| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

गोप्य ऊचुः - ( शुद्धकामदा )
जयति तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावका स्त्वयि धृतासवस्त्वां विचिन्वते ॥ १ ॥
जयति ते अधिकम् जन्मना व्रजः श्रयते इन्दिरा शश्वत् अत्र हि । दयित दृश्यताम् दिक्षु तावकाः स्त्वयि धृत-असवः त्वाम् विचिन्वते ॥ १ ॥
jayati te adhikam janmanā vrajaḥ śrayate indirā śaśvat atra hi . dayita dṛśyatām dikṣu tāvakāḥ stvayi dhṛta-asavaḥ tvām vicinvate .. 1 ..
शरदुदाशये साधुजातसत् सरसिजोदरश्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ २ ॥
शरद्-उदाशये साधु-जात-सत् सरसिज-उदर-श्री-मुषा दृशा । सुरत-नाथ ते अशुल्क-दासिकाः वर-द निघ्नतः न इह किम् वधः ॥ २ ॥
śarad-udāśaye sādhu-jāta-sat sarasija-udara-śrī-muṣā dṛśā . surata-nātha te aśulka-dāsikāḥ vara-da nighnataḥ na iha kim vadhaḥ .. 2 ..
विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् । वृषमयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ ३ ॥
विष-जल-अप्ययात् व्याल-राक्षसात् वर्ष-मारुतात् वैद्युत-अनलात् । वृष-मय-आत्मजात् विश्वतस् भयात् ऋषभ ते वयम् रक्षिताः मुहुर् ॥ ३ ॥
viṣa-jala-apyayāt vyāla-rākṣasāt varṣa-mārutāt vaidyuta-analāt . vṛṣa-maya-ātmajāt viśvatas bhayāt ṛṣabha te vayam rakṣitāḥ muhur .. 3 ..
न खलु गोपीकानन्दनो भवान् अखिलदेहिनां अन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ ४ ॥
न खलु गोपीकानन्दनः भवान् अखिल-देहिनाम् अन्तरात्म-दृश् । विखनसा अर्थितः विश्व-गुप्तये सखः उदेयिवान् सात्वताम् कुले ॥ ४ ॥
na khalu gopīkānandanaḥ bhavān akhila-dehinām antarātma-dṛś . vikhanasā arthitaḥ viśva-guptaye sakhaḥ udeyivān sātvatām kule .. 4 ..
विरचिताभयं वृष्णिधूर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ ५ ॥
विरचित-अभयम् वृष्णि-धूः य ते चरणम् ईयुषाम् संसृतेः भयात् । कर-सरोरुहम् कान्त काम-दम् शिरसि धेहि नः श्री-कर-ग्रहम् ॥ ५ ॥
viracita-abhayam vṛṣṇi-dhūḥ ya te caraṇam īyuṣām saṃsṛteḥ bhayāt . kara-saroruham kānta kāma-dam śirasi dhehi naḥ śrī-kara-graham .. 5 ..
व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत् किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥ ६ ॥
व्रज-जन-आर्ति-हन् वीर योषिताम् निज-जन-स्मय-ध्वंसन-स्मित । भज सखे भवत् किङ्करीः स्म नः जलरुह-आननम् चारु दर्शय ॥ ६ ॥
vraja-jana-ārti-han vīra yoṣitām nija-jana-smaya-dhvaṃsana-smita . bhaja sakhe bhavat kiṅkarīḥ sma naḥ jalaruha-ānanam cāru darśaya .. 6 ..
प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥
प्रणत-देहिनाम् पाप-कर्षणम् तृणचर-अनुगम् श्री-निकेतनम् । फणि-फण-अर्पितम् ते पद-अम्बुजम् कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ ७ ॥
praṇata-dehinām pāpa-karṣaṇam tṛṇacara-anugam śrī-niketanam . phaṇi-phaṇa-arpitam te pada-ambujam kṛṇu kuceṣu naḥ kṛndhi hṛcchayam .. 7 ..
मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यती रधरसीधुनाप्याययस्व नः ॥ ८ ॥
मधुरया गिरा वल्गु-वाक्यया बुध-मनोज्ञया पुष्कर-ईक्षण । विधिकरीः इमाः वीर मुह्यती नः ॥ ८ ॥
madhurayā girā valgu-vākyayā budha-manojñayā puṣkara-īkṣaṇa . vidhikarīḥ imāḥ vīra muhyatī naḥ .. 8 ..
तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ये भूरिदा जनाः ॥ ९ ॥
तव कथा-अमृतम् तप्त-जीवनम् कविभिः ईडितम् कल्मष-अपहम् । श्रवण-मङ्गलम् श्रीमत् आततम् भुवि गृणन्ति ये भूरि-दाः जनाः ॥ ९ ॥
tava kathā-amṛtam tapta-jīvanam kavibhiḥ īḍitam kalmaṣa-apaham . śravaṇa-maṅgalam śrīmat ātatam bhuvi gṛṇanti ye bhūri-dāḥ janāḥ .. 9 ..
प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ १० ॥
प्रहसितम् प्रिय प्रेम-वीक्षणम् विहरणम् च ते ध्यान-मङ्गलम् । रहसि संविदः याः हृदि स्पृशः कुहक नः मनः क्षोभयन्ति हि ॥ १० ॥
prahasitam priya prema-vīkṣaṇam viharaṇam ca te dhyāna-maṅgalam . rahasi saṃvidaḥ yāḥ hṛdi spṛśaḥ kuhaka naḥ manaḥ kṣobhayanti hi .. 10 ..
