| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ १ ॥
इत्थम् भगवतः गोप्यः श्रुत्वा वाचः सु पेशलाः । जहुः विरह-जम् तापम् तद्-अङ्ग-उपचित-आशिषः ॥ १ ॥
ittham bhagavataḥ gopyaḥ śrutvā vācaḥ su peśalāḥ . jahuḥ viraha-jam tāpam tad-aṅga-upacita-āśiṣaḥ .. 1 ..
तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः ॥ २ ॥
तत्र आरभत गोविन्दः रासक्रीडाम् अनुव्रतैः । स्त्री-रत्नैः अन्वितः प्रीतैः अन्योन्य-आबद्ध-बाहुभिः ॥ २ ॥
tatra ārabhata govindaḥ rāsakrīḍām anuvrataiḥ . strī-ratnaiḥ anvitaḥ prītaiḥ anyonya-ābaddha-bāhubhiḥ .. 2 ..
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ॥ ३ ॥
रास-उत्सवः सम्प्रवृत्तः गोपी-मण्डल-मण्डितः । योगेश्वरेण कृष्णेन तासाम् मध्ये द्वयोः द्वयोः ॥ ३ ॥
rāsa-utsavaḥ sampravṛttaḥ gopī-maṇḍala-maṇḍitaḥ . yogeśvareṇa kṛṣṇena tāsām madhye dvayoḥ dvayoḥ .. 3 ..
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः । यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ॥ ४ ॥
प्रविष्टेन गृहीतानाम् कण्ठे स्व-निकटम् स्त्रियः । यम् मन्येरन् नभः तावत् विमान-शत-सङ्कुलम् ॥ ४ ॥
praviṣṭena gṛhītānām kaṇṭhe sva-nikaṭam striyaḥ . yam manyeran nabhaḥ tāvat vimāna-śata-saṅkulam .. 4 ..
दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् । ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः । जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम् ॥ ५ ॥
दिवौकसाम् स दाराणाम् औत्सुक्य-अपहृत-आत्मनाम् । ततस् दुन्दुभयः नेदुः निपेतुः पुष्प-वृष्टयः । जगुः गन्धर्व-पतयः स स्त्रीकाः तत् यशः अमलम् ॥ ५ ॥
divaukasām sa dārāṇām autsukya-apahṛta-ātmanām . tatas dundubhayaḥ neduḥ nipetuḥ puṣpa-vṛṣṭayaḥ . jaguḥ gandharva-patayaḥ sa strīkāḥ tat yaśaḥ amalam .. 5 ..
वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले ॥ ६ ॥
वलयानाम् नूपुराणाम् किङ्किणीनाम् च योषिताम् । स प्रियाणाम् अभूत् शब्दः तुमुलः रास-मण्डले ॥ ६ ॥
valayānām nūpurāṇām kiṅkiṇīnām ca yoṣitām . sa priyāṇām abhūt śabdaḥ tumulaḥ rāsa-maṇḍale .. 6 ..
तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥
तत्र अतिशुशुभे ताभिः भगवान् देवकी-सुतः । मध्ये मणीनाम् हैमानाम् महा-मरकतः यथा ॥ ७ ॥
tatra atiśuśubhe tābhiḥ bhagavān devakī-sutaḥ . madhye maṇīnām haimānām mahā-marakataḥ yathā .. 7 ..
( शार्दूलविक्रीडित )
पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः । भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो । गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८ ॥
पाद-न्यासैः भुज-विधुतिभिः स स्मितैः भ्रू-विलासैः । भज्यत्-मध्यैः चल-कुच-पटैः कुण्डलैः गण्ड-लोलैः । स्विद्यत्-मुख्यः ग्रन्थयः कृष्ण-वध्वः । गायन्त्यः तम् तडितः इव ताः मेघ-चक्रे विरेजुः ॥ ८ ॥
pāda-nyāsaiḥ bhuja-vidhutibhiḥ sa smitaiḥ bhrū-vilāsaiḥ . bhajyat-madhyaiḥ cala-kuca-paṭaiḥ kuṇḍalaiḥ gaṇḍa-lolaiḥ . svidyat-mukhyaḥ granthayaḥ kṛṣṇa-vadhvaḥ . gāyantyaḥ tam taḍitaḥ iva tāḥ megha-cakre virejuḥ .. 8 ..
