| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ १ ॥
इति गोप्यः प्रगायन्त्यः प्रलपन्त्यः च चित्रधा । रुरुदुः सु स्वरम् राजन् कृष्ण-दर्शन-लालसाः ॥ १ ॥
iti gopyaḥ pragāyantyaḥ pralapantyaḥ ca citradhā . ruruduḥ su svaram rājan kṛṣṇa-darśana-lālasāḥ .. 1 ..
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ २ ॥
तासाम् आविरभूत् शौरिः स्मयमान-मुख-अम्बुजः । पीत-अम्बर-धरः स्रग्वी साक्षात् मन्मथ-मन्मथः ॥ २ ॥
tāsām āvirabhūt śauriḥ smayamāna-mukha-ambujaḥ . pīta-ambara-dharaḥ sragvī sākṣāt manmatha-manmathaḥ .. 2 ..
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः । उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम् ॥ ३ ॥
तम् विलोक्य आगतम् प्रेष्ठम् प्रीति-उत्फुल्ल-दृशः अबलाः । उत्तस्थुः युगपद् सर्वाः तन्वः प्राणम् इव आगतम् ॥ ३ ॥
tam vilokya āgatam preṣṭham prīti-utphulla-dṛśaḥ abalāḥ . uttasthuḥ yugapad sarvāḥ tanvaḥ prāṇam iva āgatam .. 3 ..
काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा । काचिद् दधार तद्बाहुं अंसे चन्दनरूषितम् ॥ ४ ॥
काचिद् कर-अम्बुजम् शौरेः जगृहे अञ्जलिना मुदा । काचिद् दधार तद्-बाहुम् अंसे चन्दन-रूषितम् ॥ ४ ॥
kācid kara-ambujam śaureḥ jagṛhe añjalinā mudā . kācid dadhāra tad-bāhum aṃse candana-rūṣitam .. 4 ..
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ ५ ॥
काचिद् अञ्जलिना अगृह्णात् तन्वी ताम्बूल-चर्वितम् । एका तद्-अङ्घ्रि-कमलम् सन्तप्ता स्तनयोः अधात् ॥ ५ ॥
kācid añjalinā agṛhṇāt tanvī tāmbūla-carvitam . ekā tad-aṅghri-kamalam santaptā stanayoḥ adhāt .. 5 ..
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ ६ ॥
एका भ्रुकुटिम् आबध्य प्रेम-संरम्भ-विह्वला । घ्नन्ती इव ऐक्षत् कट-आक्षेपैः सन्दष्ट-दशनच्छदा ॥ ६ ॥
ekā bhrukuṭim ābadhya prema-saṃrambha-vihvalā . ghnantī iva aikṣat kaṭa-ākṣepaiḥ sandaṣṭa-daśanacchadā .. 6 ..
अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा ॥ ७ ॥
अपरा अनिमिषत् दृग्भ्याम् जुषाणा तद्-मुख-अम्बुजम् । आपीतम् अपि न अतृप्यत् सन्तः तद्-चरणम् यथा ॥ ७ ॥
aparā animiṣat dṛgbhyām juṣāṇā tad-mukha-ambujam . āpītam api na atṛpyat santaḥ tad-caraṇam yathā .. 7 ..
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ ८ ॥
तम् काचिद् नेत्र-रन्ध्रेण हृदिकृत्य निमील्य च । पुलक-अङ्गी उपगुह्या आस्ते योगी इव आनन्द-सम्प्लुता ॥ ८ ॥
tam kācid netra-randhreṇa hṛdikṛtya nimīlya ca . pulaka-aṅgī upaguhyā āste yogī iva ānanda-samplutā .. 8 ..
सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ ९ ॥
सर्वाः ताः केशव-आलोक परम-उत्सव-निर्वृताः । जहुः विरह-जम् तापम् प्राज्ञम् प्राप्य यथा जनाः ॥ ९ ॥
sarvāḥ tāḥ keśava-āloka parama-utsava-nirvṛtāḥ . jahuḥ viraha-jam tāpam prājñam prāpya yathā janāḥ .. 9 ..
ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ १० ॥
ताभिः विधूत-शोकाभिः भगवान् अच्युतः वृतः । व्यरोचत अधिकम् तात पुरुषः शक्तिभिः यथा ॥ १० ॥
tābhiḥ vidhūta-śokābhiḥ bhagavān acyutaḥ vṛtaḥ . vyarocata adhikam tāta puruṣaḥ śaktibhiḥ yathā .. 10 ..
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ ११ ॥
ताः समादाय कालिन्द्याः निर्विश्य पुलिनम् विभुः । विकसत्-कुन्द-मन्दार सुरभि-अनिल-षट्पदम् ॥ ११ ॥
tāḥ samādāya kālindyāḥ nirviśya pulinam vibhuḥ . vikasat-kunda-mandāra surabhi-anila-ṣaṭpadam .. 11 ..
शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरला चितकोमलवालुकम् ॥ १२ ॥
शरद्-चन्द्र-अंशु-सन्दोह ध्वस्त-दोषा तमः शिवम् । कृष्णायाः हस्त-तरला चित-कोमल-वालुकम् ॥ १२ ॥
śarad-candra-aṃśu-sandoha dhvasta-doṣā tamaḥ śivam . kṛṣṇāyāḥ hasta-taralā cita-komala-vālukam .. 12 ..
