| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच
अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ 10.30.001 ॥
अन्तर्हिते भगवति सहसा एव व्रज-अङ्गनाः । अतप्यन् तम् अचक्षाणाः करिण्यः इव यूथपम् ॥ १०।३०।००१ ॥
antarhite bhagavati sahasā eva vraja-aṅganāḥ . atapyan tam acakṣāṇāḥ kariṇyaḥ iva yūthapam .. 10.30.001 ..
गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ 10.30.002 ॥
गत्या अनुराग-स्मित-विभ्रम-ईक्षितैः मनोरम-आलाप-विहार-विभ्रमैः । आक्षिप्त-चित्ताः प्रमदाः रमापतेः ताः ताः विचेष्टाः जगृहुः तद्-आत्मिकाः ॥ १०।३०।००२ ॥
gatyā anurāga-smita-vibhrama-īkṣitaiḥ manorama-ālāpa-vihāra-vibhramaiḥ . ākṣipta-cittāḥ pramadāḥ ramāpateḥ tāḥ tāḥ viceṣṭāḥ jagṛhuḥ tad-ātmikāḥ .. 10.30.002 ..
गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ 10.30.003 ॥
गति-स्मित-प्रेक्षण-भाषण-आदिषु प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः । असौ अहम् तु इति अबलाः तद्-आत्मिकाः न्यवेदिषुः कृष्ण-विहार-विभ्रमाः ॥ १०।३०।००३ ॥
gati-smita-prekṣaṇa-bhāṣaṇa-ādiṣu priyāḥ priyasya pratirūḍha-mūrtayaḥ . asau aham tu iti abalāḥ tad-ātmikāḥ nyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ .. 10.30.003 ..
गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् । पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ 10.30.004 ॥
गायन्त्यः उच्चैस् अमुम् एव संहताः विचिक्युः उन्मत्तक-वत् वनात् वनम् । पप्रच्छुः आकाश-वत् अन्तरम् बहिस् भूतेषु सन्तम् पुरुषम् वनस्पतीन् ॥ १०।३०।००४ ॥
gāyantyaḥ uccais amum eva saṃhatāḥ vicikyuḥ unmattaka-vat vanāt vanam . papracchuḥ ākāśa-vat antaram bahis bhūteṣu santam puruṣam vanaspatīn .. 10.30.004 ..
दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥ 10.30.005 ॥
दृष्टः वः कच्चित् अश्वत्थ प्लक्ष न्यग्रोध नः मनः । नन्द-सूनुः गतः हृत्वा प्रेम-हास-अवलोकनैः ॥ १०।३०।००५ ॥
dṛṣṭaḥ vaḥ kaccit aśvattha plakṣa nyagrodha naḥ manaḥ . nanda-sūnuḥ gataḥ hṛtvā prema-hāsa-avalokanaiḥ .. 10.30.005 ..
कच्चित्कुरबकाशोक नागपुन्नागचम्पकाः । रामानुजो मानिनीनामितो दर्पहरस्मितः ॥ 10.30.006 ॥
कच्चित् कुरबक-अशोक नाग-पुन्नाग-चम्पकाः । राम-अनुजः मानिनीनाम् इतस् दर्प-हर-स्मितः ॥ १०।३०।००६ ॥
kaccit kurabaka-aśoka nāga-punnāga-campakāḥ . rāma-anujaḥ māninīnām itas darpa-hara-smitaḥ .. 10.30.006 ..
कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥ 10.30.007 ॥
कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये । सह तु आलि-कुलैः बिभ्रत् दृष्टः ते अति प्रियः अच्युतः ॥ १०।३०।००७ ॥
kaccit tulasi kalyāṇi govinda-caraṇa-priye . saha tu āli-kulaiḥ bibhrat dṛṣṭaḥ te ati priyaḥ acyutaḥ .. 10.30.007 ..
मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ 10.30.008 ॥
मालती अदर्शि वः कच्चित् मल्लिके जाति-यूथिके । प्रीतिम् वः जनयन् यातः कर-स्पर्शेन माधवः ॥ १०।३०।००८ ॥
mālatī adarśi vaḥ kaccit mallike jāti-yūthike . prītim vaḥ janayan yātaḥ kara-sparśena mādhavaḥ .. 10.30.008 ..
चूतप्रियालपनसासनकोविदार जम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः । येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ 10.30.009 ॥
चूत-प्रियाल-पनस-असन-कोविदार-जम्बु-अर्क-बिल्व-बकुल-आम्र-कदम्ब-नीपाः । ये अन्ये पर-अर्थ-भवकाः यमुना-उपकूलाः शंसन्तु कृष्ण-पदवीम् रहित-आत्मनाम् नः ॥ १०।३०।००९ ॥
cūta-priyāla-panasa-asana-kovidāra-jambu-arka-bilva-bakula-āmra-kadamba-nīpāḥ . ye anye para-artha-bhavakāḥ yamunā-upakūlāḥ śaṃsantu kṛṣṇa-padavīm rahita-ātmanām naḥ .. 10.30.009 ..
किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि स्पर्शोत्सवोत्पुलकिताङ्गनहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥ 10.30.010 ॥*
किम् ते कृतम् क्षिति तपः बत केशव-अङ्घ्रि स्पर्श-उत्सव-उत्पुलकित-अङ्गनहैः विभासि । अपि अङ्घ्रि-सम्भवः उरुक्रम-विक्रमात् वा आहो वराह-वपुषः परिरम्भणेन ॥ १०।३०।०१० ॥
kim te kṛtam kṣiti tapaḥ bata keśava-aṅghri sparśa-utsava-utpulakita-aṅganahaiḥ vibhāsi . api aṅghri-sambhavaḥ urukrama-vikramāt vā āho varāha-vapuṣaḥ parirambhaṇena .. 10.30.010 ..
अप्येणपत्न्युपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ 10.30.011 ॥*
अपि एण-पत्नी-उपगतः प्रियया इह गात्रैः तन्वन् दृशाम् सखि सु निर्वृतिम् अच्युतः वः । कान्त-अङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः कुन्द-स्रजः कुलपतेः इह वाति गन्धः ॥ १०।३०।०११ ॥
api eṇa-patnī-upagataḥ priyayā iha gātraiḥ tanvan dṛśām sakhi su nirvṛtim acyutaḥ vaḥ . kānta-aṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ kunda-srajaḥ kulapateḥ iha vāti gandhaḥ .. 10.30.011 ..
बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ 10.30.012 ॥*
बाहुम् प्रिय-अंसे उपधाय गृहीत-पद्मः राम-अनुजः तुलसिका-अलि-कुलैः मद-अन्धैः । अन्वीयमानः इह वः तरवः प्रणामम् किम् वा अभिनन्दति चरन् प्रणय-अवलोकैः ॥ १०।३०।०१२ ॥
bāhum priya-aṃse upadhāya gṛhīta-padmaḥ rāma-anujaḥ tulasikā-ali-kulaiḥ mada-andhaiḥ . anvīyamānaḥ iha vaḥ taravaḥ praṇāmam kim vā abhinandati caran praṇaya-avalokaiḥ .. 10.30.012 ..
पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ 10.30.013 ॥
पृच्छत इमाः लताः बाहून् अपि आश्लिष्टाः वनस्पतेः । नूनम् तद्-करज-स्पृष्टाः बिभ्रति उत्पुलकानि अहो ॥ १०।३०।०१३ ॥
pṛcchata imāḥ latāḥ bāhūn api āśliṣṭāḥ vanaspateḥ . nūnam tad-karaja-spṛṣṭāḥ bibhrati utpulakāni aho .. 10.30.013 ..
इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ 10.30.014 ॥
इति उन्मत्त-वचः गोप्यः कृष्ण-अन्वेषण-कातराः । लीलाः भगवतः ताः ताः हि अनुचक्रुः तद्-आत्मिकाः ॥ १०।३०।०१४ ॥
iti unmatta-vacaḥ gopyaḥ kṛṣṇa-anveṣaṇa-kātarāḥ . līlāḥ bhagavataḥ tāḥ tāḥ hi anucakruḥ tad-ātmikāḥ .. 10.30.014 ..
कस्याचित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् । तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ 10.30.015 ॥
कस्याचिद् पूतनायन्त्याः कृष्णायन्ती अपिबत् स्तनम् । तोकयित्वा रुदती अन्या शकटायतीम् ॥ १०।३०।०१५ ॥
kasyācid pūtanāyantyāḥ kṛṣṇāyantī apibat stanam . tokayitvā rudatī anyā śakaṭāyatīm .. 10.30.015 ..
दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ 10.30.016 ॥
जहार अन्याम् एकः कृष्ण-अर्भ-भावनाम् । रिङ्गयामास का अपि अङ्घ्री कर्षन्ती घोष-निःस्वनैः ॥ १०।३०।०१६ ॥
jahāra anyām ekaḥ kṛṣṇa-arbha-bhāvanām . riṅgayāmāsa kā api aṅghrī karṣantī ghoṣa-niḥsvanaiḥ .. 10.30.016 ..
कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ 10.30.017 ॥
कृष्ण-रामायिते द्वे तु गोपायन्त्यः च काश्चन । वत्सायतीम् हन्ति च अन्या तत्र एका तु बकायतीम् ॥ १०।३०।०१७ ॥
kṛṣṇa-rāmāyite dve tu gopāyantyaḥ ca kāścana . vatsāyatīm hanti ca anyā tatra ekā tu bakāyatīm .. 10.30.017 ..
आहूय दूरगा यद्वत्कृष्णस्तमनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ 10.30.018 ॥
आहूय दूर-गाः यद्वत् कृष्णः तम् अनुवर्ततीम् । वेणुम् क्वणन्तीम् क्रीडन्तीम् अन्याः शंसन्ति साधु इति ॥ १०।३०।०१८ ॥
āhūya dūra-gāḥ yadvat kṛṣṇaḥ tam anuvartatīm . veṇum kvaṇantīm krīḍantīm anyāḥ śaṃsanti sādhu iti .. 10.30.018 ..
कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु । कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥ 10.30.019 ॥
कस्याञ्चिद् स्व-भुजम् न्यस्य चलन्ती आह अपरा ननु । कृष्णः अहम् पश्यत गतिम् ललिताम् इति तद्-मनाः ॥ १०।३०।०१९ ॥
kasyāñcid sva-bhujam nyasya calantī āha aparā nanu . kṛṣṇaḥ aham paśyata gatim lalitām iti tad-manāḥ .. 10.30.019 ..
मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ 10.30.020 ॥
मा भैष्ट वात-वर्षाभ्याम् तत् त्राणम् विहितम् मय । इति उक्त्वा एकेन हस्तेन यतन्ती उन्निदधे अम्बरम् ॥ १०।३०।०२० ॥
mā bhaiṣṭa vāta-varṣābhyām tat trāṇam vihitam maya . iti uktvā ekena hastena yatantī unnidadhe ambaram .. 10.30.020 ..
आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप । दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत् ॥ 10.30.021 ॥
आरुह्य एका पदा आक्रम्य शिरसि आह अपराम् नृप । दुष्ट-अहे गच्छ जातः अहम् खलानाम् ननु दण्ड-कृत् ॥ १०।३०।०२१ ॥
āruhya ekā padā ākramya śirasi āha aparām nṛpa . duṣṭa-ahe gaccha jātaḥ aham khalānām nanu daṇḍa-kṛt .. 10.30.021 ..
तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ 10.30.022 ॥
तत्र एका उवाच हे गोपाः दाव-अग्निम् पश्यत उल्बणम् । चक्षूंषि आशु अपिदध्वम् वः विधास्ये क्षेमम् अञ्जसा ॥ १०।३०।०२२ ॥
tatra ekā uvāca he gopāḥ dāva-agnim paśyata ulbaṇam . cakṣūṃṣi āśu apidadhvam vaḥ vidhāsye kṣemam añjasā .. 10.30.022 ..
बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति । भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् ॥ 10.30.023 ॥
बद्धा अन्यया स्रजा काचिद् तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारम् हैयङ्गवमुषम् तु इति । भीता सुदृश् पिधाय आस्यम् भेजे भीति-विडम्बनम् ॥ १०।३०।०२३ ॥
baddhā anyayā srajā kācid tanvī tatra ulūkhale . badhnāmi bhāṇḍabhettāram haiyaṅgavamuṣam tu iti . bhītā sudṛś pidhāya āsyam bheje bhīti-viḍambanam .. 10.30.023 ..
एवं कृष्णं पृच्छमाना व्र्ण्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ 10.30.024 ॥
एवम् कृष्णम् पृच्छमानाः व्र्ण्दावन-लताः तरून् । व्यचक्षत वन-उद्देशे पदानि परमात्मनः ॥ १०।३०।०२४ ॥
evam kṛṣṇam pṛcchamānāḥ vrṇdāvana-latāḥ tarūn . vyacakṣata vana-uddeśe padāni paramātmanaḥ .. 10.30.024 ..
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः ॥ 10.30.025 ॥
पदानि व्यक्तम् एतानि नन्द-सूनोः महात्मनः । लक्ष्यन्ते हि ध्वज-अम्भोज वज्र-अङ्कुश-यव-आदिभिः ॥ १०।३०।०२५ ॥
padāni vyaktam etāni nanda-sūnoḥ mahātmanaḥ . lakṣyante hi dhvaja-ambhoja vajra-aṅkuśa-yava-ādibhiḥ .. 10.30.025 ..
तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ 10.30.026 ॥
तैः तैः पदैः तद्-पदवीम् अन्विच्छन्त्यः अग्रतस् अबलाः । वध्वाः पदैः सु पृक्तानि विलोक्य आर्ताः समब्रुवन् ॥ १०।३०।०२६ ॥
taiḥ taiḥ padaiḥ tad-padavīm anvicchantyaḥ agratas abalāḥ . vadhvāḥ padaiḥ su pṛktāni vilokya ārtāḥ samabruvan .. 10.30.026 ..
कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ 10.30.027 ॥
कस्याः पदानि च एतानि यातायाः नन्द-सूनुना । अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा ॥ १०।३०।०२७ ॥
kasyāḥ padāni ca etāni yātāyāḥ nanda-sūnunā . aṃsa-nyasta-prakoṣṭhāyāḥ kareṇoḥ kariṇā yathā .. 10.30.027 ..
अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ 10.30.028 ॥
अनया आराधितः नूनम् भगवान् हरिः ईश्वरः । यत् नः विहाय गोविन्दः प्रीतः याम् अनयत् रहः ॥ १०।३०।०२८ ॥
anayā ārādhitaḥ nūnam bhagavān hariḥ īśvaraḥ . yat naḥ vihāya govindaḥ prītaḥ yām anayat rahaḥ .. 10.30.028 ..
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशौ रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ 10.30.029 ॥
धन्याः अहो अमी आल्यः गोविन्द-अङ्घ्रि-अब्ज-रेणवः । यान् ब्रह्म-ईशौ रमा देवी दधुः मूर्ध्नि अघ-नुत्तये ॥ १०।३०।०२९ ॥
dhanyāḥ aho amī ālyaḥ govinda-aṅghri-abja-reṇavaḥ . yān brahma-īśau ramā devī dadhuḥ mūrdhni agha-nuttaye .. 10.30.029 ..
