṣati asakṛt yamānujā gaṃbhīra-toya-ogha-java-ūrmi-phenilā . bhayānaka-āvarta śata-ākulā nadī mārgam dadau sindhuḥ iva śriyaḥ pateḥ .. 50 ..
नन्दव्रजं शौरिरुपेत्य तत्र तान् गोपान् प्रसुप्तान् उपलभ्य निद्रया । सुतं यशोदाशयने निधाय तत् सुतां उपादाय पुनर्गृहान् अगात् ॥ ५१ ॥
नन्द-व्रजम् शौरिः उपेत्य तत्र तान् गोपान् प्रसुप्तान् उपलभ्य निद्रया । सुतम् यशोदा-शयने निधाय तत् सुताम् उपादाय पुनर् गृहान् अगात् ॥ ५१ ॥
nanda-vrajam śauriḥ upetya tatra tān gopān prasuptān upalabhya nidrayā . sutam yaśodā-śayane nidhāya tat sutām upādāya punar gṛhān agāt .. 51 ..
देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् । प्रतिमुच्य पदोर्लोहं आस्ते पूर्ववदावृतः ॥ ५२ ॥
देवक्याः शयने न्यस्य वसुदेवः अथ दारिकाम् । प्रतिमुच्य पदोः लोहम् आस्ते पूर्व-वत् आवृतः ॥ ५२ ॥
devakyāḥ śayane nyasya vasudevaḥ atha dārikām . pratimucya padoḥ loham āste pūrva-vat āvṛtaḥ .. 52 ..
यशोदा नन्दपत्नी च जातं परमबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ ५३ ॥
यशोदा नन्द-पत्नी च जातम् परम् अबुध्यत । न तद्-लिङ्गम् परिश्रान्ता निद्रया अपगत-स्मृतिः ॥ ५३ ॥
yaśodā nanda-patnī ca jātam param abudhyata . na tad-liṅgam pariśrāntā nidrayā apagata-smṛtiḥ .. 53 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कृष्णजन्मनि तृतीयोध्याऽयः ॥ ३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे कृष्ण-जन्मनि तृतीय-उध्या-अयः ॥ ३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe kṛṣṇa-janmani tṛtīya-udhyā-ayaḥ .. 3 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In