( मिश्र )
तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैः अचीक्लृपन्नासनमात्मबन्धवे ॥ १३ ॥
तद्-दर्शन-आह्लाद-विधूत-हृद्रुजः मनोरथ-अन्तम् श्रुतयः यथा ययुः । स्वैः उत्तरीयैः कुच-कुङ्कुम-अङ्कितैः अचीक्लृपन् आसनम् आत्मबन्धवे ॥ १३ ॥
tad-darśana-āhlāda-vidhūta-hṛdrujaḥ manoratha-antam śrutayaḥ yathā yayuḥ . svaiḥ uttarīyaiḥ kuca-kuṅkuma-aṅkitaiḥ acīklṛpan āsanam ātmabandhave .. 13 ..
तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्गतोऽर्चितः त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ १४ ॥
तत्र उपविष्टः भगवान् सः ईश्वरः योगेश्वर-अन्तर् हृदि कल्पित-आसनः । चकास गोपी-परिषद्-गतः अर्चितः त्रैलोक्य-लक्ष्मी-एक-पदम् वपुः दधत् ॥ १४ ॥
tatra upaviṣṭaḥ bhagavān saḥ īśvaraḥ yogeśvara-antar hṛdi kalpita-āsanaḥ . cakāsa gopī-pariṣad-gataḥ arcitaḥ trailokya-lakṣmī-eka-padam vapuḥ dadhat .. 14 ..
सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे ॥ १५ ॥
सभाजयित्वा तम् अनङ्ग-दीपनम् स हास-लीला-ईक्षण-विभ्रम-भ्रुवा । संस्पर्शनेन अङ्क-कृत-अङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिताः बभाषिरे ॥ १५ ॥
sabhājayitvā tam anaṅga-dīpanam sa hāsa-līlā-īkṣaṇa-vibhrama-bhruvā . saṃsparśanena aṅka-kṛta-aṅghri-hastayoḥ saṃstutya īṣat kupitāḥ babhāṣire .. 15 ..
श्रीगोप्य ऊचुः - ( अनुष्टुप् )
भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् । नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ १६ ॥
भजतः अनुभजन्ति एके एकः एतद्-विपर्ययम् । न उभयान् च भजन्ति एके एतत् नः ब्रूहि साधु भोः ॥ १६ ॥
bhajataḥ anubhajanti eke ekaḥ etad-viparyayam . na ubhayān ca bhajanti eke etat naḥ brūhi sādhu bhoḥ .. 16 ..
श्रीभगवानुवाच -
मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा ॥ १७ ॥
मिथस् भजन्ति ये सख्यः स्व-अर्थ-एकान्त-उद्यमाः हि ते । न तत्र सौहृदम् धर्मः स्वार्थ-अर्थम् तत् हि न अन्यथा ॥ १७ ॥
mithas bhajanti ye sakhyaḥ sva-artha-ekānta-udyamāḥ hi te . na tatra sauhṛdam dharmaḥ svārtha-artham tat hi na anyathā .. 17 ..
भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः ॥ १८ ॥
भजन्ति अभजतः ये वै करुणाः पितरः यथा । धर्मः निरपवादः अत्र सौहृदम् च सुमध्यमाः ॥ १८ ॥
bhajanti abhajataḥ ye vai karuṇāḥ pitaraḥ yathā . dharmaḥ nirapavādaḥ atra sauhṛdam ca sumadhyamāḥ .. 18 ..
भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ १९ ॥
भजतः अपि न वै केचिद् भजन्ति अभजतः कुतस् । आत्म-आरामाः हि आप्त-कामाः अकृतज्ञाः गुरु-द्रुहः ॥ १९ ॥
bhajataḥ api na vai kecid bhajanti abhajataḥ kutas . ātma-ārāmāḥ hi āpta-kāmāḥ akṛtajñāḥ guru-druhaḥ .. 19 ..
( मिश्र )
नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ २० ॥
न अहम् तु सख्यः भजतः अपि जन्तून् भजामि अमीषाम् अनुवृत्ति-वृत्तये । यथा अधनः लब्ध-धने विनष्टे तद्-चिन्तया अन्यत् निभृतः न वेद ॥ २० ॥
na aham tu sakhyaḥ bhajataḥ api jantūn bhajāmi amīṣām anuvṛtti-vṛttaye . yathā adhanaḥ labdha-dhane vinaṣṭe tad-cintayā anyat nibhṛtaḥ na veda .. 20 ..
एवं मदर्थोज्झितलोकवेद स्वानां हि वो मय्यनुवृत्तयेऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ २१ ॥
एवम् मद्-अर्थ-उज्झित-लोक-वेद स्वानाम् हि वः मयि अनुवृत्तये अबलाः । मया अपरोक्षम् भजता तिरोहितम् मा असूयितुम् मा अर्हथ तत् प्रियम् प्रियाः ॥ २१ ॥
evam mad-artha-ujjhita-loka-veda svānām hi vaḥ mayi anuvṛttaye abalāḥ . mayā aparokṣam bhajatā tirohitam mā asūyitum mā arhatha tat priyam priyāḥ .. 21 ..
न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ २२ ॥
न पारये अहम् निरवद्य-संयुजाम् स्व-साधु-कृत्यम् विबुध-आयुषा अपि वः । याः मा आभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तत् वः प्रतियातु साधुना ॥ २२ ॥
na pāraye aham niravadya-saṃyujām sva-sādhu-kṛtyam vibudha-āyuṣā api vaḥ . yāḥ mā ābhajan durjara-geha-śṛṅkhalāḥ saṃvṛścya tat vaḥ pratiyātu sādhunā .. 22 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे रासक्रीडायाम् गोपीसान्त्वनम् नाम द्वात्रिंशः अध्यायः ॥ ३२ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe rāsakrīḍāyām gopīsāntvanam nāma dvātriṃśaḥ adhyāyaḥ .. 32 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In