| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

श्रीशुक उवाच - ( अनुष्टुप् )
इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ १ ॥
itthaṃ bhagavato gopyaḥ śrutvā vācaḥ supeśalāḥ . jahurvirahajaṃ tāpaṃ tadaṅgopacitāśiṣaḥ .. 1 ..
तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः ॥ २ ॥
tatrārabhata govindo rāsakrīḍāmanuvrataiḥ . strīratnairanvitaḥ prītaiḥ anyonyābaddhabāhubhiḥ .. 2 ..
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः ॥ ३ ॥
rāsotsavaḥ sampravṛtto gopīmaṇḍalamaṇḍitaḥ . yogeśvareṇa kṛṣṇena tāsāṃ madhye dvayordvayoḥ .. 3 ..
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः । यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम् ॥ ४ ॥
praviṣṭena gṛhītānāṃ kaṇṭhe svanikaṭaṃ striyaḥ . yaṃ manyeran nabhastāvad vimānaśatasaṅkulam .. 4 ..
दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् । ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः । जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम् ॥ ५ ॥
divaukasāṃ sadārāṇāṃ autsukyāpahṛtātmanām . tato dundubhayo neduḥ nipetuḥ puṣpavṛṣṭayaḥ . jagurgandharvapatayaḥ sastrīkāstad yaśo'malam .. 5 ..
वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले ॥ ६ ॥
valayānāṃ nūpurāṇāṃ kiṅkiṇīnāṃ ca yoṣitām . sapriyāṇāmabhūt śabdaḥ tumulo rāsamaṇḍale .. 6 ..
तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा ॥ ७ ॥
tatrātiśuśubhe tābhiḥ bhagavān devakīsutaḥ . madhye maṇīnāṃ haimānāṃ mahāmarakato yathā .. 7 ..
( शार्दूलविक्रीडित )
पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः । भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो । गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ ८ ॥
pādanyāsairbhujavidhutibhiḥ sasmitairbhrūvilāsaiḥ . bhajyanmadhyaiścalakucapaṭaiḥ kuṇḍalairgaṇḍalolaiḥ . svidyanmukhyaḥ kavararasanā granthayaḥ kṛṣṇavadhvo . gāyantyastaṃ taḍita iva tā meghacakre virejuḥ .. 8 ..
( अनुष्टुप् )
उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ ९ ॥
uccairjagurnṛtyamānā raktakaṇṭhyo ratipriyāḥ . kṛṣṇābhimarśamuditā yadgītenedamāvṛtam .. 9 ..
काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ १० ॥
kācit samaṃ mukundena svarajātīramiśritāḥ . unninye pūjitā tena prīyatā sādhu sādhviti . tadeva dhruvamunninye tasyai mānaṃ ca bahvadāt .. 10 ..
काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ ११ ॥
kācid rāsapariśrāntā pārśvasthasya gadābhṛtaḥ . jagrāha bāhunā skandhaṃ ślathadvalayamallikā .. 11 ..
तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ १२ ॥
tatraikāṃsagataṃ bāhuṃ kṛṣṇasyotpalasaurabham . candanāliptamāghrāya hṛṣṭaromā cucumba ha .. 12 ..
कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम् ॥ १३ ॥
kasyāścit nāṭyavikṣipta kuṇḍalatviṣamaṇḍitam . gaṇḍaṃ gaṇḍe sandadhatyāḥ adāttāmbūlacarvitam .. 13 ..
नृत्यती गायती काचित् कूजन् नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ १४ ॥
nṛtyatī gāyatī kācit kūjan nūpuramekhalā . pārśvasthācyutahastābjaṃ śrāntādhāt stanayoḥ śivam .. 14 ..
गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ १५ ॥
gopyo labdhvācyutaṃ kāntaṃ śriya ekāntavallabham . gṛhītakaṇṭhyastaddorbhyāṃ gāyantyastaṃ vijahrire .. 15 ..
( वसंततिलका )
कर्णोत्पलालकविटङ्ककपोलघर्म वक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेश स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ १६ ॥
karṇotpalālakaviṭaṅkakapolagharma vaktraśriyo valayanūpuraghoṣavādyaiḥ . gopyaḥ samaṃ bhagavatā nanṛtuḥ svakeśa srastasrajo bhramaragāyakarāsagoṣṭhyām .. 16 ..
( मिश्र )
एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिः यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ १७ ॥
evaṃ pariṣvaṅgakarābhimarśa snigdhekṣaṇoddāmavilāsahāsaiḥ . reme rameśo vrajasundarībhiḥ yathārbhakaḥ svapratibimbavibhramaḥ .. 17 ..
तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दूकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ १८ ॥
tadaṅgasaṅgapramudākulendriyāḥ keśān dūkūlaṃ kucapaṭṭikāṃ vā . nāñjaḥ prativyoḍhumalaṃ vrajastriyo visrastamālābharaṇāḥ kurūdvaha .. 18 ..
( अनुष्टुप् )
कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ १९ ॥
kṛṣṇavikrīḍitaṃ vīkṣya mumuhuḥ khecarastriyaḥ . kāmārditāḥ śaśāṅkaśca sagaṇo vismito'bhavat .. 19 ..
कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया ॥ २० ॥
kṛtvā tāvantamātmānaṃ yāvatīrgopayoṣitaḥ . reme sa bhagavān tābhiḥ ātmārāmo'pi līlayā .. 20 ..