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्यैकापहृत्य गोपीनां रहो भुन्क्तेऽच्युताधरम् । न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ 10.30.030 ॥
तस्याः अमूनि नः क्षोभम् कुर्वन्ति उच्चैस् पदानि यत्य एक-अपहृत्य गोपीनाम् रहः भुन्क्ते अच्युत-अधरम् । न लक्ष्यन्ते पदानि अत्र तस्याः नूनम् तृण-अङ्कुरैः खिद्यत्-सुजात-अङ्घ्रि-तलाम् उन्निन्ये प्रेयसीम् प्रियः ॥ १०।३०।०३० ॥
tasyāḥ amūni naḥ kṣobham kurvanti uccais padāni yatya eka-apahṛtya gopīnām rahaḥ bhunkte acyuta-adharam . na lakṣyante padāni atra tasyāḥ nūnam tṛṇa-aṅkuraiḥ khidyat-sujāta-aṅghri-talām unninye preyasīm priyaḥ .. 10.30.030 ..
इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ॥ 10.30.031 ॥
इमानि अधिक-मग्नानि पदानि वहतः वधूम् । गोप्यः पश्यत कृष्णस्य भार-आक्रान्तस्य कामिनः । अत्रा अवरोपिता कान्ता पुष्प-हेतोः महात्मना ॥ १०।३०।०३१ ॥
imāni adhika-magnāni padāni vahataḥ vadhūm . gopyaḥ paśyata kṛṣṇasya bhāra-ākrāntasya kāminaḥ . atrā avaropitā kāntā puṣpa-hetoḥ mahātmanā .. 10.30.031 ..
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ 10.30.032 ॥
अत्र प्रसून-अवचयः प्रिय-अर्थे प्रेयसा कृतः । प्रपद-आक्रमणे एते पश्यत अ सकले पदे ॥ १०।३०।०३२ ॥
atra prasūna-avacayaḥ priya-arthe preyasā kṛtaḥ . prapada-ākramaṇe ete paśyata a sakale pade .. 10.30.032 ..
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ 10.30.033 ॥
केश-प्रसाधनम् तु अत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥ १०।३०।०३३ ॥
keśa-prasādhanam tu atra kāminyāḥ kāminā kṛtam . tāni cūḍayatā kāntām upaviṣṭam iha dhruvam .. 10.30.033 ..
रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ 10.30.034 ॥
रेमे तया च आत्म-रतः आत्म-आरामः अपि अखण्डितः । कामिनाम् दर्शयन् दैन्यम् स्त्रीणाम् च एव दुरात्मताम् ॥ १०।३०।०३४ ॥
reme tayā ca ātma-rataḥ ātma-ārāmaḥ api akhaṇḍitaḥ . kāminām darśayan dainyam strīṇām ca eva durātmatām .. 10.30.034 ..
इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः । यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ 10.30.035 ॥
इति एवम् दर्शयन्त्यः ताः चेरुः गोप्यः विचेतसः । याम् गोपीम् अनयत् कृष्णः विहाय अन्याः स्त्रियः वने ॥ १०।३०।०३५ ॥
iti evam darśayantyaḥ tāḥ ceruḥ gopyaḥ vicetasaḥ . yām gopīm anayat kṛṣṇaḥ vihāya anyāḥ striyaḥ vane .. 10.30.035 ..
सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ 10.30.036 ॥
सा च मेने तदा आत्मानम् वरिष्ठम् सर्व-योषिताम् । हित्वा गोपीः कामयानाः माम् असौ भजते प्रियः ॥ १०।३०।०३६ ॥
sā ca mene tadā ātmānam variṣṭham sarva-yoṣitām . hitvā gopīḥ kāmayānāḥ mām asau bhajate priyaḥ .. 10.30.036 ..
ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ 10.30.037 ॥
ततस् गत्वा वन-उद्देशम् दृप्ता केशवम् अब्रवीत् । न पारये अहम् चलितुम् नय माम् यत्र ते मनः ॥ १०।३०।०३७ ॥
tatas gatvā vana-uddeśam dṛptā keśavam abravīt . na pāraye aham calitum naya mām yatra te manaḥ .. 10.30.037 ..
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ 10.30.038 ॥
एवम् उक्तः प्रियाम् आह स्कन्धः आरुह्यताम् इति । ततस् च अन्तर्दधे कृष्णः सा वधूः अन्वतप्यत ॥ १०।३०।०३८ ॥
evam uktaḥ priyām āha skandhaḥ āruhyatām iti . tatas ca antardadhe kṛṣṇaḥ sā vadhūḥ anvatapyata .. 10.30.038 ..
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ 10.30.039 ॥
हा नाथ रमण प्रेष्ठ क्व असि क्व असि महा-भुज । दास्याः ते कृपणायाः मे सखे दर्शय सन्निधिम् ॥ १०।३०।०३९ ॥
hā nātha ramaṇa preṣṭha kva asi kva asi mahā-bhuja . dāsyāḥ te kṛpaṇāyāḥ me sakhe darśaya sannidhim .. 10.30.039 ..
श्रीशुक उवाच
अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः । ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् ॥ 10.30.040 ॥
अन्विच्छन्त्यः भगवतः मार्गम् गोप्यः अविदूरितः । ददृशुः प्रिय-विश्लेषात् मोहिताम् दुःखिताम् सखीम् ॥ १०।३०।०४० ॥
anvicchantyaḥ bhagavataḥ mārgam gopyaḥ avidūritaḥ . dadṛśuḥ priya-viśleṣāt mohitām duḥkhitām sakhīm .. 10.30.040 ..
तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥ 10.30.041 ॥
तया कथितम् आकर्ण्य मान-प्राप्तिम् च माधवात् । अवमानम् च दौरात्म्यात् विस्मयम् परमम् ययुः ॥ १०।३०।०४१ ॥
tayā kathitam ākarṇya māna-prāptim ca mādhavāt . avamānam ca daurātmyāt vismayam paramam yayuḥ .. 10.30.041 ..
ततोऽविशन् वनं चन्द्र ज्योत्स्ना यावद्विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ 10.30.042 ॥
ततस् अविशन् वनम् चन्द्र ज्योत्स्ना यावत् विभाव्यते । तमः प्रविष्टम् आलक्ष्य ततस् निववृतुः स्त्रियः ॥ १०।३०।०४२ ॥
tatas aviśan vanam candra jyotsnā yāvat vibhāvyate . tamaḥ praviṣṭam ālakṣya tatas nivavṛtuḥ striyaḥ .. 10.30.042 ..
तन्मनस्कास्तदलापास्तद्विचेष्टास्तदात्मिकाः । तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरुः ॥ 10.30.043 ॥
तद्-मनस्काः तद्-अलापाः तद्-विचेष्टाः तद्-आत्मिकाः । तद्-गुणान् एव गायन्त्यः न आत्म-गाराणि सस्मरुः ॥ १०।३०।०४३ ॥
tad-manaskāḥ tad-alāpāḥ tad-viceṣṭāḥ tad-ātmikāḥ . tad-guṇān eva gāyantyaḥ na ātma-gārāṇi sasmaruḥ .. 10.30.043 ..
पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ 10.30.044 ॥
पुनर् पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः । समवेताः जगुः कृष्णम् तद्-आगमन-काङ्क्षिताः ॥ १०।३०।०४४ ॥
punar pulinam āgatya kālindyāḥ kṛṣṇa-bhāvanāḥ . samavetāḥ jaguḥ kṛṣṇam tad-āgamana-kāṅkṣitāḥ .. 10.30.044 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In