चलसि यद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ ११ ॥
चलसि यत् व्रजात् चारयन् पशून् नलिन-सुन्दरम् नाथ ते पदम् । शिल-तृण-अङ्कुरैः सीदति इति नः कलिल-ताम् मनः कान्त गच्छति ॥ ११ ॥
calasi yat vrajāt cārayan paśūn nalina-sundaram nātha te padam . śila-tṛṇa-aṅkuraiḥ sīdati iti naḥ kalila-tām manaḥ kānta gacchati .. 11 ..
दिनपरिक्षये नीलकुन्तलैः वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन् मुहु र्मनसि नः स्मरं वीर यच्छसि ॥ १२ ॥
दिन-परिक्षये नील-कुन्तलैः वनरुह-आननम् बिभ्रत् आवृतम् । घन-रजस्वलम् दर्शयन् मुहु र् मनसि नः स्मरम् वीर यच्छसि ॥ १२ ॥
dina-parikṣaye nīla-kuntalaiḥ vanaruha-ānanam bibhrat āvṛtam . ghana-rajasvalam darśayan muhu r manasi naḥ smaram vīra yacchasi .. 12 ..
प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥
प्रणत-काम-दम् पद्मज-अर्चितम् धरणि-मण्डनम् ध्येयम् आपदि । चरण-पङ्कजम् शन्तमम् च ते रमण नः स्तनेषु अर्पय अधि हन् ॥ १३ ॥
praṇata-kāma-dam padmaja-arcitam dharaṇi-maṇḍanam dhyeyam āpadi . caraṇa-paṅkajam śantamam ca te ramaṇa naḥ staneṣu arpaya adhi han .. 13 ..
सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १४ ॥
सुरत-वर्धनम् शोक-नाशनम् स्वरित-वेणुना सुष्ठु चुम्बितम् । इतर-राग-विस्मारणम् नृणाम् वितर वीर नः ते अधर-अमृतम् ॥ १४ ॥
surata-vardhanam śoka-nāśanam svarita-veṇunā suṣṭhu cumbitam . itara-rāga-vismāraṇam nṛṇām vitara vīra naḥ te adhara-amṛtam .. 14 ..
अटति यद् भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ १५ ॥
अटति यत् भवान् अह्नि काननम् त्रुटिः युगायते त्वाम् अपश्यताम् । कुटिल-कुन्तलम् श्री-मुखम् च ते जडः उदीक्षताम् पक्ष्मकृत् दृशाम् ॥ १५ ॥
aṭati yat bhavān ahni kānanam truṭiḥ yugāyate tvām apaśyatām . kuṭila-kuntalam śrī-mukham ca te jaḍaḥ udīkṣatām pakṣmakṛt dṛśām .. 15 ..
पतिसुतान्वयभ्रातृबान्धवान् अतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥
पति-सुत-अन्वय-भ्रातृ-बान्धवान् अति विलङ्घ्य ते अन्ति अच्युत-आगताः । गति-विदः तव उद्गीत-मोहिताः कितव योषितः कः त्यजेत् निशि ॥ १६ ॥
pati-suta-anvaya-bhrātṛ-bāndhavān ati vilaṅghya te anti acyuta-āgatāḥ . gati-vidaḥ tava udgīta-mohitāḥ kitava yoṣitaḥ kaḥ tyajet niśi .. 16 ..
रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥
रहसि संविदम् हृच्छय-उदयम् प्रहसित-आननम् प्रेम-वीक्षणम् । बृहत्-उरः श्रियः वीक्ष्य धाम ते मुहुर् अति स्पृहाः मुह्यते मनः ॥ १७ ॥
rahasi saṃvidam hṛcchaya-udayam prahasita-ānanam prema-vīkṣaṇam . bṛhat-uraḥ śriyaḥ vīkṣya dhāma te muhur ati spṛhāḥ muhyate manaḥ .. 17 ..
व्रजवनौकसां व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥
व्रज-वनौकसाम् व्यक्तिः अङ्ग ते वृजिन-हन्त्री अलम् विश्व-मङ्गलम् । त्यज मनाक् च नः त्वद्-स्पृहा-आत्मनाम् स्व-जन-हृद्-रुजाम् यत् निषूदनम् ॥ १८ ॥
vraja-vanaukasām vyaktiḥ aṅga te vṛjina-hantrī alam viśva-maṅgalam . tyaja manāk ca naḥ tvad-spṛhā-ātmanām sva-jana-hṛd-rujām yat niṣūdanam .. 18 ..
( वसंततिलका )
यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद् व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ १९ ॥
यत् ते सुजात-चरण-अम्बुरुहम् स्तनेषु भीताः शनैस् प्रिय दधीमहि कर्कशेषु । तेन अटवीम् अटसि तत् व्यथते न किम् स्विद् कूर्प-आदिभिः भ्रमति धीः भवत्-आयुषाम् नः ॥ १९ ॥
yat te sujāta-caraṇa-amburuham staneṣu bhītāḥ śanais priya dadhīmahi karkaśeṣu . tena aṭavīm aṭasi tat vyathate na kim svid kūrpa-ādibhiḥ bhramati dhīḥ bhavat-āyuṣām naḥ .. 19 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे रासक्रीडायाम् गोपीगीतम् नाम एकत्रिंशः अध्यायः ॥ ३१ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe rāsakrīḍāyām gopīgītam nāma ekatriṃśaḥ adhyāyaḥ .. 31 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In