( अनुष्टुप् )
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९ ॥
उच्चैस् जगुः नृत्यमानाः रक्त-कण्ठ्यः रति-प्रियाः । कृष्ण-अभिमर्श-मुदिता यत् गीतेन इदम् आवृतम् ॥ ९ ॥
uccais jaguḥ nṛtyamānāḥ rakta-kaṇṭhyaḥ rati-priyāḥ . kṛṣṇa-abhimarśa-muditā yat gītena idam āvṛtam .. 9 ..
काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥
काचिद् समम् मुकुन्देन । उन्निन्ये पूजिता तेन प्रीयता साधु साधु इति । तत् एव ध्रुवम् उन्निन्ये तस्यै मानम् च बहु अदात् ॥ १० ॥
kācid samam mukundena . unninye pūjitā tena prīyatā sādhu sādhu iti . tat eva dhruvam unninye tasyai mānam ca bahu adāt .. 10 ..
काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥
काचिद् रास-परिश्रान्ता पार्श्व-स्थस्य गदाभृतः । जग्राह बाहुना स्कन्धम् श्लथत्-वलय-मल्लिका ॥ ११ ॥
kācid rāsa-pariśrāntā pārśva-sthasya gadābhṛtaḥ . jagrāha bāhunā skandham ślathat-valaya-mallikā .. 11 ..
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥
तत्र एक-अंस-गतम् बाहुम् कृष्णस्य उत्पल-सौरभम् । चन्दन-आलिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह ॥ १२ ॥
tatra eka-aṃsa-gatam bāhum kṛṣṇasya utpala-saurabham . candana-āliptam āghrāya hṛṣṭa-romā cucumba ha .. 12 ..
कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम् ॥ १३ ॥
कस्याश्चिद् नाट्य-विक्षिप्त-कुण्डल-त्विष-मण्डितम् । गण्डम् गण्डे सन्दधत्याः अदात् ताम्बूल-चर्वितम् ॥ १३ ॥
kasyāścid nāṭya-vikṣipta-kuṇḍala-tviṣa-maṇḍitam . gaṇḍam gaṇḍe sandadhatyāḥ adāt tāmbūla-carvitam .. 13 ..
नृत्यती गायती काचित् कूजन् नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ १४ ॥
नृत्यती गायती काचिद् कूजत् नूपुर-मेखला । पार्श्व-स्था अच्युत-हस्त-अब्जम् श्रान्ता अधात् स्तनयोः शिवम् ॥ १४ ॥
nṛtyatī gāyatī kācid kūjat nūpura-mekhalā . pārśva-sthā acyuta-hasta-abjam śrāntā adhāt stanayoḥ śivam .. 14 ..
गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥
गोप्यः लब्ध्वा अच्युतम् कान्तम् श्रियः एकान्त-वल्लभम् । गृहीत-कण्ठ्यः तद्-दोर्भ्याम् गायन्त्यः तम् विजह्रिरे ॥ १५ ॥
gopyaḥ labdhvā acyutam kāntam śriyaḥ ekānta-vallabham . gṛhīta-kaṇṭhyaḥ tad-dorbhyām gāyantyaḥ tam vijahrire .. 15 ..
( वसंततिलका )
कर्णोत्पलालकविटङ्ककपोलघर्म वक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेश स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६ ॥
कर्ण-उत्पल-अलक-विटङ्क-कपोल-घर्म वक्त्र-श्रियः वलय-नूपुर-घोष-वाद्यैः । गोप्यः समम् भगवता ननृतुः स्व-केश स्रस्त-स्रजः भ्रमर-गायक-रास-गोष्ठ्याम् ॥ १६ ॥
karṇa-utpala-alaka-viṭaṅka-kapola-gharma vaktra-śriyaḥ valaya-nūpura-ghoṣa-vādyaiḥ . gopyaḥ samam bhagavatā nanṛtuḥ sva-keśa srasta-srajaḥ bhramara-gāyaka-rāsa-goṣṭhyām .. 16 ..