तासां अतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ २१ ॥
tāsāṃ ativihāreṇa śrāntānāṃ vadanāni saḥ . prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā .. 21 ..
( वसंततिलका )
गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड् गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ २२ ॥
gopyaḥ sphuratpuraṭakuṇḍalakuntalatviḍ gaṇḍaśriyā sudhitahāsanirīkṣaṇena . mānaṃ dadhatya ṛṣabhasya jaguḥ kṛtāni puṇyāni tatkararuhasparśapramodāḥ .. 22 ..
ताभिर्युतः श्रममपोहितुमङ्गसङ्ग घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिरनुद्रुत आविशद् वा श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ २३ ॥
tābhiryutaḥ śramamapohitumaṅgasaṅga ghṛṣṭasrajaḥ sa kucakuṅkumarañjitāyāḥ . gandharvapālibhiranudruta āviśad vā śrānto gajībhiribharāḍiva bhinnasetuḥ .. 23 ..
सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः ॥ २४ ॥
so'mbhasyalaṃ yuvatibhiḥ pariṣicyamānaḥ premṇekṣitaḥ prahasatībhiritastato'ṅga . vaimānikaiḥ kusumavarṣibhirīḍyamāno reme svayaṃ svaratiratra gajendralīlaḥ .. 24 ..
( मिश्र )
ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ॥ २५ ॥
tataśca kṛṣṇopavane jalasthala prasūnagandhānilajuṣṭadiktaṭe . cacāra bhṛṅgapramadāgaṇāvṛto yathā madacyud dviradaḥ kareṇubhiḥ .. 25 ..
एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ २६ ॥
evaṃ śaśāṅkāṃśuvirājitā niśāḥ sa satyakāmo'nuratābalāgaṇaḥ . siṣeva ātmanyavaruddhasaurataḥ sarvāḥ śaratkāvyakathārasāśrayāḥ .. 26 ..
श्रीपरीक्षिदुवाच -
संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः ॥ २७ ॥
saṃsthāpanāya dharmasya praśamāyetarasya ca . avatīrṇo hi bhagavānaṃn aṃśena jagadīśvaraḥ .. 27 ..
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ २८ ॥
sa kathaṃ dharmasetūnāṃ vaktā kartābhirakṣitā . pratīpamācarad brahman paradārābhimarśanam .. 28 ..
आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत ॥ २९ ॥
āptakāmo yadupatiḥ kṛtavān vai jugupsitam . kimabhiprāya etannaḥ saṃśayaṃ chindhi suvrata .. 29 ..
श्रीशुक उवाच -
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ ३० ॥
dharmavyatikramo dṛṣṭa īśvarāṇāṃ ca sāhasam . tejīyasāṃ na doṣāya vahneḥ sarvabhujo yathā .. 30 ..
नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम् ॥ ३१ ॥
naitatsamācarejjātu manasāpi hyanīśvaraḥ . vinaśyatyācaranmauḍhyād yathārudro'bdhijaṃ viṣam .. 31 ..
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत् ॥ ३२ ॥
īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit . teṣāṃ yat svavacoyuktaṃ buddhimāṃstat samācaret .. 32 ..
कुशलाचरितेनैषां इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ३३ ॥
kuśalācaritenaiṣāṃ iha svārtho na vidyate . viparyayeṇa vānartho nirahaṅkāriṇāṃ prabho .. 33 ..
किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ ३४ ॥
kimutākhilasattvānāṃ tiryaṅ martyadivaukasām . īśituśceśitavyānāṃ kuśalākuśalānvayaḥ .. 34 ..
( वसंततिलका )
यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः ॥ ३५ ॥
yatpādapaṅkajaparāganiṣevatṛptā yogaprabhāvavidhutākhilakarmabandhāḥ . svairaṃ caranti munayo'pi na nahyamānāḥ tasyecchayā''ttavapuṣaḥ kuta eva bandhaḥ .. 35 ..
( अनुष्टुप् )
गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ ३६ ॥
gopīnāṃ tatpatīnāṃ ca sarveṣāmeva dehinām . yo'ntaścarati so'dhyakṣaḥ krīḍaneneha dehabhāk .. 36 ..
अनुग्रहाय भूतानां मानुषं देहमास्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ ३७ ॥
anugrahāya bhūtānāṃ mānuṣaṃ dehamāsthitaḥ . bhajate tādṛśīḥ krīḍa yāḥ śrutvā tatparo bhavet .. 37 ..
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ ३८ ॥
nāsūyan khalu kṛṣṇāya mohitāstasya māyayā . manyamānāḥ svapārśvasthān svān svān dārān vrajaukasaḥ .. 38 ..
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः ॥ ३९ ॥
brahmarātra upāvṛtte vāsudevānumoditāḥ . anicchantyo yayurgopyaḥ svagṛhān bhagavatpriyāḥ .. 39 ..
( वसंततिलका )
विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ ४० ॥
vikrīḍitaṃ vrajavadhūbhiridaṃ ca viṣṇoḥ śraddhānvito'nuśrṛṇuyādatha varṇayedyaḥ . bhaktiṃ parāṃ bhagavati pratilabhya kāmaṃ hṛdrogamāśvapahinotyacireṇa dhīraḥ .. 40 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe pūrvārdhe rāsakrīḍāvarṇanaṃ nāma trayotriṃśo'dhyāyaḥ .. 33 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In