( मिश्र )
एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिः यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥
एवम् परिष्वङ्ग-कर-अभिमर्श स्निग्ध-ईक्षण-उद्दाम-विलास-हासैः । रेमे रमेशः व्रजसुन्दरीभिः यथा अर्भकः स्व-प्रतिबिम्ब-विभ्रमः ॥ १७ ॥
evam pariṣvaṅga-kara-abhimarśa snigdha-īkṣaṇa-uddāma-vilāsa-hāsaiḥ . reme rameśaḥ vrajasundarībhiḥ yathā arbhakaḥ sva-pratibimba-vibhramaḥ .. 17 ..
तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दूकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥
तद्-अङ्ग-सङ्ग-प्रमुद्-आकुल-इन्द्रियाः केशान् दूकूलम् कुच-पट्टिकाम् वा । न अञ्जस् प्रतिव्योढुम् अलम् व्रज-स्त्रियः विस्रस्त-माला-आभरणाः कुरु-उद्वह ॥ १८ ॥
tad-aṅga-saṅga-pramud-ākula-indriyāḥ keśān dūkūlam kuca-paṭṭikām vā . na añjas prativyoḍhum alam vraja-striyaḥ visrasta-mālā-ābharaṇāḥ kuru-udvaha .. 18 ..
( अनुष्टुप् )
कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥
कृष्ण-विक्रीडितम् वीक्ष्य मुमुहुः खेचर-स्त्रियः । काम-अर्दिताः शशाङ्कः च स गणः विस्मितः अभवत् ॥ १९ ॥
kṛṣṇa-vikrīḍitam vīkṣya mumuhuḥ khecara-striyaḥ . kāma-arditāḥ śaśāṅkaḥ ca sa gaṇaḥ vismitaḥ abhavat .. 19 ..
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया ॥ २० ॥
कृत्वा तावन्तम् आत्मानम् यावतीः गोप-योषितः । रेमे स भगवान् ताभिः आत्म-आरामः अपि लीलया ॥ २० ॥
kṛtvā tāvantam ātmānam yāvatīḥ gopa-yoṣitaḥ . reme sa bhagavān tābhiḥ ātma-ārāmaḥ api līlayā .. 20 ..
तासां अतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २१ ॥
तासाम् अतिविहारेण श्रान्तानाम् वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेन अङ्ग पाणिना ॥ २१ ॥
tāsām ativihāreṇa śrāntānām vadanāni saḥ . prāmṛjat karuṇaḥ premṇā śantamena aṅga pāṇinā .. 21 ..
( वसंततिलका )
गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड् गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥
गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-गण्ड-श्रिया सुधित-हास-निरीक्षणेन । मानम् दधत्यः ऋषभस्य जगुः कृतानि पुण्यानि तद्-कररुह-स्पर्श-प्रमोदाः ॥ २२ ॥
gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇena . mānam dadhatyaḥ ṛṣabhasya jaguḥ kṛtāni puṇyāni tad-kararuha-sparśa-pramodāḥ .. 22 ..
ताभिर्युतः श्रममपोहितुमङ्गसङ्ग घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिरनुद्रुत आविशद् वा श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३ ॥
ताभिः युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः । गन्धर्व-पालिभिः अनुद्रुतः आविशत् वा श्रान्तः गजीभिः इभ-राज् इव भिन्न-सेतुः ॥ २३ ॥
tābhiḥ yutaḥ śramam apohitum aṅga-saṅga ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ . gandharva-pālibhiḥ anudrutaḥ āviśat vā śrāntaḥ gajībhiḥ ibha-rāj iva bhinna-setuḥ .. 23 ..
सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४ ॥
सः अम्भसि अलम् युवतिभिः परिषिच्यमानः प्रेम्णा ईक्षितः प्रहसतीभिः इतस् ततस् अङ्ग । वैमानिकैः कुसुम-वर्षिभिः ईड्यमानः रेमे स्वयम् स्व-रतिः अत्र गज-इन्द्र-लीलः ॥ २४ ॥
saḥ ambhasi alam yuvatibhiḥ pariṣicyamānaḥ premṇā īkṣitaḥ prahasatībhiḥ itas tatas aṅga . vaimānikaiḥ kusuma-varṣibhiḥ īḍyamānaḥ reme svayam sva-ratiḥ atra gaja-indra-līlaḥ .. 24 ..
( मिश्र )
ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥
ततस् च कृष्ण-उपवने प्रसून-गन्ध-अनिल-जुष्ट-दिश्-तटे । चचार भृङ्ग-प्रमदा-गण-आवृतः यथा मद-च्युत् द्विरदः करेणुभिः ॥ २५ ॥
tatas ca kṛṣṇa-upavane prasūna-gandha-anila-juṣṭa-diś-taṭe . cacāra bhṛṅga-pramadā-gaṇa-āvṛtaḥ yathā mada-cyut dviradaḥ kareṇubhiḥ .. 25 ..
एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥
एवम् शशाङ्क-अंशु-विराजिताः निशाः स सत्यकामः अनुरता अबला-गणः । सिषेव आत्मनि अवरुद्ध-सौरतः सर्वाः शरद्-काव्य-कथा-रस-आश्रयाः ॥ २६ ॥
evam śaśāṅka-aṃśu-virājitāḥ niśāḥ sa satyakāmaḥ anuratā abalā-gaṇaḥ . siṣeva ātmani avaruddha-saurataḥ sarvāḥ śarad-kāvya-kathā-rasa-āśrayāḥ .. 26 ..
श्रीपरीक्षिदुवाच -
संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः ॥ २७ ॥
संस्थापनाय धर्मस्य प्रशमाय इतरस्य च । अवतीर्णः हि अंशेन जगत्-ईश्वरः ॥ २७ ॥
saṃsthāpanāya dharmasya praśamāya itarasya ca . avatīrṇaḥ hi aṃśena jagat-īśvaraḥ .. 27 ..
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥
स कथम् धर्म-सेतूनाम् वक्ता कर्ता अभिरक्षिता । प्रतीपम् आचरत् ब्रह्मन् पर-दार-अभिमर्शनम् ॥ २८ ॥
sa katham dharma-setūnām vaktā kartā abhirakṣitā . pratīpam ācarat brahman para-dāra-abhimarśanam .. 28 ..
आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत ॥ २९ ॥
आप्त-कामः यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्रायः एतत् नः संशयम् छिन्धि सुव्रत ॥ २९ ॥
āpta-kāmaḥ yadupatiḥ kṛtavān vai jugupsitam . kimabhiprāyaḥ etat naḥ saṃśayam chindhi suvrata .. 29 ..
श्रीशुक उवाच -
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥
धर्म-व्यतिक्रमः दृष्टः ईश्वराणाम् च साहसम् । तेजीयसाम् न दोषाय वह्नेः सर्व-भुजः यथा ॥ ३० ॥
dharma-vyatikramaḥ dṛṣṭaḥ īśvarāṇām ca sāhasam . tejīyasām na doṣāya vahneḥ sarva-bhujaḥ yathā .. 30 ..
नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम् ॥ ३१ ॥
न एतत् समाचरेत् जातु मनसा अपि हि अनीश्वरः । विनश्यति आचरन् मौढ्यात् यथा अ रुद्रः अब्धि-जम् विषम् ॥ ३१ ॥
na etat samācaret jātu manasā api hi anīśvaraḥ . vinaśyati ācaran mauḍhyāt yathā a rudraḥ abdhi-jam viṣam .. 31 ..
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३२ ॥
ईश्वराणाम् वचः सत्यम् तथा एव आचरितम् क्वचिद् । तेषाम् यत् स्व-वचः-युक्तम् बुद्धिमान् तत् समाचरेत् ॥ ३२ ॥
īśvarāṇām vacaḥ satyam tathā eva ācaritam kvacid . teṣām yat sva-vacaḥ-yuktam buddhimān tat samācaret .. 32 ..
कुशलाचरितेनैषां इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३३ ॥
कुशल-आचरितेन एषाम् इह स्व-अर्थः न विद्यते । विपर्ययेण वा अनर्थः निरहङ्कारिणाम् प्रभो ॥ ३३ ॥
kuśala-ācaritena eṣām iha sva-arthaḥ na vidyate . viparyayeṇa vā anarthaḥ nirahaṅkāriṇām prabho .. 33 ..
किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥
किम् उत अखिल-सत्त्वानाम् तिर्यक् मर्त्य-दिवौकसाम् । ईशितुः च ईशितव्यानाम् कुशल-अकुशल-अन्वयः ॥ ३४ ॥
kim uta akhila-sattvānām tiryak martya-divaukasām . īśituḥ ca īśitavyānām kuśala-akuśala-anvayaḥ .. 34 ..
( वसंततिलका )
यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥
यद्-पाद-पङ्कज-पराग-निषेव-तृप्ताः योग-प्रभाव-विधुत-अखिल-कर्म-बन्धाः । स्वैरम् चरन्ति मुनयः अपि न नह्यमानाः तस्य इच्छया आत्त-वपुषः कुतस् एव बन्धः ॥ ३५ ॥
yad-pāda-paṅkaja-parāga-niṣeva-tṛptāḥ yoga-prabhāva-vidhuta-akhila-karma-bandhāḥ . svairam caranti munayaḥ api na nahyamānāḥ tasya icchayā ātta-vapuṣaḥ kutas eva bandhaḥ .. 35 ..
( अनुष्टुप् )
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६ ॥
गोपीनाम् तद्-पतीनाम् च सर्वेषाम् एव देहिनाम् । यः अन्तर् चरति सः अध्यक्षः क्रीडनेन इह देहभाज् ॥ ३६ ॥
gopīnām tad-patīnām ca sarveṣām eva dehinām . yaḥ antar carati saḥ adhyakṣaḥ krīḍanena iha dehabhāj .. 36 ..
अनुग्रहाय भूतानां मानुषं देहमास्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥
अनुग्रहाय भूतानाम् मानुषम् देहम् आस्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तद्-परः भवेत् ॥ ३७ ॥
anugrahāya bhūtānām mānuṣam deham āsthitaḥ . bhajate tādṛśīḥ krīḍa yāḥ śrutvā tad-paraḥ bhavet .. 37 ..
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥
न असूयन् खलु कृष्णाय मोहिताः तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रज-ओकसः ॥ ३८ ॥
na asūyan khalu kṛṣṇāya mohitāḥ tasya māyayā . manyamānāḥ sva-pārśva-sthān svān svān dārān vraja-okasaḥ .. 38 ..
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥
ब्रह्मरात्रे उपावृत्ते वासुदेव-अनुमोदिताः । अन् इच्छन्त्यः ययुः गोप्यः स्व-गृहान् भगवत्-प्रियाः ॥ ३९ ॥
brahmarātre upāvṛtte vāsudeva-anumoditāḥ . an icchantyaḥ yayuḥ gopyaḥ sva-gṛhān bhagavat-priyāḥ .. 39 ..
( वसंततिलका )
विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥
विक्रीडितम् व्रज-वधूभिः इदम् च विष्णोः श्रद्धा-अन्वितः अनुश्रृणुयात् अथ वर्णयेत् यः । भक्तिम् पराम् भगवति प्रतिलभ्य कामम् हृद्-रोगम् आशु अपहिनोति अचिरेण धीरः ॥ ४० ॥
vikrīḍitam vraja-vadhūbhiḥ idam ca viṣṇoḥ śraddhā-anvitaḥ anuśrṛṇuyāt atha varṇayet yaḥ . bhaktim parām bhagavati pratilabhya kāmam hṛd-rogam āśu apahinoti acireṇa dhīraḥ .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥
इति श्रीमत्-भागवते महापुराणे पारमहंस्याम् संहितायाम् दशम-स्कन्धे पूर्व-अर्धे रासक्रीडावर्णनम् नाम त्रयोत्रिंशः अध्यायः ॥ ३३ ॥
iti śrīmat-bhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyām daśama-skandhe pūrva-ardhe rāsakrīḍāvarṇanam nāma trayotriṃśaḥ adhyāyaḥ .. 33 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
हरिः ओम् तत् सत् श्री-कृष्ण-अर्पणम् अस्तु ॥
hariḥ om tat sat śrī-kṛṣṇa-arpaṇam astu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In